वरुण
varuṇaपुं · masc.In 25 kośas: 45 synonym verses, 6 as a nānārtha head word, 60 as a meaning of another word.
स्याद्गोमुखो महायक्षस्त्रिमुखो यक्षनायकः ॥ ४१ ॥तुम्बरुः कुसुमश्चापि मातङ्गो विजयोऽजितः ।ब्रह्मा यक्षेट् कुमारः षण्मुखपातालकिंनराः ॥ ४२ ॥गरुडो गन्धर्वो यक्षेट् कुबेरो वरुणोऽपि च ।भृकुटिर्गोमेधः पार्श्वो मातङ्गोऽर्हदुपासकाः ॥ ४३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 न्ध (wrong syllable); pāda 3, syllable 5 मे (wrong syllable)
genderपुंmasc.
तिर्यग्दिशां तु पतय इन्द्राग्नियमर्नैरृताः ।वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ १६९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 म (wrong syllable); pāda 3, syllable 6 कु (wrong syllable)
genderपुंmasc.
स्याद्राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ ।रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षो निकसात्मजाश्च ॥ १८७ ॥क्रव्यात्कर्बुरनैरृतावसृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः ।जलयादःपतिपाशिमेघनादा जलकान्तारः स्यात्परंजनश्च ॥ १८८ ॥
metre not recognised
genderपुंmasc.
genderपुंmasc.
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ।अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ।इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् ।
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
वरुणं यादसां नाथं पाशपाणिं प्रचेतसम् ।जलाधिदैवतं प्राहुः प्रत्यगाशापतिं बुधाः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
आशाः ककुभः काष्ठा हरितश्च दिशः समाख्याताः ।इन्द्रानलयमनैर्ऋतवरुणमरुद्धनदरुद्रदिक्पालाः ॥ १०० ॥
उद्गीतिः
genderपुंmasc.
वरुणः शीतलो वामो दुन्दुभिः पश्चिमाधिपः ।सुखासीनः शङ्खरथो नदीनाथः समुद्रराट् ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
स्त्रीप्रियो वञ्चुलः शोके कङ्केलिः कर्णपूरकः ।अङ्कोले निचुलोऽपि स्याद्रसाले वरुणो रिपुः ॥ २१२ ॥
अनुष्टुप्
genderपुंmasc.
तुल्यौ जम्बीरजम्भीरौ वरुणो वरुणद्रुमे ।आम्रातकोऽम्रातकः स्यादुडुम्बर उदुम्बरः ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
वासुदेवं धनिष्ठा च श्रविष्ठा वासवं वसु ।शतभिषा वरुणं चैव वारुणं शततारका ॥ १४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
अतिकायश्चित्रदेहः सर्वभद्रास्य वल्लभा ।वरुणशीतलो वामो दुन्दुभिस्त्वंभसां पतिः ॥ ८७ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 ण (wrong syllable)
genderपुंmasc.
प्रियको वृक्षबीजः स्यात्प्रियसालश्च नीलकः ।श्वेतवृक्षस्तु वरुणस्तिक्तशाकः कुमारकः ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
महाराजिकसाध्याश्च रुद्रा एषां गणाः क्रमात् ।धाता मित्रोर्यमा पूषा शक्रोंशो वरुणो भगः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
अतिमित्रः सुषेणश्च ऋतधामा पराजितः ।वरुणो विधृतो धाता महातेजा विधारणः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
मारीचो मातुलोऽस्य स्याच्चन्द्रहासोऽसिरस्य च ।वरुणो जलकान्तारो मेघनादः पुरंजनः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
घृणिः पीथः प्रतिदिवाऽहर्नटो धरुणोऽपि च ।खद्योतो वरुणः शूरो विश्वप्साः पद्मलाञ्छनः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
यादःपति-र्वारिपतिः प्रचेताःपाश्यम्बुकान्तार-परंजनाः स्युः ।प्रत्यक्पतिर्वो वरुणोऽर्णवौकाआभोग एतस्य तथातपत्रम् ॥ १५१ ॥
इन्द्रवज्रा
genderपुंmasc.
