कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (7/14)

पटस्तु वस्त्रे केचित् तु सुवस्त्रे पुन्नपुंसकम् ।पटी तु स्त्री विशिष्टे स्यात् पटे प्रावरणात्मके ॥ ७२१ ॥
2.5.721 · p. 104
अनुष्टुप्
इति कश्चित् प्रियालाख्यतरौ नी क्ली तु तत्फले ।पच्छः शिलायां ना त्रिस्तु पादपीठेन गन्तरि ॥ ७२२ ॥
2.5.722 · p. 104
अनुष्टुप्
पाण्टिसंज्ञे तु पच्छी स्त्री भवेद्वारुटकान्तरे ।पन्नं स्कन्ने त्रिषु क्ली तु जिह्वायां पद्रवाक् पुनः ॥ ७२३ ॥
2.5.723 · p. 105
अनुष्टुप्
पुंसि ग्रामनिवेशे त्रिः शून्ये पर्वस्तु ना हरे ।इक्ष्वादीनां तु काण्डस्थग्रन्थिमध्ये नपुंसकम् ॥ ७२४ ॥
2.5.724 · p. 105
अनुष्टुप्
पर्विः काके द्वयोर्हिंस्रे पुनस्त्रिषु पतिस्तु ना ।पाणिग्राहे च पततिधातौ चाथाजयोऽब्रवीत् ॥ ७२५ ॥
2.5.725 · p. 105
अनुष्टुप्
गतौ मूलेऽप्यथो पत्नी भार्यायां स्त्री त्रि तु प्रभौ ।वृद्धादिस्तु पतिर्यस्यास्तत्रान्यार्थसमासके ॥ ७२६ ॥
2.5.726 · p. 105
अनुष्टुप्
वृद्धपत्नी वृद्धपतिरित्याद्यं रूपमुन्नयेत् ।ग्रामादेश्च यदा स्त्र्यर्थः स्वामित्वेन विवक्ष्यते ॥ ७२७ ॥
2.5.727 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वृ (wrong syllable)
ग्रामपत्नी ग्रामपतिरित्याद्यं तत्र च द्विधा ।पत्तिः पुनः स्त्रियां ज्ञेया पतने पदनेऽपि च ॥ ७२८ ॥
2.5.728 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग्रा (wrong syllable)
एकेभैकरथत्र्यश्वपञ्चपद्गबले तथा ।लेपेन कृतलेखायां बाह्वादौ पतिके तु ना ॥ ७२९ ॥
2.5.729 · p. 105
अनुष्टुप्
पठिस्तु विदुषि त्रिः स्यान्ना तु वेदस्य पाठके ।स्त्रियां फलकिकायां स्यादल्पायां युद्धकारिणाम् ॥ ७३० ॥
2.5.730 · p. 105
अनुष्टुप्
पचिस्तु नाग्नौ पचतौ बुभुक्षायां तु सा स्त्रियाम् ।पणिस्तु वणिजि त्रि स्याद् धातौ ना पणनार्थके ॥ ७३१ ॥
2.5.731 · p. 105
अनुष्टुप्
पपीस्तु सूर्ये रश्मौ च ना हस्तिनि तु स द्वयोः ।पटुः पुंसि पटोल्याख्यवल्लीजातौ रसान्तरे ॥ ७३२ ॥
2.5.732 · p. 105
अनुष्टुप्
लवणाख्ये तद्वति तु त्रिषु निर्व्याधिशूरयोः ।अमन्ददक्षयोश्चान्ये विशदप्रज्ञ ऊचिरे ॥ ७३३ ॥
2.5.733 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
अन्यो विस्पष्ट आचष्टे ब्रूते त्वजयशाब्दिकः ।तीक्ष्णे च निस्त्वरे चैषु यदा स्त्र्यर्थेऽस्य वर्तनम् ॥ ७३४ ॥
