कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

भूमिकाण्डः · मनुष्याध्यायः (1/2)

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां भूमिकाण्डे पशुसङ्ग्रहाध्यायः

मनुष्या मानुषा मर्त्या मनुजा मानवा नरः ।द्विपादो नहुषा गोधा व्राताः पञ्चजना नराः ॥ १ ॥
3.5.1 · p. 72
अनुष्टुप्
ब्रह्मक्षत्रियविट्शूद्रा इति वर्णाश्चतुष्टये ।उपवर्णास्तु संकीर्णा विवर्णास्त्वन्त्यजातयः ॥ २ ॥
3.5.2 · p. 72
अनुष्टुप्
एकवर्णाः सवर्णाः स्युर्हीनवर्णास्तु जंगिताः ।सवर्णं ब्राह्मणाद्राज्ञी सूते मूर्धावसिक्तकम् ॥ ३ ॥
3.5.3 · p. 72
अनुष्टुप्
वैश्यांबष्ठं निषादं तु शूद्रा पारशवश्च सः ।एते विवाहजाः पुत्रा व्यभिचारसुताः पुनः ॥ ४ ॥
3.5.4 · p. 72
अनुष्टुप्
अभिषिक्तः कुंभकारः शूलिकश्च यथाक्रमम् ।विप्रादावृतमुग्रस्त्री निषादी तु मनोजवम् ॥ ५ ॥
3.5.5 · p. 72
अनुष्टुप्
अंबष्ठकन्या त्वाभीरं खञ्जमन्तावसायिनी ।आयोगवी धिग्वनकं कुक्कुटी तु पराजकम् ॥ ६ ॥
3.5.6 · p. 72
अनुष्टुप्
भृज्जकण्ठी तु सौधातं शनकी तु बहिर्गरम् ।वैदेहकी कारुविन्दं मैत्री रन्ध्रं भटी सटम् ॥ ७ ॥
3.5.7 · p. 72
अनुष्टुप्
चण्डाली तु श्वचण्डालं शबरी तु परिच्छदम् ।कालकिञ्चं तु करणी यवनी यावशादनम् ॥ ८ ॥
3.5.8 · p. 72
अनुष्टुप्
नटी भटं खषी द्रोहं मागधी तु दमण्डकम् ।पराजकी तु सिद्गुण्डं कारुविन्दी कुविन्दकम् ॥ ९ ॥
3.5.9 · p. 72
अनुष्टुप्
रथकारी रथाश्मानमावृती तु खरुञ्चकम् ।सूता पारावतं सूते श्वपाकी पालुखंजनम् ॥ १० ॥
3.5.10 · p. 72
अनुष्टुप्
पुल्कसी भर्मिणं सूते धीवरी तीवरं ततः ।एते ब्राह्मणपुत्राः स्युर्नानायोषित्समुद्भवाः ॥ ११ ॥
3.5.11 · p. 72
अनुष्टुप्
सूतं विप्रा नृपाद्वैश्या माहिष्यं यवनश्च सः ।अश्वपण्यमनूढा सा शूद्रानूढैव शूलिकम् ॥ १२ ॥
3.5.12 · p. 73
अनुष्टुप्
उग्रमूढा निषादी तु वेणुकं कुक्कुटी कुटम् ।तीवरी महिषं वेनी रट्टासं पुल्कसी बकम् ॥ १३ ॥
3.5.13 · p. 73
अनुष्टुप्
चण्डाली रुचिटं मल्ली पल्लमुग्री झषा परम् ।श्वपाकी कलुषं सूता कीलुषं घर्घरी मिषम् ॥ १४ ॥
3.5.14 · p. 73
अनुष्टुप्
