कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

प्रथमः काण्डः · दिक्पालाध्यायः

इति श्रीवत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे आदिदेवाध्यायः प्रथमः ॥

दिक्पालाध्यायः

वज्रीन्द्रो मघवा वृषा वलरिपुर्वास्तोष्पतिर्वासवःशक्रो जम्भरिपुः सहस्रनयनः संक्रन्दनो वृत्रहा ।सुत्रामा सुरनायकः शतमखो वृद्धश्रवाः कौशिकःस्वाराड्दुश्च्यवनः शचीसहचरो जिष्णुर्मरुत्वान् हरिः ॥ ६६ ॥
1.3.66 · p. 9
शार्दूलविक्रीडितम्
पुरुहूतः पुलोमारिः पृतनाषाट् पुरंदरः ।तुराषाण्नमुचिद्वेषी विडौजा मेघवाहनः ॥ ६७ ॥
1.3.67 · p. 9
अनुष्टुप्
आखण्डलो हरिहयस्तेजोधन्वा दिवस्पतिः ।लेखर्षभः शुनासीरः ऋभुक्षाः पाकशासनः ॥ ६८ ॥
1.3.68 · p. 9
अनुष्टुप्
महेन्द्रो गोत्रभित्पूतक्रतुः पूर्वहरित्पतिः ।प्राचीनबर्हिर्हरिवान् मेषाण्डो वज्रदक्षिणः ॥ ६९ ॥
1.3.69 · p. 9
अनुष्टुप्
ऊर्ध्वधन्वाथ तज्जाया शचीन्द्राणी पुलोमजा ।पूतक्रतायी सैव स्यात् पुरीन्द्रस्यामरावती ।पुत्रो जयन्तः प्रासादो वैजयन्तोऽशनिर्ध्वजः ॥ ७० ॥
1.3.70 · p. 9
अनुष्टुप्
सुता जयन्ती द्वार्स्थस्तु देवनन्द्यथ नन्दिका ।क्रीडाभूमिर्नन्दिसरो वापी सूतस्तु मातलिः ॥ ७१ ॥
1.3.71 · p. 10
अनुष्टुप्
उच्चैःश्रवास्तुरङ्गः स्याल्लीलोद्यानं तु नन्दनम् ।ऐरावत ऐरावणराथन्तर्यभ्रमुप्रियस्वरिभाः ॥ ७२ ॥
1.3.72 · p. 10
अनुष्टुप्metre not read in every line
वज्रोऽस्त्री शतकोटिस्वरुपविदम्भोलिशम्बनिर्घाताः ।कुलिशं भिदुरं ह्रादिन्यशनि गौरुभे द्वयोः ॥ ७३ ॥
1.3.73 · p. 10
metre not recognised
स्वर्गस्तु नाकस्त्रिदिवः सुरलोकः स्त्रियौ परे ।द्योदिवौ द्वे न त्रिषु स्वर्न द्वयोः स्यात् त्रिविष्टपम् ॥ ७४ ॥
1.3.74 · p. 10
अनुष्टुप्
देवा यज्ञभुजोऽमरा दिविषदो बर्हिर्मुखा निर्जरागीर्वाणास्त्रिदिवेश्वराः सुमनसो वैमानिका वायुनाः ।अस्वप्ना अमृताशना अनिमिषा वृन्दारकाः खेचराआदित्या असुराहिता अदितिजा लेखा निलिम्पाः सुराः ॥ ७५ ॥
1.3.75 · p. 10
शार्दूलविक्रीडितम्
विबुधामर्त्यदिवौकस्त्रिदशसुपर्वादितेयमरुदृभवः ।षण्डे न देवताः स्युर्नरि च तयोरेव दैवतानि स्युः ॥ ७६ ॥
1.3.76 · p. 10
गीतिः
अजानजाः स्वतोदेवाः कर्मदेवास्तु कर्मभिः ।कुरुमान् वसुमान् दक्षो रोचमानो धुनिः क्रतुः ॥ ७७ ॥
1.3.77 · p. 11
अनुष्टुप्
कालः कामः सखा सत्यो विश्वेदेवा अमी दश ।प्राभास आपः प्रत्यूषो धरः सोमो ध्रुवोऽनिलः ॥ ७८ ॥
