कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

नानालिङ्गाध्यायः (10/18)

पर्कटी तु स्त्रियां प्लक्षे द्वे तु कङ्काख्यपक्षिणि ।स्त्री(द्वे?त्वे) तु रभसेनोक्ता पूगादेर्नूतने फले ॥ १०८१ ॥
4.1081 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्ली तु पूगफलेऽथो ना पर्पटीऽपूपभेदके ।भेषजस्तम्बभेदे च पर्पटी तु स्त्रियामियम् ॥ १०८२ ॥
4.1082 · p. 142
अनुष्टुप्
भवेद्दारुहरिद्रायामाढकीसंज्ञमृद्यपि ।पण्डितस्तु द्वयोर्ज्ञेयः स्यान्मृगे सूकराकृतौ ॥ १०८३ ॥
4.1083 · p. 142
अनुष्टुप्
रभसस्तु नरि प्राह निर्यासे सिल्हकाह्वये ।त्रि तु स्याद्विदुषि स्त्री तु पतिघ्नी कन्यकान्तरे ॥ १०८४ ॥
4.1084 · p. 142
अनुष्टुप्
वैधव्यलक्षणोपेते त्रि तु हन्तर्यमानुषे ।पत्युः स्यात् प्लवगस्तु द्वे कपौ भेकेऽप्यथ द्वयोः ॥ १०८५ ॥
4.1085 · p. 142
अनुष्टुप्
प्लवङ्गः स्यात् कपौ भेकेऽप्यथ स्यात् प्लवको द्वयोः ।कपौ भेकेऽप्यथ द्वे स्यात् प्लवङ्कः कपिभेकयोः ॥ १०८६ ॥
4.1086 · p. 142
अनुष्टुप्
पन्नगस्त्वोषधीभेदे पुमान् द्वे तु भुजङ्गमे ।प्रवालस्त्वस्त्रियां वृक्षपल्लवस्याङ्कुरे भवेत् ॥ १०८७ ॥
4.1087 · p. 142
अनुष्टुप्
नवपल्लव इत्यन्ये वीणादण्डेऽपि विद्रुमे ।प्रलम्बस्तु पुमान् दैत्यविशेषे च लताङ्कुरे ॥ १०८८ ॥
4.1088 · p. 142
अनुष्टुप्
प्रलम्बने तु नृस्त्री स्यात् प्रलम्बितरि तु त्रिषु ।प्रधानं साङ्ख्यतत्त्वे क्ली प्रकृत्याख्येऽजयः पुनः ॥ १०८९ ॥
4.1089 · p. 142
अनुष्टुप्
परमात्मनि बुद्धौ च महामात्रेऽप्यधीतवान् ।मुख्ये मुख्ये पुनः केचित् विभाषा त्रि तु मन्वते ॥ १०९० ॥
4.1090 · p. 142
अनुष्टुप्
प्रतापिनि प्रचण्डस्त्रिर्ना श्वेतकरवीरके ।प्रकाण्डस्त्वस्त्रियां मूलस्कन्धयोरन्तरे तरोः ॥ १०९१ ॥
4.1091 · p. 143
अनुष्टुप्
प्रशस्तेऽप्यजयस्त्वाह विटपेऽथ प्रकाशवाक् ।पुंस्यर्चिषि च दीप्तौ च तुल्येऽपि त्रि स्फुटेऽपि च ॥ १०९२ ॥
4.1092 · p. 143
अनुष्टुप्
प्रक्षरं क्ली तुरङ्गादेः सन्नाहे प्रखराह्वये ।त्रिषु त्वतिक्षरितरि प्रखरस्त्वस्त्रियामयम् ॥ १०९३ ॥
4.1093 · p. 143
अनुष्टुप्
प्रक्षरे त्रिस्त्वतिखरे खलेऽथ प्रवरस्तु ना ।कृष्णमुद्गेऽब्धिलवणे पुनः क्ली त्रि तु सत्तमे ॥ १०९४ ॥
4.1094 · p. 143
अनुष्टुप्
