All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
स्वर्गकाण्डः · आदिदेवाध्यायः
स्वर्गकाण्ड आदिदेवाध्यायः
स्वर्गो नाकः सुरावास ऊर्ध्वलोकः फलोदयः ।सौरिको भोगभूमिः स्त्री दिवि द्यौश्च त्रिविष्टपम् ॥ १ ॥
1.1.1 · p. 3
अनुष्टुप्
अमर्त्यभवनं गौश्च त्रिदिवः स्यात् खरव्ययम् ।देवा निलिंपा मरुतो गीर्वाणा वायुनाः सुराः ॥ २ ॥
1.1.2 · p. 3
अनुष्टुप्
आदित्या ऋभवोऽस्वप्ना विवस्वन्तो दिवौकसः ।आदितेया दिविषदो लेखा अदितिनंदनाः ॥ ३ ॥
1.1.3 · p. 3
अनुष्टुप्
सुपर्वाणः क्रतुभुजो निर्जरा अमृताशनाः ।बर्हिर्मुखा विट्पतयस्त्रिदशा हव्ययोनयः ॥ ४ ॥
1.1.4 · p. 3
अनुष्टुप्
अमर्त्याश्चाथ न स्त्री स्याद्दैवतं देवता स्त्रियाम् ।त्रय एवादिदेवाः स्युर्ब्रह्मविष्णुमहेश्वराः ॥ ५ ॥
1.1.5 · p. 3
अनुष्टुप्
आजानजाः स्वतोदेवाः कर्मदेवास्तु कर्मभिः ।ब्रह्मा विधाता विश्वात्मा घाता स्रष्टा प्रजापतिः ॥ ६ ॥
1.1.6 · p. 3
अनुष्टुप्
हिरण्यगर्भो द्रुहिणो विरिञ्चः कश्चतुर्मुखः ।पद्मासनः सुरज्येष्ठश्चिरजीवी सनातनः ॥ ७ ॥
1.1.7 · p. 3
अनुष्टुप्
शतानन्दः शतधृतिः स्वयंभूः सर्वतोमुखः ।परमेष्ठी विश्वरेताः पुरुषो हंसवाहनः ॥ ८ ॥
1.1.8 · p. 3
अनुष्टुप्
पद्मभूः प्राणदो वेधा द्रुघणो नाभिजो विधिः ।वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती ॥ ९ ॥
1.1.9 · p. 3
अनुष्टुप्
विष्णुर्नारायणो बभ्रुश्चक्रपाणिर्जनार्दनः ।दैत्यारिः पुण्डरीकाक्षस्त्रिककुद्विष्टरश्रवाः ॥ १० ॥
1.1.10 · p. 3
अनुष्टुप्
पीतांबरो हृषीकेशो विष्वक्सेनश्चतुर्भुजः ।श्रीवत्सः श्रीपतिः शार्ङ्गी श्रीवत्सांकोऽच्युतो हुणः ॥ ११ ॥
1.1.11 · p. 3
अनुष्टुप्
वासुदेवः स्वभूश्चक्री वैकुण्ठः पुरुषोत्तमः ।अरिष्टनेमिरजितः श्रीधरो यज्ञपूरुषः ॥ १२ ॥
1.1.12 · p. 4
अनुष्टुप्
मुञ्जकेशी मुररिपुर्गदापाणिरधोऽक्षजः ।अनन्तशायी वृन्दाको मुकुन्दो धरणीधरः ॥ १३ ॥
1.1.13 · p. 4
अनुष्टुप्
शतानन्दः शतावर्तो युगावर्तः सुरोत्तमः ।कालकुन्थो रन्तिदेवः केशवो गरुडध्वजः ॥ १४ ॥
1.1.14 · p. 4
अनुष्टुप्
पद्मनाभो विश्वरूपः कृष्णो हरिरसंपुषः ।कैटभारिर्ब्रह्मनाभो गोविन्दो मधुसूदनः ॥ १५ ॥
1.1.15 · p. 4
अनुष्टुप्