1.3.78 · p. 11
अनुष्टुप्
अनलो वसवोऽष्टैत एतन्मुख्या मरुद्गणाः ।स्युर्महाराजिका रुद्रास्तुषिता वसवोऽनिलाः ॥ ७९ ॥
1.3.79 · p. 11
अनुष्टुप्
विश्व आभास्वराः साध्या आदित्या गणदेवताः ।दस्रौ तु देवभिषजावश्विनावश्विनीसुतौ ॥ ८० ॥
1.3.80 · p. 11
अनुष्टुप्
नासत्यावाश्विनेयौ तौ नासिक्यौ यज्ञवाहकौ ।अब्जो धन्वन्तरिस्त्वष्टा विश्वकर्मा द्युवर्धकिः ॥ ८१ ॥
1.3.81 · p. 11
अनुष्टुप्
अग्नाविष्णू इति स्यातामग्निर्विष्णुश्च देवते ।शब्दास्त्वेवं क्रमादूह्या देवताद्वन्द्ववाचकाः ॥ ८२ ॥
1.3.82 · p. 11
अनुष्टुप्
विद्याधराप्सरः सिद्धयक्षराक्षसगुह्यकाः ।पिशाचभूतगन्धर्वकिंनराः सुरयोनयः ॥ ८३ ॥
1.3.83 · p. 11
अनुष्टुप्
अथ स्त्रियामप्सरसो भूम्नि स्वर्वारयोषितः ।घृताची मेनका रम्भा विश्वाची लम्बकोर्वशी ॥ ८४ ॥
1.3.84 · p. 11
अनुष्टुप्
तारा सुकेश्यनुम्लोचा सहजन्या तिलोत्तमा ।कृतस्थला मञ्जुघोषा मरीचिः पुञ्चि(ञ्जि?)कस्थला ॥ ८५ ॥
1.3.85 · p. 12
अनुष्टुप्
प्रम्लोचा हरिणी साची पूर्वचित्तिरलम्बुसा ।पुण्डरीका पञ्चचूडेत्याद्याः स्वगवधूत्तमाः ॥ ८६ ॥
1.3.86 · p. 12
अनुष्टुप्
विधिहृदयमनङ्गो मृत्युरुर्वी नभस्वां-स्तपनशशिमयूखा जातवेदाश्च वेदाः ।अमृतमचिररोचिर्दक्षकन्ये जलं चत्रिदशपुरवधूनां जन्मनः कारणानि ॥ ८७ ॥
1.3.87 · p. 12
मालिनी
स्युः किंनराः किंपुरुषाः मयवोऽश्वमुखा अपि ।समानौ यक्षकाषेयौ भूताभूततनूद्भवाः ॥ ८८ ॥
1.3.88 · p. 12
अनुष्टुप्
गुह्यकाः स्युर्देवजनाः पुत्रा ये सत्ययौवनाः ।विद्याधरास्ते गन्धर्वा गातवो देवगायनाः ॥ ८९ ॥
1.3.89 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्दे (wrong syllable)
पिशाचाः कापिशेयाः स्युः सिद्धास्तु सनकादयः ।सुधा त्वमृतपीयूषे सुधर्मा दिविषत्सभा ॥ ९० ॥
1.3.90 · p. 12
अनुष्टुप्
मेरुस्तु रत्नसानुः स्वर्णमहीभृत्सुमेरुसुरशैलाः ।मन्दाकिन्यमरधुनी विष्णुपदी स्वर्णदी वियद्गङ्गा ॥ ९१ ॥
1.3.91 · p. 12
गीतिः
हरिचन्दनमस्त्री स्यान्मन्दारः कल्पभूरुहः ।पारिजातश्च संतानः पञ्चैते देवपादपाः ॥ ९२ ॥
1.3.92 · p. 12
अनुष्टुप्
चिन्तामणिः सुरमणिः सुरभिः सुरनैचिकी ।कामधेनुर्वियद्यानं विमानं पुंनपुंसुकम् ॥ ९३ ॥
1.3.93 · p. 13
अनुष्टुप्
दैतेयासुरदानवदितिसुतदनुतनयदेवविद्विषतः ।शक्रारिशुक्रशिष्यक्रतुरिपुदैत्याश्च पूर्वदेवाश्च ॥ ९४ ॥
1.3.94 · p. 13
गीतिः
दितिरदितिर्दनुकद्रूविनतानिकषाश्च मातरः क्रमतः ।दैतेयदेवदानवफणधरपतगेन्द्रयातुधानानाम् ॥ ९५ ॥