प्रतीकोऽवयवे ना त्रिः प्रतिकूलानुरूपयोः ।प्रग्रीवमस्त्री कलशे ग्रीवाप्रासादयोरपि ॥ १०९५ ॥
4.1095 · p. 143
अनुष्टुप्
प्रकरस्ततपुष्पादौ स्यात् प्रकीर्णसमूहयोः ।क्लीबं त्वगुरुसंज्ञे स्याद् गन्धद्रव्येऽथ पुंस्ययम् ॥ १०९६ ॥
4.1096 · p. 143
अनुष्टुप्
प्ररूढो यवभेदे स्यान्महायव इति श्रुते ।त्रिस्तु प्राप्तप्ररोहेऽथ प्रत्यूषोऽस्त्री प्रभातके ॥ १०९७ ॥
4.1097 · p. 143
अनुष्टुप्
प्रत्यूषितरि तु त्रिः स्यात् प्रसूतं त्वभिधेयवत् ।स्यात् कृतप्रसवे जाते प्ररिते कुसुमे तु नप् ॥ १०९८ ॥
4.1098 · p. 143
अनुष्टुप्
सारथौ तु पुमांस्त्री तु प्रसूता सूतिमत्स्त्रियाम् ।प्रतिभस्तु पुमान्नाट्यप्रसिद्धे स्याद्विदूषके ॥ १०९९ ॥
4.1099 · p. 143
अनुष्टुप्
स्त्रियां तु प्रतिभासे स्यात् प्रतिभा भेद्यवत् पुनः ।प्रतिभातर्यथ पुमान् दत्तस्य तु नपुंसकम् ॥ ११०० ॥
4.1100 · p. 143
अनुष्टुप्
प्रसभं स्याद्बलात्कारे ना तु वेगे त्रिषु त्वयम् ।स्यात् प्रकृष्टसभादौ च प्रवणस्तु चतुष्पथे ॥ ११०१ ॥
4.1101 · p. 143
अनुष्टुप्
ना त्रि तु क्रमनिम्नोर्वीतले प्रह्वेऽप्यथो पुमान् ।वणिग्गृहे स्यात् पणिको याज्ञिकानां तु विश्रुते ॥ ११०२ ॥
4.1102 · p. 143
अनुष्टुप्
पुरोडाशस्य प्रथने नप्यथ प्रहितोऽस्त्रियाम् ।मुद्गादिभित्तनिर्वृत्ते सूपेऽथ प्रेषिते त्रिषु ॥ ११०३ ॥
4.1103 · p. 144
अनुष्टुप्
प्रमथा स्त्री हरीतक्यां हरपारिषदे नरि ।पनसः कण्टकिफलसंज्ञवृक्षे पुमान् स्मृतः ॥ ११०४ ॥
4.1104 · p. 144
अनुष्टुप्
रभसस्त्वाह शब्दज्ञः कण्टकेऽपि स्त्रियां पुनः ।रोगभेदेऽथ वृक्षस्य पनसस्य फले नपि ॥ ११०५ ॥
4.1105 · p. 144
अनुष्टुप्
प्रद्युम्नो मन्मथे पुंसि प्रकृष्टद्युम्नके त्रिषु ।प्रसृता तु स्त्रियां जङ्घासंज्ञाङ्गे पुन्नपोः पुनः ॥ ११०६ ॥
4.1106 · p. 144
अनुष्टुप्
द्विमुष्टिकेऽर्धकुडुंबमाने स्याद्वेणुपर्पटे ।निकुब्जपाणौ च त्रिस्तु वेगिते विस्तृतेऽपि च ॥ ११०७ ॥
4.1107 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
प्रदोषस्तु पुमान् दोषे रात्रे प्रथमयामके ।त्रिस्तु प्रकृष्टदोषादौ प्रमदा तु स्त्रिया स्त्रियाम् ॥ ११०८ ॥
4.1108 · p. 144
अनुष्टुप्
स्त्रीविशेषे परे प्राहू रभसस्तूत्तमस्त्रियाम् ।ना तु हर्षे समासार्थलिङ्गान्यूह्यानि नप् पुनः ॥ ११०९ ॥
4.1109 · p. 144
अनुष्टुप्
