All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
एकाक्षरकाण्डः · स्त्रीलिङ्गाध्यायः
॥ श्रीः ॥
राजराजीयापरनामा
नानार्थार्णवसंक्षेपः
केशवस्वामिप्रणीतः
स्त्रीलिङ्गाध्यायः
श्रीकुलोत्तुङ्गचोलाख्यश्चोलेष्वासीन्महीपतिः ।यः कलिं भारताद्वर्षाद् बहिश्चक्रेऽतिदूरतः ॥ १ ॥
1.1.1
अनुष्टुप्
येन सर्वाणि वित्तानि सकलापि वसुन्धरा ।कार्याण्यन्यान्यनादृत्य देवब्राह्मणसात्कृता ॥ २ ॥
1.1.2
अनुष्टुप्
अहः शेषं च रात्रिं च देयाभावादनिर्वृतः ।तस्य तु श्रीनिवासस्य रात्रिन्दिवमविश्रमम् ॥ ६ ॥
1.1.6
अनुष्टुप्
पर्जन्यस्येव बर्षासु वस्तूनि बहु वर्षतः ।न किञ्चिदपचीयन्ते कोशाः प्रत्युत वर्धनाः ॥ ७ ॥
1.1.7 · p. 2
अनुष्टुप्
धर्मस्यैव समुच्छ्रायादधर्मस्य च निग्रहात् ।सुखेन वृत्तेः साधूनामसाधूनां नियन्त्रणात् ॥ ८ ॥
1.1.8 · p. 2
अनुष्टुप्
अमुना राजराजेन कलिः कृतयुगीकृतः ।बहुना किं प्रजल्पेन महात्मानोऽपि तद्गुणान् ॥ ९ ॥
1.1.9 · p. 2
अनुष्टुप्
शंसितुं कवयोऽशक्ताः किं पुनर्मादृशो जनः ।महाग्रहारो राजेन्द्रचोलसंज्ञो महात्मनाम् ॥ १० ॥
1.1.10 · p. 2
अनुष्टुप्
सर्वविद्यासमृद्धानां श्रीमतामृषितेजसाम् ।निवासो विप्रवर्याणां चोलेष्वासीत् प्रतिष्ठितः ॥ ११ ॥
1.1.11 · p. 2
अनुष्टुप्
महामाहेश्वराणां यस्तारुण्येष्वेव यज्वनाम् ।राज्ञा राजेन्द्रचोलेन स्वनाम्ना स्थापितः पुरा ॥ १२ ॥
1.1.12 · p. 2
अनुष्टुप्
राष्ट्रस्यास्य समृद्धस्य शिरोभूषणसन्ततिः ।तत्राग्रहारे वास्तव्यो वत्सगोत्रसमुद्भवः ॥ १३ ॥
1.1.13 · p. 2
अनुष्टुप्
सामवेदविदां मान्यः केशवस्वामिनामकः ।श्रीराजराजदेवस्य सेवकोऽभूद्द्विजाग्रणीः ॥ १४ ॥
1.1.14 · p. 2
अनुष्टुप्
तं कदाचित् समामन्त्र्य सेवमानं महीपतिः ।चिराच्चिकीर्षितं वस्तु स्मृत्वाज्ञापयदीदृशम् ॥ १५ ॥
1.1.15 · p. 2
अनुष्टुप्
आर्य ! वत्ससुखायालं कौतूहलमतीव मे ।सलिङ्गेऽस्पष्टसाधूनां नाम्नां नानार्थवाचिनाम् ॥ १६ ॥
1.1.16 · p. 2
अनुष्टुप्
परम्परायास्त्वदृते न चान्यः शब्दवित्तमः ।एकद्वित्रिचतुःपञ्चषट्स्वरैर्नामभिः क्रमात् ॥ १७ ॥
1.1.17 · p. 2
अनुष्टुप्