2.5.734 · p. 105
अनुष्टुप्
तदा पट्वी पटुरिति क्ली तु स्याल्लवणद्वये ।ऊपाख्ये सैन्धवाख्ये चेत्येवं नानाब्रुवन् बुधाः ॥ ७३५ ॥
2.5.735 · p. 106
अनुष्टुप्
प्रत्यक् प्रतीच्येऽभिमुखे प्रतीच्यभिमुखे त्रिषु ।देशे पुंसि प्रतीची तु पश्चिमायां दिशि स्त्रियाम् ॥ ७३६ ॥
2.5.736 · p. 106
अनुष्टुप्
प्रथमापञ्चमीसप्तम्यर्थेष्वेषोऽपि वाव्ययम् ।पर्व सर्वेऽपि चाचार्याः क्लीबमन्ये समामनन् ॥ ७३७ ॥
2.5.737 · p. 106
अनुष्टुप्
भाष्यकारस्तु भगवान् योगसूत्रे प्रयुक्तवान् ।गुणपर्वाण इत्येवं षष्ठीतत्पुरुषे नरम् ॥ ७३८ ॥
2.5.738 · p. 106
अनुष्टुप्
विपुवादाववसरे पञ्चदश्यां तथोत्सवे ।प्रतिपत्पञ्चदश्योश्च सन्धौ ग्रन्थिद्वयान्तरे ॥ ७३९ ॥
2.5.739 · p. 106
अनुष्टुप्
इक्षुवेण्वादिदण्डानां ग्रन्थौ त्वेवेति केचन ।पद्वा वत्से द्वयोः पुंसि त्वन्ये गत्यवसानयोः ॥ ७४० ॥
2.5.740 · p. 106
अनुष्टुप्
पत्त्री पुंसि शरे द्वे तु श्येने सर्वखगेष्वपि ।पत्त्रिणी तु स्त्रियां पत्न्याः कनिष्ठस्वसरि स्मृता ॥ ७४१ ॥
2.5.741 · p. 106
अनुष्टुप्
पत्त्रं तु ( यत्र यस्यापि? ) तत्र स्याद्भेद्यलिङ्गकम् ।पद्मी द्वयोर्गजे पद्मवति तु त्रिः स्त्रियां पुनः ॥ ७४२ ॥
2.5.742 · p. 106
अनुष्टुप्metre not read in every line
पद्मिनी सरसीलक्ष्म्योः पद्मस्तम्बेऽथ पक्षिवाक् ।द्वे खगे पण्डिते तु त्रिः पक्षवत्यथ पक्षिणी ॥ ७४३ ॥
2.5.743 · p. 106
अनुष्टुप्
पक्षाभ्यामिव याहोभ्यां रात्रिर्युक्तात्र सा स्त्रियाम् ।प्राणास्तु पुंस्यसुष्वेके त्वस्मिन्नर्थे प्रचक्षते ॥ ७४४ ॥
2.5.744 · p. 106
अनुष्टुप्
बहुत्वमस्याथ बले वायुवायुविशेषयोः ।द्वन्द्वानां प्रथमे साम्नि चक्षुरादीन्द्रियेषु च ॥ ७४५ ॥
2.5.745 · p. 106
अनुष्टुप्
शशाख्यभेषजेऽथ त्रिः पूर्णे क्लीबं तु पूरणे ।त्रयी तु भाजने पात्री क्ली तु योग्ये स्रुगादिके ॥ ७४६ ॥
2.5.746 · p. 106
अनुष्टुप्
आढके पण्डिते वित्ते नद्याः कूलद्वयान्तरे ।प्रधानाङ्गे च सुगुणे पारस्तु नरि पारणे ॥ ७४७ ॥
2.5.747 · p. 107
अनुष्टुप्
क्ली नद्यादेः परे तीरे घटीसंज्ञे तु गोदुहाम् ।दोहपात्रे स्त्रियां पारी पालस्तु त्रिषु पालके ॥ ७४८ ॥
2.5.748 · p. 107
अनुष्टुप्
ना त्राणे जडकन्यायां पुनः पाली स्त्रियामियम् ।अस्त्री द्रोणाह्वये दारुपात्रे पाकस्तु पर्वते ॥ ७४९ ॥