प्रच्छन्नमन्तर्द्वारे स्याद् गृहस्यच्छादिते पुनः ।त्रिषु प्रभिन्नस्तु पुमान् मत्तहस्तिन्यथ त्रिषु ॥ १११० ॥
4.1110 · p. 144
अनुष्टुप्
विदारिते प्रसन्ना तु स्त्री सुरायामथ त्रिषु ।अनाविलेऽथ प्रसवोन्मुखायां सुरभौ स्त्रियाम् ॥ ११११ ॥
4.1111 · p. 144
अनुष्टुप्
प्रस्तुता प्रकृते तु त्रि प्रथमं तु त्रिषु स्मृतम् ।आद्यप्रधानयोः स्त्री तु प्रथमा प्रतिपत्तिथौ ॥ १११२ ॥
4.1112 · p. 144
अनुष्टुप्
आद्यायां च विभक्तौ च स्यात् पुनस्तिङ्विभक्तिषु ।आदितस्त्रितये पुंसि प्रथनस्तु पुमानयम् ॥ १११३ ॥
4.1113 · p. 144
अनुष्टुप्
मुद्गे क्लीबं तु विसृतावना तु स्याद्विसारणे ।प्रकाशनायां प्रथना क्लीबं तु प्रधनं युधि ॥ १११४ ॥
4.1114 · p. 144
अनुष्टुप्
त्रिः प्रकृष्टधने ना तु पदाजि(द्यु?र्यु)द्धमार्गयोः ।त्रिस्तु स्यात् पदगेऽथादौ प्रभृतिः स्यात् स्त्रियामियम् ॥ १११५ ॥
4.1115 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
त्रि तु प्रकृष्टभृत्यादौ पर्णसिस्तु पुमानयम् ।उलूखले बहुत्वे च शाकादौ चाथ शब्दवित् ॥ १११६ ॥
4.1116 · p. 145
अनुष्टुप्
धनञ्जयः शाकवर्य इत्याह क्ली तु वारिणि ।प्रदाकुस्तु द्वयोर्व्याघ्रे भेकाजगरयोरपि ॥ १११७ ॥
4.1117 · p. 145
अनुष्टुप्
प्रस्तोता तु पुमान् ऋत्विग्भेदे साम्नो हि गातरि ।प्रस्तावभक्तेः प्रस्तावकरे तु त्रिर्द्वयोः पुनः ॥ १११८ ॥
4.1118 · p. 145
अनुष्टुप्
परभृद्वायसे (स्त्री तु?त्रिस्तु) परभर्तरि ना पुनः ।पथिकृद्वर्त्महोमाग्नौ त्रि तु मार्गस्य कर्तरि ॥ १११९ ॥
4.1119 · p. 145
अनुष्टुप्metre not read in every line
अथ त्रिषु पयस्वत् स्यात् पयस्विन्यथ सा स्त्रियाम् ।पयस्विनी निशानद्योः प्रजावत् तु त्रि सप्रजे ॥ ११२० ॥
4.1120 · p. 145
अनुष्टुप्
स्त्री तु प्रजावती भ्रातृभार्यायां वैजयन्तिके ।पुनः पताकी त्रि स्त्री तु सेनायां स्यात् पताकिनी ॥ ११२१ ॥
4.1121 · p. 145
अनुष्टुप्
प्रलोभशीले तु त्रिः स्यात् प्रलोभी स्यात् तु पुंस्ययम् ।किङ्कराताह्वये पुष्पस्तम्बे प्रत्यर्थिवाक् तु ना ॥ ११२२ ॥
4.1122 · p. 145
अनुष्टुप्
शत्रौ स्याद्भेद्यलिङ्गं तु प्रतियोगिनि ना पुनः ।पलाशी पादपे द्वे तु राक्षसे भेद्यवत् पुनः ॥ ११२३ ॥
4.1123 · p. 145
अनुष्टुप्
मासादिनि प्रसत्वा तु वायौ नाथ प्रसत्वरी ।मातरि प्रतिपत्तौ च स्त्री प्ररीत्वा तु मारुते ॥ ११२४ ॥