सिद्गुण्डी डिण्डिकं जल्ली भ्रकुञ्चं शनकी कचम् ।कची भ्रेणं भ्रकुञ्ची तु पागलं पागली गिलम् ॥ १५ ॥
3.5.15 · p. 73
अनुष्टुप्
एते क्षत्रियपुत्राः स्युर्नानायोषित्समुद्भवाः ।वैश्याद्वैदेहकं विप्रा क्षत्रकन्या तु मागधम् ॥ १६ ॥
3.5.16 · p. 73
अनुष्टुप्
शूद्रा तु करणं सैव जारात्कटकरं ततः ।कटकर्मा स वेनी तु वागुरं वेणुकी वटम् ॥ १७ ॥
3.5.17 · p. 73
अनुष्टुप्
अंबष्ठी कोहलं रन्ध्री घर्घरं विन्दकी भ्रषम् ।कारुविन्दी पराविद्धमुग्री वेशं कुटी मटम् ॥ १८ ॥
3.5.18 · p. 73
अनुष्टुप्
कुक्कुटी पलिनम्मेदी मालुकं मालुकी मकम् ।चण्डाली नीलिकं वाटी मेणकं करणी वशम् ॥ १९ ॥
3.5.19 · p. 73
अनुष्टुप्
रथकारी सनालिंगं वैदेही वानवासिकम् ।श्वपाकी पाणिशं मल्ली विबुकं डिण्डिकी कशम् ॥ २० ॥
3.5.20 · p. 73
अनुष्टुप्
मैत्री वाटं नटी भोलं प्रसूते कीलुषी किटम् ।घर्घरी घिर्मिणं घोलमित्येते वैश्यसूनवः ॥ २१ ॥
3.5.21 · p. 73
अनुष्टुप्
चण्डालं ब्राह्मणी शूद्रात् क्षत्रिया पारधेनुकम् ।वेलवं सैव चौर्येण वैश्या त्वायोगवं ततः ॥ २२ ॥
3.5.22 · p. 73
अनुष्टुप्
चौर्यात् सा चाक्रिकं वेनी वंशिकं फलिनी कुथम् ।निषादी कुक्कुटं भिल्ली शबरं कोहली नसम् ॥ २३ ॥
3.5.23 · p. 73
अनुष्टुप्
पुल्कसी कवटं वाटी मंजनं मालुकी मलम् ।वैदेहकी नीवलकं धीवरी कलशीनकम् ॥ २४ ॥
3.5.24 · p. 74
अनुष्टुप्
भृज्जकण्ठी कुवादुष्कं करणी कालशीनकम् ।सूता मालसुपर्णाण्डौ सैरन्ध्री रथवारकम् ॥ २५ ॥
3.5.25 · p. 74
अनुष्टुप्
नटी भ्राणञ्जकं वाटी विभण्डं द्रमिडी द्रुहम् ।कैवर्ती धीवरं रन्ध्री कलशं यवनी क्षुदम् ॥ २६ ॥
3.5.26 · p. 74
अनुष्टुप्
कारावती सुललिकं कुवादुष्की वशामखम् ।चण्डाली पाण्डुकं द्रोही छाणकं महिषी पुरम् ॥ २७ ॥
3.5.27 · p. 74
अनुष्टुप्
वरुटी रुण्डकं घोली वीलकं कवटी पुटम् ।एते शूद्रस्य पुत्राः स्युर्नानायोषित्समुद्भवाः ॥ २८ ॥
3.5.28 · p. 74
अनुष्टुप्
निषादाद्ब्राह्मणी भेकं क्षत्रिया कालकुण्डकम् ।वैश्या सूचिं हरिं शूद्रा सोऽपि चायोगवः क्वचित् ॥ २९ ॥
3.5.29 · p. 74
अनुष्टुप्
कैवर्ती बुरुलं भिल्ली शनकं शनकी रसम् ।श्वपाकी गर्मुटं घोली घर्घरं द्रमिडी कणम् ॥ ३० ॥
