All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
नानालिङ्गाध्यायः (17/18)
तुल्यवर्णकमात्रे च संक्रमस्त्वस्त्रियामयम् ।स्याद्दुर्गसञ्चरे ना तु पूर्वाधिष्ठितमाश्रयम् ॥ १९२१ ॥
4.1921 · p. 215
अनुष्टुप्
उज्झित्वान्याश्रयप्राप्तौ शब्दशास्त्रविदामपि ।गुणवृद्धिनिषेधस्य निमित्ते प्रत्यये तथा ॥ १९२२ ॥
4.1922 · p. 215
अनुष्टुप्
अथात्र पठ्यते सद्भिः पुन्नपुंसकयोरयम् ।सङ्गमो मेलके ना तु व्रतभेदे तपस्विनाम् ॥ १९२३ ॥
4.1923 · p. 215
अनुष्टुप्
पञ्चरात्रं पयःपाने सङ्ग(म?त)स्तु पुमानयम् ।दिवसस्य विभक्तस्य चतु(र्थां ? र्धां)शे द्वितीयके ॥ १९२४ ॥
4.1924 · p. 215
metre not recognisednearly अनुष्टुप्
पञ्चरात्रपयःपानव्रतेऽथ मिलिते त्रिषु ।सङ्करोऽग्निचटत्कारे सम्मार्जन्यवपुञ्जिते ॥ १९२५ ॥
4.1925 · p. 215
अनुष्टुप्
सङ्कीर्णे सङ्करी तु स्त्री कन्याभेदे नृदूषिते ।सहर्षस्तु पुमान् वायौ त्रि स्पर्धनसमानयोः ॥ १९२६ ॥
4.1926 · p. 215
अनुष्टुप्
सरणिस्तु पुमान् सूर्ये स्त्री तु स्यात् पङ्क्तिमार्गयोः ।सङ्घाते च सिरायां च संकृतिस्तु पुमानयम् ॥ १९२७ ॥
4.1927 · p. 215
अनुष्टुप्
ऋषिभेदे द्वयोस्तु स्यात् तद्वंश्येषु स्त्रियां पुनः ।पण्णवत्यक्षरे छन्दोभेदेऽपि द्वादशाक्षरे ॥ १९२८ ॥
4.1928 · p. 215
अनुष्टुप्
क्ली त्वारण्यकसाम्नि स्यात् स्वादोरित्थेत्यृचि स्थिते ।समाधिस्तु पुमान् ध्याने नीवाके च समर्थने ॥ १९२९ ॥
4.1929 · p. 215
अनुष्टुप्
प्राणिद्यूते प्रतिज्ञायां तुल्यत्वे भेद्यवत् पुनः ।सम आधिर्भवेद्यस्य तत्र स्यात् तु द्वयोरयम् ॥ १९३० ॥
4.1930 · p. 215
अनुष्टुप्
सनाभिर्हि सपिण्डेऽन्ये सोदर्येऽथाङ्गुलौ स्त्रियाम् ।त्रिर्नाभिसहिते ना तु सरण्युर्वायुमेघयोः ॥ १९३१ ॥
4.1931 · p. 216
अनुष्टुप्
स्त्री तु + + + + + + + + + + + + + + ।स्वयम्भूस्तु विरिञ्चे ना क्ली स्वयम्भु विहायसि ॥ १९३२ ॥
4.1932 · p. 216
अनुष्टुप्metre not read in every line
सरस्वांस्तु समुद्रे ना नदे चाथ नपुंसकम् ।धनञ्जयेन पठितमाकाशेऽथ स्त्रियामियम् ॥ १९३३ ॥
4.1933 · p. 216
अनुष्टुप्
सरस्वती नदीभेदे नदीमात्रे च वाचि च ।गङ्गायां गवि मेदिन्यां स्त्रीरत्ने च वचस्यपि ॥ १९३४ ॥
4.1934 · p. 216
अनुष्टुप्
तथा तृणलतास्तम्बे मत्स्याक्षीसंज्ञकेऽपि सा ।मत्स्याक्षी चापि विज्ञेया ब्राह्मीति प्रथिता लता ॥ १९३५ ॥
