कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सैरिन्ध्र

sairindhraपुं · masc.

In 2 kośas: 3 synonym verses, 1 as a nānārtha head word.

वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.112 · p. 81
ते सर्वे दस्यवो दोषैश्चौर्याद्यैः सद्बहिष्कृताः ।आसाविकस्तु सैरिन्ध्रो दस्योरायोगवीसुतः ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.113 · p. 81
दस्यूनां बहुजातित्वाद्बह्व्यः सैरिन्ध्रजातयः ।प्रसाधनोपचारज्ञा मृगादिवधजीवनाः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.115 · p. 81
विक्रेतारः सुरां कृत्वा सैरिन्ध्राः स्युर्यथोचितम् ।दस्युम्लेच्छगणानान्तु कृषिशस्त्रोपजीवनम् ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.2006 · p. 222
सिन्धुसम्बन्धिनि द्वे तु सैरिन्ध्रो मानुषान्तरे ।दस्योरायोगवीजाते सैरिन्ध्री तु स्त्रियामियम् ॥ २००६ ॥
अनुष्टुप्