3.5.30 · p. 74
अनुष्टुप्
वैदेही कलशं द्रोही भ्रेणकं छाणकी लुषम् ।रथकारी मन्दुपालं मागधी मड्डुकैरिकम् ॥ ३१ ॥
3.5.31 · p. 74
अनुष्टुप्
आयोगवी तु कैवर्तं निषादान्मार्गरश्च सः ।एते निषादपुत्राः स्युर्नानायोषित्समुद्भवाः ॥ ३२ ॥
3.5.32 · p. 74
अनुष्टुप्
जालं वैदेहकाद्विप्रा क्षत्रिया रथकारकम् ।वैश्या धन्ववनं शूद्रा गैरुषं करणी कृमिम् ॥ ३३ ॥
3.5.33 · p. 74
अनुष्टुप्
अंबष्टी बेनमुग्री तु गर्गरं शनकी हनुम् ।आयोगवी तु मैत्रेयं पुल्कसी कणकुक्कुटम् ॥ ३४ ॥
3.5.34 · p. 74
अनुष्टुप्
निषादी मेदमन्ध्रन्तु सैव चेन्नान्यपूर्विका ।एते वैदेहपुत्राः स्युर्नानायोषित्समुद्भवाः ॥ ३५ ॥
3.5.35 · p. 74
अनुष्टुप्
मैत्रेयाद्ब्राह्मणी लालं क्षत्रिया जालभूषणम् ।वैश्या छण्डझटं शूद्रा निषादी लोहमालकम् ॥ ३६ ॥
3.5.36 · p. 75
अनुष्टुप्
आयोगवी तु मधुकं घाण्टिकं नान्यपूर्विका ।एते मैत्रेयपुत्राः स्युर्नानायोषित्समुद्भवाः ॥ ३७ ॥
3.5.37 · p. 75
अनुष्टुप्
विप्रा नाविकमंबष्ठादस्मिन् क्वापि श्वपाकवाक् ।वैणवं सैव माहिष्याद्रजकं पारधेनुकात् ॥ ३८ ॥
3.5.38 · p. 75
अनुष्टुप्
श्वपचं सैव चण्डालाच्चर्मकञ्चुकजीवनम् ।मागधात्ताम्रजीवं सा तक्षाणं करणादसौ ॥ ३९ ॥
3.5.39 · p. 75
अनुष्टुप्
आयोगवाच्चर्मकारं राज्ञी वार्मिकसूचकौ ।माहिष्याच्चर्मकारं सा खनकं मागधादसौ ॥ ४० ॥
3.5.40 · p. 75
अनुष्टुप्
उद्बन्धं खनकाच्छूद्रा स्पृश्यमंबरनेजकम् ।अधोनापितमंबष्ठा करणान्मत्स्यबन्धकम् ॥ ४१ ॥
3.5.41 · p. 75
अनुष्टुप्
वैश्या सामुद्रमाजीवेत् पण्यं सामुद्रमेव सः ।निषादी धिग्वनाच्चर्मकार कारावरोऽपि सः ॥ ४२ ॥
3.5.42 · p. 75
अनुष्टुप्
कारावरो निषादेन वैदेह्यामिति के चन ।वैदेही पाण्डुसोपाकं चण्डालात् कुंकणश्च सः ॥ ४३ ॥
3.5.43 · p. 75
अनुष्टुप्
आहिण्डिकं निषादात् सा कवटी तु हुरिञ्जकम् ।निष्ट्याच्छूद्रा मधुश्रेणिं शौण्डिकं मण्डहारकम् ॥ ४४ ॥
3.5.44 · p. 75
अनुष्टुप्
उग्री क्रमेलकं तस्मान्निर्णेक्ता रजकश्च सः ।सोपाकं पुल्कसी निष्ट्याच्चण्डालादिति के चन ॥ ४५ ॥
3.5.45 · p. 75
अनुष्टुप्
