कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · यान्ताः

॥ इति मान्तादिवर्गः ॥

एकयाः ।

यः सर्वनामानिलदण्डभृत्सुस्त्रियां तु लक्ष्म्यां जननीधरित्र्योः ।द्युरह्नि वह्नौ त्रिदिवे पुमान्स्याद्-द्यौस्तु स्त्रियां स्वर्गसुराध्वनोश्च ॥ १ ॥
6.26.1 · p. 286
उपजातिः

द्वियाः ।

जयो जयन्ते विजये नरि स्या-ज्जया भवान्यामरणिद्रुमे च ।तिथेर्विशेषे गिरिजासखीषुहरीतकीनामसु च प्रदिष्टः ॥ २ ॥
6.26.2 · p. 286
उपेन्द्रवज्रा
प्राकारमूले निकरे चयः स्यात्समाहृतौ चाथ नयश्च नीतौ ।द्यूतप्रभेदे जनके शयस्तुनिद्राहिशय्याकरवाचकश्च ॥ ३ ॥
6.26.3 · p. 286
उपजातिः
भयं तु घोरे कथितं च भीतौकुब्जप्रसूनेऽथ मयस्तथोष्ट्रे ।स्याद्दैत्यतक्ष्ण्यश्वतरे लयस्तुसंश्लेषतौर्यत्रिकसाम्ययोश्च ॥ ४ ॥
6.26.4 · p. 286
उपजातिः
तथा विलासेऽद्भुतगर्वयोस्तुस्मयोऽपि गेयोऽपि[35a]च गायनेऽपि ।क्षयो निवासेऽपि च राजरोगेकल्पान्तकालेऽपचये, प्रियस्तु ॥ ५ ॥
6.26.5 · p. 286
उपजातिःmetre not read in every line
धवे मनोज्ञे त्रिषु वृद्धिवल्ल्यांस्त्रियां स्वभावे तु तनौ च कायः ।संघे च लक्ष्ये परवत्कदैवेक्लीबे नृतीर्थेऽप्यथ सायमस्त्री ।प्रियो धवे सुन्दरवाचकश्चवृद्ध्यौषधौ मानवतीर्थके तु ।देहे च शङ्खे निकरे च कायोलक्ष्येऽपि सायं तु दिनान्तवाचि ॥ ६ ॥
6.26.6 · p. 287
उपजातिः
काण्डेऽपि दायस्तु विभाज्यवित्तेसोल्लुण्ठवाक्ये युतकोत्थवित्ते ।दानेऽथ बाहुल्यसदृक्षयोः स्यात्प्रायस्तथैवानशने च मृत्यौ ॥ ७ ॥
6.26.7 · p. 287
इन्द्रवज्रा
पेयं तु पातव्यजलार्थकः स्या-च्छ्राणाच्छमण्डार्थकमीरितं स्त्री ।स्थेयो विवादस्य पदे प्रदिष्टोनिर्णेतरि स्याच्च पुरोहिते च ॥ ८ ॥
6.26.8 · p. 287
इन्द्रवज्रा
पीयुस्तु काले च रवौ ययुस्तुक्रत्व[श्व]चेष्टासु [हये]मयुस्तु ।[तु]रङ्गवक्त्रेऽथ मखे च मन्युःक्रोधे च दैन्ये च तथा प्रदिष्टः ॥ ९ ॥
6.26.9 · p. 287
उपजातिः
मृत्युर्द्वयोः स्यान्मरणे च दैवेदस्युस्तु [35b]चौरेऽपि सपत्नवाची ।जन्युर्हुताशे द्रुहिणेऽङ्गिनि स्या-द्वन्यं वनोत्थे वनचारिवृन्दे ॥ १० ॥
6.26.10 · p. 287
इन्द्रवज्राmetre not read in every line
स्त्रियां च जन्यस्तु वधूवराणांज्ञातौ च तातेऽथ रणे च हट्टे ।स्वकान्तभृत्यस्य हिते च षण्ढेस्त्रियां प्रमोदे जननीसखीषु ॥ ११ ॥
6.26.11 · p. 287
उपजातिः
न स्त्री परीवादगतं विशेष्य-लिङ्गं भवेत्तज्जननीयवाचि ।शून्यं च रिक्ते विजने स्त्रियां तुनाल्यां विशेष्ये तु शुने हिते स्यात् ॥ १२ ॥
6.26.12 · p. 288
इन्द्रवज्रा
अन्यस्तु भिन्ने त्रिषु वा समानेपाद्यं तु पादार्हजले च निन्द्ये ।पूज्यस्तु वन्द्ये श्वशुरे स हार्योविभीतके वाच्यसमस्तु हार्ये ॥ १३ ॥
