All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · नान्ताः (1/2)
इति धान्ताः ॥
एकनाः ।
द्विनांः ।
इनो नृपे भर्तरि भास्करे स्या-द्धनोऽस्त्रियां गोधनवित्तयोश्च ।जिनस्तु बुद्धे नरि जित्वरार्ह-वृद्धेषु तु स्यान्निजभेद्य लिङ्गः ॥ ८२ ॥
6.21.82 · p. 244
उपजातिः
परे महर्लोकत ईरितोऽपिलोकेऽत्र लोकेऽपि जनश्च नीचे ।जनी स्नुषायां स्याज्जनने घनस्तुमेघे दृढे विस्तृतिसान्द्रयोश्च ।दृढेऽप्ययोमुद्गरके * गात्रेवाद्ये पुनर्मध्यमनृत्यकेऽन्त्ये ॥ ८४ ॥
6.21.84 · p. 244
उपजातिःmetre not read in every linenearly उपजातिः
वनं तु कान्तारजल * * *[10b]निवासकप्रस्रवणेषु षण्ढे ।सुभूरिवृक्षाम्बुनि रौद्रदेश-काष्ठान्तकीटेष्वपि संप्रदिष्टम् ॥ ८५ ॥
6.21.85 · p. 244
उपजातिःmetre not read in every line
अपक्वमृद्भाजनकेऽथ वानंस्यूतौ कटे शुष्कफले च शुष्के ।तरंगवातोदकसंप्लवेषुभवेत्सुरङ्गागतिसौरभेषु ॥ ८६ ॥
6.21.86 · p. 244
उपजातिः
संशोधनच्छेदनपालनेषुत्यागे तथा हस्तिमदे च दानम् ।मानो ग्रहे चित्तसमुन्नतौ चन स्त्री प्रमाणे कुडवादिके च ॥ ८७ ॥
6.21.87 · p. 244
इन्द्रवज्रा
स्थानं तु न स्त्री स्थितिसंनिवेशा-वकाशनाशास्त्वथ सूनमाहुः ।पुष्पे द्वयोनं प्रसवे च तद्व-दुच्छूनवाचि त्वपरोपमं स्यात् ॥ ८८ ॥
6.21.88 · p. 244
उपजातिः
सूना तु पुत्र्यां गलशुण्डिकायांवधस्थलेऽथोनमुशन्ति हीने ।रणोद्यमेऽथार्कमयूखयोः स्यात्स्योनोऽथ मीनो झषराशिभेदे ॥ ८९ ॥
6.21.89 · p. 245
उपजातिः
शीनस्तु मूर्खेऽजगरेऽन्यवत्तुस्त्यानेऽथ चीनो मृगवस्त्रभेदे ।व्रीहिप्रभेदेऽपि च तन्तुभेदेवेनो विरिञ्चावपि राजभेदे ॥ ९० ॥
6.21.90 · p. 245
इन्द्रवज्रा
न्यूनं च हीनं त्रिषु गर्ह्य ऊनेदीनस्तु भीते त्रिषु दुर्गते च ।स्त्रियां त्वसौ मूषिक[11a]योषिति स्या-द्बुध्नस्तु शंभौ गदितोऽपि मूले ॥ ९१ ॥
6.21.91 · p. 245
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 स्त्रि (wrong syllable)
वस्नो निमानेऽपि च वेतनेऽस्त्रीक्लीबे तु वस्नं द्रविणार्थकं स्यात् ।अत्नो रवौ ना पथिकेऽन्यवत्स्या-त्स्वप्नस्तु सुप्तावपि दर्शने न ॥ ९२ ॥
6.21.92 · p. 245
इन्द्रवज्रा
सुप्तस्य विज्ञान उदीरितोऽथश्रेष्ठे मणावप्युदितं च रत्नम् ।द्रव्ये तु रस्नं चषके मचण्डेधेनोऽम्बुधौ वाक्सरितोः स्त्रियां स्यात् ॥ ९२ ॥
6.21.92 · p. 245
इन्द्रवज्रा
नग्नस्तु बन्दिक्षपणार्थको ना-न्यवद्विवस्त्रेऽप्यथ लज्जिते स्यात् ।सक्ते च लग्नं परवन्न तु स्त्रीमेषादिराशेरुदये प्रदिष्टम् ॥ ९४ ॥
6.21.94 · p. 245
उपजातिः
छन्नं रहश्छादितयोरथान्नंभक्ते च भुक्ते तु परस्य लिङ्गे ।अन्यार्थवाक्ये प्रकटे च भिन्नंविदारिते संगतवाचकं च ॥ ९५ ॥
6.21.95 · p. 246
उपजातिः
ज्ञाने स्थिते विन्नमुशन्ति लब्धेरत्नं तु कुक्षौ सलिले द्वयोनम् ।सर्वार्थकं तत्त्रिषु वाच्यवत्तुछिन्नं च भिन्नेऽथ सुधालतायाम् ॥ ९६ ॥