1.3.95 · p. 13
गीतिः
अग्निर्हव्यवहः कृशानुरनलो वैश्वानरः पावकःशोचिष्केश उषर्बुधो हुतवहः स्वाहासहायः शुचिः ।सप्तार्चिर्दहनः समीरणसखो वह्निस्त्रिधामा शिखीशुक्रः शुष्मकृपीडयोनिहुतभुग्बर्हिर्बृहद्भानवः ॥ ९६ ॥
1.3.96 · p. 13
शार्दूलविक्रीडितम्
ज्वलनोदर्चिरर्चिष्मदाश्रयाशधनंजयाः ।हिरण्यरेतःस्रुग्जिह्वदमुनश्चित्रभानवः ॥ ९७ ॥
1.3.97 · p. 13
अनुष्टुप्
रोहिताश्वो मन्त्रजिह्वः सप्तजिह्वस्तनूनपात् ।वीतिहोत्रो जातवेदाः कृष्णवर्त्मा विभावसुः ॥ ९८ ॥
1.3.98 · p. 13
अनुष्टुप्
ज्वालायुधो धूमकेतुः सर्वभक्षः समन्तभुक् ।आशुशुक्षणिरप्पित्तमौर्वस्तु बडवानलः ॥ ९९ ॥
1.3.99 · p. 13
अनुष्टुप्
संवर्तबाडवौ दस्रदवदावा वनानले ।छागरस्तु करीषाग्निस्तरक्षस्तु तृणानले ॥ १०० ॥
1.3.100 · p. 14
अनुष्टुप्
स्कन्धाग्निः काष्ठाग्निस्तुषवह्नौ मुर्मुरकुकूलौ ।असुराणां सहरक्षा अमराणां हव्यवाहनो वह्निः ॥ १०१ ॥
1.3.101 · p. 14
उद्गीतिः
क्रव्यात्परेतदहनो वह्निः स्यात्कव्यवाहनः पैत्रः ।अनलौ तु भरतसुलभौ ब्रह्मौदनपाकयज्ञयोः क्रमतः ॥ १०२ ॥
1.3.102 · p. 14
गीतिः
अथ वैश्वदेवसवनाहुतिवह्नी अद्भुतयविष्ठौ ।महिमान् विवाहवह्निर्बह्वन्नादो व्रतान्ताग्निः ॥ १०३ ॥
1.3.103 · p. 14
उपगीतिः
पथिकृत्पथिहोमेऽग्निः पदहोमे त्वनीकवान् ।अपोनपात्तु यज्ञाग्निः क्रातवोऽग्निरपांनपात् ॥ १०४ ॥
1.3.104 · p. 14
अनुष्टुप्
शुक्रान्वाहार्यपचनावध्वरे दक्षिणानले ।गार्हपत्यो गृहपतिः पवमानश्च पश्चिमे ॥ १०५ ॥
1.3.105 · p. 14
अनुष्टुप्
हव्यवाहनशंस्याहवनीयाः पूर्वपावके ।सभ्यावसथ्यौ तत्पूर्वावग्नी त्रेतानलत्रये ॥ १०६ ॥
1.3.106 · p. 14
अनुष्टुप्
आधानाग्निरहस्तान आयुः स्यात्पाशुबन्धिकः ।सव्यापसव्यावनलौ मृतके सूतके क्रमात् ॥ १०७ ॥
1.3.107 · p. 15
अनुष्टुप्
सुरभिर्यूपकर्माग्निः स्वाहाग्नाय्यनलप्रिया ।स्यात् त्रिलिङ्गः स्फुलिङ्गोऽग्नेः समौ संतापसं ज्वरौ ॥ १०८ ॥
1.3.108 · p. 15
अनुष्टुप्
धूमस्त्वग्निध्वजो धूपः स गन्धेनाधिवासितः ।धूम्या तु धूमसंघाते रेटिः स्त्री दाहनिस्वनः ॥ १०९ ॥
1.3.109 · p. 15
अनुष्टुप्
अर्चिः स्त्रीक्लीबयोर्हेतिर्ज्वालकीलौ द्वयोः शिखा ।कराली लोहिता काली धूमवर्णा मनोजवा ॥ ११० ॥
1.3.110 · p. 15
अनुष्टुप्
स्फुलिङ्गिनी विश्वरुचिश्चेति जिह्वा हविर्भुजः ।अस्त्रियामुल्मुकोऽलातमुल्काथाङ्गारमस्त्रियाम् ॥ १११ ॥