6.26.13 · p. 288
उपजातिः
मायस्तु पीताम्बरदेवयोः स्यात्स्त्री शाम्बरीबुद्धिदयासु दम्भे ।न पुंसि वीर्याऽतिशयप्रभावेशुक्रे तथा तेजसि संप्रदिष्टा ॥ १४ ॥
6.26.14 · p. 288
उपजातिः
वैश्ये तथा स्वामिनि चार्य उक्तोहेतौ फले कार्यमुशन्ति सन्तः ।सूर्यो रवावौषधिसूर्यपत्न्योः ।सूर्या [तु] शौर्यं किल शक्तिवाची ॥ १५ ॥
6.26.15 · p. 288
इन्द्रवज्रा
तथार[36a]भट्यां मदने तु वर्यःपतिंवरायां तु भवेत्स्त्रियां सः ।त्रय्यां वरेण्ये कमठे तु दम्भेगुह्योऽप्युपस्थे रहसि द्वयोनः ॥ १६ ॥
6.26.16 · p. 288
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 त (wrong syllable); pāda 2, syllable 1 प (wrong syllable)
पत्न्यां तु भार्या नरि बाहुजे स्यात्सह्यस्तु शैले त्रिषु सोढुमर्हे ।गृह्यं पुरीषाध्वनि चास्वतन्त्रे-ऽन्यवत्स्वपक्षे च गृहोद्भवे च ॥ १७ ॥
6.26.17 · p. 288
उपजातिः
छेकेषु शाखानगरे पुनः स्त्रीयोग्यः प्रवीणे त्रिषु योगकार्हे ।शक्तेऽथ ऋद्ध्यौषधिवाचकः स्त्रीव्यासार्कदाराभ्यसनेषु तद्वत् ॥ १८ ॥
6.26.18 · p. 289
इन्द्रवज्रा
भाग्यं नियत्यां च शुभादिकृत्यांपाक्यं विडे स्यादपि यावशूके ।पथ्यं हिते स्यात्त्रिषु योषिति स्या-द्धरीतकीनामनि चापणे तु ॥ १९ ॥
6.26.19 · p. 289
उपजातिः
स्याद्वर्त्तनीचत्वरवाचकश्चरथव्रजे स्त्री भवतीह रथ्या ।रथोद्वहे तु त्रिषु चार्थ्यमन्त्येशिलाजतुन्यर्थयुते च युक्ते ॥ २० ॥
6.26.20 · p. 289
उपजातिः
बुधेऽन्यवत्स्याद्रतबन्धके तुग्राम्यं तथाश्लीलगतं जने च ।सौम्यो बुधे ना परवत्त्वनुग्रेमनोहरे स्याच्छशिदेवताके ॥ २१ ॥
6.26.21 · p. 289
उपजातिः
संबोधनीये [36b] सलिले तु षण्ढेप्रकीर्तितो योषिति चेल्वलासु ।रम्यो भवेच्चम्पकवाचको नारात्रौ स्त्रियां स्यात्त्रिषु सुन्दरे च ॥ २२ ॥
6.26.22 · p. 289
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 प्र (wrong syllable)
संख्या विचारे गदिता तथैक-त्वादौ रणे तु प्रथिता द्वयोना ।लग्नेऽधमे च त्रिषु मध्यमन्त्येन्याय्येऽवकाशेऽपि च लग्नकेऽस्त्री ॥ २३ ॥
6.26.23 · p. 289
इन्द्रवज्रा
मेध्यं शुचौ मेदुर आश्रमे चसाध्यो नरि स्याद्गणदैवते च ।योगेऽन्यवत्साधयितुं तथार्हे-ऽथाघ्न्यः प्रजापत्यबलार्थको ना ॥ २४ ॥
6.26.24 · p. 289
इन्द्रवज्रा
स्त्री स्त्रीगवी तु प्रथिताथ वन्ध्योऽफलेऽप्रसूतप्रमदासु वन्ध्या ।स्याच्छ्वेतजीरे चरमेऽत्र हृद्यंविशेष्यवद्धृद्भवहृत्प्रियार्थम् ॥ २५ ॥
6.26.25 · p. 290
उपजातिः