अन्ध्री तु शबरान्निष्ट्यं भिल्लं सा निष्ठ्यपूर्विका ।किरातं पर्णशबरी शबरान्निष्ट्यपूर्विका ॥ ४६ ॥
3.5.46 · p. 75
अनुष्टुप्
पुलिन्दपर्णशबरौ किराती निष्ट्यपूर्विका ।पुलिन्दश्वपचौ निष्ट्यात् किराती नान्यपूर्विका ॥ ४७ ॥
3.5.47 · p. 75
अनुष्टुप्
रथकारं तु माहिष्यात्करणी माहिषाडुकम् ।पुल्कसं सैव चण्डालात् किरातात्पलगण्डकम् ॥ ४८ ॥
3.5.48 · p. 76
अनुष्टुप्
चण्डालात्पुल्कसी डोंबं निषाद्यन्तावसायिनम् ।डोंबी खषं सैव निष्ट्यात् बिभेणं हड्डिकं खषी ॥ ४९ ॥
3.5.49 · p. 76
अनुष्टुप्
तीवरी धीवरात्पौण्ड्रं बर्बरं यवनादसौ ।पुल्कसात्पामरं वेनाच्छुषं डोंबाद्वराणकम् ॥ ५० ॥
3.5.50 · p. 76
अनुष्टुप्
श्वपाकं क्षत्तुरुग्रस्त्री केचिदाहुर्विपर्ययम् ।चूचुं किराती शबराद्वैदेहात्पुल्कसात् क्वचित् ॥ ५१ ॥
3.5.51 · p. 76
अनुष्टुप्
निष्ट्यात्तु वरुटी मद्गुं वल्लारन्तु किरातिका ।निषादपुल्कसाद्यास्तु पूर्वोक्ता इह नोत्तरे ॥ ५२ ॥
3.5.52 · p. 76
अनुष्टुप्
विप्रा व्रात्यात् भृज्जकण्ठमावन्त्यं विप्रपूर्विका ।अध्यूढा वाटधानं सा शैखं सा नान्यपूर्विका ॥ ५३ ॥
3.5.53 · p. 76
अनुष्टुप्
सा पुष्पवं पुष्पवती सम्यगूढा द्विजन्मना ।लिच्छिविं क्षत्रिया व्रात्याज्जल्लं सा विप्रपूर्विका ॥ ५४ ॥
3.5.54 · p. 76
अनुष्टुप्
व्रात्यपूर्वा तु सा मल्लं क्षत्रपूर्वा तु सा नटम् ।प्राक्प्रसूतस्वजातिः सा वरुटं करणश्च सः ॥ ५५ ॥
3.5.55 · p. 76
अनुष्टुप्
सा वैश्यपूर्वा द्रमिडं शूद्रपूर्वा तु सा खषम् ।वैश्या व्रात्यात् सुधन्वानमाचार्यं विप्रपूर्विका ॥ ५६ ॥
3.5.56 · p. 76
अनुष्टुप्
सुधन्वाचार्य एको वा मैत्रं सा वैश्यपूर्विका ।शूद्रपूर्वा द्विजन्मानं सात्त्वतं क्षत्रपूर्विका ॥ ५७ ॥
3.5.57 · p. 76
अनुष्टुप्
अपूर्वा भारुषं कारुं ब्रह्मक्षत्रविशाममी ।व्रात्यानां क्रमशः पुत्राः शूद्रा व्रात्याच्छ्वकण्टकम् ॥ ५८ ॥
3.5.58 · p. 76
अनुष्टुप्
कुर्वन्त्यनुपनीता ये विवाहं ब्राह्मणादयः ।व्रात्या व्राताश्च ते सर्वे तत्सुताश्चावृतासु ये ॥ ५९ ॥
3.5.59 · p. 76
अनुष्टुप्
अवरेटः सवर्णायां जाराज्जातः सवर्णकात् ।पत्यौ जीवति कुण्डोऽसौ भर्तर्यसति गोलकः ॥ ६० ॥
3.5.60 · p. 77