4.1935 · p. 216
अनुष्टुप्
भेद्यलिङ्गं तु रसिके रभसेन समीरितम् ।सरोयुक्ते च जानीयात् सत्ययुक्ते तु सत्यवत् ॥ १९३६ ॥
4.1936 · p. 216
अनुष्टुप्
त्रिषु सत्यवती तु स्त्री वेदव्यासस्य मातरि ।ब्राह्मीसंज्ञतृणस्तम्बेऽप्यथ सारङ्ग इत्ययम् ॥ १९३७ ॥
4.1937 · p. 216
अनुष्टुप्
पुमान् शबलवर्णे स्याद् भेद्यलिङ्गं तु तद्वति ।स्त्र्यर्थे तत्रापि सारङ्गी द्वे तु चातकभृङ्गयोः ॥ १९३८ ॥
4.1938 · p. 216
अनुष्टुप्
कुञ्जरे कृष्णसाराख्यमृगभेदे च ना पुनः ।सारसो यामिनीनाथे क्लीबं तु सरसीरुहे ॥ १९३९ ॥
4.1939 · p. 216
अनुष्टुप्
द्वे तु पुष्करसंज्ञे स्यात् पक्षिभेदेऽथ सात्त्विकम् ।त्रिषु सत्त्वेन निवृत्ते सात्त्विकी तु स्त्रियामियम् ॥ १९४० ॥
4.1940 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
नाट्यवृत्तिविशेषाणां कैशिकीत्यादिसंज्ञिनाम् ।वृत्तौ कस्यामपि द्वे तु सात्त्वतः प + + + + ॥ १९४१ ॥
4.1941 · p. 216
अनुष्टुप्metre not read in every line
क्षत्त्रपूर्वकवैश्यायां व्रात्याज्जाते नरान्तरे ।सत्त्वतश्च तथापत्ये बलभद्रे तु पुंस्ययम् ॥ १९४२ ॥
4.1942 · p. 216
अनुष्टुप्
साधनं तु धने शेफे सिद्धावनुगतौ गतौ ।मारणे मृतसंस्कारेऽप्युपायेऽप्यर्थदापने ॥ १९४३ ॥
4.1943 · p. 217
अनुष्टुप्
सेनाङ्गे यातनायां च क्लीबं स्यादपुमान् पुनः ।निर्वर्तनायां मन्त्रादेरभीष्टफलदीकृतौ ॥ १९४४ ॥
4.1944 · p. 217
अनुष्टुप्
साधनं साधना चेति रूपद्वयमिह स्मरेत् ।साहसं (तु ? त्व)स्त्रियां दण्डशब्दपर्यायके दमे ॥ १९४५ ॥
4.1945 · p. 217
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्ली तु तत् स्याद्बलात्कारे वयं तु ब्रूमहे परम् ।अतर्कितप्रवृत्तौ च साहसं क्लीत्यथाजयः ॥ १९४६ ॥
4.1946 · p. 217
अनुष्टुप्
कृतकार्ये त्रिरित्येवं साहस्रं तु नपुंसकम् ।सहस्राणां समूहेऽथ त्रिः सहस्रवति स्मृतम् ॥ १९४७ ॥
4.1947 · p. 217
अनुष्टुप्
सहस्रेण च निर्वृत्त एकाहक्रतुषु त्वयम् ।चतुर्षु पुंसि साहस्रः सामजस्तु द्वयोर्गजे ॥ १९४८ ॥
4.1948 · p. 217
अनुष्टुप्
त्रि तु सामसमुद्भूते सावनस्तु पुमानयम् ।संवत्सरविशेषे स्यात् षष्टित्रिशतवासरे ॥ १९४९ ॥
4.1949 · p. 217
अनुष्टुप्
सवनस्य तु सम्बन्धिन्येष त्रिः सहिते तथा ।अवनेनाथ सामुद्रमब्धिसम्बन्धिनि त्रिषु ॥ १९५० ॥
4.1950 · p. 217
अनुष्टुप्