6.21.96 · p. 246
इन्द्रवज्रा
स्त्रियामसत्यामथ सूरते पुं-स्युन्नः स आर्द्रे परलिङ्ग उक्तः ।ग्रासे सिनो ना परवत्तु काणेस्तेनो[11b]स्त्रियां तस्करतत्क्रियार्थः ॥ ९७ ॥
6.21.97 · p. 246
उपजातिःmetre not read in every line
श्येनः पुमान्पत्रिणि पाण्डुरे तुविशेष्यलिङ्गोऽथ दिनं तु नस्त्री ।स्याद्वासरे खण्डितवाचकं तुपरोपमानं हि समामनन्ति ॥ ९८ ॥
6.21.98 · p. 246
उपजातिः
चिह्नं पताकाङ्कनयोरथ स्यात्द्युम्नं धनेंऽसे च पराक्रमे च ।मृत्स्ना मृदग्र्या तुबरी तथोक्तारास्ना गुडूचीसुवहाहिनेत्रा ॥ ९८ ॥
6.21.98 · p. 246
इन्द्रवज्रा
ज्योत्स्ना तु चन्द्रिकायां तद्वत्ताराप्रकाशिन्याम् ॥ ९९ ॥
6.21.99 · p. 246
भृष्टयवेषु च धाना धान्याके चाङ्कुरेऽभिनवे ।बहुषु स्त्रियां प्रदिष्टा सास्ना निद्रागवग्गर्या (?) ॥ ३०० ॥
6.21.300 · p. 246
metre not recognised
धनुः पियाले नरि राशिभेदे-शरासनेऽसावपि शस्त्रमात्रे ।धनुर्धरे तु त्रितये तनुस्तुत्वक्काययोः स्त्री विरले कृशेऽल्पे ॥ १ ॥
6.21.1 · p. 246
उपजातिः
विशेष्यवत्स्याद्धनुरस्ररोगेशस्त्रे च मृत्यौ च नखीषु च स्त्री ।द्वयोः कपोलावयवेऽथ सूनुःपुत्रेऽनुजे भास्वति च प्रदिष्टः ॥ २ ॥
6.21.2 · p. 247
उपजातिः
सानुस्तु न स्त्री शिखरे वने चवातावलावध्वनि पल्लवे च ।बुधेऽन्यवद्रश्मिदिवाकरौ तुभानू पुमांसा[12a]वथ भेद्यबद्धौ ॥ ३ ॥
6.21.3 · p. 247
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 बु (wrong syllable)
दानू पराक्रान्तवदान्यकौ स्तोमनू द्वयोरादिनृपालमन्त्रौ ।हत्नू [उ ?]भावायुधमामयश्चजह्नू तरौ कृष्णनृपर्षिभेदौ ॥ ४ ॥
6.21.4 · p. 247
उपजातिः
मुनिर्द्वयोर्बुद्धयतीङ्गुदीषुपियालकेऽगस्तिमुनौ पलाशे ।योनिर्द्वयोराकरकामधाम्नो-र्ज्यानिः स्रवन्त्यां गदिता च हानौ ॥ ५ ॥
6.21.5 · p. 247
उपजातिः
वह्निर्हुताशे नरि चित्रके चभल्लातके वह्निसमोऽपि चाग्निः ।पृश्निर्मयूखे मिथुने जनन्यांविष्णोः स्त्रियामल्पतनौ तु भेद्ये ॥ ६ ॥
6.21.6 · p. 247
इन्द्रवज्रा
त्रिनाः ।
त्राणे प्रमोदेऽप्यवनं न तु स्त्रीगेहे द्वयोनं भवनं च भावे ।स्याद्विष्टपे खे भुवनं जने चस्त्रियां न वारिण्यथ चन्दनोऽस्त्री ॥ ७ ॥
6.21.7 · p. 247
उपजातिःmetre not read in every line
पटीर आद्ये तु कपिप्रभेदेगन्धोलिकायां तु नपुंसकं स्यात् ।स्त्रियां नदीभिद्यथ जीवकद्रौपुंस्त्वेऽसनं क्षेपणवाचि षण्ढे ॥ ८ ॥
6.21.8 · p. 248
उपजातिः
स्यात्सवनं स्थितिवाचकमिष्टौसोमलताभिषवे नरि चन्द्रे ।निद्रा शय्या सुरते शयनंशमनस्तु यमेऽन्त्ये वधशान्त्योः ॥ ९ ॥
6.21.9 · p. 248
दोधकम्metre not read in every line
दिश्युत्तरस्या[12b]मपि दक्षिणस्यांरवेर्गतौ वर्त्मनि चायनं स्यात् ।सांग्रामिके संनहने हयादि-यागेऽपि सन्तो यजनं वदन्ति ॥ १० ॥
6.21.10 · p. 248
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 र (wrong syllable)