आचारा वैष्णवी सूक्ष्मा लक्ष्मीः पुष्टिर्निरंजना ।जीवनी मोहनी माया नवैता विष्णुशक्तयः ॥ १६ ॥
1.1.16 · p. 4
अनुष्टुप्
कौस्तुभोऽस्य मणिर्लक्ष्म श्रीवत्सो नन्दकुस्त्वसिः ।चापः शार्ङ्गं पाञ्चजन्यः शंखश्चक्रं सुदर्शनम् ॥ १७ ॥
1.1.17 · p. 4
अनुष्टुप्
कौमोदकी गदाथास्य मत्स्याद्यैः समनामकाः ।अवतारा नृसिंहस्तु हिरण्यकशिपुद्विषन् ॥ १८ ॥
1.1.18 · p. 4
अनुष्टुप्
उपेन्द्र इन्द्रावरजो वामनो बलिकण्टकः ।आदित्यो द्विपदस्तार्क्ष्यस्त्रिविक्रम उरुक्रमः ॥ १९ ॥
1.1.19 · p. 4
अनुष्टुप्
विष्णुश्च जामदग्न्यस्तु रामो दाशरथिः पुनः ।राघवो जानकीकान्तो रामो रावणसूदनः ॥ २० ॥
1.1.20 · p. 4
अनुष्टुप्
[ दूषणारिः खरारिश्च कुंभकर्णारिरेव च ।राक्षसघ्नः सुखकरः कौसल्यानन्दवर्धनः ॥ २१ ॥
1.1.21 · p. 4
अनुष्टुप्
पार्थिवेन्द्रो धनुष्पाणिर्बली दशरथात्मजः । ]रामः संकर्षणः पौरो बलदेवो हलायुधः ॥ २२ ॥
1.1.22 · p. 4
अनुष्टुप्
बलभद्रः प्रलंबारिः कालिन्दीकर्षणो हली ।तालांको रेवतीकान्तः साच्वतो मुसली बली ॥ २३ ॥
1.1.23 · p. 4
अनुष्टुप्
भद्रांगो भद्रवदनः कामपालः सितासितः ।बलो नीलांबरश्चाथ तस्य संवर्तकं हलम् ॥ २४ ॥
1.1.24 · p. 5
अनुष्टुप्
सौनन्दमस्य मुसलं कृष्णो दामोदरोऽद्रिधृत् ।दाशार्हो नरकारातिर्वनमाली गदाग्रजः ॥ २५ ॥
1.1.25 · p. 5
अनुष्टुप्
शैनिः कंसरिपुः शौरिः सारथिस्तस्य दारुकः ।वसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः ॥ २६ ॥
1.1.26 · p. 5
अनुष्टुप्
प्रद्युम्नो मन्मथः कामो मारो मनसिजः स्मरः ।कन्दर्पो दर्पकोऽनंगो मीनांको मकरध्वजः ॥ २७ ॥
1.1.27 · p. 5
अनुष्टुप्
पुष्पधन्वा रतिपतिः शंबरारिरनन्यजः ।शूर्पकारिर्मधुसखः पञ्चेषुर्विषमायुधः ॥ २८ ॥
1.1.28 · p. 5
अनुष्टुप्
बंधुर्वामो जराभीरुर्हृच्छयो मधुसारथिः ।ब्रह्मसूरनिरुद्धः स्यादृश्यकेतुरुषापतिः ॥ २९ ॥
1.1.29 · p. 5
अनुष्टुप्
अथान्ये ह्यवताराः स्युर्नरनारायणादृषी ।अश्वो हयशिराः शेषः कपिलो व्यास इत्यपि ॥ ३० ॥
1.1.30 · p. 5
अनुष्टुप्
दत्तात्रेयश्च कल्कीच बुध्दश्चेत्येवमादयः ।कपिलस्तु महाविष्णुर्व्यासः सत्यवतीसुतः ॥ ३१ ॥
1.1.31 · p. 5
अनुष्टुप्
पाराशर्यो द्वैपायनः कृष्णद्वैपायनोऽपिच ।बुद्धस्तु श्रीघनः शास्ता बोधिसत्त्वो विनायकः ॥ ३२ ॥
