मुर्मुरः सूर्यतुरगे तुषाग्नौ च मनोभवे ।रुधिरं कुङ्कुमे रक्ते स्यात्पुमान् मङ्गलग्रहे ॥वटरः कुक्कुटे वेष्टे शठे चोरे च चञ्चले ।वर्वरः पामरे केशे चक्रले शाकभिद्यपि ॥पुष्पभेदे देशभेदे वर्वरा मक्षिकाभिदि ।वर्करः स्याद्युवपशौ स्याच्छागपरिहासयोः ॥
अनुष्टुप्