दन्तेऽद्रिशृङ्गे दशनोऽथ वर्म-ण्यन्तेऽथ भानौ तपनोऽथ तापे ।भल्लातके स्यान्नरकान्तरेऽन्त्येऽथापायदान्त्योः कदनं तथैव ॥ ११ ॥
6.21.11 · p. 248
इन्द्रवज्रा
नितम्बिनीनां कटितः पुरस्ता-द्भागे च कट्यां जघनं प्रदिष्टम् ।हासे स्मिते स्याद्धसनं स्त्रियां स्या-दङ्गारधान्यां श्वसनस्तु वायौ ॥ १२ ॥
6.21.12 · p. 248
उपजातिः
पिण्डीतके च श्वसिते तु षण्ढे-ऽथाच्छादने स्याद्वसनं च वस्त्रे ।स्वादे ध्वनौ स्याद्रसनं स्त्रियां तुरास्नाभिधानेऽथ न पुंसि काञ्च्याम् ॥ १३ ॥
6.21.13 · p. 248
इन्द्रवज्रा
जिह्वागतोऽथो रशनं निनादेकाञ्च्यां स्त्रियां स्याद्रशनागतोऽपि ।गेहाम्भसोः स्यात्सदनं मुखे तुसंभाषिते स्याद्वदनं तथैव ॥ १४ ॥
6.21.14 · p. 249
इन्द्रवज्रा
वसन्तवृक्षे रतिनायके चधत्तूरवृक्षे मदनस्तुरुष्के ।भल्लातके स्याद्दहनो हुताशेदुष्टेङ्गिते स्यादपि चित्रके च ॥ १५ ॥
6.21.15 · p. 249
उपजातिः
दुःखेऽप्यरण्ये कलिले गुहायांवदन्ति सन्तो गहनं तथैव ।मेघध्वनौ स्यात् स्त[13a]ननं ध्वनौ चस्यात्कुन्थनेऽथो निधनं स्त्रियां न ॥ १६ ॥
6.21.16 · p. 249
उपजातिःmetre not read in every line
कुले विनाशे प्रधनं तु युद्धेस्यादारुणेऽथो पवनोऽनिले स्यात् ।कुलालपाकस्थलवल्लयोश्चबीजाहितौ स्याद्वपनं च वापे ॥ १७ ॥
6.21.17 · p. 249
उपजातिः
वीरे प्रसूने दमनोऽथ वान्तौतथार्दने स्याद्वमनं यमे तु ।प्रदिष्ट आद्ये यमनोऽथ बन्धो-परामनाम्नोश्चरमे हृतौ च ॥ १० ॥
6.21.10 · p. 249
उपजातिः
कामेऽप्यशोके कमनोऽन्यवत्तुकम्रेऽभिरूपे धमनस्तु वह्नौ ।आध्मापके क्रूरतरेऽन्यलिङ्गःस्त्रियां हरिद्राद्रुतिवाचकश्च ॥ १९ ॥
6.21.19 · p. 249
उपजातिः
शिराशिरोध्योर्मलनं तु मर्देतथा नृलिङ्गं पटवासवाचि ।स्यात्कम्पशीले चलनं च कम्पेचार्यां च चण्डातक ईरितं स्त्री ॥ ३० ॥
6.21.30 · p. 249
उपजातिः
नौसेकपात्रेऽप्यवनेऽभिषेकेस्यात्सेचनं सेवनमन्यलिङ्गम् ।उपासने सीवनके पिधानेसंव्यानमाच्छादनवाससोश्च ॥ २१ ॥
6.21.21 · p. 250
उपजातिः
नाभिस्थवायौ तु समानमस्त्रीसमैकसत्सु प्रथितं त्रिलिङ्गम् ।योगे तु ना सुन्दरवाचि भेद्येस्याच्छो[13b]भनं शासनमस्ति शास्तेः ॥
6.21.43 · p. 250
उपजातिःmetre not read in every line
आदेशलेखाक्षितिपालदत्त-पृथ्वीषु वीरासनकेतुवस्त्रे ।स्याद्वासनं ज्ञानसुधूपनार्थंस्कन्धे त्विभस्यासनमन्तिमे तत् ॥
6.21.44 · p. 250
इन्द्रवज्रा
स्याद्दर्शनं लोचनबुद्धिधर्मेस्वप्नोपलब्ध्योर्मुकुरे च शास्त्रे ।कश्मीरजे स्यात्पिशुनं त्रये तुक्रूरे खले पुंसि तु मर्कटास्ये ॥ २५ ॥
6.21.25 · p. 250
इन्द्रवज्रा
स्पृक्कार्थकं स्त्री शकुनस्तु पुंसिखगान्तरे पक्षिणि षण्ढके तु ।शुभाशुभाशंसिनिमित्तवाचीस्त्रीपुंसयुग्मे मिथुनं च राशौ ॥ २६ ॥
6.21.26 · p. 250
उपजातिः
स्यात्पुंसि वायौ तलुनोऽथ यूनिभेद्योऽयमथो तलिनं तथाल्पे ।तुच्छे पराभं विरले च शस्तंमलीमसे स्यान्मलिनं च कृष्णे ॥ २७ ॥