वशत्वकृद्वेदमनौ तु पुंसिस्त्रियां तु वृद्ध्याह्वय औषधे च ।प्रश्नेऽद्भुते चोद्यमुशन्ति षण्ढेविशेष्यवत्प्रेरणवाचकं च ॥ २६ ॥
6.26.26 · p. 290
उपजातिः
श्लोके तु पद्यं पथि योषिति स्यात्पुमांस्तु शूद्रे पदवेधके तु ।दृश्यं पदं यत्र च तत्र भेद्येबन्ध्यस्तु पूज्ये हठतोधृतेऽपि ॥ २७ ॥
6.26.27 · p. 290
उपजातिः
पुण्यं मनोज्ञे सुकृ[37a]ते च पूतेऽन्यवद्भवेद्धिष्ण्यमुडौ च [गे] हे ।स्थाने च शक्तावनले तु पुंसिशल्यं तु न स्त्री किल शङ्कुवाचि ॥ २८ ॥
6.26.28 · p. 290
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 ऽन्य (wrong syllable)
शरे च वंशादिकवंशिकायांक्ष्वेडेऽन्तिमे तोमरवाचकश्च ।छिद्रेऽवधौ मद्रपतौ तु पुंसिगालद्रुमे श्वाविधि तद्वदुक्तः ॥ २९ ॥
6.26.29 · p. 290
उपजातिः
कल्यं प्रभाते गतवासरे चसज्जे तु दक्षे त्रिषु रोगमुक्ते ।वाक्कर्णहीने मदिरागतस्तुन पुंसि कल्याणगतं तु योषित् ॥ ३० ॥
6.26.30 · p. 290
उपजातिः
बल्यं तु रेतस्यथ भेद्यलिङ्गंकुल्यं तु न स्त्री मतमस्थिवाचि ।शूर्पेऽष्टकद्रोणिगतं च मांसेपयःप्रणा[ली]सरितो नसि(?) स्त्री ॥ ३१ ॥
6.26.31 · p. 291
उपजातिः
जीवन्तिकायामथ मूल्यमाहुःवस्ने भृतौ चाथ विलेपभित्त्योः ।कुड्यं च धान्यं तु किलाल्लकायां ( ? )व्रीहौ सुपुण्ये तु परत्र धन्यः ॥ ३२ ॥
6.26.32 · p. 291
इन्द्रवज्रा
स्त्री त्वामलक्यां ** निल्लकार्थे ( ? )काव्यः पुमान्दैत्यगुरौ प्रदिष्टः ।षण्ढे कवेः स्याद्रसवत्प्रबन्धेस्त्री पूतनायां गदितश्च बुद्धौ ॥ ३३ ॥
6.26.33 · p. 291
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 5 क्यां (syllables merged)
न पुंसि चव्या चविको [37b]ग्रगन्धा-बाष्पीषु गव्यं त्रिषु गोहितं यत् ।क्षीरादिकेऽन्यत्र गवां नपुंसिज्यायां तथा रागकपेयभेदे ॥ ३४ ॥
6.26.34 · p. 291
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 न (wrong syllable)
स्त्रीगोसमूहे द्रविणे तु द्रव्यंभ्वादौ विनेयेऽपि च पित्तले च ।तथौषधे स्यादपि जातुषे चतरोर्विकारे चरमे सदैव ॥ ३५ ॥
6.26.35 · p. 291
उपेन्द्रवज्राmetre not read in every line
भव्यं तु सत्ये कुशलेऽन्यवत्तुयोग्ये तथा भाविनि संप्रदिष्टम् ।पुमांश्च नारङ्गतरौ स्त्रियां तुभवेद्भवान्यां च गजाह्वयायाम् ॥ ३६ ॥
6.26.36 · p. 291
उपजातिः
दिब्यं लवङ्गे द्युभवेऽन्यवत्स्यात्स्त्रियां भवेदामलकीगतं तत् ।उशीरके सेव्यमुशन्ति षण्ढेसेवोचिते तु त्रिषु संप्रदिष्टम् ॥ ३७ ॥
6.26.37 · p. 291
उपजातिः
गोप्यस्तु दासीतनयेऽन्यवत्तुरक्षोचिते, सव्यमुशन्ति वामे ।तथा प्रतीपेऽथ फले गुणे चसस्यं च रूप्यं रजतेऽन्त्यलिङ्गे ॥ ३८ ॥
6.26.38 · p. 292
उपजातिः
