कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वरुणानी

varuṇānīस्त्री · fem.

In 3 kośas: 2 synonym verses, 1 as a meaning of another word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.152 · p. 23
भार्यास्य वरुणानी स्यात्सभा कृष्णाञ्जना मता ।पाशोऽस्य नागपाशः स्यात्पुरी श्रद्धावती सुखा ॥ १५२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.124 · p. 17
वरुणो यादसांनाथो वरुणानीति तद्वधूः ।सैव गौरी तदुद्यानं वैभ्राजं तत्पुरी सुखा ॥ १२४ ॥
अनुष्टुप्
genderस्त्रीfem.

वरुणानी as a meaning in nānārtha verses

  • शब्दरत्नावली गौरीत्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10