काण्डानि प्रतिकाण्डं च पञ्चाध्यायाः क्रमाद्यथा ।स्त्रीपुन्नपुंसकैर्वाच्यलिङ्गैः सङ्कीर्णलिङ्गकैः ॥ १८ ॥
1.1.18 · p. 2
अनुष्टुप्
अनेकार्थेरकारादिक्रमोपेतादिवर्णकैः ।जिज्ञासितस्य शब्दस्य सुखदर्शनसिद्धये ॥ १९ ॥
1.1.19 · p. 3
अनुष्टुप्
इत्युक्तो राजराजेन शिरसादाय शासनम् ।शास्त्रं कर्तुमुपाक्रंस्त राजराजोक्तवर्त्मना ॥ २० ॥
1.1.20 · p. 3
अनुष्टुप्
ओङ्कारममृतं ब्रह्म शिवमक्षरमव्ययम् ।यमामनन्ति वेदेषु तं प्रपद्ये विनायकम् ॥ २१ ॥
1.1.21 · p. 3
अनुष्टुप्
यस्यार्धं वन्दे त्वा भव! हर! महिला विलासिनी स्तननमिता ।शिरसि सरिद्वीचीभिर्भवहरमहिलाविलासिनीस्तननमिता ॥ २२ ॥
1.1.22 · p. 3
metre not recognised
बहुष्वाचार्यवाक्येषु बहुशः पुनरुक्तितः ।पुनरुक्तान् विहायार्थानन्यार्थेष्वभिधास्यते ॥ २३ ॥
1.1.23 · p. 3
अनुष्टुप्
एकद्वित्रिचतुःपञ्चषट्स्वरैर्नामभिः क्रमात् ।षट् काण्डाः प्रतिकाण्डं च पञ्चाध्याया यथाक्रमात् ॥ २४ ॥
1.1.24 · p. 3
अनुष्टुप्
स्त्रीपुन्नपुंसकैर्वाच्यलिङ्गैः सङ्कीर्णलिङ्गकैः ।अनेकार्थैरकारादिक्रमोपात्तादिवर्णकैः ॥ २५ ॥
1.1.25 · p. 3
अनुष्टुप्
अस्त्रीविषयजातीनां जातिमात्रे नृता स्मृता ।अर्थे योनिमति स्त्रीत्वं पुंस्त्वं मेढ्रवति स्मरेत् ॥ २६ ॥
1.1.26 · p. 3
अनुष्टुप्
द्वे द्वयोरिति वा शब्दावस्मिन्नर्थेऽवधारयेत् ।ये तु शब्दाः प्रवक्ष्यन्ते स्थावरान्तरवाचिनः ॥ २७ ॥
1.1.27 · p. 3
अनुष्टुप्
तेषां स्वफलपुष्पेषु प्रतीयात् क्लीबलिङ्गताम् ।अस्यार्थस्य यदा क्वापि पुनरुक्तिर्भविष्यति ॥ २८ ॥
1.1.28 · p. 3
अनुष्टुप्
एतस्यैव प्रपञ्चस्य स्मरणायेति मन्यताम् ।स्त्रीपुन्नपुंसकानां ये शब्दाः स्युर्वाचकाः पृथक् ॥ २९ ॥
1.1.29 · p. 3
अनुष्टुप्
लिङ्गमाचक्ष्महे शब्दैस्तैरन्यत् परिभाष्यते ।त्रि त्रिस्त्रिष्वित्यमी शब्दा वाच्यलिङ्गस्य वाचकाः ॥ ३० ॥
1.1.30 · p. 3
अनुष्टुप्
प्रयोक्ष्यन्ते त्रिलिङ्गस्य त्रयशब्दः प्रयोक्ष्यते ।क्लीबे क्ली नबिति त्वन्तं पुनरन्तमथादि च ॥ ३१ ॥
1.1.31 · p. 4
अनुष्टुप्
अथोआदि च नेष्यन्ते पूर्वसम्बन्धभाक्तया ।अस्त्रीत्यादिनिषेधेषु नृषण्डादीतरद्वयम् ॥ ३२ ॥
1.1.32 · p. 4