तारे तथा हेमनि चाहते स्यात्प्रशस्तरूपे तु विशेष्यलिङ्गम् ।इभ्यस्तथाढ्ये त्रिषु, सल्लकीभ्यःस्त्रियां च लभ्यं तु किलोचिते स्यात् ॥ ३९ ॥
6.26.39 · p. 292
उपजातिः
लब्धव्यवा[38a]चि त्रितयेऽप्यथार्घ्यम्अर्घार्हयोग्यार्थकमन्यलिङ्गम् ।सत्यं तु तथ्ये शपथे कृते त-द्युक्तेऽन्यवत्पुंसि तु लोकभेदे ॥ ४० ॥
6.26.40 · p. 292
इन्द्रवज्राmetre not read in every line
चित्यं तु चैत्ये मृतके चितायांस्त्रियां च चैत्यो नरि बुद्धवाची ।उद्देशवृक्षे चरमे तु बिम्बेस्थानेऽथ दैत्यो नरि दानवे स्यात् ॥ ४१ ॥
6.26.41 · p. 292
उपजातिः
चण्डौषधौ स्त्री सतते ध्रुवे चनित्यं पराभं प्रवदन्ति सन्तः ।भृत्यस्तु दासे भृतिवाचकं स्त्रीचान्त्योऽधमे चान्तभवे पराभः ॥ ४२ ॥
6.26.42 · p. 292
इन्द्रवज्रा
वेश्यं तु वेशस्य गृहे स्त्रियां तुवाराङ्गनायां, वदने तथास्यम् ।स्याद्वक्रमध्ये स्थितिवाचकं स्त्रीलास्यं तु तौर्यत्रिकनाट्ययोः स्यात् ॥ ४३ ॥
6.26.43 · p. 292
इन्द्रवज्रा
दम्यं त्रिषु स्याद्दमितेऽनृतेऽन्त्ये (?)कश्यं तु मद्ये हयमध्यके च ।त्रय्यां कशार्हेऽप्यथ वाद्यपान-पात्रान्तरे कांस्यमनादिलिङ्गम् ॥ ४४ ॥
6.26.44 · p. 292
इन्द्रवज्रा
स्यात्तैजसद्रव्यविशेषके चमत्स्यो विराटे नरि राशिभेदे ।मीने तथा यादवमुख्यके चतिष्यस्तु पुष्ये कलिनामकश्च ॥ ४५ ॥
6.26.45 · p. 293
इन्द्रवज्रा
स्त्री त्वामलक्यां [38b] मिथुने तु पुष्योभे त्वामलक्यां गदितः स्त्रियां च ।दूष्यं तु वस्त्रेऽपि च वस्त्रगेहेस्याद्दूषणीये परवत्स्त्रियां तु ॥ ४६ ॥
6.26.46 · p. 293
इन्द्रवज्राmetre not read in every line
कक्ष्यार्थके स्यादथ वीक्ष्यमाहु-र्दृश्ये तथा विस्मयवाचकं च ।पुमांस्तुरङ्गेऽपि च नर्तकेऽथतार्क्ष्यः सुपर्णे गरुडाग्रजे च ॥ ४७ ॥
6.26.47 · p. 293
उपजातिः
स्यादश्वकर्माख्यतरौ तुरङ्गेरसाञ्जने तु प्रथितो द्वयोनः ।लक्ष्यं शरव्ये कपटे तु न स्त्रीसंख्यासु नाट्ये भरणीषु याम्या ॥ ४८ ॥
6.26.48 · p. 293
उपजातिः
स्याद्दक्षिणस्यां नरि कुम्भयोनौपटीरवृक्षेऽथ नरीज्य उक्तः ।बृहस्पतौ संगमवाचकश्चस्त्रियां तु दाने मखपूजयोश्च ॥ ४९ ॥
6.26.49 · p. 293
उपजातिः
व्रज्या भवेत्पर्यटने च वर्गेस्यात्प्रस्थितौ, तल्पगता तु शय्या ।शब्दस्य गुम्फेऽथ कुमारिकायांकन्या च नार्यौषधिराशिषु स्यात् ॥ ५० ॥
6.26.50 · p. 293
इन्द्रवज्रा
स्यादुत्तरासङ्गगृहप्रकोष्ठ-काञ्चीषु कक्ष्या गजमध्यबन्धे ।कृत्यं तु कार्ये मतमप्रिये चतव्यादिषु स्त्री भिदि देवतायाः ॥ ५१ ॥
6.26.51 · p. 294
इन्द्रवज्रा
व्याधेऽद्रिभेदे गदित[39a]श्च विन्ध्यःस्त्रियां लवल्यामवधौ तु सन्ध्या ।चिन्ताप्रतिज्ञाकुसुमान्तरेषुपितृप्रसूसन्धिसरिद्गता च ॥ ५२ ॥