2.5.749 · p. 107
अनुष्टुप्
पक्तौ परिणतौ दैत्यभेदे सूर्ये तरोः फले ।करमर्दतरौ पुंसि तत्फले तु नपुंसकम् ॥ ७५० ॥
2.5.750 · p. 107
अनुष्टुप्
शिशौ द्वे त्रिः प्रशस्येऽथ पातं त्रिस्त्रातशुष्कयोः ।ना तु राहौ च पतने क्ली तु त्राणे च शोषणे ॥ ७५१ ॥
2.5.751 · p. 107
अनुष्टुप्
पापस्तु कुत्सिते क्रूरे त्रिषु क्लीबं तु दुष्कृते ।विभीतकफले चाथ विभीतकतरौ पुमान् ॥ ७५२ ॥
2.5.752 · p. 107
अनुष्टुप्
पाशो ना पाशनायां सुब्धातोः पाशयतेर्घञि ।रज्ज्वादिप्रान्तविन्यस्तग्रन्थिभेदे तथा पुनः ॥ ७५३ ॥
2.5.753 · p. 107
अनुष्टुप्
मृगपक्ष्यादिबन्धार्थयन्त्रभेदे च तत्कृते ।अन्ये त्वाहुः परः कर्णात् सुकर्णे केशतश्चये ॥ ७५४ ॥
2.5.754 · p. 107
अनुष्टुप्
स्त्री तु केशाच्छिखायां स्यात् केशपाशिन्यथ त्रिषु ।याप्ये प्रत्ययसंज्ञः स स्वार्थिको निहतस्वरः ॥ ७५५ ॥
2.5.755 · p. 107
अनुष्टुप्
पाठो ना पठने स्त्री तु प्राचीनाख्यलतान्तरे ।पाठा पार्श्वं तु न स्त्री स्यात् पर्शुवृन्दात्मके तनोः ॥ ७५६ ॥
2.5.756 · p. 107
अनुष्टुप्
कक्षाधोवयवे किञ्च वक्रोपायेऽन्तिकेऽथ ना ।आर्हतानां तीर्थकरभेदे पा(र्श्वौ ? र्श्व्यौ) तु ते स्त्रियौ ॥ ७५७ ॥
2.5.757 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ती (syllables merged)
द्यावापृथिव्योः पानं तु त्राणशोषणयोर्नपि ।पीतौ च ना तु निःश्वासवायौ प्रायः पुनः पुमान् ॥ ७५८ ॥
2.5.758 · p. 107
अनुष्टुप्
बाहुल्येऽप्यशनत्यागे मृतौ प्रगमने तथा ।बाल्यादिवयसि त्रिस्तु तुल्येऽर्थे प्राच्यवाक् पुनः ॥ ७५९ ॥
2.5.759 · p. 108
अनुष्टुप्
प्राग्दक्षिणे शरावत्या देशे ना प्राग्भवे त्रिषु ।पाक्यं तु त्रिषु पक्तव्ये क्लीबं तु विडसंज्ञके ॥ ७६० ॥
2.5.760 · p. 108
अनुष्टुप्
लवणे भूमिलवणसंज्ञे च लवणेऽथ नप् ।प्राध्वं स्याद्दूरमार्गे च बन्धने चेति मन्वते ॥ ७६१ ॥
2.5.761 · p. 108
अनुष्टुप्
प्रवणे तु त्रिरित्येवं केचिदन्ये तु मन्वते ।आनुकूल्यार्थकं प्राध्वमव्ययं चेत्यथ स्त्रियाम् ॥ ७६२ ॥
2.5.762 · p. 108
अनुष्टुप्
पार्ष्णिरुन्मत्तनार्यां स्यात् पादग्रन्थेरधोऽपि च ।पुमांस्तु पृतनाकट्यां पाण्डुस्तु नरि राजनि ॥ ७६३ ॥
2.5.763 · p. 108
अनुष्टुप्
धृतराष्ट्रानुजे पाण्ड्यदेशराजान्तरेऽपि च ।शालिजात्यन्तरे रोगभेदे खर्जूरपादपे ॥ ७६४ ॥