इन्द्रानल-यम-नैर्ऋत-वरुण-मरुद्वित्तपेशानाः ।धर्णसि-भरथ-दृशाना दिक्पतयो लोकपालाश्च ॥ २१ ॥
उपगीतिः
genderपुंmasc.
ऐन्द्राग्नो निर्ऋतिर्नक्तंचरी वरुणसम्बरौ ।अर्यमा विजयो योनिर्भग एते दिने क्षणाः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
अञ्जीरं मञ्जुलं च स्यात्काकोदुम्बरिकाफलम् ।वरुणो वरणो रोधस्तरुः सेतुस्तमालकः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
वारुण्डः सेकपात्रे गडु-वरुण-गुण-भ्रूण-नाडीव्रणाः स्युःकर्णो वृष्णिश्च घृष्णिर्घृणिरथ वमति-ज्ञाति-पिष्टात-पोताः ।व्रातः कुन्तोऽस्त्रवाची हरिदपि पृषत-ग्रन्थिरर्थोऽतिथिः स्या-दुद्गीथो रोमन्थ-सार्थावगद-गद-मदाः कासदः कासमर्दः ॥ १६ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा
genderपुंmasc.
वरुणे तु महासारकशाधरकुशालयाः ।तत्पुरं वरणं ज्ञेयं तस्य जाया जयेरिता ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
दस्त्रौ चैतावता साङ्ग इन्द्रवर्गः समर्थितः ।वरुणो जलपतिः पाशी प्रचेताश्चार्णवगृहः ॥ ६९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वरुणः पवनश्रीदावीशानोऽथ दिशां गजाः ।ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्ज[नः] ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
जगद्योनिर्जगच्चक्षुः कुण्डली तरणिर्मणिः ।प्रद्योतनस्त्रयीमूर्तिर्वरुणः पृष्टिवान् खगः ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
नैरृतः कौणपः क्रव्यादाशरो निकषात्मजः ।पाशी प्रचेता वरुणो यादसांपतिरप्पतिः ॥ ३४२ ॥
अनुष्टुप्
genderपुंmasc.
वरुणः सारथिः स्वामी नदीनाथः प्रजापतिः ।समुद्रवल्लभः शंभुः पाशभृत्सर्वतोमुखः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
वरुणः पाशभृच्चैव प्रचेता अब्धिमन्दिरः ।यादःपतिर्जलपतिः पाशी पश्चिमदिक्पतिः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
वरुणो भृकुटिर्यक्षो गोमेधः पार्श्वयक्षपः ।मातङ्गश्चार्हतां भक्ताः क्रमात् शासनरक्षकाः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
इन्द्रश्चाग्निर्यमश्चैव नैर्ऋतो वरुणस्तथा ।वायुस्तया कुबेरः स्याद् ईशानश्च यथाक्रमम् ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
वरुणो जलकान्तारः प्रचेताश्च परञ्जनः ॥ २१५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पलाशः कर्वुरो यातुरक्षसी भूतनैऋतौ ।वरुणो जम्बुकः पाशी मेघनादो जलेश्वरः ॥
अनुष्टुप्
genderपुंmasc.
दिग्भवं सर्वमेव स्यात् दिथ्यं त्रिषु निगद्यते ।महेन्द्रोऽग्निर्धर्मराजो निर्ऋतिर्वरुणोऽनिलः ॥
अनुष्टुप्
genderपुंmasc.
वरुणस्तिक्तशाकः स्यादश्मरीघ्नः कुमारकः ।वरणः सेतुकः सेतु वराणः शिखिमण्डनः ॥
अनुष्टुप्
genderपुंmasc.
तृफला, गन्धवृक्षे तु वरणो वरुण्स्तथा ।भवेत् तमाले तापिच्छस्तापिञ्च्छो बिन्दुसंयुतः ॥ १७३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
वरुणो यादसांनाथो वरुणानीति तद्वधूः ।सैव गौरी तदुद्यानं वैभ्राजं तत्पुरी सुखा ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
वरणे सिततरुवरुणौ सेतुकुमारौ च तिक्तशाकश्च ।अभया पूतना पथ्या हरीतक्यमृता शिवा ॥ ४६३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अमहीयुर्दीर्घतमा मारीचांहोमुचौ लुशः ।मन्युदेवापिकर्णश्रुद्वरुणा मथितः सुदाः ॥ १७७३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्दी (wrong syllable)
genderपुंmasc.
