कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śāśvatakośa (Anekārthasamuccaya)

अनेकार्थसमुच्चय Śāśvatakośa (Anekārthasamuccaya)

828 verses · text only, tagging comes next

Part 1 (1/7)

अथश्रीशाश्वतप्रणीतःअनेकार्थसमुच्चयःअथवाशाश्वतकोशःश्रीगणेशाय नमः । ॐ नमः सरस्वत्यै ।पाकोत्तीर्णसुवर्णवर्णरुचिरच्छायं वसानोम्बरंभास्वत्कौस्तुभकान्तिकर्बुरपरिभ्राजिष्णुवक्षःस्थलः ।शङ्खं चक्रमसिं गदामवितरं बिभ्रच्चतुर्भिः करै-रारूढो गरुडं नवीनजलदश्यामो हरिः पातुः वः ॥ १ ॥
1 · p. 1
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 18 तुः (wrong syllable)
पूर्वाचार्यप्रसादेन विदित्वा शब्दविस्तरम् ।क्रियते शाश्वतेनायमनेकार्थसमुच्चयः ॥ २ ॥
2 · p. 1
अनुष्टुप्
स्फुटार्थपदविन्यासः शिशूनां प्रतिपत्तये ।कृतोयं न प्रबुद्धानामतः क्षाम्यन्तु सूरयः ॥ ३ ॥
3 · p. 1
अनुष्टुप्
एष ज्ञानार्थमज्ञानां संतोषाय विजानताम् ।श्रमो मम न तु ज्ञानलवगर्वितचेतसाम् ॥ ४ ॥
4 · p. 1
अनुष्टुप्
प्रसिद्धैरप्रसिद्धैश्च शब्दैरेष विनिर्मितः ।प्रसिद्धैर्ग्रन्थितुं ग्रन्थमप्रसिद्धैश्च वेदितुम् ॥ ५ ॥
5 · p. 1
अनुष्टुप्
दृष्टशिष्टप्रयोगोऽहं दृष्टव्याकरणत्रयः ।अधीती सदुपाध्यायाल्लिङ्गशास्त्रेषु पञ्चसु ॥ ६ ॥
6 · p. 1
अनुष्टुप्
अतः शब्दार्थलिङ्गेषु कर्तव्योऽत्र न संशयः ।शब्दकोशेऽभियोगेन विद्वज्जननिरूपिते ॥ ७ ॥
7 · p. 1
अनुष्टुप्
शिवं भद्रं शिवः शंभुः शिवा गौरी शिवाभया ।शिवः कीलः शिवा क्रोष्टा भवेदामलकी शिवा ॥ १ ॥
1 · p. 2
अनुष्टुप्
बलं शक्तिर्बलं सैन्यं बलं स्थौल्यं बलो बली ।बलं रूपं बलो दैत्यो बलः काको हली बलः ॥ २ ॥
2 · p. 2
अनुष्टुप्
मधु मद्यं मधु क्षौद्रं मधु पुष्परसं विदुः ।मधुर्दैत्यो मधुश्चैत्रो मधुकोपि मधुर्मतः ॥ ३ ॥
3 · p. 2
अनुष्टुप्
ध्रुवः कीले (लो) ध्रुवं शश्वद् ध्रुवं तर्के ध्रुवो मुनौ ।ध्रुवो नित्ये निश्चिते च गीतिस्रुग्भेदयोर्ध्रुवा ॥ ४ ॥
4 · p. 2
अनुष्टुप्
शिखा ज्वाला शिखा चूडा शिखा शाखा शिखा शिफा ।शिखा शिखण्डिनां चूडा शिखा स्यादग्रमात्रकम् ॥ ५ ॥
5 · p. 2
अनुष्टुप्
वाद्ये मुस्तेऽम्बुदे सान्द्रे घनः स्याल्लोहमुद्गरे ।घनौ काठिन्यसंघातौ मूर्तिबाहुल्ययोर्घनः ॥ ६ ॥
6 · p. 2
अनुष्टुप्
(घनं सान्द्रं घनं वाद्यं घनो मुस्तो घनोऽम्बुदः ।घनौ काठिन्यसंघातौ घनः स्याल्लोहमुद्गरः ॥)
14 · p. 2
अनुष्टुप्
रामा स्त्री जामदग्न्यश्च रामो रामौ सितासितौ ।रामः पशुविशेषोपि रामौ चारुहलायुधौ ॥ ७ ॥
7 · p. 2
अनुष्टुप्