2.5.764 · p. 108
अनुष्टुप्
वर्णभेदे तद्वति तु त्रिः खर्जूरफले तु नप् ।पातुः पुंसि विरिञ्चेऽन्यस्त्वाह रक्षितरि त्रिषु ॥ ७६५ ॥
2.5.765 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
प्लावी तु पक्षमृगयोर्द्वयोरथ नपुंसकम् ।पाथिर्ज्योतिषि नद्यां च स्वर्गे चन्द्रेऽप्यथास्त्रियाम् ॥ ७६६ ॥
2.5.766 · p. 108
अनुष्टुप्
सूर्ये प्रियस्तु करुणसंज्ञवृक्षे धवे त्रि तु ।वल्लभे सुन्दरे स्त्री तु प्रियाभीप्सितयोषिति ॥ ७६७ ॥
2.5.767 · p. 108
अनुष्टुप्
पिङ्गो मण्डलिसर्पाणां प्रभेदे महिषे द्वयोः ।ना पिशङ्गाह्वये वर्ण ऋषिभेदे च सर्षपे ॥ ७६८ ॥
2.5.768 · p. 108
अनुष्टुप्
पिशङ्गवर्णयुक्ते तु त्रि स्त्रियां पिङ्गलाह्वये ।पिङ्गा पक्ष्यन्तरे ब्रह्मरीतिसंज्ञे च लोहके ॥ ७६९ ॥
2.5.769 · p. 108
अनुष्टुप्
पिण्डो गुडोरके पुंसि सङ्घाताजीवयोरपि ।अजयस्तु निवापेऽपि शब्दवित् प्राब्रवीदमुम् ॥ ७७० ॥
2.5.770 · p. 108
अनुष्टुप्
पुङ्गले बोलसंज्ञे च भेषजे वपुषि त्वमुम् ।पुमांसं कश्चिदाह स्म शण्डं पिण्डी त्वियं स्त्रियाम् ॥ ७७१ ॥
2.5.771 · p. 109
अनुष्टुप्
भक्तपिण्डे देवपीठेऽप्यथ रोमपुटे पिटः ।कण्डोले च पुमान् क्ली तुच्छदिषोऽवयवान्तरे ॥ ७७२ ॥
2.5.772 · p. 109
अनुष्टुप्
पिटाटिकाह्वये पिच्छा पुनः शल्मलिवेष्टके ।यवाग्वामोदनोद्भूतमण्डे प्राह तु सज्जनः ॥ ७७३ ॥
2.5.773 · p. 109
अनुष्टुप्
सर्वपिच्छिलमण्डेषु पक्षिपक्षे तु नप्यदः ।पिच्छस्तु गुणभेदे स्याद् यद्वान् पिच्छिल उच्यते ॥ ७७४ ॥
2.5.774 · p. 109
अनुष्टुप्
शाकटायन इत्याह पित्र्या पुनरियं स्त्रियाम् ।पौर्णमास्यां त्रि तु पितृदैवते पितुरागते ॥ ७७५ ॥
2.5.775 · p. 109
अनुष्टुप्
पितृसाध्वादिके चाथ पत्तुं पतितुमेष्टरि ।पित्सं त्रिर्विहगे तु द्वे पीतस्तु नरि गन्धके ॥ ७७६ ॥
2.5.776 · p. 109
अनुष्टुप्
हरिद्रावर्णसदृशे वर्णे तद्वति तु त्रिषु ।पिबतेः पीयतेश्चापि क्रियायाः कर्मतां गते ॥ ७७७ ॥
2.5.777 · p. 109
अनुष्टुप्
क्ली तु पीतिक्रियायां स्याद् हरिद्रायां तु सा स्त्रियाम् ।पीताथ पीथशब्दस्तु क्लीबं क्षीरे जलेऽपि च ॥ ७७८ ॥
2.5.778 · p. 109
अनुष्टुप्
बालपेयघृते तु स्यादन्ये तु नवनीतके ।अग्नौ च पीतिस्त्वश्वे द्वे क्रियायां पिबतेः स्त्रियाम् ॥ ७७९ ॥
2.5.779 · p. 109
अनुष्टुप्
