कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

स्वर्गकाण्डः · स्वर्गवर्गः (2/2)

इषिरस्तिथशुष्णौ च राजन्यो जुहुराणवत् ।वाशिर्दक्षिणपूर्वेशः शमीगर्भो धनंजयः ॥ १२६ ॥
1.2.126 · p. 20
अनुष्टुप्
कृपीटयोनि-र्विश्वप्सू रोहिताश्वो विरोचनः ।विभावसु-बृहद्भानु-मन्त्रजिह्वा वृषाकपिः ॥ १२७ ॥
1.2.127 · p. 20
अनुष्टुप्
शुष्माप्पित्ते वाडवौर्वौ सिन्ध्वग्नि-र्वडवामुखः ।संवर्त्तकोऽथ दह्रः स्याद्दवो दावो च संग्गिलः ॥ १२८ ॥
1.2.128 · p. 21
अनुष्टुप्
कर्षू-छागण-कारीषा मेघज्योतिरिरंमदः ।स्कन्धाग्निः स्थूलकाष्ठाग्निः कुकूलोऽस्त्री तुषानलः ॥ १२९ ॥
1.2.129 · p. 21
अनुष्टुप्
मुर्म्मुरः स्यादथालातोल्मुके अङ्गारमस्त्रियाम् ।त्रिषु स्फुलिङ्गश्च कणः संकरोऽग्निचटध्वनिः ॥ १३० ॥
1.2.130 · p. 21
अनुष्टुप्
शिखा-हेत्यर्चयो ज्वालकीलौ द्वंद्वेऽर्चिरादियुक् ।झाला झलक्का चण्डार्च्चिरुल्काऽलातभवेर्चिषि ॥ १३१ ॥
1.2.131 · p. 21
अनुष्टुप्
तेजोवती सभा वह्नेस्तर्क्कुः पुंस्यग्निभाजनम् ।हिरण्या कनका रक्ता सुप्रभा वा च कृष्णिका ॥ १३२ ॥
1.2.132 · p. 21
अनुष्टुप्
बहुरूपातिरक्तेति जिह्वाः सप्त हविर्भुजः ।स्वाहा स्त्रियामव्ययं चाप्यग्नायी वह्निवल्लभा ॥ १३३ ॥
1.2.133 · p. 21
अनुष्टुप्
संतापः[15a] संज्वरो दाहो पुंस्यूष्मा बाष्पमस्त्रियाम् ।धूमोऽम्भःसूर्वायुवाहोऽग्निवाहोऽग्निध्वजः स्तरीः ॥ १३४ ॥
1.2.134 · p. 21
metre not recognised
खतमालोऽब्दवाही च धूम्या स्त्री धूमसंहतिः ।रक्षा भूतिश्च भसितं पर्वटं भस्म चार्वटम् ।गृहधूमो धुन्धुमारस्त्रिष्वाग्नेयं भवादिषु ॥ १३५ ॥
1.2.135 · p. 21
अनुष्टुप्metre not read in every line
अग्नौ स्थितः स्यादग्निस्थो बर्हिष्ठो बर्हिषि स्थितः ॥ १३६ ॥
1.2.136 · p. 21
अग्नेः सोमस्य च द्वंद्वेऽग्नीषोमौ परिकीर्त्तितौ ।तथाग्नीवरुणावग्नाविष्णू अग्नामरुत्समौ ॥ १३७ ॥
1.2.137 · p. 21
अनुष्टुप्
आग्नावैष्णवमेवं स्यादग्नीषोमीयमित्यपि ।अग्नीषोम्यं तद्वदग्नीवारुणं दैवतादिषु ॥ १३८ ॥
1.2.138 · p. 22
अनुष्टुप्
अग्नामरुद्देवताकमाग्निमारुतमुच्यते ।कृशानुशब्दवत्सूक्तं स्यात्कृशानवकं तथा ॥ १३९ ॥
1.2.139 · p. 22
अनुष्टुप्
धौमीयं धूमनिर्वृत्तं धूमदेशे तु धौम्यकम् ।पुमपत्ये द्वयोर्धौम्यः स्त्रियां धौमी तथा त्रिषु ॥ १४१ ॥
1.2.141 · p. 22
अनुष्टुप्
भास्वनो पुंस्यपत्ये स्यात्भासावयन्यथा भवेत् ।भास्वायना बहुत्वे स्युरग्न्युत्पाद उपाहितम् ॥ १४२ ॥
1.2.142 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