अनुष्टुप्
एवं समीक्ष्य मेधावी लिङ्गं विद्यात् प्रयत्नतः ।नामज्ञानेऽप्यलिङ्गज्ञा नाद्रियन्ते हि वाग्मिभिः ॥ ३३ ॥
1.1.33 · p. 4
अनुष्टुप्
अन्त्याध्यायद्वये यत्रक्वचित् स्त्रीप्रत्ययोद्भवात् ।शब्देषु वर्णवृद्धिः स्यात् सन्महद्बृहदादिषु ॥ ३४ ॥
1.1.34 · p. 4
अनुष्टुप्
तान् पश्येत् प्रकृतेर्योग्ये स्थाने वृद्धाक्षरानपि ।सतीमहत्यंशुमतीश्रेयसीबृहतीमुखान् ॥ ३५ ॥
1.1.35 · p. 4
अनुष्टुप्
ग्रन्थप्रणयमिच्छूनां विशेषात् काव्यकारिणाम् ।उपन्यसितुमिच्छूनां विदुषां परिषत्स्वपि ॥ ३६ ॥
1.1.36 · p. 4
अनुष्टुप्
राजगोष्ठीषु शब्दार्थलिङ्गयोर्मोहसंशयात् ।विदुषां कलहे प्राप्ते जिगीषूणां मनीषिणाम् ॥ ३७ ॥
1.1.37 · p. 4
अनुष्टुप्
आदरणीयमवश्यं शास्त्रमिदं सत्पथे विवित्सूनाम् ।डिडयिषमाणानामिव पतत्त्रयुगलं पतत्त्रीणाम् ॥ ३८ ॥
1.1.38 · p. 4
आर्या
गरुडेनेव भोगीन्द्रः स्पर्धमानः पराभवेत् ।अवश्यमेतद्विदुषा बहुज्ञोऽपि वदावदः ॥ ३९ ॥
1.1.39 · p. 4
अनुष्टुप्
विद्वद्भूयिष्ठदेशेषु कश्मीरादिषु तद्विदाम् ।कृतीरदृष्ट्वा सकलाः स्वल्पकं क्रियते मया ॥ ४० ॥
1.1.40 · p. 4
अनुष्टुप्
नामाम्बुधेरपर्यन्तात् स्वशक्त्या किञ्चिदाददे ।प्रलयक्षुभिताम्भोधेरालीढे मशकः कियत् ॥ ४१ ॥
1.1.41 · p. 4
अनुष्टुप्
यदत्र मतिमान्द्येन स्खलितं संभविष्यति ।मनीषिणः क्षमन्तां तदेक एव हि सर्ववित् ॥ ४२ ॥
1.1.42 · p. 4
अनुष्टुप्
द्वन्द्वपूर्वनिपातेषु भूयोभूयः क्वचित् क्वचित् ।अन्यथाकरणं दृष्टं पौरस्त्येषु निघण्टुषु ॥ ४३ ॥
1.1.43 · p. 5
अनुष्टुप्
तच्च वृत्तानुरोधेन कृतं तैर्न प्रमादतः ।ग्रन्थगौरवभीत्यैव तच्चास्माभिः कृतं तथा ॥ ४४ ॥
1.1.44 · p. 5
अनुष्टुप्
अथ स्त्रियां बहुष्वापः सलिले छन्दसोरपि ।शताक्षरेऽष्टनवतिस्वरे ह्रीबेर एव च ॥ ४५ ॥
1.1.45 · p. 5
अनुष्टुप्
भूमेरधस्ताल्लोकेषु यत् त्विदं जलवाचिनाम् ।अतिदेशो वैजयन्त्यां मुस्ते तन्न विरोचते ॥ ४६ ॥
1.1.46 · p. 5
अनुष्टुप्
आप इत्येवमाम्नातं समाम्नाये स्वनामसु ।तत्र सन्दिह्यतेऽप्शब्दो जसन्तः किन्नु पठ्यते ॥ ४७ ॥
1.1.47 · p. 5
अनुष्टुप्