4.1124 · p. 145
अनुष्टुप्
पुमांस्त्री तु विधिज्ञायां स्त्रियां ज्ञेया प्ररीत्वरी ।प्रचेता वरुणे वह्नौ ना त्रिस्तूत्कृष्टचेतसि ॥ ११२५ ॥
4.1125 · p. 145
अनुष्टुप्
प्राकाशस्तु पुमाञ्ज्ञेयः कुण्डलाभरणे त्रि तु ।प्रकाशसम्बन्धिनि हि प्राणदस्तु चिकित्सके ॥ ११२६ ॥
4.1126 · p. 146
अनुष्टुप्
ना प्राणस्य पुनस्त्रि स्याद् दातरि प्राणदा पुनः ।हरीतक्यामृद्धिनाम्न्यामोषधौ च नपि त्वदः ॥ ११२७ ॥
4.1127 · p. 146
अनुष्टुप्
प्रालम्बमृजुलम्बिन्यां कण्ठात् स्यात् कुसुमस्रजि ।स्त्री तु प्रालम्बिका स्वर्णललन्त्यामथ पार्थिवः ॥ ११२८ ॥
4.1128 · p. 146
अनुष्टुप्
पुमान्नृपे त्रिषु पुनः पृथिव्यां विदिते तथा ।पृथिव्याश्च विकारे स्यादिदमर्थादिकेऽपि च ॥ ११२९ ॥
4.1129 · p. 146
अनुष्टुप्
तत्र स्त्र्यर्थे यदा वृत्तिः पार्थिवा पार्थिवीति च ।रूपद्वयं तथा ज्ञेयं पानीयं तु जले नपि ॥ ११३० ॥
4.1130 · p. 146
अनुष्टुप्
त्रिः पातव्येऽथ पादातं क्लीबं स्यात् पत्तिसंहतौ ।पदातिसम्बन्धिनि तु त्रिः पदातौ च कीर्तितः ॥ ११३१ ॥
4.1131 · p. 146
अनुष्टुप्
पादपस्तु पुमान् वृक्षे पादपीठेऽप्यथ स्त्रियाम् ।पादपा पादुकायां स्यात् पादरक्षे तु भेद्यवत् ॥ ११३२ ॥
4.1132 · p. 146
अनुष्टुप्
सहस्रदंष्ट्रसंज्ञे तु पाठीनो द्वे झषान्तरे ।गुल्गुलौ तु नृलिङ्गः स्यादित्याह रभसः कविः ॥ ११३३ ॥
4.1133 · p. 146
अनुष्टुप्
पारदः पारते कैश्चित् कथितः पुंसि भूम्नि तु ।उदीच्यनीवृद्भेदे स्युस्त्रि तु पारस्य दातरि ॥ ११३४ ॥
4.1134 · p. 146
अनुष्टुप्
प्राणकस्तु प्राणिनि त्रि ना तु स्याज्जीवकद्रुमे ।पायसोऽस्त्री दुग्धसिद्ध ओदने पुंसि तु स्मृतः ॥ ११३५ ॥
4.1135 · p. 146
अनुष्टुप्
श्रीवेष्टाह्वयनिर्यासे पयःसम्बन्धिनि त्रिषु ।पारुष्यस्तु पुमानुक्तो गीष्पतौ रभसेन वै ॥ ११३६ ॥
4.1136 · p. 146
अनुष्टुप्
परुषत्वे शक्रवने तेनैव क्लीबमीरितम् ।पांसुला तु स्त्रियां भूमौ कुलटोदक्ययोस्त्रि तु ॥ ११३७ ॥
4.1137 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
पांसुमत्यथ नब्लिङ्गमूषजे लवणे त्रि तु ।पांसुजः पांसुजातेऽथ द्वयोः पालूर इत्ययम् ॥ ११३८ ॥
4.1138 · p. 147
अनुष्टुप्
दूतेऽन्ध्रराज्यनगरभेदे क्लीबमथो नपि ।रक्तोत्पले पाणिकं ना त्वशीतो पणनामनि ॥ ११३९ ॥