1.3.111 · p. 15
अनुष्टुप्
तत्प्रशान्तार्चिरिङ्गालः कालिका चाग्निविट् सभे ।मेलामन्दो मषीपात्रमञ्जनं कज्जलं समे ॥ ११२ ॥
1.3.112 · p. 15
अनुष्टुप्
पितृपतिकृतान्तशमनप्रेताधिपधर्मराजयमराजाः ।कालयममहिषवाहनसमवर्तिश्राद्धदेवकीनाशाः ॥ ११३ ॥
1.3.113 · p. 15
गीतिः
वैवस्वतो दण्डधरः कालिन्दीसोदरोऽन्तकः ।पुरी संयमनी तस्या धूमोर्णा तु सधर्मिणी ॥ ११४ ॥
1.3.114 · p. 15
अनुष्टुप्
पुत्रिका त्वभ्रसन्नाली चित्रगुप्तस्तु लेखकः ।स्त्री दुर्गतिः स्यान्निरयो नरको नारकः समाः ॥ ११५ ॥
1.3.115 · p. 16
अनुष्टुप्
भेदाः स्युरस्य तपनानलतप्तकुम्भ-संदीपनक्रिमिशरौरवतप्तलोहाः ।संघातपूयवहसूकरलो हशङ्कु-संदंशतालमलभोजनकालसूत्राः ॥ ११६ ॥
1.3.116 · p. 16
वसन्ततिलका
मोहवीचिमहावीचिमहारौरवशृङ्गिणः ।अप्रतिष्ठो विशसनं कुम्भीपाको महाज्वरः ॥ ११७ ॥
1.3.117 · p. 16
अनुष्टुप्
अन्धतामिस्रतामिस्रकण्ठपाशमहालयाः ।नारका जन्तवो याम्याः प्रेता वैतरणी नदी ॥ ११८ ॥
1.3.118 · p. 16
अनुष्टुप्
अलक्ष्मीनिर्ऋतिज्येष्ठा विष्टिराजूरथ व्यथा ।पीडा बाधा कारणा स्याद्यातना तीव्रवेदना ॥ ११९ ॥
1.3.119 · p. 16
अनुष्टुप्
आभीलकष्टकृच्छ्राणि भेद्यवर्तिनि चेत् त्रिषु ।आशरकौणपकर्बुरराक्षसरात्रिंचरासृक्पाः ॥ १२० ॥
1.3.120 · p. 16
अनुष्टुप्metre not read in every line
पुण्यजनयातुधानक्रव्यात्क्रव्यादपुरुषादाः ।नैकषेयो रात्रिचरो नैर्ऋतो यातुरक्षसी ॥ १२१ ॥
1.3.121 · p. 16
metre not recognised
रावणो विंशतिभुजश्चतुष्पाद्दशकन्धरः ।चन्द्रहासः कृपाणोऽस्य संनाहस्तु विलोचकः ॥ १२२ ॥
1.3.122 · p. 17
अनुष्टुप्
इन्द्रजिन्मेघनादः स्यात्सुतो मन्दोदरी वधूः ।प्रचेताः पाथसामीशः पाशी मकरवाहनः ॥ १२३ ॥
1.3.123 · p. 17
अनुष्टुप्
वरुणो यादसांनाथो वरुणानीति तद्वधूः ।सैव गौरी तदुद्यानं वैभ्राजं तत्पुरी सुखा ॥ १२४ ॥
1.3.124 · p. 17
अनुष्टुप्
पवनसमीरसमीरणमारुतपृषदश्ववायुगन्धवहाः ।स्पर्शनपवमानानिलवातमरुच्छ्वसनमातरिश्वानः ॥ १२५ ॥
1.3.125 · p. 17
गीतिः
प्रभञ्जनजगत्प्राणपांसुकेतुप्रकम्पनाः ।दैत्यदेवनभोजन्मध्वजप्रहरणाशुगाः ॥ १२६ ॥
1.3.126 · p. 17
अनुष्टुप्
सदागतिर्गन्धवहो नभस्वानग्निसारथिः ।प्राणापानव्यानोदानसमानाः शरीरगाः पवनाः ॥ १२७ ॥
1.3.127 · p. 17
अनुष्टुप्metre not read in every line
हृत्पायुसर्वविग्रहकण्ठान्तरनाभिसंस्थिताः क्रमतः ।वातुलो वातसंघाते वात्या स्त्री मण्डलानिलः ॥ १२८ ॥