क्ली देहलक्षणेऽथ त्रिः सावित्रः सवितुर्भवेत् ।सम्बन्धिनि स्त्रियां तु स्यात् सावित्री द्विजविश्रुते ॥ १९५१ ॥
4.1951 · p. 217
अनुष्टुप्
विश्वामित्रेण दृष्टे स्यादृग्भेदेऽनामिकाङ्गुलौ ।सायकस्तु शरे खड्गे वज्रे ना त्रिस्तु (घा ? सा)तरि ॥ १९५२ ॥
4.1952 · p. 217
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सारिका तु स्त्रियां काश्यवीणाशब्देन विश्रुते ।वीणाभेदे त्रिषु त्वेष सारकः सर्तरि स्मृतः ॥ १९५३ ॥
4.1953 · p. 217
अनुष्टुप्
तथा सारयितर्येष सारणी तु स्त्रियामियम् ।ग्रन्थे पद्यात्मके ना तु सारणो वरुणात्मजे ॥ १९५४ ॥
4.1954 · p. 218
अनुष्टुप्
शरद्वायौ चापुमांस्तु सारणा सारिकर्मणि ।स्थायुकस्तु त्रिषु स्थास्नौ ना तु ग्रामाधिकारिणि ॥ १९५५ ॥
4.1955 · p. 218
अनुष्टुप्
स्थापनी तु स्त्रियां पाठासंज्ञवल्ल्यामना पुनः ।स्थापना स्थापयत्यर्थे त्रि तु तत्साधनेऽथ ना ॥ १९५६ ॥
4.1956 · p. 218
अनुष्टुप्
(सित ? स्यात्) सर्षपे च सिद्धार्थो बुद्धेऽर्थेन युतेऽ(ह्य ? न्य)वत् ।सिताभ्रम्तु स कर्पूरे ना क्ली त्वभ्रे सिते स्मृतः ॥ १९५७ ॥
4.1957 · p. 218
अनुष्टुप्metre not read in every line
सिध्मला तु स्त्रियां मत्स्यविकृतौ रभसोदिता ।कस्याञ्चिदोषधावन्ये त्रि तु सिध्मवति स्मृतः ॥ १९५८ ॥
4.1958 · p. 218
अनुष्टुप्
सिंहास्यस्त्वटरूपे ना सिंहस्य तु मुखे नपि ।सलम्बस्त्वृषिभेदे ना तन्तुवाये पुनर्द्वयोः ॥ १९५९ ॥
4.1959 · p. 218
अनुष्टुप्
सिलिन्ध्रस्तु पुमान् वृक्षभेदे छत्राक एव च ।छत्राके तु नपि प्राह रभसोऽथ द्वयोरयम् ॥ १९६० ॥
4.1960 · p. 218
अनुष्टुप्
मत्स्यभेदे नपि त्वेतत् कदलीकुसुमे तथा ।सिलिन्ध्रवृक्षप्रसवे स्त्री तु गण्डूपदीमृदि ॥ १९६१ ॥
4.1961 · p. 218
अनुष्टुप्
स्त्रीप्रियस्तु पुमानाम्रपादपेऽशोकपादपे ।क्ली तयोः प्रसवे त्रिस्तु बहुव्रीहौ तथा भवेत् ॥ १९६२ ॥
4.1962 · p. 218
अनुष्टुप्
स्त्रीणां प्रिये सीमिकं तु क्ली वल्मीके तथा तरोः ।शाखायां च द्वयोस्त्वेष विज्ञेयः सलिलक्रिमौ ॥ १९६३ ॥
4.1963 · p. 218
अनुष्टुप्
सीद्गुण्डस्तु पुमान् स्नुह्यां मर्त्यजात्यन्तरे पुनः ।पराजक्यां द्वयोर्जाते ब्राह्मणात् सीवनी पुनः ॥ १९६४ ॥
4.1964 · p. 218
अनुष्टुप्
स्त्रियामुपस्थस्याधस्तात्सूत्रे सूच्यां च नप् पुनः ।स्यूतौ सीवनमेतच्च केषाञ्चिन्मतमीरितम् ॥ १९६५ ॥