पीतुर्ना भास्करे बालघृतपानार्थभाजने ।चक्षुषि द्वे तु विहगे पीलुस्तु नरि पादपे ॥ ७८० ॥
2.5.780 · p. 109
अनुष्टुप्
ज्ञेयो गुडफलाभिख्ये काण्डे पुष्पेऽथ सज्जनः ।वृक्षे कट्फलनाम्न्याह ब्रूते त्वजयशाब्दिकः ॥ ७८१ ॥
2.5.781 · p. 109
अनुष्टुप्
फालास्थिखण्डकेऽप्येनं द्वे त्विभे पीयुवाक् तु ना ।आदित्ये किरणे काले स्यादुलूके तु स द्वयोः ॥ ७८२ ॥
2.5.782 · p. 109
अनुष्टुप्
पुष्यस्तु ना कलियुगे नक्षत्रे तिष्यनामनि ।तद्युक्ते कालसामान्ये त्रिस्तु जातेऽत्र नप् पुनः ॥ ७८३ ॥
2.5.783 · p. 110
अनुष्टुप्
वैरूपाष्टकवर्गस्य स्यादन्त्ये साम्नि तत् तथा ।कूश्माण्डस्य फले पुण्यं पुनः क्ली जलपुष्पयोः ॥ ७८४ ॥
2.5.784 · p. 110
अनुष्टुप्
व्योम्नि हेम्नि तथा धर्मे ( ब्रु ? व्र )ते च शुभकर्मणि ।गङ्गार्घ्ययोस्तु पुण्या स्त्री मनोज्ञे तु त्रि पावने ॥ ७८५ ॥
2.5.785 · p. 110
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अजयस्तु मनोज्ञात् तं भेदेनाह मनोहरे ।पुण्ड्रं तु तिलके न स्त्री पुमानिक्ष्वन्तरे क्रिमौ ॥ ७८६ ॥
2.5.786 · p. 110
अनुष्टुप्
पुष्पगुल्मेऽतिमुक्ताख्ये नीवृद्भेदे तु भूम्नि च ।वरेन्द्रीसंज्ञकेऽथ स्याद् धवलायां गवि स्त्रियाम् ॥ ७८७ ॥
2.5.787 · p. 110
अनुष्टुप्
पुण्ड्रा पुष्पं तु कुसुमे क्लीबमन्ये तु पुंस्यपि ।आर्तवे योषितां ना तु विकासे स्त्री तु पुष्प्यसौ ॥ ७८८ ॥
2.5.788 · p. 110
अनुष्टुप्
भेषजे तु बलाख्येऽथ कर्तरीनाम्नि पत्त्रिणाम् ।स्यात् पुङ्खोऽवयवे पुंसि श्येनपक्षिणि तु द्वयोः ॥ ७८९ ॥
2.5.789 · p. 110
अनुष्टुप्
पुत्रस्तु तनये पुंसि पुत्री दुहितरि स्त्रियाम् ।पुटी त्रयी करण्ड्यां क्ली नगरे ना समुद्गके ॥ ७९० ॥
2.5.790 · p. 110
अनुष्टुप्
द्वे नृजात्यन्तरे शूद्रकवटीजे प्लुतं पुनः ।प्लवने क्लीबमश्वस्य गतिभेदेऽप्यथ त्रिषु ॥ ७९१ ॥
2.5.791 · p. 110
अनुष्टुप्
तद्वत्यश्वे त्रिमात्रे च वर्णे सिक्तेऽप्यथास्त्रियाम् ।पुस्तो लेख्ये क्लि लेप्यादिकर्मणि द्वे तु पुल्ववाक् ॥ ७९२ ॥
2.5.792 · p. 110
अनुष्टुप्
दर्वीकराख्यभुजगभेदे कीटकृमिष्वपि ।कीटेषु च पुरं तु क्ली पुंस्यन्ये गेहदेहयोः ॥ ७९३ ॥
2.5.793 · p. 110
अनुष्टुप्
ध्यामाख्यभेषजस्तम्बे सर्वतोभद्रकादिषु ।शैवागमप्रसिद्धेषु मण्डलेष्वपि ना तु सः ॥ ७९४ ॥
2.5.794 · p. 111
