कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पातव्य

pātavya

In 3 kośas: 0 synonym verses, 4 as a meaning of another word.

पातव्य as a meaning in nānārtha verses

  • कोषकल्पतरु पेयपेयं तु पातव्यजलार्थकः स्या- च्छ्राणाच्छमण्डार्थकमीरितं स्त्री । स्थेयो विवादस्य पदे प्रदिष्टो निर्णेतरि स्याच्च पुरोहिते च ॥ ८ ॥ Koṣakalpataru 6.26.8
  • नानार्थार्णवसंक्षेप पेयापेटा दास्यां स्त्रियामेव पेया तु विरलात्मनि । यवाग्वां त्रिस्तु पातव्ये रक्षितव्येऽथ नृस्त्रियोः ॥ ८१६ ॥ Nānārthārṇavasaṃkṣepa 2.5.816
  • नानार्थार्णवसंक्षेप पानीयत्रिः पातव्येऽथ पादातं क्लीबं स्यात् पत्तिसंहतौ । पदातिसम्बन्धिनि तु त्रिः पदातौ च कीर्तितः ॥ ११३१ ॥ Nānārthārṇavasaṃkṣepa 4.1131
  • शब्दरत्नावली पानीयपानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46