आपशब्दोऽथवा स्वन्त इति तस्यापि दृश्यते ।ऋचि प्रयोगः स यथा 'मध्य आपस्य तिष्ठति' ॥ ४८ ॥
1.1.48 · p. 5
अनुष्टुप्
तस्मादर्थतया व्योम नाप्शब्दस्येह कीर्तितम् ।ऊशब्दो रक्षणे तृप्तौ प्रीताववगतौ गतौ ॥ ४९ ॥
1.1.49 · p. 5
अनुष्टुप्
वृद्धाववाप्तौ दीप्तौ च प्रवेशे श्रवणेच्छयोः ।स्वाम्यसामर्थ्ययाच्ञासु क्रियायां भावहिंसयोः ॥ ५० ॥
1.1.50 · p. 5
अनुष्टुप्
आलिङ्गने च दहनेऽप्यर्थेष्वेकान्नविंशतौ ।अत्यन्तमप्रसिद्धत्वादेवमादि न वक्ष्यते ॥ ५१ ॥
1.1.51 · p. 5
अनुष्टुप्
ऊर्गन्नान्नरसोत्साहबलेषु स्याच्चतुर्ष्वपि ।ऋशब्दस्त्वदितौ स्वर्गेऽप्यृग्वाण्यां पद्यमात्रके ॥ ५२ ॥
1.1.52 · p. 5
अनुष्टुप्
क्ष्माशब्दो भुवि नद्यां च गिर्शब्दो वाचि योषिति ।ज्या भूमिमौर्व्योस्त्वग्गन्धद्रव्ये चर्मणि वल्कले ॥ ५३ ॥
1.1.53 · p. 5
अनुष्टुप्
त्विड्ज्वालादीप्तिशोभासु तृट् तु वाञ्छापिपासयोः ।द्वार्द्वारोपाययोरुक्ता द्योशब्दः स्वर्गनाकयोः ॥ ५४ ॥
1.1.54 · p. 5
अनुष्टुप्
धीस्तु कर्मणि बुद्धौ च धूस्तु यानमुखेऽङ्गुलौ ।भारे विकृतगीतौ च गायत्त्राह्वयसामनि ॥ ५५ ॥
1.1.55 · p. 6
अनुष्टुप्
साम्नां द्रष्टृषु चैकेषु नौर्वाक्कालतरिष्वथ ।पूर्देहे नगरे बुद्धौ भास्तु रश्मौ रुचावपि ॥ ५६ ॥
1.1.56 · p. 6
अनुष्टुप्
भूर्भूम्यां स्थानमात्रे च सौराष्ट्र्यां व्योमदेहयोः ।मा पार्वत्यां च लक्ष्म्यां च निर्लिङ्गोऽसौ निवारणे ॥ ५७ ॥
1.1.57 · p. 6
अनुष्टुप्
मृन्मृत्तिकायां भैषज्यभेदे तुवरिकाह्वये ।मृच्छब्दो जलवाच्यस्ति धान्तदान्तत्वसंशयात् ॥ ५८ ॥
1.1.58 · p. 6
अनुष्टुप्
समाम्नायसमाम्नातो निरूप्यात्र निवेश्यताम् ।रुक् प्रभाकान्तिवाञ्छासु रुक् तु स्याद्व्याधितोदयोः ॥ ५९ ॥
1.1.59 · p. 6
अनुष्टुप्
वाग्वाण्यां गौणवृत्त्या तु शब्दे वक्त्रे च केचन ।श्रीरिन्दिरायां शोभायां स्यात् संपत्तिलवङ्गयोः ॥ ६० ॥
1.1.60 · p. 6
अनुष्टुप्
प्रथमायां विभक्तौ च व्याचष्टे भगवानमूम् ।स्त्री प्रियङ्ग्वाह्वये वृक्षे वम्रीवनितयोरपि ॥ ६१ ॥
1.1.61 · p. 6
अनुष्टुप्
लग्नाच्च सप्तमे राशौ लिङ्गभेदे च शब्दगे ।स्रुक् स्रुवे शोषणे गत्यामित्यध्यायः समाप्तवान् ॥ ६२ ॥
1.1.62 · p. 6
अनुष्टुप्