1.1.32 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पा (wrong syllable)
समन्तभद्रः सर्वज्ञो मारजिल्लोकजिज्जिनः ।षडभिज्ञो दशबलो धर्मराजस्तथागतः ॥ ३३ ॥
1.1.33 · p. 5
अनुष्टुप्
मुनीन्द्रः सुगतः शाक्यो मुनिरद्वयवाद्यपि ।शाक्यसिंहस्तु सर्वार्थसिद्धः शौद्धोदनिर्गुरुः ॥ ३४ ॥
1.1.34 · p. 5
अनुष्टुप्
गौतमश्चार्कबंधुश्च जिनस्त्वर्हंस्त्रिकालदृक् ।अष्टकर्मपरिभ्रष्टो वीतरागश्च केवली ॥ ३५ ॥
1.1.35 · p. 5
अनुष्टुप्
लक्ष्मीः पद्मालया शक्तिर्मा क्षीरोदसुतेन्दिरा ।रमाब्धिजा भार्गवी च स्त्रीलिंगाश्चांबुजाह्वयाः ॥ ३६ ॥
1.1.36 · p. 6
अनुष्टुप्
गरुडः काश्यपसुतो गरुत्मानुरगाशनः ।सुपर्णीतनयस्तार्क्ष्यो वैनतेयो महेन्द्रजित् ॥ ३७ ॥
1.1.37 · p. 6
अनुष्टुप्
पन्नगारिर्विष्णुरथः सुपर्णो विहगाधिपः ।महेश्वरः पशुपतिः श्रीकण्ठः पांसुचन्दनः ॥ ३८ ॥
1.1.38 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्वि (wrong syllable)
शंकरो गिरिशो रुद्रो गिरीशः शशिभूषणः ।भद्रेश्वरश्चन्द्रमौलिः पिनाकी शशिशेखरः ॥ ३९ ॥
1.1.39 · p. 6
अनुष्टुप्
कपर्दी धूर्जटिः शर्वः कपाली नीललोहितः ।ईश ईश्वर ईशानो भर्गो मृत्युञ्जयो मृडः ॥ ४० ॥
1.1.40 · p. 6
अनुष्टुप्
व्योमकेशो महादेवः प्रमथाधिपतिः शिवः ।शूली दक्षाध्वरारातिः कामारिः परमेश्वरः ॥ ४१ ॥
1.1.41 · p. 6
अनुष्टुप्
कृत्तिवासाअहिर्बुध्न्यो नीलग्रीवस्त्रिलोचनः ।गंगाधरो विरूपाक्षो वामदेवो वृषध्वजः ॥ ४२ ॥
1.1.42 · p. 6
अनुष्टुप्
भूतेशः खण्डपरशुः स्थाणुरन्धकसूदनः ।भगनेत्रान्तको भीमस्त्रिपुरारिर्दृगायुधः ॥ ४३ ॥
1.1.43 · p. 6
अनुष्टुप्
कटाटंको जटाटीरो जटाझाटो महानटः ।हिण्डीकान्तो रेरिहाणः सर्वज्ञो नंदिवर्धनः ॥ ४४ ॥
1.1.44 · p. 6
अनुष्टुप्
स्थालो डिंडीश उड्डीशः कण्ठेकालो महाव्रतः ।कृशानुरेता जोटिंगः कंकटीक उमापतिः ॥ ४५ ॥
1.1.45 · p. 6
अनुष्टुप्
खट्वांगी मन्दरमणिरुलंदो वृषवाहनः ।उग्रः कटप्रूर्दिग्वासा झाण्डः षाण्डोऽकुतश्चनः ॥ ४६ ॥
1.1.46 · p. 6
अनुष्टुप्
बहुरूपोऽर्धमकुटो दशबाहुर्दशाव्ययः ।ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥ ४७ ॥
1.1.47 · p. 6
अनुष्टुप्
स्रष्टृत्वमात्मसंबंधोऽप्यधिष्ठातृत्वमित्यपि ।अव्ययानि दशैतानि शंभोरव्ययमस्त्रियाम् ॥ ४८ ॥