4.1965 · p. 219
अनुष्टुप्
अथो परमशोभायां सुषमा स्त्री त्रि सुन्दरे ।सुषिरं तु नपिच्छिद्रे वैजयन्त्यां समीरितम् ॥ १९६६ ॥
4.1966 · p. 219
अनुष्टुप्
वाद्यभेदे च वंशादौ सुषियुक्ते तु भेद्यवत् ।स्याद्विद्रुमलतायां तु सुषिरा स्त्री नटे तु ना ॥ १९६७ ॥
4.1967 · p. 219
अनुष्टुप्
सर्पाण्डे तु सुनारो ना शुनीस्तनपयस्यपि ।विद्याच्छोभननारादौ समासादीनि पूर्ववत् ॥ १९६८ ॥
4.1968 · p. 219
अनुष्टुप्
गरुडे तु सुपर्णो ना किरणे च द्वयोः पुनः ।अश्वे गरुडव(द्) ज्ञेयः पक्षिजात्यन्तरेऽथ सा ॥ १९६९ ॥
4.1969 · p. 219
अनुष्टुप्
सुपर्णी विनतायां स्त्री सुवर्णस्त्वस्त्रियामयम् ।हेम्नि हेम्नश्च कर्षे + + + + + + + स्त्रियाम् ॥ १९७० ॥
4.1970 · p. 219
अनुष्टुप्metre not read in every line
सुकन्दस्तु पलण्डौ ना त्रि तु शेाभनकन्दके ।सुव्रता सुखसन्दोह्या या गौस्तत्र स्त्रियां त्रि तु ॥ १९७१ ॥
4.1971 · p. 219
अनुष्टुप्metre not read in every lineimpossible sign sequence: त्रि तु शेाभनकन्दnearly अनुष्टुप्
सद्व्रते सुवहा तु स्त्री सल्लकीरास्नयोरपि ।शेफालिकायामपि च तथा गोधापदीति या ॥ १९७२ ॥
4.1972 · p. 219
अनुष्टुप्
ओषधि + + + + + + + + + सुकेश्यसौ ।स्त्रियां स्यादप्सरोभेदे त्रि तु शोभन मूर्धजे ॥ १९७३ ॥
4.1973 · p. 219
अनुष्टुप्metre not read in every line
क्ली तु स्यात् सुकृतं पुण्ये सत्क्रियायां च तत् त्रि तु ।कृते सुष्ठु पुमांस्तु स्याद् बुद्धे सुगत इत्ययम् ॥ १९७४ ॥
4.1974 · p. 219
अनुष्टुप्
त्रि शोभनगते क्ली तु (सुरूपं शाल्मलीफले) ।स्त्रियां तु मल्लिकाभेदे सुरूपा वेश्यसंज्ञके ॥ १९७५ ॥
4.1975 · p. 219
अनुष्टुप्metre not read in every line
सुलभं तु त्रिष्वयत्नलभ्ये ना तु द्विजन्मनाम् ।विज्ञेयः पाकयज्ञाग्नौ सुनीथस्तु पुमानयम् ॥ १९७६ ॥
4.1976 · p. 220
अनुष्टुप्
पूर्वे राजनि कस्मिंश्चित् कश्चित् त्वाह + + + + ।+ + + + + + + + + ङ्गभेदे यदाह्वयः ॥ १९७७ ॥
4.1977 · p. 220
metre not recognised
बीजपूर इति त्रिस्तु बहुव्रीहावथो पुमान् ।सुपार्श्वो गर्दभाण्डाख्यपादपे सम्प्रकीर्तितः ॥ १९७८ ॥
4.1978 · p. 220
अनुष्टुप्
मेरोरुत्तरविष्कम्भपर्वतेऽप्यथ भेद्यवत् ।बहुव्रीहौ सुगन्ध + + + + + + + + + ॥ १९७९ ॥
4.1979 · p. 220
अनुष्टुप्metre not read in every line