अनुष्टुप्
अविवाह्यासु जाताश्च तथा स्युः कुण्डगोलकाः ।ये च प्रव्रजितापुत्रास्तथा प्रव्रजितस्य ये ॥ ६१ ॥
3.5.61 · p. 77
अनुष्टुप्
क्षत्रकुण्डः पट्टबन्धो भोजः क्षत्रियगोलकः ।देवप्रैष्यो विप्रकुण्डो ग्रामप्रैष्यस्तु गोलकः ॥ ६२ ॥
3.5.62 · p. 77
अनुष्टुप्
मणिकारो वैश्यकुण्डः शंखकारस्तु गोलकः ।शूद्रकुण्डो मालवको घासहारस्तु गोलकः ॥ ६३ ॥
3.5.63 · p. 77
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 मा (wrong syllable)
एषां लक्षणसिद्ध्यर्थं केषां चिद्वृत्तिरुच्यते ।उक्ता प्रागेव केषां चिन्नाम्ना केषां चिदूह्यते ॥ ६४ ॥
3.5.64 · p. 77
अनुष्टुप्
मूर्धावसिक्तः सेनेशो धनुर्वेद्यस्त्रधारकः ।मणिमन्त्रौषधिज्ञश्च सोंऽबष्ठो यानशिक्षया ॥ ६५ ॥
3.5.65 · p. 77
अनुष्टुप्
चिकित्सागणितज्योतिर्ज्ञानी स्यादभिषिक्तकः ।अंबष्ठो भृज्जकण्ठोऽस्य चिकित्सा शस्त्रसाधना ॥ ६६ ॥
3.5.66 · p. 77
अनुष्टुप्
कक्ष्याजीवात्स दौः षन्तो निषादो ध्वजघोषणात् ।कुंभकारो भाण्डवृत्तिरेष स्यादूर्ध्वनापितः ॥ ६७ ॥
3.5.67 · p. 77
अनुष्टुप्
नाभेरूर्ध्वं वपन् पुंसां सूतकप्रेतकादिषु ।चित्रमर्द्दलनृत्तज्ञः कालीं पारशवोऽर्चयेत् ॥ ६८ ॥
3.5.68 · p. 77
अनुष्टुप्
शूलिको दण्डयेद्दण्ड्यान् शूलारोपादिकर्मणा ।निषादो मृगघातात्स माहिष्यो नृत्तगीतवित् ॥ ६९ ॥
3.5.69 · p. 77
अनुष्टुप्
स एव मंकुशोऽथासौ निषादः सस्यरक्षया ।जीवन् सवर्णो नक्षत्रैः सोंऽबष्ठो वैद्यशास्त्रवित् ॥ ७० ॥
3.5.70 · p. 77
अनुष्टुप्
महानर्मा च मद्गुश्च स श्रेष्ठी वैश्यवृत्तितः ।अश्वपण्यस्त्वाश्विकाख्यः सोऽश्वव्यापारजीवनः ॥ ७१ ॥
3.5.71 · p. 77
अनुष्टुप्
उग्रो दण्ड्यान्दण्डयेत्स दौः षन्तो मत्स्यघातनात् ।निषादो व्यालादिवधाद्यवनः कुञ्जरग्रहात् ॥ ७२ ॥
3.5.72 · p. 78
अनुष्टुप्
पुरो धावन् पारशवो राज्ञः शस्त्रञ्च धारयन् ।धनान्तःपुररक्षश्च शूलिकः शूलिकोपमः ॥ ७३ ॥
3.5.73 · p. 78
अनुष्टुप्
करणो लेखको राज्ञां वारकः शकनामकः ।चूचुकः शाकतांबूलक्रमुकादिकविक्रयात् ॥ ७४ ॥
3.5.74 · p. 78
अनुष्टुप्
रथकारो निधिप्रश्नद्यूतापणनिरूपणात् ।रथकारो व्यालमृगहिंसावृत्तिरिति क्वचित् ॥ ७५ ॥