वः खड्गीशः स्वायुयुतो(एव) वज्रस्फिक् मुखमेव हि ।वरुणः सागरश्चैव जगद्भाषा शुचिस्तथा ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
बालो वामांश-खड्गीशावुत्कारी वरुणो जलम् ।लान्तश्च वारिदो मेदः सुधा धेनुर्व-कारकः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
पिशाचो मेघनादस्तु वरुणो वः परञ्जयः ।दैत्यदेवश्च वातिस्तु नभःप्राणो जगद्बलः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
दन्तकर्षणजम्बीरौ कतकोम्बुप्रसादनः ।वरुणस्त्वऽश्मरीघ्नोऽथाध्वगभोग्यो मधुद्रुमः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
वरुणः शीतलो वामो दुंदुभिः संवृतोऽप्पतिः ।अंबुवासोंऽबुकान्तारः पाशी मकरवाहनः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
मञ्जिष्ठातिविषात्रिवृत्सु वनिता तद्रागवत्स्वन्यव-द्वृक्षे पुंसि रसान्तरे च करुणः प्रोक्तो दयायां स्त्रियाम् ।सूर्ये वारिपतौ तरौ च वरुणोऽथो कुब्जपुष्पे भवे-देरण्डे तरुणः स यूनि परवत्स्याद्दारुणो ना रसे ॥ १८ ॥
शार्दूलविक्रीडितम्
स्वर्लोके परमेष्ठिनीह वरुणो गोत्रे तु मूले पदेशाखादौ भ्रमणे स्त्रियां न चरणोऽन्त्ये रासभे च ध्वनौ ।रक्षोभिद्रसयोस्तु पुंसि लवणः कान्तौ स्त्रियामन्यव-त्तद्युक्ते करणस्तु वैश्यवृषलीपुत्रे च काये कृतौ ॥ १९ ॥
शार्दूलविक्रीडितम्
जलोदराख्ये क्ली त्वप्सु प्रसवेऽत्रोक्तशाखिनः ।वसन्तस्त्वृतुभेदे ना सुरभ्याख्ये त्रिषु त्वयम् ॥ १६२८ ॥
अनुष्टुप्
doubtful
वरुणस्तरुभेदे स्याज्जले पश्चिमदिक्पातौ ।वरणं पूजनादौ ना प्राकारतिक्तशाकयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 क्पा (wrong syllable); pāda 4, syllable 3 र (wrong syllable)
वरुण as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् जम्बुकजम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ । Amarakośa 3.3.3
- धरणिकोश जम्बुकजम्बुकौ क्रोष्टुवरुणौ कृषकौ फालकर्षकौ । वञ्चको जम्बुके धूर्ते वर्तकोऽश्वखुरे खगे ॥ Dharaṇikośa 1.1.7
- धरणिकोश पाशिन्खड्गी च गण्डके ख्यातः सेवकोऽसिधरश्च यः । पाशी चाखेटकः प्रोक्तः पाशी स्याद्वरुणे यमे ॥ Dharaṇikośa 19.2.13
- धरणिकोश जलेन्द्रजलेन्द्रो जम्भलो ज्ञेयो जलेन्द्रो वरुणः स्मृतः । नरेन्द्रो भूपतिः ख्यातो नरेन्द्रश्चाहितुण्डिकः ॥ Dharaṇikośa 26.2.51
- धरणिकोश ववशब्दो वरुणं प्राह इवार्थं च तदव्ययम् । लवो रामसुते प्रोक्तो लवश्छेदनलेशयोः ॥ Dharaṇikośa 28.2.1