+++++ बायां च सुभिक्षा तु स्त्रियामियम् ।धातकीसंज्ञके वृक्षे त्रिस्त्वनाढ्येऽथ नप्यदः ॥ १९८० ॥
4.1980 · p. 220
अनुष्टुप्metre not read in every line
सुनालं रक्तकुमुदे बहुव्रीहौ तु भेद्यवत् ।अथो लताबृ +++++++++++ ॥ १९८१ ॥
4.1981 · p. 220
अनुष्टुप्metre not read in every line
++++ क्ष्यतनयनागराजविशेषयोः ।सुराष्ट्रः पीतमुद्गे ना न स्त्री राष्ट्रे हि शोभने ॥ १९८२ ॥
4.1982 · p. 220
अनुष्टुप्metre not read in every line
नीवृद्भेदे तु पुंभूम्नि सुराष्ट्राः पश्चिमोदधेः ।समीपे सुरसा तु स्त्री महाजम्बूसमाख्यके ॥ १९८३ ॥
4.1983 · p. 220
अनुष्टुप्
जम्बु + + + + + + + + + + + + + + ।सुषेणस्तु पुमान् विष्णौ करमर्दाख्यपादपे ॥ १९८४ ॥
4.1984 · p. 220
अनुष्टुप्metre not read in every line
सुग्रीववैद्येऽप्याहैनं रभसो नप् प्रसूनके ।करमर्दतरोः क्लीबं सुषेणा तु स्त्रियामियम् ॥ १९८५ ॥
4.1985 · p. 220
अनुष्टुप्
कृष्णत्रिवृत्समाख्यायां लतायामथ सा स्त्रियाम् ।सू + + + + + + + + + + + + + + + ॥ १९८६ ॥
4.1986 · p. 220
अनुष्टुप्metre not read in every line
वास्तुदेवविशेषे च कोष्ठश्रेणौ हि पश्चिमे ।भारभ्य दक्षिणात् कोष्ठात् तृतीये तत्र यः स्थितः ॥ १९८७ ॥
4.1987 · p. 220
अनुष्टुप्
ग्रीवायां शोभनायां स्त्री बहुव्रीहौ तु भेद्यवत् ।सुगन्धिस्तु पुमान् सूक्ष्म + + + + + + + के ॥ १९८८ ॥
4.1988 · p. 221
अनुष्टुप्metre not read in every line
वास्तुदेवविशेषे च + + + + + + श्रुतः ।कलमाले च गन्धे च तत्र यो घ्राणतर्पणः ॥ १९८९ ॥
4.1989 · p. 221
अनुष्टुप्metre not read in every line
त्रि तु तद्वति चारौ च श्रेष्ठे च स्यात् स्त्रियां पुनः ।+ + + + + वह्नौ स्यात् तथा चैत्रवसन्तयोः ॥ १९९० ॥
4.1990 · p. 221
अनुष्टुप्metre not read in every line
रभसश्चम्पके जातिफले चापि बहु + + ।+ + + + + + + + भेद्यवच्छस्तपर्वते ॥ १९९१ ॥
4.1991 · p. 221
metre not recognised
सुमना तु स्त्रियां ज्ञेया मालत्यां कुसुमे पुनः ।स्त्रीभूम्नि स्यात् सुमनसस्त्रि तु स्याच्छुभचेतसि ॥ १९९२ ॥
4.1992 · p. 221
अनुष्टुप्
पण्डिते च द्वयोस्तु स्याद् देवे क्ली तु शुभे हृदि ।सुमेधा तु स्त्रियां ज्ञेया ++++++++ ॥ १९९३ ॥
4.1993 · p. 221
अनुष्टुप्metre not read in every line