4.1139 · p. 147
अनुष्टुप्
कपर्दानां पावनं तु प्रायश्चित्ते जले च नप् ।त्रि तु स्यात् पावयितरि पवितर्यप्यथो नपि ॥ ११४० ॥
4.1140 · p. 147
अनुष्टुप्
सोमोन्माने याज्ञिकानां पाटकस्त्वस्त्रियामयम् ।ग्रामा(र्थे?र्धे)* त्रि पटितरि तथा पाटयितर्यपि ॥ ११४१ ॥
4.1141 · p. 147
metre not recognisednearly अनुष्टुप्
पाटलस्तु पुमानाशुसंज्ञव्रीह्यन्तरे भवेत् ।श्वेतलोहितसम्मिश्रवर्णभेदेऽथ तद्वति ॥ ११४२ ॥
4.1142 · p. 147
अनुष्टुप्
त्रि स्त्री तु तद्वर्णाख्यायां पाटला पाटलिद्रुमे ।पुष्पे तु तस्य नप् स्त्री स्यात् पाटलं पाटलेति च ॥ ११४३ ॥
4.1143 · p. 147
अनुष्टुप्
पात्रटस्तु कृशे त्रि स्यात् कर्परे तु पुमानयम् ।पाण्डुरं क्ली मरुवके शुक्ले ना तद्वति त्रिषु ॥ ११४४ ॥
4.1144 · p. 147
अनुष्टुप्
पालकस्तु पुमान् हस्तिशिरोमध्यस्य पार्श्वयोः ।गजज्वरे द्वयोस्त्वश्वे क्ली तु कुष्ठाख्यभेषजे ॥ ११४५ ॥
4.1145 · p. 147
अनुष्टुप्
पाचलो राधनद्रव्ये पुमान् स्यात् पचने तु नप् ।पारिन्दस्तु पुमान् वृक्षे गाथके त्वभिधेयवत् ॥ ११४६ ॥
4.1146 · p. 147
अनुष्टुप्
पालिकस्तु पुमान् वृक्षे नृपतौ चाथ भेद्यवत् ।गाथके रक्षके मुख्ये पूज्ये चाप्यथ पालुकः ॥ ११४७ ॥
4.1147 · p. 147
अनुष्टुप्
लधुवाचिनि सूपे ना स्यादध्वर्यौ च स त्रिषु ।सूपकारे पार्वतस्तु पुमान्निम्बद्रुमे त्रि तु ॥ ११४८ ॥
4.1148 · p. 148
अनुष्टुप्
स्यात् पर्वतभवादौ स मनुष्ये स्त्री तु पार्वती ।उमायामाढकीसंज्ञमृद्देदे रभसः पुनः ॥ ११४९ ॥
4.1149 · p. 148
अनुष्टुप्
गोपालपत्त्रिकायां च गजभक्ष्याख्यभूरुहे ।पातकस्त्वस्त्रियां पापे त्रिस्तु पातयितर्यपि ॥ ११५० ॥
4.1150 · p. 148
अनुष्टुप्
पतितर्यप्यथ स्त्री स्यात् पादिका मन्दिरस्य या ।अल्पा स्थूणा भवेत् तस्याः त्रिस्तु पत्तर्यथो भवेत् ॥ ११५१ ॥
4.1151 · p. 148
अनुष्टुप्
पाटलिः पाटलासंज्ञपुष्पवृक्षे नरस्त्रियोः ।विवाहार्थे पुनः शङ्खपात्रे स्यात् पाटली स्त्रियाम् ॥ ११५२ ॥
4.1152 · p. 148
अनुष्टुप्
प्रियकस्तु पुमान् वृक्षे कदम्बाख्येऽसनद्रुमे ।फलाध्यक्षाह्वये चापि फलिनीसंज्ञके तथा ॥ ११५३ ॥
4.1153 · p. 148
अनुष्टुप्
तेषां तु प्रसवे क्लीबं मृगभेदे तु स द्वयोः ।तस्य लक्षणमप्युक्तं मृगज्ञैः पूर्वसूरिभिः ॥ ११५४ ॥