पद्मा लक्ष्मीर्निधिः पद्मः पद्मानि गजबिन्दवः ।संख्यानागविशेषौ च पद्मौ पद्मं सरोहरुम् ॥ ८ ॥
8 · p. 2
अनुष्टुप्
देवप्रभेदा वसवो वसुः किरणयोक्त्रयोः ।वसु रत्नं वसु धनं वसु तेजो निगद्यते ॥ ९ ॥
9 · p. 2
अनुष्टुप्
(वसुमाहुर्हुताशनम् ॥)
18 · p. 2
अनुष्टुप्metre not read in every line
विश्वम्भरा भवेद्गोत्रा गोत्रा गोनिकुर(रु)म्बकम् ।नाम गोत्रं कुलं गोत्रं गोत्रश्च धरणीधरः ॥ १० ॥
10 · p. 2
अनुष्टुप्metre not read in every line
शाश्वतकोशःशुचिरग्निः शुचिः शुक्लः शुद्धानुपहतौ शुची ।उपधाशुद्धसचिव आषाढश्च शुचिर्मतः ॥ ११ ॥
11 · p. 3
अनुष्टुप्metre not read in every line
सुराणामन्नममृतममृतं स्यादयाचितम् ।अमृतं यज्ञशेषोपि निर्वाणं वारि चामृतम् ॥ १२ ॥
12 · p. 3
अनुष्टुप्
निर्वाणमस्तंगमनं निर्वाणं गजमज्जनम् ।निर्वाणमपवर्गोपि निर्वाणं निर्वृतिं विदुः ॥ १३ ॥
13 · p. 3
अनुष्टुप्
पुण्डरीकं सितच्छत्रं पुण्डरीकं सिताम्बुजम् ।व्याघ्रोपि पुण्डरीकः स्यात्पुण्डरीकश्च दिग्गजः ॥ १४ ॥
14 · p. 3
अनुष्टुप्
चिह्नमाहुर्बुधाः पालिं पालिः पङ्क्तिप्रदेश(भेदः)योः ।कर्णस्य ललिता पालिः पालिरश्रिरपि स्मृता ॥ १५ ॥
15 · p. 3
अनुष्टुप्
एला गावश्च बहुला बहुलाः कृत्तिका अपि ।बहुलः कृष्णपक्षो(क्षे)ऽग्निर्बहुलो बहुलं शिति ॥ १६ ॥
16 · p. 3
अनुष्टुप्
चित्रं तिलकमिच्छन्ति चित्रमालेख्यमद्भुतम् ।नक्षत्रं च सुभद्रा च चित्रा चित्रं च कर्बुरम् ॥ १७ ॥
17 · p. 3
अनुष्टुप्
बलिः पूजोपहारः स्याद्बलिर्दैत्यो बलिः करः ।बलिर्जराश्लथं चर्म जठरावयवो बलिः ॥ १८ ॥
18 · p. 3
अनुष्टुप्
अपनीतं विनीतं स्याद्विनीतो विजितेन्द्रियः ।विदुर्विनीतं निभृतं विनतग्राहितेपि च ॥ १९ ॥
19 · p. 3
अनुष्टुप्
देवारातिगुरुः शुक्रः शुक्रौ मासहुताशनौ ।शुक्रं देहवतां बीजं शुक्रमक्षिरुजं विदुः ॥ २० ॥
20 · p. 3
अनुष्टुप्
ज्या गव्यं गोहितं गव्यं गव्या गोनिकुर(रु)म्बकम् ।रागद्रव्यं च गव्याख्यं गव्यं क्षीरादिकं गवाम् ॥ २१ ॥
21 · p. 3
अनुष्टुप्
संभवं मेलकं विद्यादुत्पत्तिरथ संभवः ।आधारानतिरिक्तत्वमाधेयस्य च संभवः ॥ २२ ॥
22 · p. 3
अनुष्टुप्
अलिञ्जरं मणिं विद्यान्मेहनावयवो मणिः ।रत्नं मणिरजानां च कण्ठदेशस्तनौ मणी ॥ २३ ॥
23 · p. 4
अनुष्टुप्
कल्यं प्रभातं सज्जं च (सज्जितं) कल्यो नीरोगदक्षयोः ।कल्याणी वाक्च कल्याख्या कल्या कादम्बरी मता ॥ २४ ॥
24 · p. 4
अनुष्टुप्
गुरुर्महति विख्यातो दुर्वहा (र्जरा) लधुनोर्गुरु(रुः) ।गुरुर्निषेकादिकरे पित्रादिसुरमन्त्रिणोः ॥ २५ ॥