गृहस्योपरिभूमौ या स्थूणा तस्यामथ त्रिषु ।सूचकः पिशुने हस्तभ्रूभङ्गाद्यैश्च बोधके ॥ १९९४ ॥
4.1994 · p. 221
अनुष्टुप्
द्वे तु श्वक्रोष्टुकाकेषु सूचना तु न ना भवेत् ।रभसस्त्वाह वृष्टौ च गन्धने च विचक्षणः ॥ १९९५ ॥
4.1995 · p. 221
अनुष्टुप्
व्यथने + + + + + + + + + + + + + ।+ + + + + + + + + + + रभसस्त्विदम् ॥ १९९६ ॥
4.1996 · p. 221
metre not recognised
जन्मन्यप्याह सततं नृनपोराह पारदे ।स्त्रियां तु स्यात् प्रसूतायां सूतका सूतिकापि च ॥ १९९७ ॥
4.1997 · p. 221
अनुष्टुप्
सृणीकस्त्वग्न्यशन्योर्ना सृणीका तु स्त्रियामियम् ।लालायां त्रिषु तून्मत्ते सृमरस्तु मृगान्तरे ॥ १९९८ ॥
4.1998 · p. 221
अनुष्टुप्
द्वे त्रिस्तु गत्वरे + + सृगालस्तु पुमानयम् ।दैत्यभेदे द्वयोः क्रोष्टौ (ध ? ड)मरे तु स्त्रियामियम् ॥ १९९९ ॥
4.1999 · p. 221
metre not recognised
इत्याह रभसो ना तु सृदाकुः पावके मतः ।गोत्रकृत्यृषिभेदे च शकुनौ तु द्वयोरयम् ॥ २००० ॥
4.2000 · p. 222
अनुष्टुप्
क्ली तु तोये सेवनं तु क्लीबं स्यात् स्यूतिसेवयोः ।अना तु सेवयत्यर्थे सेवना सेवकः पुनः ॥ २००१ ॥
4.2001 · p. 222
अनुष्टुप्
स्यूते प्रसेवसंज्ञे ना त्रि तु सेवितरि स्मृतः ।सेनानीस्तु पुमान् स्कन्दे त्रि तु सेनापतौ स्मृतः ॥ २००२ ॥
4.2002 · p. 222
अनुष्टुप्
स्वेदनी तु स्त्रियां कन्दुसंज्ञभाण्डे नपि त्वदः ।स्वित्तौ स्यात् खेदनं नप्स्त्री पुनः स्यात् स्वेदना तथा ॥ २००३ ॥
4.2003 · p. 222
अनुष्टुप्
अर्थे स्वेदयतेरस्त्री पुनः स्याल्लवणोत्तमे ।सैन्धवं पुंसि तु प्राहुर्धीमन्तस्तज्जयद्रथे ॥ २००४ ॥
4.2004 · p. 222
अनुष्टुप्
द्वे त्वश्वेऽश्वप्रभेदे च सिन्धुदेशजमानुषे ।क्ली तु वस्त्रे च जाले च राष्ट्रे चाह त्रिषु त्वयम् ॥ २००५ ॥
4.2005 · p. 222
अनुष्टुप्
सिन्धुसम्बन्धिनि द्वे तु सैरिन्ध्रो मानुषान्तरे ।दस्योरायोगवीजाते सैरिन्ध्री तु स्त्रियामियम् ॥ २००६ ॥
4.2006 · p. 222
अनुष्टुप्
परवेश्मस्थिता या स्त्री स्ववशा शिल्पकारिका ।तस्यामथाह रभसो नामार्थज्ञानकोविदः ॥ २००७ ॥
4.2007 · p. 222
अनुष्टुप्
तां स्त्रीमतल्लिकायां च सैकतं तु त्रिषु स्मृतम् ।सिकतावति नप् तु स्यात् पुलिने सिकतामये ॥ २००८ ॥
4.2008 · p. 222
अनुष्टुप्
सैरिकस्तु पुमान् स्वर्गे त्रिस्तु सीरस्य योगिनि ।सीरस्य वोढर्यपि च स्रोतस्वी त्वभिधेयवत् ॥ २००९ ॥
4.2009 · p. 222
अनुष्टुप्