6.26.52 · p. 294
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 8 त (wrong syllable)
छायातपाभावरविस्त्रियोस्त्विट्-शोभासु पङ्क्तौ प्रतिबिम्बके च ।त्राणे च लञ्चेऽथ चिकित्सनेहा-रम्भोपदेशार्चननिश्चयेषु ॥ ५३ ॥
6.26.53 · p. 294
इन्द्रवज्रा
कर्मण्युपाये निकृतौ कृतौ चक्रिया त्रयी तु त्रितये त्रिवेद्याम् ।बुद्धौ पुरन्ध्र्यामथ वैद्यमाहुःसर्वज्ञरोगप्रतिकारिणोश्च ॥ ५४ ॥
6.26.54 · p. 294
उपजातिः

त्रियाः ।

कौरव्यौ तु कुरोर्गोत्रापत्यतत्तनयौ द्विजौ ।एवं श्वाफल्कवाशिष्ठबैदाः स्युः पितृपुत्रयोः ॥ ५५ ॥
6.26.55 · p. 294
अनुष्टुप्
विजयस्तु धनंजये जयेगिरिजायां च तिथौ स्त्रियां भवेत् ।विनयः प्रणतौ च शिक्षणेत्विह योषिद्विषयस्तु गोचरे ॥ ५५ ॥
6.26.55 · p. 294
वियोगिनी
नरि रूपरसादिदेशयोःजनवासेऽधिगते प्रबन्धके ।अनयो व्यसने विपद्यपिप्रथितश्चाशुभदैववाचकः ॥ ५६ ॥
6.26.56 · p. 294
वियोगिनी
निजपृष्ठबलेऽपि संनयःसमवाये प्रण[39b]यस्तु हार्द्दके ।अपि विश्वसने च याचनेप्रसरे तद्वदुदीरितो बुधैः ॥ ५७ ॥
6.26.57 · p. 295
वियोगिनीmetre not read in every line
वलयः करकङ्कणे गणेगदितोऽस्त्री नरि कण्ठरुग्भिदि ।मलयस्तु वने च कृत्रिमेगिरिभेदेऽपि धरांशदेशयोः ॥ ५८ ॥
6.26.58 · p. 295
वियोगिनी
न च योषिति स स्त्रियां पुनःत्रिवृति स्यादथ विस्मयोऽद्भुते ।अपि गर्वगतेऽथ मृत्युवाचीप्रलयः कल्पविराममूर्च्छिते च ॥ ५९ ॥
6.26.59 · p. 295
वियोगिनीmetre not read in every line
अभयं नलदे हरीतकी-विषये स्त्री परवत्तु निर्भये ।हृदयं मनसां ह (?) वक्षसिप्रथमाद्रावुदयस्तथोन्नतौ ॥ ६० ॥
6.26.60 · p. 295
वियोगिनी
विश्वासे शपथे प्रसिद्धिविलयो रन्ध्रे त[था] कारणेज्ञानाचारविधीयमानविषयेऽधीने तथा प्रत्ययः ।दण्डोत्पातविनाशदोष उदितः कृच्छ्रे तथातिक्रमेविद्वद्भिर्गदितोऽत्ययोऽथ हृदयाकूताश्रयेष्वाशयः ॥ ६१ ॥
6.26.61 · p. 295
शार्दूलविक्रीडितम्
आचारे शपथे मतौ च समयः सिद्धान्तनिर्देशयोःभाषायां कृतिकारके निगदितः सङ्केतवाची तथा ।काले योषिति [40a]नाथ लक्षगृहयोरेकार्थमाजिव्रजेस्यादेकीकरणे च संहतिमतां तद्वत्परात्मन्यपि ॥ ६२ ॥
6.26.62 · p. 295
शार्दूलविक्रीडितम्metre not read in every line
आहुः पुंसि निकायमप्यथ गृहे पद्मे निकाय्यो व्रजेतार्क्ष्ये किं च परात्मनीह कथितोऽथ क्षेत्रियः सम्मतः ।क्षेत्रोद्भूततृणेऽन्यदारनिरते साध्येतरस्मिन्गदेनिर्यासे तु विलेपने च तुवरेऽप्यस्त्री कषायोऽपि च ॥ ६३ ॥
6.26.63 · p. 295
शार्दूलविक्रीडितम्
