कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संगीर्ण

saṃgīrṇaवि · adj.

In 7 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.148 · p. 56
अङ्गीकृतं प्रतिज्ञातमूरीकृतोरुरीकृते ॥ १४८८ ॥संश्रुतमभ्युपगतमुररीकृतमाश्रुतम् ।संगीर्णं प्रतिश्रुतं च छिन्ने लूनं छितं दितम् ॥ १४८९ ॥छेदितं खण्डितं वृक्णं कृत्तं प्राप्तं तु भावितम् ।लब्धमासादितं भूतं पतिते गलितं च्युतम् ॥ १४९० ॥स्रस्तं भ्रष्टं स्कन्नपन्ने शंसितं तु सुनिश्चितम् ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable); pāda 3, syllable 4 प्र (wrong syllable)
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.179 · p. 234
स्यात्संगीर्णं त्वविदितं संश्रुतं च समाहितम् ।उपश्रुतं चोपगतं प्रकाशे प्रकटं पुनः ॥ १७९ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.57 · p. 28
संगीर्ण-विदित-समाहित-संस्कृतवाच्यव्ययं त्वाम्स्यात् ।दृष्टं वीक्षितमालोकित-रूपित-निभालिता[नि] स्युः ॥ ५७ ॥
metre not recognised
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.366 · p. 97
प्रतिश्रुताश्रुते तुल्ये संगीर्णमपि दृश्यते ।लूनं दितं छितं छिन्ने खण्डिते छेदितं पुनः ॥ ३६६ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.79 · p. 169
उरीकृतञ्चोपगतं संगीर्णमुररीकृतम् ।अथाभ्युपगतञ्चेति प्रतिश्रुतसमाहिते ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1605 · p. 193
अवसितमनितप्रेक्षितभावितवित्तप्रतीतमुपलब्धम् ।संश्रुतविदितसमाहितसंगीर्णानि प्रतिश्रुतोपगते ॥ १६०५ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.106 · p. 209
पणितपणायितपनिताः पनायितस्तुतनुतेडिताः शस्ते ।वर्णितगीर्णौ च तथा संगीर्णोपश्रुतौ प्रतिज्ञाते ॥ १०६ ॥
गीतिः
genderविadj.