स्रोतोयुक्ते स्त्रियां तु स्यान्नद्यां स्रोतस्विनीत्यथ ।सौवीरं काञ्जिके स्रोतोञ्जने बदरिकाफले ॥ २०१० ॥
4.2010 · p. 222
अनुष्टुप्
पुमांस्तु गोपघोण्टायां सौवीरास्तु नृभूमनि ।नीवृद्भेदेऽथ सौरभ्यं सौगन्ध्ये गुणगौरवे ॥ २०११ ॥
4.2011 · p. 222
अनुष्टुप्
मनोज्ञतायां च क्लीबं भेद्यलिङ्गं तु कीर्तितम् ।मनोज्ञे सौरतस्तु स्यान्मृदुवायौ नृलिङ्गकः ॥ २०१२ ॥
4.2012 · p. 223
अनुष्टुप्
त्रिस्तु सम्बन्धिनि रतेः सौमिकस्तु त्रिषु स्मृतः ।सोमयागभवे स्त्री तु सौमिकी याज्ञिकैः स्मृता ॥ २०१३ ॥
4.2013 · p. 223
अनुष्टुप्
इष्टौ स्याद्दीक्षणीयायां सौराष्ट्री तु स्त्रियामियम् ।सौराष्ट्रदेशविख्याते मृद्भेदे हि यदाह्वयः ॥ २०१४ ॥
4.2014 · p. 223
अनुष्टुप्
आढकीति नपि त्वेतत् सौराष्ट्रं कांस्यसंज्ञके ।लोहेऽथ हरितः पुंसि स्यान्मुद्गऋषिभेदयोः ॥ २०१५ ॥
4.2015 · p. 223
अनुष्टुप्
पालाशवर्णे च त्रिस्तु तद्वत्यर्थे हि तत्र च ।यदा तदा स्त्रियां वृत्तिर्हरिता हरिणीति च ॥ २०१६ ॥
4.2016 · p. 223
अनुष्टुप्
द्वे तु सिंहेऽथ हरिता हरेः स्त्री भावकर्मणोः ।हरिणस्तु द्वयोर्ज्ञेयस्ताम्रवर्णमृगेऽथ सा ॥ २०१७ ॥
4.2017 · p. 223
अनुष्टुप्
प्रतिमायां हिरण्मय्यां हरिणी स्त्री तथैव सा ।चारुस्त्रिया च कथिता रभसेन हरिण्यसौ ॥ २०१८ ॥
4.2018 · p. 223
अनुष्टुप्
अत्यष्टिच्छन्दसि ज्ञेया वृत्तभेदेऽथ कीर्तिता ।पूर्वं हरितशब्दे हि स्त्र्यर्थे वर्णे तु पाण्डुरे ॥ २०१९ ॥
4.2019 · p. 223
अनुष्टुप्
पुमांस्तद्वति तु त्रि स्यात् तत्र स्त्र्यर्थे कथं भवेत् ।अन्तोदात्ततया (ङीषा न हि भा)व्यमसंशयम् ॥ २०२० ॥
4.2020 · p. 223
अनुष्टुप्metre not read in every line
हरिणे (त्रीन ? ङीष)जन्त(त्वाच्चित्)खरोऽन्तेऽस्य हि स्थितः ।उदात्तो द्वे तु हर्यक्षः सिंहे वैश्रवणे तु ना ॥ २०२१ ॥
4.2021 · p. 223
अनुष्टुप्metre not read in every line
त्रिः पुनः कपिलाक्षेऽथ ह(र्ष ? र्षु)लो ना बुधग्रहे ।द्वे पुनः शिल्पिनि मृगे भेद्यलिङ्गं तु कामिनि ॥ २०२२ ॥
4.2022 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हर्षशीले हासशीले हरणं तु नपुंसकम् ।नाट्यप्रसिद्धे करणसंज्ञे चेष्टान्तरे तथा ॥ २०२३ ॥
4.2023 · p. 223
अनुष्टुप्
दृढदुष्करचित्रेषु यौधानामपि कर्मसु ।अश्वानां देयभेदे च कचिद्देशे हि दीयते ॥ २०२४ ॥
4.2024 · p. 224
