कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शंसित

śaṃsitaवि · adj.

In 2 kośas: 2 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.148 · p. 56
अङ्गीकृतं प्रतिज्ञातमूरीकृतोरुरीकृते ॥ १४८८ ॥संश्रुतमभ्युपगतमुररीकृतमाश्रुतम् ।संगीर्णं प्रतिश्रुतं च छिन्ने लूनं छितं दितम् ॥ १४८९ ॥छेदितं खण्डितं वृक्णं कृत्तं प्राप्तं तु भावितम् ।लब्धमासादितं भूतं पतिते गलितं च्युतम् ॥ १४९० ॥स्रस्तं भ्रष्टं स्कन्नपन्ने शंसितं तु सुनिश्चितम् ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable); pāda 3, syllable 4 प्र (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.904 · p. 113
अभिहितभणितव्याहृतगदितेरितकथितजल्पितालपितम् ।आख्यातरटितशंसितकीर्तितगीतोदितोक्तगीर्णानि ॥ ९०४ ॥
गीतिः
genderविadj.