6.21.27 · p. 250
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 4 म (wrong syllable)
स्त्री चर्तुमत्यामथ कुण्डिनो नामुन्यन्तरे पत्तनभेदकेऽन्त्ये ।स्यान्माहिनाभं महिनं*राज्येसंपूजनीये परवत्प्रदिष्टम् ॥ २८ ॥
6.21.28 · p. 251
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
स्तब्धे कठोरे[14a]कठिनं पराभंस्थाल्यां तु षण्ढे खटिकार्थके तु ।कठिन्यपि स्यात्कठिनापि तद्व-द्रूपं प्रयुक्तं गुडशर्करायाम् ॥ २९ ॥
6.21.29 · p. 251
उपजातिःmetre not read in every line
स्यात्पीतनं तालकपीतदारु-कश्मीरजन्मस्वथ पुंसि दिष्टम् ।आम्रातके स्यादथ मैथुनं च-रमे तथा संगतवाचके च ॥ ३० ॥
6.21.30 · p. 251
उपजातिः
स्यात्केतनोऽस्त्री कृतिचिह्नके तुनिमन्त्रणार्थो वमने तु षण्ढे ।स्याच्छर्दनोऽलम्बुषनिम्बयोर्ना-थ च्छेदनं कर्तनभेदयोः स्यात् ॥ ३१ ॥
6.21.31 · p. 251
उपजातिः
पत्रे च पक्षे छदनं प्रदिष्टंस्यात्तोदनं च व्यथने च तोत्रे ।स्याद्रोदनं क्रन्दने बाष्पवाचिगुदे त्वपानं पवनान्तरे ना ॥ ३२ ॥
6.21.32 · p. 251
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 7 ने (wrong syllable); pāda 2, syllable 1 गु (wrong syllable)
निपानमाहावकदोहपात्रेन स्त्री द्वयोनं च निपानकृत्याम् ।पापे तु षण्ढे वृजिनं कचे नावक्रे पराभं प्रवदन्ति सन्तः ॥ ३३ ॥
6.21.33 · p. 251
उपजातिः
सुरद्रुमापत्यकुलेषु तत्यांसंतान उक्तोऽथ वितानमस्त्री ।उल्लोचके यज्ञविधानतत्यो-र्भेदे तु तुच्छे परवत्प्रदिष्टम् ॥ ३४ ॥
6.21.34 · p. 252
उपजातिः
स्याद्वृत्तभेदेऽवसरे च षण्ढे[14b] ऽथोत्तानमुक्तं शयितोन्मुखे च ।गाम्भीर्यहीने परवत्तथैवा-थादान* र्क्कोत्तरदिक्प्रमाणे ॥ ३५ ॥
6.21.35 · p. 252
metre not recognised
तुरंगभूषाग्रहणार्थके चहेतौ निदानं गदनिर्णयेऽपि ।स्याद्वत्सदाम्न्यप्यथ पुष्पवाट्यांप्रयोजने भूपतिकेलिभूमौ ॥ ३६ ॥
6.21.36 · p. 252
उपजातिः
उद्यानमस्त्री त्रिषु निःसृते स्या-दम्लान उक्तो नरि पुष्पभेदे ।स वाच्यवन्म्लानिविवर्जितेऽथव्युत्थानमुक्तं च निरुद्धकार्ये ॥ ३७ ॥
6.21.37 · p. 252
उपजातिः
इच्छाकृतौ च प्रतिरोधने तथा[तथा] समाधेर्विनिवर्तनेऽपि ।उत्थानमुद्योगरणोर्ध्वभावेस्यात्पौरुषे पुस्तकतन्त्रयोश्च ॥ ३८ ॥
6.21.38 · p. 252
upajati mixed
मृत्यावथो धावनमस्ति शुद्धौत्वरागतौ योषिति कण्टकायाम् ।स्यात्पावनं पाथसि किं च कृच्छ्रे* पावके व्यासगतं तथैव ॥ ४० ॥
6.21.40 · p. 252
उपजातिःmetre not read in every linenearly उपजातिः
पापापनुत्त्यै नियमेऽथ वह्नौस्यात्सिह्ल[15a]केऽथ त्रिषु शुद्धिहेतौ ।स्त्रियां तु तत्स्यादभयार्थकं चे-दकोटवैकुण्ठहरिद्गजेषु ॥ ४१ ॥
6.21.41 · p. 253
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 पा (wrong syllable); pāda 2, syllable 1 स्या (wrong syllable)