1.3.128 · p. 17
अनुष्टुप्metre not read in every line
गोगन्धनः पुरोवायुर्दक्षिणो मलयानिलः ।झञ्झावातस्तु पाश्चात्य उत्तरो हिममारुतः ॥ १२९ ॥
1.3.129 · p. 17
अनुष्टुप्
समे तु रंहस्तरसी जवो वेगो रयः स्यदः ।द्रुतं तूर्णं लघु क्षिप्रमरमाश्वविलम्बितम् ॥ १३० ॥
1.3.130 · p. 17
अनुष्टुप्
चपलं सत्त्वरं शीघ्रं त्वरितं च द्रुतादिषु ।यत्सत्त्वे वाच्यलिङ्गं तत्क्लीबे तद्यदसत्त्वके ॥ १३१ ॥
1.3.131 · p. 18
अनुष्टुप्
अविरतसन्ततसततानारतमनवरतमनिशमश्रान्तम् ।नित्यमजस्रं तीव्रं भृशमतिवेलं नितान्तमत्यन्तम् ॥ १३२ ॥
1.3.132 · p. 18
गीतिः
अतिमात्रनिर्भरदृढान्येकान्तोद्गाढबाढानि ।अविरतमुख्याश्चैते शब्दाः सर्वे द्रुतादिवत्कार्याः ॥ १३३ ॥
1.3.133 · p. 18
उद्गीतिः
पौलस्त्ययक्षनरवाहनकिंनरेन्द्र-यक्षेश्वरैलिबिलिगुह्यकराट्कुबेराः ।वित्तेशपुण्यजननाथमनुष्यधर्म-श्रीदत्रिनेत्रसखवैश्रवणैकपिङ्गाः ॥ १३४ ॥
1.3.134 · p. 18
वसन्ततिलका
इच्छावसू राजराजो धनदो निधिनायकः ।रत्नहस्तोऽलकाधीशस्तस्य चैत्ररथं वनम् ॥ १३५ ॥
1.3.135 · p. 18
अनुष्टुप्
मणिभद्रस्तु सेनानीर्नन्दनो नलकूबरः ।विमानं पुष्पकं जाया समृद्धिरलका पुरी ॥ १३६ ॥
1.3.136 · p. 18
अनुष्टुप्
सैव वस्वौकसारा स्यात्समानौ निधिशेवधी ।शङ्खः पद्मो महापद्मः कच्छपो मकरो वरः ॥ १३७ ॥
1.3.137 · p. 18
अनुष्टुप्
मुकुन्दकुन्दनीलाश्च नव भेदा निधेरमी ।वसुधारा वसुमती वल्लभे शङ्खपद्मयोः ॥ १३८ ॥
1.3.138 · p. 18
अनुष्टुप्
निक्षेप उपनिधिः स्यादर्थो राः सारमस्त्रियां द्रविणम् ।स्वं स्वापतेयमृक्थं रिक्थं वित्तं धनं वसु द्रव्यम् ॥ १३९ ॥
1.3.139 · p. 18
गीतिः
द्युम्नं हिरण्यमथ हाटकशातकुम्भ-गाङ्गेयचन्द्रकलधौतशिलोद्भवानि ।कल्याणरुक्मतपनीयहिरण्यहेमकार्तस्वरं कनककाञ्चनकर्बुराणि ॥ १४० ॥
1.3.140 · p. 19
वसन्ततिलका
जाम्बूनदं सुवर्णं स्वर्णं चामीकरं महारजतम् ।अपि भर्मजातरूपे अष्टापदभूरिणी तु वा पुंसि ॥ १४१ ॥
1.3.141 · p. 19
गीतिः
रससिद्धं तु कनकं देवार्हं वज्रधारणम् ।अलंकारसुवर्णं स्याच्छृङ्गीकनकमाशु च ॥ १४२ ॥
1.3.142 · p. 19
अनुष्टुप्
स्वर्णे दुर्वर्णसंश्लिष्ठे घनगोलकमस्त्रियाम् ।कोशमस्त्री हिरण्यं च हेमरूप्ये कृताकृते ॥ १४३ ॥
1.3.143 · p. 19
अनुष्टुप्
तद्द्वयं चाहतं रूप्यं तदन्यत्कुप्यमित्यथ ।कलधौतचन्द्रभीरुकखर्जूरश्वेतरूप्यरजतानि ॥ १४४ ॥
1.3.144 · p. 19
अनुष्टुप्metre not read in every line