अनुष्टुप्
गुग्गुलौ नगरे त्वेषा पुरी लिङ्गत्रये द्वयोः ।मर्त्यजात्यन्तरे शूद्रमहिषीजेऽथ केचन ॥ ७९५ ॥
2.5.795 · p. 111
अनुष्टुप्
आहुः पुरिभिकारान्तामपि स्त्री नगरे बुधाः ।कश्चित् तु पुंसि राज्ञ्याह ना तु शैलान्तरे पुरुः ॥ ७९६ ॥
2.5.796 · p. 111
अनुष्टुप्
गङ्गाद्वारप्रदेशस्थे मनुष्ये तु द्वयोरयम् ।महति त्रिषु नैरुक्ताः पुनर्बहुषु मन्वते ॥ ७९७ ॥
2.5.797 · p. 111
अनुष्टुप्
पूर्वा स्त्रियामिन्द्रदिशि त्र्यपरप्रतियोगिनि ।दिग्देशकालविषयेष्वग्रप्रथमयोरपि ॥ ७९८ ॥
2.5.798 · p. 111
अनुष्टुप्
पुराणे पुंबहुत्वे तु पूर्वजेष्वेष वर्तते ।पितामहादिष्वथ ना पूज्यः स्याच्छ्वशुरे त्रि तु ॥ ७९९ ॥
2.5.799 · p. 111
अनुष्टुप्
पूजनीयेऽथ पूरो ना नद्याः सलिलबृंहणे ।पुनर्नवायां नृस्त्री तु पूर्तौ पूरी तु सा स्त्रियाम् ॥ ८०० ॥
2.5.800 · p. 111
अनुष्टुप्
वंशवाद्येऽथ पूर्तं क्ली खातादौ पुण्यकर्मणि ।त्रि तु पूर्णे रक्षिते च पूर्णं तु सलिले नपि ॥ ८०१ ॥
2.5.801 · p. 111
अनुष्टुप्
पूर्त्तौ च पौर्णमास्यां तु पूर्णा स्त्री स्यात् तिथिष्वपि ।पञ्चमीदशमीपञ्चदशीषु तिसृषु त्रि तु ॥ ८०२ ॥
2.5.802 · p. 111
अनुष्टुप्
पूरिते च समग्रे च प्रवदन्ति मनीषिणः ।आकर्णकर्षणे चेषोः पूगस्तु निवहे पुमान् ॥ ८०३ ॥
2.5.803 · p. 111
अनुष्टुप्
क्रमुकेऽद्रौ च केचित् तु पूगीमर्थेऽत्र मन्वते ।स्त्रियां तस्य फले क्लीबं पूषस्तु नरि पादपे ॥ ८०४ ॥
2.5.804 · p. 111
अनुष्टुप्
ब्रह्मदारुसमाख्येऽथ पूषा स्त्रीपुंसलिङ्गकः ।वृद्धिक्रियायां पूतिस्तु तृणजात्यन्तरे पुमान् ॥ ८०५ ॥
2.5.805 · p. 111
अनुष्टुप्
दुःखदुर्गन्धयोश्च स्याद् दुर्गन्धवति तु त्रिषु ।पवनाख्यक्रियायां तु स्त्री कुन्त्यां तु पृथा स्त्रियाम् ॥ ८०६ ॥
2.5.806 · p. 112
अनुष्टुप्
त्रयोदशाङ्गुले त्वेष माने पुंसि मुनीरितः ।मुनिवाक्यविरुद्धत्वात् पृथो हस्ततले जगे ॥ ८०७ ॥
2.5.807 · p. 112
अनुष्टुप्
व्याख्यात्रा येन तेनैतदसम्यगभिभाषितम् ।पृश्निर्ना किरणे स्वर्गे सूर्ये देवान्तरेषु च ॥ ८०८ ॥
2.5.808 · p. 112
अनुष्टुप्
क्लीबं तुन्ने च साम्नोश्च बृहद्भिरिति गीतयोः ।त्रिषु त्वल्पवपुर्जन्तौ बिन्दुचित्रपशावपि ॥ ८०९ ॥
2.5.809 · p. 112
अनुष्टुप्
विराजः पृश्नय इति त्वत्र वर्णनिबन्धनः ।बिन्दुमत्त्वनिमित्तो वा प्रयोग इति संशयः ॥ ८१० ॥