स्याद्वामनः खर्वगतोऽन्यवत्स्या-त्स्यात्स्थापनं पुंसवने समाधौ ।स्यादोपशीले( ? )प्यथ यापनं तुक्षेपेऽपि कालस्य च वर्त्तनेऽपि ॥ ४२ ॥
6.21.42 · p. 253
इन्द्रवज्रा
तथा निरासेऽप्यथ सारथौ स्या-द्युञ्जान उक्तौ धरणीसुरेऽपि ।गुरौ बुधानो विबुधेऽथ लोक-पाले दृशान सूदणौ( ? )च पुंसि ॥ ४३ ॥
6.21.43 · p. 253
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 5 न (wrong syllable); pāda 2, syllable 6 सू (wrong syllable)
ज्यौतिष्यपि स्याच्चरमेऽथ वेगेवेगाधिकेऽश्वे जवनश्च देशे ।स्यादौषधौ स्त्रीपरवत्सवेगेजीवे सुते जीवन आदिलिङ्गः ॥ ४४ ॥
6.21.44 · p. 253
इन्द्रवज्रा
क्लीबे तु वृत्तौ सलिलेऽथ मेदास्याज्जीवनाह्वा किल जीवनी तु ।जीवन्तिका देवनमन्तिमे स्यात्क्रीडाजिगीषाव्यवहारवाचि ॥ ४५ ॥
6.21.45 · p. 253
इन्द्रवज्रा
अक्षेषु ना मेहनमन्तिमे स्या-च्छिश्ने च मूत्रेप्यथ तेमनं स्यात् ।घृतादिकव्यञ्जनवाचि षण्ढेस्त्रीचुल्लिकायां स्तिमितेऽन्यवत्स्यात् ॥ ४६ ॥
6.21.46 · p. 253
उपजातिः
स्यात्सावनो मासविशेषय[15b]ष्टृ-यज्ञक्रियान्तेषु च याजिनि स्यात् ।विज्ञानमुक्तं किल बोधकृत्योः ।प्रज्ञानमुक्तं धियि लाञ्छनेऽपि ॥ ४७ ॥
6.21.47 · p. 253
इन्द्रवज्राmetre not read in every line
स्याद्धायनोऽस्त्री किरणे च वर्षेव्रीहौ तु ना फल्गुनफाल्गुनौ तु ।तपस्यमासे हरिसारथौ चनद्यर्जुने स्त्री तु स पौर्णमास्याम् ॥ ४८ ॥
6.21.48 · p. 254
उपजातिः
उष्णीषकर्णपाल्योः परिभृत्य वेष्टनं क्लीबे ।स्याद्गोस्तनस्तु हारे द्राक्षायां गोस्तनी गदिता ॥ ४९ ॥
6.21.49 · p. 254
metre not recognised
स्यात्कल्पनं कर्तनक्लृप्तिवाचिस्त्री सज्जनायामथ कर्तनं तु ।छेदे वधूनामपि तूलसेवे-ऽथो लङ्घनं भूषणवाचकं च ॥ ५० ॥
6.21.50 · p. 254
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 7 न (wrong syllable)
क्षौरक्रिये द्योरपि तुण्डनं स्यात्खलेरतौ हिण्डनमामनन्ति ।स्यादङ्गनं प्राङ्गणयानवाचिस्त्रियां स्त्रियां स्यादथ गन्धनं तु ॥ ५२ ॥
6.21.52 · p. 254
उपजातिः
संसूचनोत्साहवधप्रकाशे-ऽथो नन्दनं वृत्ररिपोर्वने स्यात् ।शुभे तनूजे च पुमान्प्रमोद-कृत्यन्यवच्च स्रवणे तु नीरे ॥ [16a] ५३ ॥
6.21.75 · p. 254
उपजातिः
रथेऽस्त्रियां स्यन्दनमादिमे द्रौस्यात्क्रन्दनं रोदनं सम्मदार्थम् ।स्याद्वर्धनं छेदनवृद्धिवाचिवार्धानिकायां पुनरङ्गना स्यात् ॥ ५४ ॥
6.21.54 · p. 254
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 र (wrong syllable); pāda 2, syllable 7 नं (wrong syllable)
स्याद्व्यञ्जनं तेमनचिह्नवाचिश्मश्रुप्रतीकार्थमुशन्ति तद्वत् ।स्याद्रञ्जनं रागकरे पराभंक्लीबे तु तल्लोहितचन्दने स्यात् ॥ ५५ ॥
6.21.55 · p. 254
इन्द्रवज्रा
स्त्रियां तु नील्यामपि गुन्द्रिकायांगोरोचनायां * तथारुणायाम् ।कुशाल्मलौ पुंसि च रोचनः स्यात् ।स्त्री रक्तकल्हारवराङ्गनार्थम् ॥ ५६ ॥