स्याच्छोणे सुरभौ भवेत्स परगोऽथाम्नाय उक्तः श्रुता-वभ्यासेऽपि च संततौ निगदितो ज्ञैः संप्रदायेऽपि च ।स्थाने पक्षिनिकेतने च गदितो विज्ञैः कुलायस्तथाऽथोपायो नरि सामभेदविषये चोपागतौ सम्मतः ॥ ६४ ॥
6.26.64 · p. 296
शार्दूलविक्रीडितम्
पर्यायोऽवसरे क्रमेऽर्थविवृतौ निर्माणवाची तथासंस्त्यायस्तु समूहविस्तृतिगृहे स्यात्संनिवेशे स्थितौ ।अन्तर्द्धौ सुरते व्यवाय उदितस्तेजोर्थकस्त्वव्ययं ।शालेयं शतपुष्पिकौषधभिदि क्षेत्रे च शाल्यर्हके ॥ ६५ ॥
6.26.65 · p. 296
शार्दूलविक्रीडितम्
शैलेयं लवणेऽम्बुधेश्च मुशलीक[न्दे]तथा शैलजेभृङ्गे पुंस्यथ जाह्नवीतनुजनौ गाङ्गेय उक्तः पुमान् ।मुस्तायां कनके कशेरुणि भवेदन्त्येऽथ चामीकरेचाम्पेयं नरि नागकेसरगतं स्याच्चम्पके केसरे ॥ ६६ ॥
6.26.66 · p. 296
शार्दूलविक्रीडितम्
कालेयो दनुजेऽन्तिमे तु समयाकृत्यामथ स्यात् खरेस्याद्भाङ्गर्यां च मृदौ हिते तु बलये भेद्याभलिङ्गो भवेत् ।आत्रेयो मुनिभेदके च मलिनीनद्योः स्त्रियां स्यादथोपानीयं जलपेययोरथ भवेदैणेयमेणीभवे ॥ ६७ ॥
6.26.67 · p. 296
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
स्यात्स्त्रीणां रतबन्धभिद्यथ हयौघेऽश्वीयमन्त्ये हिते ।त्वश्वेभ्यः परवच्च, रेतसि पुनः श्रोत्रादिके चेन्द्रियम् ।शिश्नेऽन्त्ये च जघन्यमन्यवदिहावद्ये, वदान्यः पुनःस्याद्दातर्यपि चारुवाचि परवत्पर्जन्यइन्द्रेऽपि च ॥ ६८ ॥
6.26.68 · p. 296
शार्दूलविक्रीडितम्
गर्जद्वारिदवारिदस्तनितयोः स्याद्ब्रह्मसाधौ पुन-र्ब्रह्मण्योऽपि शनैश्चरे निगदितस्तूदद्रुमे तादृशः ।ब्राह्मण्यं द्विजभावकर्मसु मतं स्याद्ब्राह्मणौ[41a]घे तथाशीर्षण्यं विशदे कचे च गदितं स्याच्छीर्षके चान्तिमे ॥ ६९ ॥
6.26.69 · p. 296
शार्दूलविक्रीडितम्metre not read in every line
अक्षय्ये द्रविणे च रेतसि मितेर्भेदेऽप्यकुप्ये तथास्वर्णे चापि वराटके निगदितं न स्त्री हिरण्यं बुधैः ।सौकर्यं तु वराहकर्मणि तथानायासपर्यायकेऽथाहार्यः स्थिरशैलयोर्निगदितः, श्याले पुनर्देवरे ॥ ७० ॥
6.26.70 · p. 297
शार्दूलविक्रीडितम्
विद्वद्भिः कथितः श्वशुर्य इति च भ्रातृव्य उक्तो रिपौस्याद्भ्रातुस्तनयेऽथ पूतिकरजे प्रोक्तः प्रकीर्यः पुमान् ।भेद्याभो विनिकीर्यकेऽथ सुरभेर्भावे मनोज्ञस्य चसौरभ्यं गुणगौरवे निगदितं नेपथ्यमुक्तं बुधैः ॥ ७१ ॥
6.26.71 · p. 297
शार्दूलविक्रीडितम्
आकल्पेऽपि च रङ्गभुव्यतिथिषु त्वातिथ्य उक्तोऽन्तिमेस्यादर्थेऽतिथये सुते दुहितरि प्राज्ञैरपत्यं स्मृतम् ।सामर्थ्यं किल योग्यतातिबलयोर्व्रीहौ पुनः सागरेलौहित्यश्चरमे पुनर्निगदितो ज्ञैर्लोहितत्वार्थकः ॥ ७२ ॥
6.26.72 · p. 297