- धरणिकोश ववशब्द उपमाने स्याद्वरुणे च त्वनव्ययम् । वा समुच्चयोपमयोर्वा विकल्पेऽवधारणे ॥ Dharaṇikośa 34.13.1
- कोषकल्पतरु जम्बुकवरुणेऽपि जम्बुकः स्याद्- ग्रन्थिक आद्ये करी[रः]स्यात् । गुग्गुलुमाद्रीसून्वो- र्दैवज्ञेऽन्त्ये तु पिप्पलीमूले ॥ ९२ ॥ Koṣakalpataru 6.1.92
- कोषकल्पतरु जलनायकमेघे तु जलकरङ्कः फले तथा नालिकेरस्य । जलनाय[260b]कस्तु शङ्खे सलिललतायां तथा वरुणे ॥ ६८ ॥ Koṣakalpataru 6.1.68
- कोषकल्पतरु सेतुकुमारके देवलके च नाथ केतुः पुमान्केतनरुग्ग्रहेषु । उत्पातलक्ष्मारिषु चाथ सेतुः पुंस्यावलौ स्याद्वरुणेऽपि तद्वत् ॥ १६ ॥ Koṣakalpataru 6.16.16
- कोषकल्पतरु यादसाम्पतिअथ यादसां पतिः स्याद्वरुणे रत्नाकरे तद्वत् । पृथिवीपतिरवनीशे वृषभाह्वे चौषधे पुंसि ॥ ८९ ॥ Koṣakalpataru 6.17.89
- कोषकल्पतरु मेघनादसारीणां फलके तथा च कनकेऽप्यष्टापदो न स्त्रियां पुंसि स्याच्छरभे गिरावपि कपौ लूतेन्दुमल्ल्योस्तथा । लङ्केशात्मजतन्दुलीयवरुणे स्यान्मेघनादो महा- नादस्तु द्विपवर्षुकाम्बुदशयुष्वत्रोदितः पण्डितैः ॥ ४४ ॥ Koṣakalpataru 6.19.44
- कोषकल्पतरु जलेन्द्रजलेन्द्र उक्तो वरुणेऽम्बुधौ च स्याज्जम्भले देहजलक्षणे तु । सामुद्रमाहुर्लवणेऽब्धिजाते विशेष्यलिङ्गं सुधियो वदन्ति ॥ ७३ ॥ Koṣakalpataru 6.27.73
- कोषकल्पतरु केशकाशस्तृणे योषिति[ नाथ ]वा[81a]रा- णस्यां स्त्रियां स्याद्वरुणे तु केशः । ह्रीबेरबालासुरभित्सु कीशः शाखामृगे पुंसि दिगम्बरे च ॥ ७ ॥ Koṣakalpataru 6.30.7
- कोषकल्पतरु सुखाशउपांशुघातिन्यपि ना वराके परोपमो ना वरुणे सुखाशः । स्याच्छोभनाशे तिनिशे च राज्ञः पिङ्गाश उक्तो झषपल्लि[82a]भर्त्रोः ॥ Koṣakalpataru 6.30.19
- नानार्थार्णवसंक्षेप वामयोषिद्भेदे परे वामा स्यादश्वायां तु वाम्यसौ । सज्जनस्तु द्वयोरुष्ट्रे ना तु स्याद्वरुणे स्मरे ॥ १२१६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1216
- नानार्थार्णवसंक्षेप तमालतमालो वरुणे खड्गे तापिञ्छे तिलकेऽपि च । तपनस्तु रवौ चन्द्रे घर्मेऽपि च पशावपि ॥ ९१ ॥ Nānārthārṇavasaṃkṣepa 3.2.91
- नानार्थार्णवसंक्षेप पुरन्ध्रिकेसराख्यद्रुमे पुंसां श्रेष्ठे जातिफलेऽपि च । पुरन्ध्रिः पुनरिन्द्रे च वरुणे चाथ बण्ठरः ॥ १६७ ॥ Nānārthārṇavasaṃkṣepa 3.2.167
- नानार्थार्णवसंक्षेप उद्दामउद्दामो वरुणे पुंसि त्रिषु तु स्याद्विशृङ्खले । उल्लोलः पुंसि कल्लोले भृशलोले तु भेद्यवत् ॥ २६० ॥ Nānārthārṇavasaṃkṣepa 4.260