1.1.48 · p. 7
अनुष्टुप्
वामा ज्येष्ठा शिवा रौद्री चित्तोन्मादकरी सुखा ।काली कलेबरा भूतदमनी चेशशक्तयः ॥ ४९ ॥
1.1.49 · p. 7
अनुष्टुप्
कपर्दोऽस्य जटाजूटः खट्वाङ्गोऽस्य सुखंघुणः ।पिनाकोऽजगवं युग्यमजगावमजीगवम् ॥ ५० ॥
1.1.50 · p. 7
अनुष्टुप्
प्रमथाः स्युः पारिषदा नन्दी स्यान्नन्दिकेश्वरः ।अथ कूश्माण्डकः केलिकिलो गणपतिप्रियः ॥ ५१ ॥
1.1.51 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
भृङ्गरीटः पुनर्भुङ्गी चर्मी भूंगिरिटिः शलः ।वृषाणो लूनदोर्बाणो भेलुकस्तु कृतालकः ॥ ५२ ॥
1.1.52 · p. 7
अनुष्टुप्
वीरभद्रस्तु देवाजो विघ्नेशस्तु विनायकः ।लंबोदरो हस्तिराज एकदन्तो गजाननः ॥ ५३ ॥
1.1.53 · p. 7
अनुष्टुप्
द्वैमातुरः परशुभृदाखुयानो गणाधिपः ।कुमारः शरजः स्कन्दुस्तारकारिरुमासुतः ॥ ५४ ॥
1.1.54 · p. 7
अनुष्टुप्
महासेनो महातेजाः शक्तिपाणिर्गुहोऽग्निभूः ।वैजयन्तः सिद्धसेनः सेनानीः शिखिवाहनः ॥ ५५ ॥
1.1.55 · p. 7
अनुष्टुप्
स्वामी गाङ्गेयगौरेयब्रह्मचारिमहौजसः ।षाण्मातुरः कार्त्तिकेयो ब्रह्मगर्भः षडाननः ॥ ५६ ॥
1.1.56 · p. 7
अनुष्टुप्
सुब्रह्मण्यो नीलदंष्ट्रः क्रौञ्चारिः कुक्कुटध्वजः ।अस्य शाखो विशाखश्च नैगमेषश्च पृष्ठजाः ॥ ५७ ॥
1.1.57 · p. 7
अनुष्टुप्
उमा मेनात्मजा रौद्री रुद्राणी सर्वमङ्गला ।आर्याऽद्रिजा महादेवी शर्वाणी पार्वती शिवा ॥ ५८ ॥
1.1.58 · p. 7
अनुष्टुप्
भ्रामरी रेवती षष्ठी गौतमी बाभ्रवी सती ।अपर्णापरुजा जारी शण्डिली वारुणी हिमा ॥ ५९ ॥
1.1.59 · p. 7
अनुष्टुप्
बर्हिध्वजा शतमुखी योगिनी परमेष्ठिनी ।सुनन्दा नन्दिनी नन्दा नन्दयन्ती कलापिनी ॥ ६० ॥
1.1.60 · p. 8
अनुष्टुप्
कालरात्री महारात्री रक्तदन्त्येकपाटला ।एकपर्णा भद्रकाली महाकाली करालिका ॥ ६१ ॥
1.1.61 · p. 8
अनुष्टुप्
दुर्गा कात्यायनी चण्डी कैटभी सिंहवाहना ।यमेन्द्रकृष्णमैनाकरामाणां भगिनी स्वसा ॥ ६२ ॥
1.1.62 · p. 8
अनुष्टुप्
विंध्यमन्दरकान्तारमलयेभ्यश्च वासिनी ।चण्डमुण्डा तु चामुण्डा चर्चा मार्जारकर्णिका ॥ ६३ ॥
1.1.63 · p. 8
अनुष्टुप्
कर्णमोटी महाचण्डी महागन्धा कपालिनी ।ब्राह्मी माहेश्वरी चैन्द्री वाराही नारसिंह्यपि ॥ ६४ ॥
1.1.64 · p. 8
अनुष्टुप्