3.5.75 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
उग्रः पारशवो दुर्गधनान्तःपुरपालनात् ।अन्वर्थः स्यात् कटकरो द्वादशैतेऽनुलोमजाः ॥ ७६ ॥
3.5.76 · p. 78
अनुष्टुप्
इतिहासपुराणज्ञः सूतो देवांश्च पूजयेत् ।सूत ऊढासुतः पक्ता स्थानालंकरणादिकृत् ॥ ७७ ॥
3.5.77 · p. 78
अनुष्टुप्
सोऽनूढाजो रथाश्वानां वाहको रथकारकः ।वैदेहकस्य स्त्रीरक्षा स वन्दी स्तुतिजीवनात् ॥ ७८ ॥
3.5.78 · p. 78
अनुष्टुप्
मौकल्यो रामको वस्त्रस्यूतिरञ्जनजीवनात् ।मागधोऽसावनूढाजो जंघाकरिकवृत्तिकः ॥ ७९ ॥
3.5.79 · p. 78
अनुष्टुप्
वाप्याद्यवतरेच्छुध्यै क्षालयेन्मलिनांबरम् ।वणिक्पथे मागधस्य वाग्भी राजप्रबोधनम् ॥ ८० ॥
3.5.80 · p. 78
अनुष्टुप्
चूचुको वेधनेनासौ स वन्दी स्तुतिकर्मणा ।वैतालिको बोधनया वेणुवीणादिवादनैः ॥ ८१ ॥
3.5.81 · p. 78
अनुष्टुप्
धीवरो मार्गसंत्राणाद्रामको दौत्यजीवनात् ।आयोगवः पुल्कसश्च स वासःकांस्यजीवनात् ॥ ८२ ॥
3.5.82 · p. 78
अनुष्टुप्
चौर्याज्जातः पुलिन्दोऽसौ स हन्ता दुष्टसत्त्वकान् ।चण्डालो झल्लरीकक्षो वर्द्ध्रीकण्ठो मलं हरेत् ॥ ८३ ॥
3.5.83 · p. 78
अनुष्टुप्
स्यात्पारधेनुको वेनो गोधादिवधबन्धकृत् ।स निषादो मत्स्यघातान्मद्गुराघोषणेन सः ॥ ८४ ॥
3.5.84 · p. 79
अनुष्टुप्
क्षत्ता दौत्यद्वारपाल्यात् पुल्कसो मद्यविक्रयात् ।पेलवः पुनरस्पृश्यो जंभको नृत्तगानवित् ॥ ८५ ॥
3.5.85 · p. 79
अनुष्टुप्
आयोगवस्तैजसकृद्भ्रमकृन्मणिवेधकृत् ।स तक्षा तक्षणाज्जीवन् स्थपतिर्नगराधिकृत् ॥ ८६ ॥
3.5.86 · p. 79
अनुष्टुप्
अन्तावसायी वपनान्मागधश्चित्रकर्मणा ।स वैदेहः पाशुपाल्यात्तद्रसानाञ्च विक्रयात् ॥ ८७ ॥
3.5.87 · p. 79
अनुष्टुप्
पुल्कसस्तान्तवेनासौ चाक्रिकस्तैलविक्रयात् ।लवणक्रीतकोऽसौ स्याल्लवणस्यैव विक्रयात् ॥ ८८ ॥
3.5.88 · p. 79
अनुष्टुप्
एवमेकादश प्रोक्ता वर्णानां प्रतिलोमजाः ।गोधादिवधबन्धास्तु हरीणां पुल्कसाश्च ते ॥ ८९ ॥
3.5.89 · p. 79
अनुष्टुप्
रथकारो वास्तुवृत्तिरिज्याधानोपनीतिमान् ।आवृतानान्तु हस्त्यश्वस्यन्दनेष्वधिकारिता ॥ ९० ॥
3.5.90 · p. 79
अनुष्टुप्
