कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ईरित

īritaवि · adj.

In 11 kośas: 16 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1482 · p. 56
नुन्ननुत्तास्तनिष्ठ्यूतान्याविद्धं क्षिप्तमीरितम् ॥ १४८२ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.87
नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः ॥ ८७ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.148 · p. 230
ईरितः क्षिप्त आविद्धः स्यात्परीष्टं तु वेष्टितम् ।परिविष्टं परिक्षिप्तं निवृत्तं परिखादिना ॥ १४८ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.56 · p. 59
वाचोयुक्तिः स्त्रियां सम्यग्गिरां गुम्फनमीरितम् ।व्याहारो लपितं वचोऽपि वचनं स्यादीरितं भाषितंस्त्री तूक्तिर्गदिताथ साऽऽगम * * सिद्धान्तराद्धान्तकौ ।शब्दस्तु श्रुतिशास्त्रसाधुरितरो म्लेच्छोऽपशब्दो भवेत्सोऽपभ्रंश उदीर्यतेऽयमभिधावृत्त्यार्थसूर्वाचकः ॥ ५६ ॥
अनुष्टुप्two metres in one verse
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.33 · p. 25
प्रतारितं वञ्चितं स्यादतिसंहितमित्यपि ।नुन्न-नुत्तास्त-निष्ठ्यूताविद्ध-क्षिप्तेरिताः समाः ॥ ३३ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.47 · p. 27
संघुषितं संघुष्टं स्वनितं ध्वनितं तथा स्वान्तम् ।आस्वनितमुक्तमुदितं व्याहृतमाख्यातमीरितं गदितम् ॥ ४७ ॥
उद्गीतिः
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 104 · p. 52
शिरो मूर्धोत्तमाङ्गं कम्प्रारभ्यं प्रेरितेरितम् ।वाग्वचो वचनं वाणी भारती गीः सरस्वती ॥ १०४ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.706 · p. 118
नुन्ने स्यान्नुत्तनुन्नास्तनिष्ठ्यूतेरितविद्धताः ।आबर्हितः स्यादुत्खाते मूषितं मू(मु?)षितार्थकम् ॥ ७०६ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.712 · p. 119
पुष्टे पुषितपूषाणौ ज्ञापिते ज्ञप्तमीरितम् ।वसिते छितमारब्धौ पूजितेऽञ्चितनाचि(र्चि?)तौ ॥ ७१२ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.115 · p. 46
प्रत्यादिष्टं प्रतिक्षिप्तं निरस्तं नुन्नमीरितम् ।श्र(स्र)स्तं भ्रष्टं च प्रस्कन्नं पतितं गलितं च्युतम् ॥ ११५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2694 · p. 435
आविद्धं चोदितं ह्यस्तं निष्ठूतः क्षिप्तमीरितम् ॥ २६९४ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.49 · p. 166
क्षिप्ते तु नुन्ननुत्तास्तनिष्ठ्यूताविद्धमीरितम् ।निवृतन्तु परिक्षिप्तमतिक्षिप्ते भवेद्द्वयम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.86 · p. 169
पणितः पणितो गीर्णः वर्णिताभिष्टुतेरिताः ।भक्षितश्चर्वितो लिप्तः प्सातो गिलितखादितौ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.904 · p. 113
अभिहितभणितव्याहृतगदितेरितकथितजल्पितालपितम् ।आख्यातरटितशंसितकीर्तितगीतोदितोक्तगीर्णानि ॥ ९०४ ॥
गीतिः
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1603 · p. 193
स्थगितप्रोर्णुतरुद्धान्तर्हितमपवाहितं च संवीतम् ।अस्तं नुत्तं विद्धं क्षिप्तं नुन्नेरिते च निष्ठ्यूतम् ॥ १६०३ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.97 · p. 209
नुन्नास्तनुत्तप्रहितक्षिप्तविद्धाः स्युरीरिते ।बद्धे सन्नाहितं नद्धं मुद्रितं सन्दितं सितम् ॥ ९७ ॥
अनुष्टुप्
genderविadj.