4.1154 · p. 148
अनुष्टुप्
घनैर्मृदूच्चमसृणै रोमभिश्चापि संयुतः ।नीलपाण्डररेखावाञ्छ्वेतचन्द्रक एव वा ॥ ११५५ ॥
4.1155 · p. 148
अनुष्टुप्
इत्येवमथ पुंसि स्यात् पिङ्गलः कमलासने ।ऋषिभेदे रवेः पारिपार्श्विकान्यतमेऽपि च ॥ ११५६ ॥
4.1156 · p. 148
अनुष्टुप्
रभसस्त्वाह वह्नौ च मुकुन्दे च बहुश्रुतः ।पिशङ्गवर्णे च त्रिस्तु तद्वति स्त्री तु पिङ्गला ॥ ११५७ ॥
4.1157 · p. 148
अनुष्टुप्
दिग्गजान्यतमस्य स्यात् करिण्यां च जलौकसाम् ।षण्णामन्यतमायां स्यान्निर्विषाणामिति स्मृतिः ॥ ११५८ ॥
4.1158 · p. 148
अनुष्टुप्
शरीरनाडिभेदे च पक्षिजात्यन्तरेऽपि च ।महाभारतविख्यातवेश्याभेदे च भाषितः ॥ ११५९ ॥
4.1159 · p. 148
अनुष्टुप्
ब्रह्मरीतिसमाख्ये च लोहभेदे नपि त्वदः ।ह्रीबेरे द्वे तु मार्जारे नकुले मर्कटेऽप्यथ ॥ ११६० ॥
4.1160 · p. 149
अनुष्टुप्
पिनाकोऽस्त्री महादेवचापे शूलाह्वयायुधे ।रजोवर्षे च दण्डे च पिण्याकस्त्वस्त्रियामयम् ॥ ११६१ ॥
4.1161 · p. 149
अनुष्टुप्
श्रीपिष्टाख्ये च निर्यासे कुङ्कुमे हिङ्गुकिण्वयोः ।तुरुष्काख्ये च निर्यासे यवानीतिलकल्कयोः ॥ ११६२ ॥
4.1162 · p. 149
अनुष्टुप्
पिशाचस्तु द्वयोर्दैवजातिभेदेऽथ भेद्यवत् ।उन्मादिनीत्यय चार्थः शाकटायनभाषितः ॥ ११६३ ॥
4.1163 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
पियालस्तु पुमाज्ञेयः सन्नकद्रुरिति श्रुते ।राजादनाख्यवृक्षे स्याद् क्ली तु तत्प्रसवेऽथ सा ॥ ११६४ ॥
4.1164 · p. 149
अनुष्टुप्
द्राक्षायां स्यात् पियालाथ पिशितं स्यान्नपुंसकम् ।मांसे स्त्रियां तु मास्या स्यात् पिण्डिलस्तु पुमानयम् ॥ ११६५ ॥
4.1165 · p. 149
अनुष्टुप्
मेघे हिमे तु क्ली त्रिस्तु गणके पिण्डितस्तु ना ।तुरुष्कसंज्ञनिर्यासे त्रिस्तु स्याद्गणिते घने ॥ ११६६ ॥
4.1166 · p. 149
अनुष्टुप्
पिण्डिकस्तु पुमान् गेहावयवेऽलिन्दसंज्ञके ।पिण्डिका तु स्त्रियां नाभौ रथचक्रस्य हस्तिनः ॥ ११६७ ॥
4.1167 · p. 149
अनुष्टुप्
पादावयवभेदे च जङ्घापिण्डेऽथ पिञ्जरम् ।हरिताले भवेत् क्लीबं मिश्रवर्णान्तरे तु ना ॥ ११६८ ॥
4.1168 · p. 149
अनुष्टुप्
पीतरक्ते तद्वति तु त्रिष्वथो पिशुनस्त्रिषु ।खलसूचकयोहर्षनन्दी त्वेनमवोचत ॥ ११६९ ॥
4.1169 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