शार्दूलविक्रीडितम्
कौकृत्यं त्वनुतापकेऽप्यनुचिताचारेऽथ देवे रवा-वादित्यो [41b]रविदेवताकहविषि त्वादित्यमुक्तं त्रिषु ।पौलस्त्यौ किल यक्षराक्षसपती स्तस्तथ्ययोग्ये उभेऔचित्ये अवधार्हमोधवचसोः प्राज्ञैरवध्यं स्मृतम् ॥ ७२ ॥
6.26.72 · p. 297
शार्दूलविक्रीडितम्metre not read in every line
उक्तं प्रसव्यं ह्यनुकूलवाचिप्रतीपवाचि त्वपरस्य लिङ्गे ।प्रणाय्य उक्तोऽप्यभिलाषहीने-ऽप्यसम्मते चाथ मुनौ च बिल्वे ॥ ७४ ॥
6.26.74 · p. 297
उपजातिः
स्यात्पावके चाथ मसूरबिल्व-त्रायन्तिकाबोधिषु चादिलिङ्गे ।मङ्गल्य उक्तश्चरमे तु दध्निस्यान्मङ्गलार्हे सुचिरेऽन्यवच्च ॥ ७५ ॥
6.26.75 · p. 297
इन्द्रवज्रा
स्त्रियां तु गुन्द्राशतपुष्पिकाधः-पुष्पीषु शम्यामपि रोचनायाम् ।स्याच्छङ्खपुष्प्यां च सिताग्निकाया-मथ प्रगल्भे भयदेऽप्यधृष्यः ॥ ७६ ॥
6.26.76 · p. 297
उपजातिः
सरिद्भिदि स्त्री परुषस्य भावेपारुष्यमिन्द्रस्य वनेऽपि षण्ढे ।ना गीष्पतौ स्यादथ ना भुजिष्यःसहाय उक्तः करसूत्रकेऽन्त्ये ॥ ७७ ॥
6.26.77 · p. 298
उपजातिः
त्रय्यां स्वतन्त्रे गणिकासु दास्यांस्त्रियामथो केतकवाचके ना ।चक्षुष्य उ[42a]क्तोऽपि च पुण्डरीक-द्रुमे कुलत्थेऽथ भगे द्वयोनम् ॥ ७८ ॥
6.26.78 · p. 298
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 4 उ (wrong syllable)
रसाञ्जने नेत्रहितेऽन्यवत्स्या-द्दन्त्यां विशल्याऽग्निशिखागुडूच्योः ।एलागता चाथ यशस्यभिख्यातथाभिधाने छविवाचिका च ॥ ७९ ॥
6.26.79 · p. 298
उपजातिः
वक्तव्यमाहुः स्ववशे च गर्ह्येऽ-न्वयस्तु सम्बन्धकुलाभिधायाम् ।पुरद्रुमः स्यात्खगभिज्जटायु-रूर्णायु[रु]रभ्र[स्य]कुथेऽप्युरभ्रे ॥ ८० ॥
6.26.80 · p. 298
उपजातिःmetre not read in every linenearly उपजातिः
स्याद्देवयुर्धार्मिकदेवगन्त्रोःस्यान्मित्रयुर्लोकगतिप्रवीणे ।तथैव सख्यानुगते प्रदिष्टोव्याधे विधौ वा मृगयुर्मृगाक्षैः(?) ॥ ८१ ॥
6.26.81 · p. 298
उपजातिः
देहे वसन्तेऽपि नरि क्षिपण्यु-र्वह्नौ भुवन्युः शशिसूर्ययोश्च ।वायौ शरण्युस्त्रिषु वारिते स्या-न्मासे तपस्यस्तपसि स्मृतः स्त्री ॥ ८२ ॥
6.26.82 · p. 298
इन्द्रवज्रा
त्रये रहस्यं किल गोपनीयेनद्यां स्त्रियां चाथ भवेत्पयस्या ।काकोलिकायामपि दुग्धिकायांपयोहिते वाच्यसमानलिङ्गा ॥ ८४ ॥
6.26.84 · p. 299
उपजातिः
भवेदहल्याप्सरसां विशेषे[42b]स्याद्गोतमस्यापि मुनेः कलत्रे ।पत्न्यां द्वितीया तिथिभेदके चद्वयोः पुनः पूरणकेऽन्यवत्स्यात् ॥ ८५ ॥
6.26.85 · p. 299
उपजातिःmetre not read in every line
नादेयी नारङ्गे भूजम्ब्वां स्याज्जपायां च ।जलवेतसे च कङ्गौ नदीभवे वाच्यलिङ्गा स्यात् ॥ ८६ ॥