6.21.56 · p. 255
उपजातिःmetre not read in every linenearly उपजातिः
गोपित्तके स्यात्रिषु रोचनेऽथस्यादञ्जनो दिग्गजभूधरार्थः ।अन्त्ये तु सौवीररसाञ्जनार्थःस्यात्कज्जले मारुतयोषिति स्त्री ॥ ५७ ॥
6.21.57 · p. 255
इन्द्रवज्रा
ज्येष्ठ्यां भवेत्तत्र च लेपनाया-मथो रसोनेऽपि च गृञ्जनोऽस्त्री ।वि[षेण]लिप्त स्य पशोश्च मांसेक्लीबेऽथ वान्तोयुजि लेखनं न ॥ ५८ ॥
6.21.58 · p. 255
उपजातिः
न्यासे लिपेर्वाद्यगतं च तद्व-त्स्याद्योजनं क्रोशचतुष्टयेऽपि ।योगे परात्मन्यथ गर्जनं स्या-त्कोपे च हस्त्यम्बुदवाद्यशब्दे ॥ ५९ ॥
6.21.59 · p. 255
इन्द्रवज्रा
[16b] स्याद्वर्जनं हिंसनदानवाचिस्यान्मार्जनं शुद्धिषु लोचने न (?)स्यात्सज्जनं सैन्यकगुल्मवाचिसाधौ त्रये योषिति कल्पनायाम् ॥ ६० ॥
6.21.60 · p. 255
इन्द्रवज्रा
स्याद्भाजनं पात्रकयोग्यवाचिस्यादर्जुनो ना ककुभे च पार्थे ।मातुस्तथैकात्मजनौ मयूरेमाहिष्मतीशे धवले तु भेद्ये ॥ ६१ ॥
6.21.61 · p. 255
इन्द्रवज्रा
स्त्रियामुषायां करतोयिकायांस्यात्कुट्टिनीनामसु गोविशेषे ।तृणेऽन्तिमे नेत्रगदान्तरेऽथस्याल्लाञ्छनं लक्षणनामवाचि ॥ ६२ ॥
6.21.62 · p. 255
उपजातिः
स्याद्वन्धनं बन्धवधानजन्तौने च पुंसि ।भवेद्वचक्नुर्द्विजवाग्मिवाचीफले तु पुष्पे गदितं प्रसूनम् ॥ ६३ ॥
6.21.63 · p. 256
उपेन्द्रवज्राmetre not read in every line
व्यासे कर्णे कन्यकानन्दने चकानीनः स्यात्काननं स्याद्गृहेऽपि ।धातुर्वक्त्रे स्याद्वने काञ्चनस्तुचाम्पेये स्याच्चम्पके काञ्चनारे ॥ ६४ ॥
6.21.64 · p. 256
शालिनी
पुंनागे चोदुम्बरे स्त्री हरिद्रा-वाची किञ्जल्के सुवर्णे च षण्ढे ।पाठीनः स्यात्पाठके मीनभेदेतद्वत्कुम्भोलूखलद्रौ प्रदिष्टः ॥ ६५ ॥
6.21.65 · p. 256
शालिनी
व्यसनमंहसि कामजदूषणे-ऽप्यशुभदे च[17a]फले विफलोद्यमे ।विपदि च प्रतिघे स्मितदूषणेचरमलिङ्गमुशन्ति विपश्चितः ॥ ६६ ॥
6.21.66 · p. 256
द्रुतविलम्बितम्metre not read in every line
कण्ठस्थवायौ च मरुद्भुजंग-भेदेऽप्युदानोऽप्यथ चुल्लिकायाम् ।उद्धानमप्युद्गमवाचि भेद्येलग्ने विलग्नश्च नितानमध्ये ॥ ६७ ॥
6.21.67 · p. 256
इन्द्रवज्रा
प्रज्ञामहामात्रपरात्मसु स्या-त्प्रधानमैक्ये तु सदोत्तमे तत् ।स्याद्राधनं तोषणसाधनाभिःसमार्थकं संघटनाभिषुत्योः ॥ ६८ ॥
6.21.68 · p. 256
उपजातिः
संधानमाहुर्गमने वधे चनिवृत्तिनाशे मृतसंस्कृतौ च ।सैन्येऽप्युपायेऽपगमे च मेढ्रेसंभारसिद्ध्योर्द्रविणोपपत्तौ ॥ ६९ ॥
6.21.69 · p. 257
उपजातिः
स्यात्साधनं कारणवित्तयोश्चलोकापवादे तु रणे पशूनाम् ।शुनामहीनां च पतत्रिणां चकौलीनमाम्नातमथो अकार्ये ॥ ७० ॥
6.21.70 · p. 257
उपजातिः
स्याद्गुह्यगुह्याम्बरयोस्तथैवकौपीनमन्त्ये प्रवदन्ति सन्तः ।विक्लिन्न उक्तौ जरसातिजीर्णेशीर्णे तथार्द्रे परलिङ्गगामि ॥ ७१ ॥
6.21.71 · p. 257
इन्द्रवज्रा