मन्त्रभेदे कवचने परेषां चापवादिनि ।क्लीबं तु कुङ्कुमे रूपे कपिवक्त्रे त्वभाषत ॥ ११७० ॥
4.1170 · p. 149
अनुष्टुप्
रभसः शब्दविच्छ्रेष्ठः पिशुना तु स्त्रियामियम् ।स्पृक्कायां स्यात् पिशीलं तु क्लीबमसद्वयान्तरे ॥ ११७१ ॥
4.1171 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
पिशीली तु स्त्रियां वीणाभेदे त्रिषु तु पिच्छिलः ।पिच्छाख्यगुणसंयुक्ते विजिलाख्ये स्त्रियां पुनः ॥ ११७२ ॥
4.1172 · p. 150
अनुष्टुप्
पिच्छिला शिंशपायां च पोतक्यां शल्मलावपि ।सिन्धुभेदे च रभसः कीर्तयामास ना पुनः ॥ ११७३ ॥
4.1173 · p. 150
अनुष्टुप्
पिच्छोलः सरलाभिख्यतरौ कटविशेषके ।कटोलसंज्ञे वंशे च वीणाभेदे तु सा स्त्रियाम् ॥ ११७४ ॥
4.1174 · p. 150
अनुष्टुप्
पिच्छोला ना तु पिच्छूलो राशौ लिङ्गत्रये पुनः ।पिच्छूली स्यात् तृणस्तम्बे पिप्पलं तु जले नपि ॥ ११७५ ॥
4.1175 · p. 150
अनुष्टुप्
वस्त्रच्छेदप्रभेदे च सूचीसूत्रेऽपि चूचुके ।वृक्षाणां च फले ना तु स्यादश्वत्थेऽथ पिप्पली ॥ ११७६ ॥
4.1176 · p. 150
अनुष्टुप्
हस्तिनः कर्णमूले च कणायां च स्त्रियामियम् ।मृज्यमानेति वर्गस्य सामभेदे च सप्तमे ॥ ११७७ ॥
4.1177 · p. 150
अनुष्टुप्
इमां निरङ्गुले पक्षिभेदे च रभसोऽब्रवीत् ।पिदारस्तु क्षपणके नृलिङ्गः परिकीर्तितः ॥ ११७८ ॥
4.1178 · p. 150
अनुष्टुप्
द्वयोस्तु विद्याद्गोपे च महिषीरक्षकेऽपि च ।पिप्परस्तु पुमान् वृक्षभेदे स्यात् स्त्री तु पिप्परी ॥ ११७९ ॥
4.1179 · p. 150
अनुष्टुप्
अन्यत्र पिप्परा वृक्षभेदे स्यात् पिठरं तु नप् ।मन्थानदण्डेऽपि प्राह रभसः शब्दवित्तमः ॥ ११८० ॥
4.1180 · p. 150
अनुष्टुप्
मुस्तके पिठरी तु स्यात् स्थाल्यां स्त्री शण्डलिङ्गकः ।स्थाल्यां तूक्त्वा पृथग्ब्रूत उखायां शाकटायनः ॥ ११८१ ॥
4.1181 · p. 150
अनुष्टुप्
पित्तलं त्वारसंज्ञे क्ली लोहभेदे स्त्रियां पुनः ।पित्तला तोयपिप्पल्यां त्रिस्तु पित्तकरे भवेत् ॥ ११८२ ॥
4.1182 · p. 150
अनुष्टुप्
प्रियङ्गुस्तु फलिन्यां स्त्री कङ्गुधान्ये च नप् पुनः ।कुङ्कुमे पीवरं त्वेतत् स्थूले स्याद्भेद्यलिङ्गकम् ॥ ११८३ ॥
4.1183 · p. 151
अनुष्टुप्
शतावरीति विख्याता यौषधिस्तत्र पीवरी ।स्त्रियामथ पुमाञ्ज्ञेयः पीतनः पादपान्तरे ॥ ११८४ ॥
4.1184 · p. 151
अनुष्टुप्