6.26.86 · p. 299
उपगीतिः

चतुर्याः ।

पश्चात्तापेऽनुशयोऽनुबन्धविद्वेषयोस्तद्वत् ।उपशय उक्तः स्थाने वधेऽन्तिके रोगशान्तौ च ॥ ८७ ॥
6.26.87 · p. 299
metre not recognised
परिधायोऽम्भःस्थाने परिच्छदे स्यान्नितम्बे च ।समुदय आजौ वृन्दे समुपक्रमवाचकश्चापि ।प्रतिश्रयस्त्वाश्रयसंसदोः स्या-त्समुच्छ्रयस्तूच्छ्रयके विरोधे ।हिरण्मयः स्यादिह लोकधातौविशेष्यवद्धेममये प्रदिष्टः ॥ ८२ ॥
6.26.82 · p. 299
उपेन्द्रवज्राmetre not read in every line
शीते त्ववश्यायमुशन्ति गर्वेवृन्दे च युद्धे समुदाय उक्तः ।स्यात्संपरायः समरे विपत्तौतथायतौ चाथ निरामयः स्यात् ॥ ८३ ॥
6.26.83 · p. 299
उपजातिः
वार्ते तथा वीतगदे विशेष्येसमाह्वयो द्यूतविधौ हयाद्यैः ।रणे, विहारे तु महालयः स्या-त्तीर्थे[43a]परात्मन्यपि संप्रदिष्टः ॥ ८४ ॥
6.26.84 · p. 299
उपजातिःmetre not read in every line
स्याद्रौहिणेयो बुधवत्सकाम-पालेष्वथ स्यात्पुरुषाधिकारे ।पुंसां समूहे च वधे कृतेऽपिस्यात्पौरुषेयं च पदान्तरेऽपि ॥ ८५ ॥
6.26.85 · p. 300
इन्द्रवज्रा
स्याद्भागधेयोऽयुजि राजभागेशुभेऽन्तिमे चाथ बिलेशयोऽहौ ।आखावुशीरे तु जलाशयं स्या-त्तोयाश्रये पुंसि बुधैः प्रदिष्टः ॥ ८६ ॥
6.26.86 · p. 300
उपजातिः
चन्द्रोदयस्त्वौषधिभिद्वितानेफलोदयः स्यात्त्रिदिवे च लाभे ।महोदयं पुंसि न कन्यकुब्जेमोक्षे पुमान्स्याच्च तथाधिपत्ये ॥ ८७ ॥
6.26.87 · p. 300
उपजातिः
स्थूलोच्चयो गण्डदृषद्वरण्डा-साकल्यमध्येभगतेषुदिष्टः ।धनञ्जयोऽग्नौ ककुभेऽर्जुने चदेहानिले स्याद्भुजगान्तरे च ॥ ८८ ॥
6.26.88 · p. 300
उपजातिः
स्याद्दक्षिणे च प्रतिकूलकेऽ प-सव्यं विशेष्येऽप्यथ तण्डुलीयः ।शाकान्तरे ताप्यकृमिघ्नयोश्चा-थो केतकीये च फले च मल्ल्याम् ॥ ८९ ॥
6.26.89 · p. 300
इन्द्रवज्रा
प्रोक्तं प्रवीणैस्तृणशूल्यमन्त-शय्या तु भूमीशयने श्मशाने ।मृतावथ[43b]स्यादुपकारिकायांतथोपकार्या त्रिषु यौगिकेऽर्थे ॥ ९० ॥
6.26.90 · p. 300
इन्द्रवज्राmetre not read in every line
मार्जालीयः स्मृतः शूद्रे बिडाले कायशोधने ।
6.26.97 · p. 300
अनुष्टुप्

पञ्चयाः ।

दुग्धतालीयमाम्नातं दुग्धाग्रे दुग्धफेनके ।त्रिषु प्रवचनीयः स्यात्प्रवाच्ये च प्रवक्तरि ॥ ९१ ॥
6.26.91 · p. 300
अनुष्टुप्
कालानुसार्यं तगरे शिलाजेस्याच्छिंशपायामपि चान्त्यलिङ्गम् ।वृषाकपायी तु हरिप्रियायांजीवन्त्युमानाम्नि शतावरौ च ॥ ९२ ॥
6.26.92 · p. 301
उपजातिः

षड्याः ।

धौतांशुकद्वये प्रत्युद्गमनीयस्तथा गतौ ।अर्हो श्रीत्रायमाणार्थे विष्वक्सेनप्रिया भवेत् ॥
6.26.100 · p. 301
अनुष्टुप्