शूर्पच्छत्रादिकर्माणि सूचीनां ते च पुल्कसाः ।कैवर्तानां पक्षिपशुमृगघातनजीवनम् ॥ ९१ ॥
3.5.91 · p. 79
अनुष्टुप्
अन्ध्राणान्तु गृहद्वाररथ्यावस्करशोधनम् ।मेदानां चक्रवृत्तित्वं विण्मूत्रग्रहणोज्झनम् ॥ ९२ ॥
3.5.92 · p. 79
अनुष्टुप्
आहिण्डिकानां कारासु बहिः स्थित्वाभिरक्षणम् ।मेदान्ध्रचूचुमद्गूनामारण्यपशुहिंसनम् ॥ ९३ ॥
3.5.93 · p. 79
अनुष्टुप्
मैत्रेयकः प्रशंसेन्नॄन् घण्टाताडोऽरुणोदये ।पारावरश्छत्रधरो दीपधृद्वाहको नृणाम् ॥ ९४ ॥
3.5.94 · p. 79
अनुष्टुप्
कुर्यादासनरक्षाञ्च चर्मच्छेदनसीवनम् ।कुक्कुटानां शस्त्रकृती राज्ञां कुक्कुटखेलनम् ॥ ९५ ॥
3.5.95 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
मागधादपि शूद्रायां कुक्कुटो नाम जायते ।योऽन्वेष्टोद्यानवप्रादेर्वैश्याज्जातोऽपि कुक्कुटः ॥ ९६ ॥
3.5.96 · p. 80
अनुष्टुप्
निषाद्यां तन्तुवायोऽसौ वृक्षच्छेदावरोपकृत् ।धिग्वनानां तु कार्मार्यं वेनानां भाण्डवादनम् ॥ ९७ ॥
3.5.97 · p. 80
अनुष्टुप्
वेणः कुशीलवश्चासौ लंघनप्लवनादिभिः ।वेणो राज्ञीसुतोऽप्युग्रान्मायासम्मोहनादिकत् ॥ ९८ ॥
3.5.98 · p. 80
अनुष्टुप्
वैदेह्यंबष्ठजो वेनो नाट्यरंगावतारकृत् ।आभीराणां जीवधनं कूटानामश्मतक्षणम् ॥ ९९ ॥
3.5.99 · p. 80
अनुष्टुप्
नौवाहो मार्गरो नद्यां नाविकस्त्वब्धिनौगमः ।शैखोऽभिचारं कुर्वीत कार्मणं भृज्जकण्ठकः ॥ १०० ॥
3.5.100 · p. 80
अनुष्टुप्
मन्त्रौषधैर्द्विषत्सेनां वशी कुर्वीत पुष्पवः ।आवन्त्यो वाटधानश्च स्वसेनाचित्तवृत्तिवित् ॥ १०१ ॥
3.5.101 · p. 80
अनुष्टुप्
व्रात्याः क्षत्रसुताः शत्रुकोशमन्त्रादिवेदिनः ।खषाणां तोयाहरणं द्रमिलानां प्रपाकृतिः ॥ १०२ ॥
3.5.102 · p. 80
अनुष्टुप्
नटानां करणानाञ्च चारवृत्तिः स्फुटास्फुटा ।भारुषस्त्वर्चयेन्मातॄः श्मशानादि चतुष्पथम् ॥ १०३ ॥
3.5.103 · p. 80
अनुष्टुप्
सुधन्वाचार्य ईशानं शाक्यचैत्यादि मैत्रकः ।भूतप्रेतपिशाचांस्तु विजन्मा सूतिवेश्म च ॥ १०४ ॥
3.5.104 · p. 80
अनुष्टुप्
सात्त्वतः पूजयेद्विष्णुमुक्तो भागवतश्च सः ।संति भागवताश्चान्ये ब्राह्मणा भगवत्पराः ॥ १०५ ॥
3.5.105 · p. 80
अनुष्टुप्