दुर्वर्णवङ्गजीवनरुद्राश्रुभवानि तुल्यानि ।ताम्रं म्लेच्छमुखं म्लेच्छं सुखं शुल्बमुदुम्बरम् ॥ १४५ ॥
1.3.145 · p. 19
अनुष्टुप्metre not read in every line
श्रेष्ठं कनीयसद्विष्टं वरिष्ठं मर्कटाननम् ।स्फाटिकोऽर्कः समाः सूर्यकान्तार्काश्मानलोपलाः ॥ १४६ ॥
1.3.146 · p. 19
अनुष्टुप्
चन्द्रकान्तश्चन्द्रमणिर्वैडूर्यं वालवायजम् ।अश्वगर्भं मरतकं गारुत्मतमथास्त्रियाम् ॥ १४७ ॥
1.3.147 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
प्रवालो विद्रुमः पुंसि कुल्माषः कुरुविन्दकः ।पद्मरागो लोहितकं हीरो ना वज्रमस्त्रियाम् ॥ १४८ ॥
1.3.148 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
इन्द्रनीलमहनीलौ समौ मुक्ता तु मौक्तिकम् ।वराहशङ्खमत्स्याहिमेघद्विरदवेणवः ॥ १४९ ॥
1.3.149 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
शुक्तिरिक्षुश्च मुक्तानां नवैते जन्मभूमयः ।वज्राद्यश्मसु मुक्तादावपि रत्नं मणिर्द्वयोः ॥ १५० ॥
1.3.150 · p. 20
अनुष्टुप्
स्युर्गोमेदकमाणिक्यपुष्परागादयो भिदाः ।दिशः काष्ठा दिशा आशा हरितः ककुभश्च ताः ॥ १५१ ॥
1.3.151 · p. 20
अनुष्टुप्
अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ।प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ॥ १५२ ॥
1.3.152 · p. 20
अनुष्टुप्
ऐन्द्री प्राची दिगाग्नेयी चिराशा दिक् तु दक्षिणा ।अवाची नैर्ऋताशा स्यादन्धकी वारुणी तु दिक् ॥ १५३ ॥
1.3.153 · p. 20
अनुष्टुप्
प्रतीची मारुताशा स्यादनन्ता हरिदुत्तरा ।उदीची शांभवी काष्ठा शालाक्षाप्यपराजिता ॥ १५४ ॥
1.3.154 · p. 20
अनुष्टुप्
ऊर्ध्वा ब्राह्म्यथ नागी च नारकी चाधरा ककुप् ।मध्यं दिशोर्विदिक् स्यादपदिशमव्ययनपुंसकयोः ॥ १५५ ॥
1.3.155 · p. 21
अनुष्टुप्metre not read in every line
वलयं तु चक्रवालं हरितां युगलं तु मण्डपीठी स्यात् ।शक्राद्याः शंकरान्ताः स्युरष्टौ हरिदधीश्वराः ॥ १५६ ॥
1.3.156 · p. 21
अनुष्टुप्metre not read in every line
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ।पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १५७ ॥
1.3.157 · p. 21
अनुष्टुप्
करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ।ताम्रपर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती ॥ १५८ ॥
1.3.158 · p. 21
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 भ्र (wrong syllable)