- नानार्थार्णवसंक्षेप कुण्डलिन्पुमांस्तु वरुणे प्रोक्तस्त्रि तु कुण्डलवत्यसौ । कृषीवले कुडुम्बी द्वे कुडुम्बवति तु त्रिषु ॥ ५५९ ॥ Nānārthārṇavasaṃkṣepa 4.559
- नानार्थार्णवसंक्षेप जम्बुकमेदके कितवे तु त्रि जङ्गलस्तु त्रि निर्जले । देशे क्लीबं तु मासेऽथ जम्बुको वरुणे पुमान् ॥ ७७५ ॥ Nānārthārṇavasaṃkṣepa 4.775
- नानार्थार्णवसंक्षेप दुन्दुभिदुष्टायां च गतौ त्रिस्तु बहुव्रीहावथो पुमान् । भेर्यां स्याद्दुन्दुभिदैत्यविशेषे वरुणेऽपि च ॥ ९५१ ॥ Nānārthārṇavasaṃkṣepa 4.951
- नानार्थार्णवसंक्षेप प्रचेतस्पुमांस्त्री तु विधिज्ञायां स्त्रियां ज्ञेया प्ररीत्वरी । प्रचेता वरुणे वह्नौ ना त्रिस्तूत्कृष्टचेतसि ॥ ११२५ ॥ Nānārthārṇavasaṃkṣepa 4.1125
- नानार्थार्णवसंक्षेप यादःपतिमहिषे स्याद्यमरथो यमस्य स्यन्दनेऽपि च । यादःपतिस्तु वरुणे समुद्रेऽथ युधिष्ठिरः ॥ १०१ ॥ Nānārthārṇavasaṃkṣepa 6.101
- परमानन्दीयनाममाला केशकल्यं मद्ये प्रभातेऽपि सावधाने निरामये । केशोऽब्जे वरुणे वाले काशः स्यात्तृणरोगयोः ॥ ९२ ॥ Paramānandīyanāmamālā 5.7.92
- परमानन्दीयनाममाला कुण्डलिन्कौतुकं कुतुके गीतादौ स्मये [18] मङ्गलेऽपि च । कुण्डली कुण्डलोपेते वरुणे केकिनागयोः ॥ १११ ॥ Paramānandīyanāmamālā 5.7.111
- परमानन्दीयनाममाला गोपतिगोलको जारजे रण्डापुत्रे मणिकसंज्ञके । गोपतिर्वल्लवे रुद्रे सागरे वरुणेन्द्रयोः ॥ १६३ ॥ Paramānandīyanāmamālā 5.9.163
- परमानन्दीयनाममाला तमालतूलतल्पे शिलाकायां तूलिका चित्रलेखिनी । तमालः खड्गतापिच्छपुण्ड्रेषु वरुणे पुनः ॥ २३२ ॥ Paramānandīyanāmamālā 5.15.232
- परमानन्दीयनाममाला हरिहरिः कृष्णेऽनिले भेके यमे सिंहे खगेश्वरे । इन्द्रे चन्द्रे कपौ कीरे किरणे वरुणेऽरुणे ॥ ३७२ ॥ Paramānandīyanāmamālā 5.28.372
- शिवकोष तिक्तशाकतिक्तशाकस्तु वरुणे खदिरे पत्रसुन्दरे । त्रिवस्तुकं गोक्षुरके त्रिफलायां कटुत्रिके ॥ ६१ ॥ Śivakoṣa 1.4.61
- शिवकोष श्वेतपुष्पशुकपुष्पः शुकतरौ शुकपुष्पं शुकच्छदे । श्वेतपुष्पः शतप्राशे वरुणे सिन्दुकुन्दयोः ॥ ३०७ ॥ Śivakoṣa 17.3.307
- शिवकोष धूलीकदम्बधूलीकदम्बस्तिनिशे निम्बे वरुणनीपयोः । शृगालजम्बूर्गोडुम्बे स्त्रियां घोण्टाफलेऽपि च ॥ ३२२ ॥ Śivakoṣa 18.4.322
- शिवकोष कुमारश्वेतस्पन्दामहाजम्ब्वोः कुमारो वरुणे नरि । कुञ्जरा मदनीयायां पाटलायां च केसरः ॥ ३९७ ॥ Śivakoṣa 22.3.397