25 · p. 4
अनुष्टुप्
अक्षो रथस्यावयवे पाशकेऽप्यक्षमिन्द्रिये ।विभीतकेऽक्षः कर्षे च शकटव्यवहारयोः ॥ २६ ॥
26 · p. 4
अनुष्टुप्
वृत्तं दृढमधीतं च वृत्तं वृत्तिर्मतं तथा ।चरित्रच्छन्दसोर्वृत्तं निस्तलातीतयोरपि ॥ २७ ॥
27 · p. 4
अनुष्टुप्
वर्णः कृष्णो विदुः कृष्णां पिप्पलीं द्रौपदीमपि ।कृष्णाख्याः शस्त्रकव्यासधनंजयजनार्दनाः ॥ २८ ॥
28 · p. 4
अनुष्टुप्
निःसारारोग्ययोर्वार्त्तं नीरुग्वार्तोथ वृत्तिमान् ।कृष्यादाविष्यते वार्ता वर्तनोदन्तयोरपि ॥ २९ ॥
29 · p. 4
अनुष्टुप्
अधमक्रूरयोः क्षुद्रः क्षुद्रोऽल्पः कृपणस्तथा ।क्षुद्रा व्यङ्गा नटी वश्या सरघा कण्टकारिका ॥ ३० ॥
30 · p. 4
अनुष्टुप्
परिग्रहः परिजने शपथे च परिग्रहः ।परिग्रहः कलत्रे च मूलस्वीकारयोरपि ॥ ३१ ॥
31 · p. 4
अनुष्टुप्
धनवन्तमदातारं पुरुषं मत्सरं विदुः ।असोढा परसंपत्तेर्मात्सर्यमपि मत्सरः ॥ ३२ ॥
32 · p. 4
अनुष्टुप्
शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः ।पारदे देहधातौ च रसः स्यान्मेदिनी रसा ॥ ३३ ॥
33 · p. 4
अनुष्टुप्
वर्णो गुणाक्षरयशःशुक्लादिब्राह्मणादिषु ।वर्णः स्तुतौ कुथायां च वर्णः स्याद्भेदरूपयोः ॥ ३४ ॥
34 · p. 4
अनुष्टुप्
तलश्चपेटस्तालश्च स्वरूपानूर्ध्वयोस्तलम् ।ज्याघातो ध्रियते येन प्रकोष्ठे तत्तलं मतम् ॥ ३५ ॥
35 · p. 5
अनुष्टुप्
करणानि हृषीकाणि करणं साधनं विदुः ।करणाख्या च विज्ञेया कायकायस्थकर्मसु ॥ ३६ ॥
36 · p. 5
अनुष्टुप्
व्यवसाये परित्राणे पादतच्चिह्नयोरपि ।वस्तुस्थानापदेशेषु पदं स्याद्वाक्यशब्दयोः ॥ ३७ ॥
37 · p. 5
अनुष्टुप्
सम्यक्प्रवक्तृपुरुषे प्रमाणमथ कारणे ।मर्यादायां प्रमाणाख्या प्रमाणं मानशास्त्रयोः ॥ ३८ ॥
38 · p. 5
अनुष्टुप्
वरो जामातरि श्रेष्ठे देवतादेरभीप्सिते ।मनागिष्टे वरं यच्च कश्चिदाह तदव्ययम् ॥ ३९ ॥
39 · p. 5
अनुष्टुप्
गीतकालक्रियामाने तालस्तालोथ पादपे ।तालः करतलेङ्गुष्ठमध्यमाख्यामिते तथा ॥ ४० ॥
40 · p. 5
अनुष्टुप्
प्रधानौपधिसिद्धान्तास्तन्तुवायपरिच्छदौ ।तन्त्राणि तन्त्रमेकं स्यादुभयार्थप्रयोजकम् ॥ ४१ ॥
41 · p. 5
अनुष्टुप्
शपथाचारसिद्धान्तान्समयान्संप्रचक्षते ।समयः स्यात्क्रियाकारे कालसंकेतयोरपि ॥ ४२ ॥
42 · p. 5
अनुष्टुप्
व्यवसाये स्वभावे च पिशाचादौ गुणे बले ।द्रव्यात्मभावयोः सत्त्वं सत्त्वं प्राणेषु जन्तुषु ॥ ४३ ॥
43 · p. 5
अनुष्टुप्
ऐश्वर्यस्य प्रयत्नस्य धर्मवीर्ययशःश्रियाम् ।ज्ञानवैराग्यसूर्याणामिच्छायोन्योर्भगश्रुतिः (र्भगः श्रुतिः) ॥ ४४ ॥
44 · p. 5
अनुष्टुप्
