कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

द्वितीयः काण्डः · उक्तिभेदाध्यायः

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे पुराध्यायः पञ्चदशः ।

उक्तिभेदाध्यायः

उक्तिस्तु व्याहृतिर्वाक्यं भाषितं वचनं वचः ।निगादनिगदालापव्याहाराश्चोत्तरे त्रिषु ॥ ९०३ ॥
2.7.903 · p. 113
अनुष्टुप्
अभिहितभणितव्याहृतगदितेरितकथितजल्पितालपितम् ।आख्यातरटितशंसितकीर्तितगीतोदितोक्तगीर्णानि ॥ ९०४ ॥
2.7.904 · p. 113
गीतिः
श्लोकः कीर्तिः समज्ञा च यशः श्लाघा तु कत्थनम् ।स्तुतिः शंशा नुतिः स्तोत्रमीडनं स्तवनं स्तवः ॥ ९०५ ॥
2.7.905 · p. 113
अनुष्टुप्
स्यादाख्याह्वाभिधा संज्ञा नामधेयं च नाम च ।हूतिराकरणाह्वाने संहूतिर्बहुभिः कृता ॥ ९०६ ॥
2.7.906 · p. 114
अनुष्टुप्
शास्त्रे शब्दो वाचको वाचिकं स्यात्संदेशार्थः सुप्तिङन्तं पदं स्यात् ।आशीः स्त्री वाङ्मङ्गलार्थानुरागा-ज्जातः शब्दः स्यात् प्रणादः परौ तु ॥ ९०७ ॥
2.7.907 · p. 114
शालिनी
चटुश्चाटुश्च वा क्लीबे भर्त्सनं त्वपवादगीः ।स्यादामन्त्रणमाप्रश्न श्राहूतिस्तु निमन्त्रणम् ॥ ९०८ ॥
2.7.908 · p. 114
अनुष्टुप्
प्रवृत्तिवार्ते वृत्तान्त उदान्तोऽथ जनश्रुतिः ।किंवदन्त्यशरीरा तु वागेवाकाशभारती ॥ ९०९ ॥
2.7.909 · p. 114
अनुष्टुप्
कर्णाकर्णी तु वाक्कर्णपारंपर्यप्रवर्तनी ।उपालम्भः सनिन्दोक्तिरर्थवादः प्रशंसनम् ॥ ९१० ॥
2.7.910 · p. 114
अनुष्टुप्
आक्षेपावर्णनिर्वादपरिवादापवादकाः ।क्लीबे विगानकौलीने अभिशापोऽभिशंसनम् ॥ ९११ ॥
2.7.911 · p. 114
अनुष्टुप्
शापोऽधिक्षेप आक्रोश उपक्रोशो विगर्हणा ।कुत्सा निन्दा जुगुप्सा च लोटना सानुसारवाक् ॥ ९१२ ॥
2.7.912 · p. 114
अनुष्टुप्
रुशती वागशुभा स्यात् पृच्छा प्रश्नोऽनुयोगश्च ।प्रतिवचनमुत्तरं स्यादुच्चैर्घुष्टं तु घोषणाथ स्यात् ॥ ९१३ ॥
2.7.913 · p. 114
उद्गीतिः
मिथ्याभियोगोऽभि(भ्या?)ख्यानं प्रजल्पस्तु बहूदितम् ।पुमानाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति ॥ ९१४ ॥
2.7.914 · p. 115
अनुष्टुप्
प्रस्तावोपक्रमोद्घातप्रारम्भप्रक्रमाः समाः ।उपोद्घात उदाहार आख्यानं पूर्वसंकथा ॥ ९१५ ॥
2.7.915 · p. 115
अनुष्टुप्
इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणम् ।ब्रह्माण्डपाद्मवैष्णवभागवताग्नेयशैवलैङ्गानि ॥ ९१६ ॥
2.7.916 · p. 115
अनुष्टुप्metre not read in every line
ब्राह्मस्कान्दभविष्यद्वामनवाराहनारदीयानि ।गारुडब्रह्मवैवर्तमार्केण्डेयानि मात्स्यकम् ॥ ९१७ ॥
2.7.917 · p. 115
अनुष्टुप्metre not read in every line
कौर्मं चाष्टादशैतानि तावन्त्यन्यानि संख्यया ।सनत्कुमारताण्डवमानवमारीचवायवीयानि ॥ ९१८ ॥
2.7.918 · p. 115