आम्रातकाख्ये क्लीबं तु हरितालेऽपि कुङ्कुमे ।पीनसस्तु प्रतिश्याये नाऽथ मण्डलिसंज्ञिनाम् ॥ ११८५ ॥
4.1185 · p. 151
अनुष्टुप्
षड्विंशतेः सर्पजातिभेदानां स्याद्द्वयोरयम् ।एकत्र भेदेऽथ क्लीबं पुराणं पञ्चलक्षणे ॥ ११८६ ॥
4.1186 · p. 151
अनुष्टुप्
ग्रन्थभेदे पुमांस्तु स्यात् कार्षिके त्रिश्चिरन्तने ।यदा तत्र स्त्रियां वृत्तिः पुराणा च पुराण्यपि ॥ ११८७ ॥
4.1187 · p. 151
अनुष्टुप्
रूपद्वयं तदाऽथ स्याद् विमाने धनदस्य हि ।पुष्पकोऽस्त्री द्वयोस्तु स्याद् द्वादशानां तु भोगिनाम् ॥ ११८८ ॥
4.1188 · p. 151
अनुष्टुप्
निर्विषाणामेकजातौ त्रिषु पुष्पितरि स्मृतः ।पुष्पाढ्यस्तु स्वयं शीर्णपुष्पमूलफलाशने ॥ ११८९ ॥
4.1189 · p. 151
अनुष्टुप्
व्रतिभेदे त्रिषु पुनः समृद्धे कुमुमैरथ ।पुल्कसः स्याद्द्वयोर्मर्त्यजातिभेदे यदुद्भवः ॥ ११९० ॥
4.1190 · p. 151
अनुष्टुप्
करण्यामपि चण्डालात् क्षत्त्रियायां च शूद्रतः ।पुष्करं करिहस्ताग्रे जले वाद्यमुखे युधि ॥ ११९१ ॥
4.1191 · p. 151
अनुष्टुप्
खेऽब्जे दिव्यसिधारायां तीर्थभेषजभेदयोः ।पटहे मुरवे त्वन्ये पुमांस्त्वौर्वे च मारुते ॥ ११९२ ॥
4.1192 · p. 151
अनुष्टुप्
शेषे च शोभने तु स्याद् भेद्यलिङ्गमिति स्मरेत् ।पुष्कलं भेद्यवच्छुद्धे प्रभूते शोभनेऽप्यथ ॥ ११९३ ॥
4.1193 · p. 151
अनुष्टुप्
भिक्षाचतुष्टये च स्यादृषिभेदे च पुंस्ययम् ।मुष्ट्यष्टकाष्टके तु क्ली तथा वान्यहिरण्ययोः ॥ ११९४ ॥
4.1194 · p. 151
अनुष्टुप्
पुरुषस्तु द्वयोर्मर्त्ये ना तु जन्तौ सशेफके ।पुन्नागवृक्षे द्रुहिणे क्षेत्रज्ञे साङ्ख्यवेदिनि ॥ ११९५ ॥
4.1195 · p. 152
अनुष्टुप्
पुलिन्दस्तु द्वयोर्मर्त्यजातिभेदेऽस्य लक्षणम् ।किरात्यां निष्ट्यपूर्वायां शबराज्जात इत्यदः ॥ ११९६ ॥
4.1196 · p. 152
अनुष्टुप्
निष्ट्यादनन्यपूर्वायां किरात्यां जनितेऽपि च ।पुन्नागस्तु पुमान् पूज्यपुरुषे पुङ्गजे तथा ॥ ११९७ ॥
4.1197 · p. 152
अनुष्टुप्
पुंसर्पे च तथा वृक्षे देववल्लभसंज्ञके ।क्ली तु तत्प्रसवेऽथो ना पुलको रोमहर्षणे ॥ ११९८ ॥
4.1198 · p. 152
अनुष्टुप्
रत्नभेदे च खड्गादिस्थितास्वणुषु राजिषु ।रभसस्त्वाह गल्वर्कमणिदोषप्रभेदयोः ॥ ११९९ ॥
4.1199 · p. 152
अनुष्टुप्
हरितालेऽप्यथ द्वे स्यात् कृमिभेदेऽथ शब्दवित् ।शाकटायन आह स्म स्वशास्त्रे पुरुटः पुमान् ॥ १२०० ॥
4.1200 · p. 152
अनुष्टुप्