विभक्तव्यं पितृ [त्र्य] द्रव्यं दायमाहुर्मनीषिणः ।यौतकादिधनं दायो दायो दानं च कथ्यते (नमुदाहृतम्) ॥ ४५ ॥
45 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अभिपन्नोपराद्धः स्यादभिपन्नो विपद्गतः ।अभिपन्नमभिग्रस्तमभिपन्नमभिद्रुतम् ॥ ४६ ॥
46 · p. 5
अनुष्टुप्
क्रमनिम्ने भुवो भागे भेकपक्षिप्रभेदयोः ।प्लवं विदन्ति विद्वांसः प्लवनोडुपयोः प्लवः ॥ ४७ ॥
47 · p. 6
अनुष्टुप्
भावः स्त्तास्वभावाभिप्रायचेष्ठात्मजन्मसु (योनिषु) ।क्रियालीलापदार्थेषु विभूतिबुधजन्तुषु ॥ ४८ ॥
48 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 भा (syllables merged)
स्वभावन्याययागादियमाचारेषु सोमपे ।प्रचक्षते धर्मशब्दमहिंसाग (सोप) मयोरपि ॥ ४९ ॥
49 · p. 6
अनुष्टुप्
आयत्ततायामायत्ते प्रभुत्वे च वशं विदुः ।वशाश्रतस्रो वन्ध्या गौः सुता नारी करेणुका ॥ ५० ॥
50 · p. 6
अनुष्टुप्
कलनाकालशिल्पेषु वृद्धौ मूलधनस्य च ।इन्दोरंशे कला ध्यानेप्यव्यक्तमधुरे कलः ॥ ५१ ॥
51 · p. 6
अनुष्टुप्
र[स]होविटपवर्गेषु गर्हपानीययोरपि ।बाणावसरयोः काण्डं काण्डं नालमपि स्मृतम् ॥ ५२ ॥
52 · p. 6
अनुष्टुप्
तक्रे मरणचिह्ने चारिष्टं वृक्षे च फेनिले ।सुरायां च शुभेपि स्यात्काके निम्बे च पुंस्ययम् ॥ ५३ ॥
53 · p. 6
अनुष्टुप्
(तक्रे मरणचिह्ने स्यादरिष्टमशुभे शुभे ।अरिष्टः कथ्यते काके निम्बफेनिलवृक्षयोः ॥)
63 · p. 6
अनुष्टुप्
द्यूतयुद्धादिविश्रामे(न्तौ) ग्राहाभिख्ये च यादसि ।निमन्त्रणोपनेतव्यद्रव्ये स्यादवहारवाक् ॥ ५४ ॥
54 · p. 6
अनुष्टुप्
गृहाणां दारुबन्धाय पीठिकायां तुलां विदुः ।तुला पलशते माने भाण्डसादृश्ययोरपि ॥ ५५ ॥
55 · p. 6
अनुष्टुप्
दर्शप्रतिपदोः संधौ ग्रन्थिप्रस्तावयोरपि ।पर्वशब्दं विजानीयाद्विषवत्प्रभृतिष्वपि ॥ ५६ ॥
56 · p. 6
अनुष्टुप्
प्रगाढगात्रिकाबन्धे पर्यङ्कपरिवारयोः ।प्रयुज्यते परिकरः समूहारम्भयोरपि ॥ ५७ ॥
57 · p. 6
अनुष्टुप्
नवोढाया ज्ञातिभृत्या जन्याः स्निग्धा वरस्य च ।जननीयजनित्रोश्च जन्यं निर्वादयुद्धयोः ॥ ५८ ॥
58 · p. 7
अनुष्टुप्
जातहर्षे प्रतिहते विस्मिते च मनीषिभिः ।रोमाञ्चविषये हृष्टो हृषितश्च प्रयुज्यते ॥ ५९ ॥
59 · p. 7
अनुष्टुप्
चक्रवाको मतश्चक्रश्चक्रं सेनारथाङ्गयोः ।राष्ट्रे दम्भप्रभेदेपि चक्रं प्रहरणान्तरे ॥ ६० ॥
60 · p. 7
अनुष्टुप्
परिच्छदाल्पमानेषु धने कर्णविभूषणे ।अक्षरावयवे मात्रा मात्रं कार्त्स्न्येवधारणे ॥ ६१ ॥
61 · p. 7
अनुष्टुप्
कलेवरे प्रयत्ने च स्वभावे परमात्मनि ।स्वान्ते धृतौ मनीषायामात्मानं कवयो विदुः ॥ ६२ ॥