अनुष्टुप्metre not read in every line
कालिककापिलभार्गववारुणदौर्वाससानि माहेशम् ।कौमारनारसिंहब्रह्माण्डौशनससौरसाम्बानि ॥ ९१९ ॥
2.7.919 · p. 115
गीतिः
पाराशरमथ वृत्तं मन्दाक्रान्तावसन्ततिलकादि ।मन्वत्रिविष्णुहारीतसंवर्तयमगौतमाः ॥ ९२० ॥
2.7.920 · p. 115
अनुष्टुप्metre not read in every line
पराशरव्यासशङ्खलिखितोशनसोऽङ्गिराः ।कात्यायनो याज्ञवलक्यः शातातपबृहस्पती ॥ ९२१ ॥
2.7.921 · p. 115
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 4 तप (syllable split)
आपस्तम्बो वसिष्ठश्च दक्षश्च स्मृतिकारकाः ।समीक्ष्यं सांख्यशास्त्रं स्याद्गान्धर्वं गीतिशासनम् ॥ ९२२ ॥
2.7.922 · p. 115
अनुष्टुप्
अन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः ।शब्दविद्या व्याकरणं निघण्टुर्नामशासनम् ॥ ९२३ ॥
2.7.923 · p. 115
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व्या (wrong syllable)
काव्यं कृतिः प्रबन्धश्च तत्र श्लेषादयो गुणाः ।अलंकाराः स्युरुत्प्रेक्षाश्लेषाक्षेपोपमादयः ॥ ९२४ ॥
2.7.924 · p. 116
अनुष्टुप्
कथा नानाविधैर्गद्यैर्वस्तुवैचित्र्यकल्पना ।आख्यायिकोपलब्धार्था सोच्छ्वासा दृढबन्धना ॥ ९२५ ॥
2.7.925 · p. 116
अनुष्टुप्
द्वित्रिरुदीरितमाम्रेडितमथ शोकेन भीत्यादेः ।काकुः स्त्री ध्वनिविकृतिर्व्यवहारोऽक्षो विवादश्च ॥ ९२६ ॥
2.7.926 · p. 116
उपगीतिः
आभाषणं स्यादालापः संलापोऽन्योन्यभाषणम् ।विप्रलापो विरोधोक्तिः सुप्रलापः सुभाषितम् ॥ ९२७ ॥
2.7.927 · p. 116
अनुष्टुप्
निह्नवस्त्वपलापः स्यादनुलापो मुहुर्वचः ।हाहतोऽस्मीति वचनं विलापः परिदेवनम् ॥ ९२८ ॥
2.7.928 · p. 116
अनुष्टुप्
वञ्छावचनमुल्लापः काक्का वचनमव्ययम् ।प्रलापोऽनर्थकं वाक्यमनुवादोऽनुभाषणम् ॥ ९२९ ॥
2.7.929 · p. 116
अनुष्टुप्
संवादस्त्वानुकूल्यार्थे विसंवादी विपर्यये ।उत्प्राशः स्यादुपालम्भो लल्लरो जिह्वया हते ॥ ९३० ॥
2.7.930 · p. 116
अनुष्टुप्
वाक्ये तु गलमूलस्थे कल्लिर्ना जिह्वया हते ।तुम्बको गद्गदोऽस्पष्टं सान्त्वं तु मधुरं वचः ॥ ९३१ ॥
2.7.931 · p. 116
अनुष्टुप्
स्फुटं स्पष्टमथास्पष्टं म्लिष्टं पथ्यं हितार्थकम् ।अम्बूकृतं सनिष्ठीवं निर्दोषं तु समाहितम् ॥ ९३२ ॥
2.7.932 · p. 116
अनुष्टुप्
अनक्षरमवाच्यं स्यात् स्यान्मृषार्थकमाहतम् ।निरस्तं त्वरितं प्रोक्तं संगतं हृदयंगतम् ॥ ९३३ ॥
2.7.933 · p. 117
अनुष्टुप्
असंगतमबद्धं स्यान्निष्ठुरं परुषार्थकम् ।सूनृतं प्रियमश्लीलं ग्राम्यं लुप्तपदाक्षरम् ॥ ९३४ ॥
2.7.934 · p. 117
अनुष्टुप्
ग्रस्तं सत्यमृतं तथ्यमसत्यं वितथानृते ।अलीकं सान्त्वमुख्यानि पदानि त्रिषु तद्वति ॥ ९३५ ॥
2.7.935 · p. 117
अनुष्टुप्