कीनाशः शमनो यमः पितृपतिः कालः कृतान्तोऽन्तकःधूमोर्णारम[15b]णो विशीर्णचरणो वैवस्वतो धर्मराट् ।कालिन्दीसहजो दिनेशतनुजो मृत्युर्हरिः प्रेतराट्स्यात्सांज्ञायनिरन्तकृच्च समवर्त्ती दक्षिणाशापतिः ॥ १४३ ॥
1.2.143 · p. 22
शार्दूलविक्रीडितम्metre not read in every line
श्राद्धदेवो दण्डधरो धर्मश्च महिषध्वजः ।यमराट् जीवितेशश्च दण्डधारोऽपि कीर्त्तितः ॥ १४४ ॥
1.2.144 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
धूमोर्णा स्त्री संयमनी पूर्द्वाःस्थो वेधकोऽस्य च ।दासौ चण्डमहाचण्डौ कायस्थश्चित्रगुप्तकः ॥ १४५ ॥
1.2.145 · p. 22
अनुष्टुप्
जातुधानो यातुधानो राक्षसो नरविष्वणः ।हनूषः कौणपश्चातुर्द्दशोऽन्त्ये यातुरक्षसी ।कापिशेयः पीडकः स्याद्याम्या यमभवा त्रिषु ॥ १४६ ॥
1.2.146 · p. 22
अनुष्टुप्metre not read in every line
क्रव्यात्कर्बुर-कर्बरौ कुणपभुग्रात्रिंचरो रात्र्यटोदर्वो रात्रिमटोऽस्त्रपोऽश्रप इह स्यादाशिरश्चाशरः ।शङ्कुः पुण्यजनो नृचक्षसि मतौ क्रव्याद-कर्बूरकौप्रोक्ता नैर्ऋत-नैकषेय-रघुपद्वेष्या भवेदूर्दरः (?) ॥ १४७ ॥
1.2.147 · p. 22
शार्दूलविक्रीडितम्
पौलस्त्यो दशकन्धरो दशमुखो लङ्केश्वरो रावणोरक्षोराडनरण्यजिद्रघुपतिद्वेषी जटाय्वन्तकः ॥ १४८ ॥
1.2.148 · p. 23
शार्दूलविक्रीडितम्
लङ्का तस्य पुरी सुवर्णनगरी [16a] मन्दोदरी सुन्दरीपुत्रे रावणि-लक्ष्मणारि-बलभिज्जिन्-मेघनादा अपि ॥ १४९ ॥
1.2.149 · p. 23
metre not recognised
माताऽस्य केकसी कुम्भकर्णस्तस्य सहोदरः ।राक्षसासुरयोर्वैरे क्लीबे रक्षोसुरं भवेत् ॥ १५० ॥
1.2.150 · p. 23
अनुष्टुप्
यादःपति-र्वारिपतिः प्रचेताःपाश्यम्बुकान्तार-परंजनाः स्युः ।प्रत्यक्पतिर्वो वरुणोऽर्णवौकाआभोग एतस्य तथातपत्रम् ॥ १५१ ॥
1.2.151 · p. 23
इन्द्रवज्रा
भार्यास्य वरुणानी स्यात्सभा कृष्णाञ्जना मता ।पाशोऽस्य नागपाशः स्यात्पुरी श्रद्धावती सुखा ॥ १५२ ॥
1.2.152 · p. 23
अनुष्टुप्
मरुन्-मरुत-मारुत-श्वसन-गन्धवाहानिलाःसमीर-समिराशुग-क्षिपणवोऽङ्कतीश्चाञ्चतिः ।समीरण-सदागती वहति-शुक्षि-वाताहतिर्-नभस्वति महाबलः पवन-धूक-वीकाभृमिः ॥ १५३ ॥
1.2.153 · p. 23
पृथ्वी
गन्धवहः पवमानः पृषदश्व-वहन्त-मातरिश्वानः ।वायु-प्रभञ्जन-जगत्प्राण-नभःश्वास-सर्पकान्त-सृकाः ॥ १५४ ॥
1.2.154 · p. 23
गीतिः
सृदाकुराध्यश्च शुनश्चलः शारो धवाणकः ।प्रकम्पनः कम्पलक्ष्मा स्पर्शनो दैत्यनिर्जरः ॥ १५५ ॥
1.2.155 · p. 23
अनुष्टुप्
लघट् क्षित्वा-जगच्चा[16b]थ झञ्झासौ चण्डवृष्टिकः ।स्यात्करीषंकषा वात्या पवाका व्राजिरित्यपि ॥ १५६ ॥
1.2.156 · p. 23
अनुष्टुप्metre not read in every line
वायोरिदं वायवीयं वायव्यं वायुदैवतम् ॥ १५८ ॥
1.2.158 · p. 23
प्राणापान-समानोदान-व्यानाः शरीरगा मरुतः ।हृदये पायौ नाभौ कण्ठे सर्वे च विष्ठिताः क्रमशः ॥ १५९ ॥