श्वकण्टकस्य शूद्रादि मालवस्याश्वपालनम् ।वैणवीं पाण्डुसोपाकः सोपाको मूलवृत्तिकः ॥ १०६ ॥
3.5.106 · p. 80
अनुष्टुप्
श्मशानचेलरक्षादिवृत्तयोंऽतावसायिनः ।वनश्मशानरक्षा तु चण्डालांतावसायिनाम् ॥ १०७ ॥
3.5.107 · p. 80
अनुष्टुप्
गरानलप्रयोगाश्च प्रोच्यन्ते दस्युजातयः ।ब्राह्मणस्य त्रयः पुत्रा वर्णस्त्रीष्वनुलोमजाः ॥ १०८ ॥
3.5.108 · p. 81
अनुष्टुप्
शूद्रस्य च त्रयः पुत्रास्तास्वेव प्रतिलोमजाः ।त्रयस्त्रयः क्षत्रविशोः प्रतिलोमानुलोमजाः ॥ १०९ ॥
3.5.109 · p. 81
अनुष्टुप्
एते द्वादश वर्णानां पुत्रा एकैकशस्तु ते ।चातुर्वर्ण्ये प्रसूयन्ते चतुरश्चतुरः सुतान् ॥ ११० ॥
3.5.110 · p. 81
अनुष्टुप्
ते चत्वारिंशदष्टौ च पूर्वैर्द्वादशभिः सह ।ब्राह्मणाद्यैश्चतुर्भिश्च चतुष्षष्टिर्हि जातयः ॥ १११ ॥
3.5.111 · p. 81
अनुष्टुप्
ते सर्वे दस्यवो दोषैश्चौर्याद्यैः सद्बहिष्कृताः ।आसाविकस्तु सैरिन्ध्रो दस्योरायोगवीसुतः ॥ ११२ ॥
3.5.112 · p. 81
अनुष्टुप्
दस्यूनां बहुजातित्वाद्बह्व्यः सैरिन्ध्रजातयः ।प्रसाधनोपचारज्ञा मृगादिवधजीवनाः ॥ ११३ ॥
3.5.113 · p. 81
अनुष्टुप्
शाकपुष्पफलानाञ्च विक्रेतारो बहिष्कृताः ।राजस्त्रीणां सूतिकानां द्वार्स्थाः प्रेतांबरावृताः ॥ ११४ ॥
3.5.114 · p. 81
अनुष्टुप्
विक्रेतारः सुरां कृत्वा सैरिन्ध्राः स्युर्यथोचितम् ।दस्युम्लेच्छगणानान्तु कृषिशस्त्रोपजीवनम् ॥ ११५ ॥
3.5.115 · p. 81
अनुष्टुप्
म्लेच्छाः स्युर्विप्रकृष्टा ये म्लेच्छवाचो वनौकसः ।कार्या क्षत्रुग्रवैदेहैरन्या वृत्तिरगर्हिता ॥ ११६ ॥
3.5.116 · p. 81
अनुष्टुप्
मेदान्ध्रैर्गर्हिता वृत्तिरनुक्ताः कुलवृत्तयः ।तत्रापि मातृकीं वृत्तिं गर्हितामनुलोमजाः ॥ ११७ ॥
3.5.117 · p. 81
अनुष्टुप्
भजेरन् प्रतिलोमास्तु पैतृकं कर्म गर्हितम् ।अनुलोमा निकृष्टायामुत्कृष्टादुद्भवन्ति ये ॥ ११८ ॥
3.5.118 · p. 81
अनुष्टुप्
प्रतिलोमा विपर्यस्ता व्रात्यास्तत्प्रतिलोमजाः ।अनुलोमप्रातिलोम्यादान्तरालिकसंज्ञिताः ॥ ११९ ॥
3.5.119 · p. 81
अनुष्टुप्
वर्णमात्रानुलोमा ये षट् तेऽपशदसंज्ञिताः ।षडपध्वंसजा ये स्युर्वर्णानां प्रतिलोमजाः ॥ १२० ॥
3.5.120 · p. 82
अनुष्टुप्