2.5.810 · p. 112
अनुष्टुप्
पृथुः पुंस्यादिराजन्यभेदे वैन्य इति श्रुते ।अन्यत्रापि क्वचित् पक्ष्ये वासुदेवस्य राजनि ॥ ८११ ॥
2.5.811 · p. 112
अनुष्टुप्
राज्ञस्त्रिशङ्कुसंज्ञस्य जनकेऽप्यनरण्यजे ।विस्तीर्णे तु त्रि तत्रापि पृथुः पृथ्वीति वा स्त्रियाम् ॥ ८१२ ॥
2.5.812 · p. 112
अनुष्टुप्
स्त्री तु पृथ्वी पृथिव्यां स्यादुभयं कृष्णजरिके ।पृथुः पृथ्वी च बाष्पाख्यभेषजे पृथुरेव सा ॥ ८१३ ॥
2.5.813 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ज (wrong syllable)
मर्कटे तु द्वयोः क्ली तु पृषत् पुण्ड्रे तु (?) विप्रुषि ।तथा दध्युपसिक्ताज्ये पशुगात्रस्थबिन्दुषु ॥ ८१४ ॥
2.5.814 · p. 112
अनुष्टुप्
तन्तुवायस्य तन्त्रे च मृगभेदे तु स द्वयोः ।त्रयी तु पेटी पेडायां पेटिकायां च सा पुनः ॥ ८१५ ॥
2.5.815 · p. 112
अनुष्टुप्
पेटा दास्यां स्त्रियामेव पेया तु विरलात्मनि ।यवाग्वां त्रिस्तु पातव्ये रक्षितव्येऽथ नृस्त्रियोः ॥ ८१६ ॥
2.5.816 · p. 112
अनुष्टुप्
प्रेङ्खा प्रेङ्खोलने च स्यादासन्द्यां च द्वयोः पुनः ।दासे प्रेतस्तु मृतके त्रि द्वे भूतान्तरेऽथ नप् ॥ ८१७ ॥
2.5.817 · p. 112
अनुष्टुप्
पेत्वं तप्ते भुवो भागे द्वे तु मेषे परः पुनः ।पशौ गालितमुष्केऽमुं व्याचष्टे तदसद्विदुः ॥ ८१८ ॥
2.5.818 · p. 113
अनुष्टुप्
पेरुर्ना भास्करे शैले समुद्रे द्वे तु पक्षिणि ।कलविङ्काह्वयेऽथ स्यात् प्रेम प्रेमा च न स्त्रियाम् ॥ ८१९ ॥
2.5.819 · p. 113
अनुष्टुप्
स्नेहे केलौ च दासे तु प्रेष्यो द्वे भेद्यवत् पुनः ।प्रेषितव्येऽथ पोतो ना यानपात्रे द्वयोः पुनः ॥ ८२० ॥
2.5.820 · p. 113
अनुष्टुप्
शिशौ दशाब्दद्विरदे पुत्रयोरपरे विदुः ।चतुष्पदां तु तरुणे केचिदन्ये प्रचक्षते ॥ ८२१ ॥
2.5.821 · p. 113
अनुष्टुप्
प्रोथोऽस्त्री हयघोणायां त्रिः प्रिये यूनि तु द्वयोः ।प्रोष्ठः पुंस्यृषभे प्रोष्ठी शफर्यां स्त्र्यथ पौरवाक् ॥ ८२२ ॥
2.5.822 · p. 113
अनुष्टुप्
बलभद्रे श्वेतशालौ ना क्ली तु ध्यामकाह्वये ।भेषजे पुरवास्यादिपुरसम्बन्धिनि त्रिषु ॥ ८२३ ॥
2.5.823 · p. 113
अनुष्टुप्
पौषस्तु तैषमासे ना सामभेदे नपुंसकम् ।पौषी तु पौर्णमास्यां स्त्री संयुक्ता पुष्यभेन या ॥ ८२४ ॥
2.5.824 · p. 113
अनुष्टुप्
पौंस्नं पुंसवने क्लीबं पुंसः सम्बन्धिनि त्रिषु ।फलं फाले धने बीजे निष्पत्तौ भोगलाभयोः ॥ ८२५ ॥