आपन्न आप्ते विपदन्विते चविपन्न उक्तश्च मृतेऽप्यहौ ना ।वक्रे समा[17b]लब्धविभक्तयोश्चविच्छिन्नमार्याः परवद्वदन्ति ॥ ७२ ॥
6.21.72 · p. 257
उपजातिःmetre not read in every line
संजातसंपद्युतयोः पराभंसंपन्नमप्यत्र बुधा वदन्ति ।तमोघ्न इन्द्वर्कहुताशशंभु-श्रीशे विषघ्नस्तु शिरीषवाची ॥ ७६ ॥
6.21.76 · p. 257
उपजातिः
स्त्रियां गुडूचीत्रिवृतोः शिखी तुवह्नौ वृषे स्याद्विशिखे च वृक्षे ।केतुग्रहे केकिनि कुक्कुटे चस्याच्छार्ङ्गकेषु त्रितये सचूडे ॥ ७४ ॥
6.21.74 · p. 257
उपजातिः
शाखी तरौ वेदतुरुष्कलोकेखड्गी तु खड्गान्वितशृङ्गिणि स्यात् ।नागद्रुमादावपि गण्डके स्यात्स्युः सादिनोऽश्वेभरथाधिरोहाः ॥ ७५ ॥
6.21.75 · p. 257
इन्द्रवज्रा
पत्री खगे श्येनशरद्रुमेषुस्यात्सायके स्यन्दनसंस्थिते वा ।वज्री शरेऽश्वे षडभिज्ञ इन्द्रेविहंगमे कोकभुजंगयोस्तु ॥ ७६ ॥
6.21.76 · p. 258
उपजातिः
चक्री हरौ स्याच्छकटे कुलालेग्रामोद्भवे * ककुभद्रुमे तु ।धनुर्धरे पार्थविदग्धयोश्चधन्वी कृती पण्डितयोग्ययोः स्यात् ॥ ७७ ॥
6.21.77 · p. 258
उपजातिःmetre not read in every linenearly उपजातिः
यादःपतौ पाशधरे च पाशीनन्दी तु शंभोः प्रतिहारभेदे ।ना गर्दभाण्डे [च] वटद्रुमे चननान्दरि स्त्री च वसिष्ठधेन्वा[18a]म् ॥ ७८ ॥
6.21.78 · p. 258
उपजातिः
सुरापगायामथ रोहितद्रौबोधिद्रुमे स्याच्च वटेऽपि रोही ।हली प्रलम्बद्विषि कर्षके चभृङ्गे पुनर्वृश्चिक ईरितोऽली ॥ ७८ ॥
6.21.78 · p. 258
उपजातिः
स्याद्ब्रह्मचारिण्यपि चित्रकारेवर्णी तथा लेखकवाचकश्च ।शिल्पी तु कारौ नरि कासु( ? )तु स्त्रीकामी तु पारावतकोकयोर्ना ॥ ८० ॥
6.21.80 · p. 258
इन्द्रवज्रा
कम्रेऽन्यवद्भृङ्गिरिटौ तु सूर्येचर्मी तथा चर्मलसत्करेऽपि ।वाग्ग्मी तु वाचस्पतिवक्तृवाचीस्वामी भवेदीश्वरषण्मुखार्थः ॥ ८१ ॥
6.21.81 · p. 258
इन्द्रवज्रा
अर्थी विवादिन्यपि सेवके चस्याद्याचकेऽसौ कथितश्च पुंसि ।रागी तु रक्ते परवच्च कम्रेध्वजी तु शैले रथविप्रयोश्च ॥ ८२ ॥
6.21.82 · p. 259
उपजातिः
अहौ तुरंगेऽप्यथ राज्ञि भोगीस्यान्नापिते ग्रामपुरस्कृतेऽहौ ।स्त्रियां तु हित्वा महिषीं नृपस्यदारेषु राजा तु नृपे सुधांशौ ॥ ८३ ॥
6.21.83 · p. 259
उपजातिः
शक्रे च यक्षे भुजगे च वर्णेद्युवा रवौ चाभिगमे च पुंसि ।स्युर्वाजिनो बाणविहंगमाश्वाःप्रेत्वा तु वायावपि वासवे च ॥ ८४ ॥
6.21.84 · p. 259
उपजातिः
क्लेदा सुधांशौ नरि चौषधौ[18b]चस्नेहा च मित्रे नरि शीतरश्मौ ।आत्मा नरि स्याद्धृतिबुद्धिशील-ब्रह्मप्रयत्नेषु वपुर्हृदोश्च ।व्यावर्तने स्यात्परतश्च काले-ऽथाध्वा तु संस्थानपथोश्च शास्त्रे ॥ ८५ ॥
6.21.85 · p. 259
इन्द्रवज्राmetre not read in every line
स्कन्धे च कालेऽथ गिरौ घने चग्रावोपले धन्व तु चापवाचि ।स्थले तथा जाङ्गलदेशवा[ची]ब्रह्मा तु ना धातरि भूसुरे च ॥ ८६ ॥
6.21.86 · p. 259
उपजातिः