अनुष्टुप्
योग्याशनादिकं तेषां शरीरपरिपुष्टये ।पश्चाद्बीजनिषेकस्य तथा हरतिकर्मणि ॥ २०२५ ॥
4.2025 · p. 224
अनुष्टुप्
गणितज्ञप्रसिद्धे च सङ्ख्यायास्ताडने तथा ।भुजे क्लीबं तु हसितं हासे हासान्तरे तथा ॥ २०२६ ॥
4.2026 · p. 224
अनुष्टुप्
दृष्टदन्ते त्रिषु त्वेतत् फुल्लेऽत्रहसितेऽपि च ।तथा हसितवत्येष हवनं तु नपुंसकम् ॥ २०२७ ॥
4.2027 · p. 224
अनुष्टुप्
होमे वह्नौ तु ना स्त्री तु हवनी स्रुचि नप् पुनः ।हास्ये स्याद्धसनं स्री तु हसनी परिकीर्तिता ॥ २०२८ ॥
4.2028 · p. 224
अनुष्टुप्
अङ्गारशकटौ ना तु हनुषः क्रोध ईरितः ।राक्षसे तु द्वयोरुक्तो हलिजस्तु महाद्रुमे ॥ २०२९ ॥
4.2029 · p. 224
अनुष्टुप्
शाकसंज्ञे कदम्बद्रौ केतक्यां च नपि त्वदः ।तेषां स्यात् प्रसवे ना तु हविष्यः स्यात् तिले त्रि तु ॥ २०३० ॥
4.2030 · p. 224
अनुष्टुप्
साधा हविष्यथो पुंसि हरेणुः परिकीर्तितः ।कलायधान्यभेदे स्याद् रङ्कटीसंज्ञकेऽथ सा ॥ २०३१ ॥
4.2031 · p. 224
अनुष्टुप्
स्त्रियां कौन्तीसमाख्ये स्याद् भेषजे हाटकं पुनः ।अस्त्रियां हेमनि क्ली तु स्यात् त्रिकण्टकसंस्थितौ ॥ २०३२ ॥
4.2032 · p. 224
अनुष्टुप्
कुन्तभेदे हारकस्तु यष्टिसंज्ञायुधान्तरे ।पुमान् हर्तरि तु त्रि स्याद्धारणस्तु पुमांस्तरौ ॥ २०३३ ॥
4.2033 · p. 224
अनुष्टुप्
चम्पकाख्ये नप्स्त्रियोस्तु हारणं हारणेति च ।अर्थे हारयतेरस्त्री पुनर्हायन इत्ययम् ॥ २०३४ ॥
4.2034 · p. 225
अनुष्टुप्
वत्सरेऽर्चि(ष्य ? षि) ना तु स्याच्छालिभेदे द्विषत्यपि ।हारिता त्वविवाह्यासु कन्यकासु कचित् स्त्रियाम् ॥ २०३५ ॥
4.2035 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उत्पन्ना पतिताद्या स्यात् त्रि तु हारयतीप्सिते ।हिमजा तु शटीसंज्ञगन्धमूलौषधौ स्त्रियाम् ॥ २०३६ ॥
4.2036 · p. 225
अनुष्टुप्
पार्वत्यां च हिमोत्थे तु त्रिर्ना मैनाकपर्वते ।हिंसनस्तु पुमाञ्छत्रौ हिंसायां तु नपुंसकम् ॥ २०३७ ॥
4.2037 · p. 225
अनुष्टुप्
हिडिम्बस्तु पुमान् भीमसेनेन निहतेऽसुरे ।हिडिम्बा तु स्त्रियां तस्य भगिन्यामथ हिङ्गुलः ॥ २०३८ ॥
4.2038 · p. 225
अनुष्टुप्
(ना ? दा) रदाख्ये रागद्रव्यधातुभेदे स्त्रियां त्वियम् ।वार्ताक्यां हिङ्गुली तस्याः पुनर्भेदेऽध्यगीष्ट ताम् ॥ २०३९ ॥
4.2039 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रा (syllables merged)