1.2.159 · p. 24
गीतिः
जिगत्नुः प्राणवायुः स्यान्मर्क्कः सर्वशरीरगः ।भूवायुरावहः प्रोक्तो बहिर्द्वादशयोजनैः ॥ १६० ॥
1.2.160 · p. 24
अनुष्टुप्
संचरन्नयमम्भोदविद्युदाधारको मतः ।तदूर्ध्वं प्रवहस्तत्र नक्षत्रग्रहसंस्थितिः ॥ १६१ ॥
1.2.161 · p. 24
अनुष्टुप्
तदूर्ध्वमुद्वहस्तस्मात्संवहः सुवहस्ततः ।तस्मात्परिवहोऽत्रैव सुरस्रोतस्विनीस्थितिः ॥ १६२ ॥
1.2.162 · p. 24
अनुष्टुप्
परावहस्ततोऽप्यूर्ध्वं सप्तवाह्याः समीरणाः ।तुरो जवो रयो वेगः प्रसरः स्यद-वाजवत् ॥ १६३ ॥
1.2.163 · p. 24
अनुष्टुप्
क्लीबे तु रंहस्तरसी अथ शीघ्रं लघु द्रुतम् ।त्वरितं सत्वरमरं तूर्णमाश्वविलम्बितम् ॥ १६४ ॥
1.2.164 · p. 24
अनुष्टुप्
पुलाकश्चपलं क्षिप्रं झम्पासंपातपाटवम् ।अजस्रं नित्यमनिशमश्रान्तं सततं तथा ॥ १६५ ॥
1.2.165 · p. 24
अनुष्टुप्
संसक्त-सततासक्ताविरतानारतानि च ।तथा[17a]ऽनवरतं क्लीबेऽथात्यर्थे स्याद्भृशं दृढम् ॥ १६६ ॥
1.2.166 · p. 24
अनुष्टुप्metre not read in every line
अतिमर्यादमुद्गाढं गाढं बाढं च निर्भरम् ।नितान्तैकान्ततीव्राणि निःसीममतिमात्रवत् ॥ १६७ ॥
1.2.167 · p. 24
अनुष्टुप्
प्रकाममतिकामं च निकामं चातिवेलवत् ।अतिरेकभरोत्कर्षातिशया अतिशायने ॥ १६८ ॥
1.2.168 · p. 24
अनुष्टुप्
क्षेपिष्ठः क्षेपीयान् क्षिप्रोत्कर्षे विशेष्यलिङ्गः स्यात् ।साधिष्ठः साधीयान् बाढोत्कर्षेऽथ साधिमा भावे ॥
1.2.162 · p. 24
metre not recognised
श्रीदो वैश्रवणो धनेश-धनदाविच्छावसुर्यक्षराट्पौलस्त्यस्त्रिशिराः कुहो हरसखो यक्षोऽवलक्षोदरः ।रक्षोराण्-नरवाहनो निधिपतिः कैलासगः किंनर-स्वामिन्यैलबिलः पिशाचकि-बक-श्रेष्ठैकपिङ्गा अपि ॥ १६९ ॥
1.2.169 · p. 24
शार्दूलविक्रीडितम्
रत्नकरो नरधर्मा नाडीजङ्घश्च गुह्यकाधीशः ।गदितश्च राजराजः किं च कुबेरस्तथोत्तराशेशः ॥ १७० ॥
1.2.170 · p. 25
गीतिः
पुष्पकमस्य विमानं तनयौ नलकूबरो मणिग्रीवः ।केलिवनं चैत्ररथं धानपतं तद्भवेऽन्यस्मिन् ॥ १७१ ॥
1.2.171 · p. 25
आर्या
पुरी वस्वौकसाराऽस्य तस्यामेवालका प्रभा ।यक्षो बकः [17b] पुण्यजनः पिशाचो भूतमस्त्रियाम् ।…गुह्यकस्तु वटान[श्र]यः ॥ १७२ ॥
1.2.172 · p. 25
अनुष्टुप्metre not read in every line
विद्याधरः कामरूपः कटप्रूः स्थिरयौवनः ॥ १७३ ॥
1.2.173 · p. 25
स्यात्किंनरः किंपुरुषो हयास्योमयुश्च किंनार इहोपदिष्टः ।क्लीबे निधानं नरि शेवधिः स्यान्-निधिः कुनाभिश्च नवास्य भेदाः ॥ १७४ ॥
1.2.174 · p. 25
उपजातिः
महापद्मश्च पद्मश्च शङ्खो मकर-कच्छपौ ।मुकुन्द-कुन्द-नीलाश्च खर्व्वश्च निधयो नव ॥ १७५ ॥
1.2.175 · p. 25
अनुष्टुप्