- शिवकोष सालशैलं तार्क्ष्ये च शैलेये सालो वरुणसर्जयोः । Śivakoṣa 23.1.12
- शब्दरत्नावली जम्बुकजम्बुको वरुरो नीचे शृगाले तर्कभेदके । जतुकाऽजिनपत्रायां क्लीबं स्यात् हिङ्गुयावयोः ॥ Śabdaratnāvalī 7.1.75
- शब्दरत्नावली तिक्तशाकतिक्तशाकस्तु वरुणे खदिरे पत्रसुन्दरे । कटुत्रिके गोक्षुरके त्रिफलायां त्रिवर्णकम् ॥ Śabdaratnāvalī 7.1.174
- शब्दरत्नावली महाकच्छमहारुच्छ(?)स्तु वरुणे समुद्रे पर्वतेऽपि च ॥ Śabdaratnāvalī 7.7.7
- शब्दरत्नावली विवस्वत्विवस्वान् वरुणे सूर्ये तत्रगर्यां विवस्वती । वैजयन्तोऽपि शक्रस्य प्रासादध्वजयोः पुमान् ॥ Śabdaratnāvalī 7.16.173
- शब्दरत्नावली यादसांपतिगिरिकर्णी जया दुर्गाशनपर्ण्यपराजिता । विधूपितासन्नमृत्योस्तप्ते स्यादुपधूपितः ॥ शङ्करेऽपिच हेरम्बे गणाधिपतिरित्यपि । पतनेच्छौ विहङ्गे च भवेत्पिपतिषन्निति ॥ ऋषभौषधिभेदे स्यान्नृपतौ पृथिवीपतिः । भूपाले मन्त्रिणि क्षत्रे मूर्धाभिषिक्त इत्यपि ॥ अम्भोनिधौ च वरुणे स्यात्पुमान् यादसांपतिः । रागभेदपिकाम्रेषु वसन्तदूत इत्यपि ॥ पाटलीमाधवीवल्ल्योर्वसन्तदूत्यपि स्त्रियाम् । Śabdaratnāvalī 7.16.178
- शब्दरत्नावली बबकारो वरुणे कुम्भे बिः पक्षिण्यथवीर्गतौ । Śabdaratnāvalī 7.23.1
- शब्दरत्नावली दुन्दुभिगर्दभं शुक्लकुमुदे खरगन्धभिदोः पुमान् । गर्दभी क्षुद्ररोगे च स्त्रियां जन्तुविशेषके ॥ दुर्लभस्त्रिषु दुष्प्रापे कर्चुरादिप्रशस्तयोः । दुन्दुभिर्वरुणे दैत्ये स्त्र्यक्षे बिन्दुत्रिके द्वयोः ॥ भेर्याञ्च वाद्यभेदे स्याद्रक्षोभेदे तु पुंस्ययम् । निकुम्भो दन्तिकौषध्यां कुम्भकर्णसुतेऽपि च ॥ Śabdaratnāvalī 7.24.12
- शब्दरत्नावली रामरमा लक्ष्म्यां रमः कान्ते कामे च रक्तवञ्जुले । रामो हलिनि शारङ्गे राघवे वरुणे हये ॥ Śabdaratnāvalī 7.25.18
- शब्दरत्नावली उद्दामआश्रमो ब्रह्मचर्यादौ वानप्रस्थे वने मठे । उद्दामो वरुणे बन्धरहिते च स्वतन्त्रके ॥ Śabdaratnāvalī 7.25.32
- शब्दरत्नावली विलोमविलोमो भुजगे वह्नौ प्रतीपे वरुणे शुनि । आमलक्यां विलोमी च क्लीबं स्यादरघट्टके ॥ Śabdaratnāvalī 7.25.42
- शब्दरत्नावली कुमारकुमारः स्कन्दशुकयोर्युवराजाश्ववारयोः । बालके वरुणे पुंसि क्लीबं स्याज्जात्यकाञ्चने ॥ Śabdaratnāvalī 7.27.64
- शब्दरत्नावली ववकारः पवने वाहौ वरुणे मन्त्रणेऽपि च । कल्याणे बलवत्यश्वे वसतौ वरुणालये । वो गन्धने गतौ वाले तन्त्रवायकुविन्दयोः ॥ Śabdaratnāvalī 7.29.1