योगान्तरेऽप्यृत्विजि भास्वतीन्दौस्त्रियां तु नाध्यात्मतपःसु तत्त्वे ।ज्ञाने परात्मन्यपि तद्वदाहुःशर्मान्तिमे नाम्नि सुखे द्विजे नो ॥ ८७ ॥
6.21.87 · p. 259
उपजातिः
अर्वा हयेऽथ त्रिषु कुत्सिते स्या-द्वृषा महेन्द्रेऽपि च कर्ण उक्तः ।यक्ष्मा क्षये स्यादपि रोगमात्रेयुवा वयःस्थे बलिनि स्वभावे ॥ ८८ ॥
6.21.88 · p. 260
उपजातिः
पर्वोत्सवेऽन्त्ये तिथिपञ्चके चग्रन्थौ च दर्शप्रतिपत्सुसंधौ ।प्रस्तावके लक्षणभिद्यपि स्यात्तद्वत्प्रदिष्टं विषुवादिकेषु ॥ ८९ ॥
6.21.89 · p. 260
इन्द्रवज्रा
भर्मा रवौ हेम्नि भृतौ च षण्ढेचर्म त्वचि स्यात्फलके च तद्वत् ।व्याप्ये क्रियायामपि कर्म न स्त्रीवर्त्माध्वनेत्रच्छदवाचकं च ॥ ९० ॥
6.21.90 · p. 260
इन्द्रवज्रा
[19a]पक्ष्मास्त्रियां लोचनलोम्नि सूक्ष्म-तत्त्वादि[अं?]शे पि च केसरे च ।चिह्ने प्रधानेऽपि च लक्ष्म धामस्थाने गृहे जन्मनि च प्रभावे ॥ ९१ ॥
6.21.91 · p. 260
इन्द्रवज्रा
रश्मौ शरीरेऽप्यथ साम वेदा-न्तरेऽप्युपायान्तरके च षण्ढे ।वर्ष्म प्रमाणे वपुषि प्रदिष्टंस्यात्सुन्दरे चाकृतिवाचकं च ॥ ९२ ॥
6.21.92 · p. 260
उपजातिः
स्यात्सद्म गेहेऽम्भसि कैतवे तुछद्म प्रदिष्टं कुसृतौ तथैव ।प्रेमास्त्रियां नर्मविधौ च हार्देव्योमान्तिमे वारिविहायसोश्च ॥ ९३ ॥
6.21.93 · p. 260
इन्द्रवज्रा
सोमा तु चन्द्रे चरमे तु यक्ष-वित्तेऽशनिस्तु द्वितये पवौ स्यात् ।वर्षोपले विद्युति चाथ युग्मे-ऽरत्निः कफोणौ करमानभेदे ॥ ९४ ॥
6.21.94 · p. 260
इन्द्रवज्रा
सेनानीस्तु गुहेऽन्यवद्बलपतौ स्याद्ध्रादिनी तु स्त्रियांवज्रे विद्युति कामिनी तु गदिता वन्दा शतावर्यपि ।सेनासैन्यभिदापगासु गदिता ज्ञैर्वाहिनी वर्तनि-स्त्वध्वा*सु च तर्कुपिण्डमलिनाद्ध्वा( ? )सूदिता कोविदैः ॥ ९५ ॥
6.21.95 · p. 261
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
मागध्यांबुधि(?)बोधनी तु रजनी तद्वद्धरिद्रार्थका-याम्भोजे नलिनी भवेत्क[19b]मलिनी स्वःसिन्धुकासारयोः ॥ ९६ ॥
6.21.96 · p. 261
metre not recognised
न स्त्री वारिजपद्मयोश्च नलिनं मालाकृतस्तु स्त्रियांछन्दोभिद्यपि मालिनी सुरसरिद्गौर्योश्च चम्पापुरि ।पुंनागे तु सिते वधूभिदि तथा स्याच्चोरपुष्प्यामपिस्याच्छङ्खिन्यथ पद्मिनी च वनिताभेदे सरःपद्मयोः ।हस्तिन्यां करिणी स्त्रियामथ भवे द्विप्रस्त्रियां भट्टिनीनाट्योक्तौ नृपतेः स्त्रियामपि वृषाक्रान्ता तु गौः संधिनी ।याकालेऽपि लसत्पयास्त्रिवृति तु स्याद्रेचनी शेवनीदन्त्योश्चाथ*सूरणे नरि मुसल्यां तु स्मृता योषिति ॥ ९८ ॥
6.21.98 · p. 261
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
अर्शोघ्नोऽथ करञ्जशस्त्रकभिदोः स्याद्वृश्चिकाल्यां शत-घ्नी चावृद्धबधूपुरप्रसृमरप्रेष्या त्वसिक्नी ध्वनो(?) ।दृष्टौ च व्यस(ध)ने वधेऽप्यभिनये संसूचने सूचनाध्याने लेपन(?)वेदना मतिगता दुःखे तथा भावना ॥ ९९ ॥
6.21.99 · p. 261
शार्दूलविक्रीडितम्