2.5.825 · p. 113
अनुष्टुप्
सस्ये हेतुकृते चर्मसंज्ञशस्त्रनिवारणे ।शस्त्राणां च मुखेऽत्रोक्तस्थावराणां प्रसूनयोः ॥ ८२६ ॥
2.5.826 · p. 113
अनुष्टुप्
क्ली पुंस्यप्यपरे ना तु करमर्देऽथ सा स्त्रियाम् ।कार्पास्यां लवलीराजकोशातक्योः फलाथ सा ॥ ८२७ ॥
2.5.827 · p. 113
अनुष्टुप्
कोशातक्यां फलिन्यां च ताम्रादिफलके तथा ।फली स्यादजयस्त्वाह मत्स्यभेदेऽपि शब्दवित् ॥ ८२८ ॥
2.5.828 · p. 113
अनुष्टुप्
फल्गु तु त्रिष्वसारे स्त्री काकोदुम्बरिकाह्वये ।वृक्षभेदे त्रि तु फली फलयुक्ते स्त्रियां पुनः ॥ ८२९ ॥
2.5.829 · p. 113
अनुष्टुप्
कोशातक्यां च फलिनी प्रियङ्ग्वाह्वयपादपे ।फालो लाङ्गलकूटे ना श्वेतार्के दडिमे तथा ॥ ८३० ॥
2.5.830 · p. 114
अनुष्टुप्
निष्पत्तौ शरणेऽथ क्ली तक्कोले च फलस्य तु ।विकारादौ त्रि फुल्लं तु त्रये विकसने त्रि तु ॥ ८३१ ॥
2.5.831 · p. 114
अनुष्टुप्
आश्चर्ये स्याद्विकसितेऽप्यथो विशरणे नपि ।निष्पत्तौ चाथ शण्डे स्यात् पुंसि चत्यपरे विदुः ॥ ८३२ ॥
2.5.832 · p. 114
अनुष्टुप्
बलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूप्वथ ।बलभद्रे यावकाख्ययवभेदे च नाथ तम् ॥ ८३३ ॥
2.5.833 · p. 114
अनुष्टुप्
कश्चिद्दैत्यान्तरेऽप्याह तदसाध्विव लक्ष्यते ।दैत्ये दन्त्यौष्ठ्यवर्णादेर्वलशब्दस्य दर्शनात् ॥ ८३४ ॥
2.5.834 · p. 114
अनुष्टुप्
त्रिषु तु स्याद्बलवति स्त्री तु वाट्यालके बला ।पिप्पल्यां च परे त्वेनं काके प्राहुर्द्वयोरिति ॥ ८३५ ॥
2.5.835 · p. 114
अनुष्टुप्
अन्ये तु तदसत् प्राहुर्दन्त्यौष्ठ्यादित्वसङ्गरात् ।बकस्तु ना दाल्भ्यमुनावेकचक्रापतावपि ॥ ८३६ ॥
2.5.836 · p. 114
अनुष्टुप्
द्वे तु कह्वाह्वये पक्षिभेदे जात्यन्तरे नृणाम् ।पुल्कसीक्षत्त्रियोद्भूते ब्रध्नस्त्वृप्यन्तरे पुमान् ॥ ८३७ ॥
2.5.837 · p. 114
अनुष्टुप्
सूर्ये स्वर्गे द्वयोस्तु स्याद् ब्राह्मणे तुरगेऽपि च ।वलिः पूजोपहारे ना भागधेये नृपस्य च ॥ ८३८ ॥
2.5.838 · p. 114
अनुष्टुप्
प्राणनार्थकधातौ च दैत्यभेदेऽथ नृस्त्रियोः ।देवतार्चनतूर्येऽथ बध्निर्द्वे श्येनकाकयोः ॥ ८३९ ॥
2.5.839 · p. 114
अनुष्टुप्
बभ्रुर्ना केशवे पूर्वराजभेदर्षिभेदयोः ।अग्नौ कडारवृषभे धने वर्णे च पिङ्गले ॥ ८४० ॥
2.5.840 · p. 114
अनुष्टुप्