- शब्दरत्नावली केशकुशा रज्वां कुशं नीरे कुशी फाले कुथेऽस्त्रियाम् । पुमान् रायसुते द्वीपे त्रिषु पापिष्ठमत्तयोः । केशः सुगन्धिबालायां वरुणे कुन्तले हरौ ॥ Śabdaratnāvalī 7.30.4
- शब्दरत्नावली सुखाशसुखाशो राजतिनिशे वरुणे सुखभोजने । हताशः पिशुने वन्ध्ये आशाहीने च निर्दये ॥ Śabdaratnāvalī 7.30.27
- शब्दरत्नाकर अप्पतिअयाचिते जले मोक्षे त्रिषु स्यात् स्वादुनित्ययोः । अप्पती वरुणाम्भोधी अगस्त्यौ मुनिपादपौ ॥ २०३७ ॥ Śabdaratnākara 4.1.2037
- शब्दरत्नाकर खिङ्खिरखिङ्खिरो वरुणे क्रोष्टौ खेचरोर्कादिवातयोः । पूगे तदीयनिर्यासे खपुरः पूगवेष्टके ॥ २०८३ ॥ Śabdaratnākara 4.1.2083
- तन्त्राभिधान वल-कारश्च पिनाकीश इन्द्रांशौ स्वर्बलानुजः । व-कारो वरुणो बालो मेदः खड्गीश्वरोऽजरः ॥ २६ ॥ Tantrābhidhāna 1.26
- तन्त्राभिधान घमरीचिर्वरुणो मेधा कालरूपी च दाम्भिकः । लम्बोदरा ज्वालमूलं नन्देशो हननं ध्वनिः ॥ ६७ ॥ Tantrābhidhāna 2.21.67
- तन्त्राभिधान ववो बालो वारुणी सूक्ष्मा वरुणो मेदसंज्ञकः । खड्गीशो ज्वालिनी वक्षः कलसं ध्वनिवाचकः ॥ १५१ ॥ Tantrābhidhāna 2.46.151
- तन्त्राभिधान ललः श्लेषे चाशये चैव प्रलये साधनेऽपि लः । मानसे वरुणे चैव ल-कारः सान्त्वनेऽपि च ॥ ३१ ॥ Tantrābhidhāna 3.31
- तन्त्राभिधान ययमो वरुण-वागीशौ स्वशनो यामुनेयकः । मृगेन्द्रो वायुसंज्ञश्च वचनं या-र्णकः स्मृतः ॥ ४३ ॥ Tantrābhidhāna 6.43
- तन्त्राभिधान वमेधा धियो जलान्तस्थः खड्गीशो हंस-वारिदौ । वरुणश्च शिवो रौद्रो मृतेशो वा-र्णकः स्मृतः ॥ ४५ ॥ Tantrābhidhāna 6.45
- त्रिकाण्डशेष तमालतमालो वरुणे खड्गे तापिच्छे तिलकेऽपि च । गुवाकेऽपि च ताम्बूलं विडङ्गेऽपि च तण्डुलः ॥ ३९६ ॥ Trikāṇḍaśeṣa 3.3.396
- वैजयन्ती जम्बुकजंबुकौ क्रोष्टुवरुणौ जंबालौ पंकशैवलौ । श्वेतस्तिलोऽपि जामाता जीमूतौ मेघपर्वतौ ॥ २६ ॥ Vaijayantī 7.1.26
- वैजयन्ती प्रचेतस्वरुणेऽनले प्रचेताः प्रतापमाहात्म्ययोः प्रभावः स्यात् । भेदसमते प्रकारौ विपर्यये विस्तरे प्रपञ्चः स्यात् ॥ ५६ ॥ Vaijayantī 7.1.56
- वैजयन्ती यादसांपतिनिदाघ ऊष्मणि ग्रीष्मे स्वेदे घर्मस्तु तेषु च । आतपे च दिने चाथ वरुणे यादसांपतिः ॥ ५७ ॥ Vaijayantī 8.1.57
- वैजयन्ती यादस्पतियादस्पतिश्च तावब्धावप्यथो यक्षगुह्यकौ । धनदेऽप्यथ वृक्षेऽद्रौ शिखर्यगनगागमाः ॥ ५८ ॥ Vaijayantī 8.1.58