62 · p. 7
अनुष्टुप्
संगरः स्यात्क्रियाकारे विपत्तावपि संगरः ।संगरः संश्रवे युद्धे संगरं तु शमीफलम् ॥ ६३ ॥
63 · p. 7
अनुष्टुप्
उत्पादः प्रसवो ज्ञेयः प्रसवो गर्भमोचनम् ।पुष्पं फलं च वृक्षाणां प्रसवं परिचक्षते ॥ ६४ ॥
64 · p. 7
अनुष्टुप्
दोषोत्पादेऽनुबन्धः स्यात्प्रकृत्यादेर्विनश्वरे ।मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ ६५ ॥
65 · p. 7
अनुष्टुप्
आरक्षे मण्डने सूत्रे चमूकटिनियोज्ययोः ।पञ्चस्वर्थेषु शब्दज्ञा विदुः प्रतिसरध्वनिम् ॥ ६६ ॥
66 · p. 7
अनुष्टुप्
विपत्तावशुभे पापे पानस्त्रीमृगयादिषु ।दैवानिष्टफलेऽशक्तौ[ले सक्तौ] व्यसनं कवयो विदुः ॥ ६७ ॥
67 · p. 7
अनुष्टुप्
ग्लहे माने श्वेतका (वराटा) नां मूल्ये कार्षापणे धने ।द्यूतादौ कल्पिते चैव बद्धमुष्टौ भृतौ पणः ॥ ६८ ॥
68 · p. 7
अनुष्टुप्
(द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ पणः ॥)
79 · p. 7
अनुष्टुप्
पालनेऽभ्यवहारे च निर्वेशे च पणे स्त्रियाः(पणस्त्रियाः) ।भोगः सुखे भुजंगानां(गस्य) शरीरफणयोरपि ॥ ६९ ॥
69 · p. 7
अनुष्टुप्
केशे पक्षः समूहार्थः पक्षः साध्यविरोधयोः ।बले काले पतत्रे च रुचौ पार्धे विकल्पिते ॥ ७० ॥
70 · p. 8
अनुष्टुप्
(बलकालपतत्रेषु सहायपरिपार्श्वयोः ॥)
82 · p. 8
अनुष्टुप्
अन्यदेहचिकित्सार्हे क्षेत्रियः क्षेत्रजे तृणे ।असाध्यरोगे विज्ञेयः क्षेत्रियः पारदारिके ॥ ७१ ॥
71 · p. 8
अनुष्टुप्
प्रयुज्यते स्वीकारणे सैन्यपृष्ठे पतद्ग्रहे ।द्विजेभ्यो विधिवद्देये तद्ग्रहे च प्रतिग्रहः ॥ ७२ ॥
72 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 का (wrong syllable)
उपयुक्ताद्भवेदद्न्यच्छेषं शेषोथ नागराट् ।प्रसादान्निजनिर्माल्यदत्तिः शेषेति कीर्तिता ॥ ७३ ॥
73 · p. 8
अनुष्टुप्
प्रग्रहः स्यात्तुलासूत्रे बन्द्यां(न्दौ) नियमनेपि च ।धाम्नि योक्त्रे च वृक्षे च सुवर्णहलिसाह्वये ॥ ७४ ॥
74 · p. 8
अनुष्टुप्
अष्टाधिके हेमशते हेम्नि हेमपले तथा ।उरोविभूषणे निष्कं कर्षरदीनारयोरपि ॥ ७५ ॥
75 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र्षर (syllable split)
श्लेष्मादी रसरक्तादिर्महाभूतानि तद्गुणाः ।इन्द्रियाण्यश्मविकृतिर्धातवो भ्वादिरस्थि च ॥ ७६ ॥
76 · p. 8
अनुष्टुप्
(श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः ।इन्द्रियाण्यश्मविकृतिर्विशेषादस्थि धातवः) ॥ ७७ ॥
77 · p. 8
अनुष्टुप्
अर्थोभिधेये शब्दानां धनकारणवस्तुषु ।प्रयोजने निवृत्तौ च विषये च प्रयुज्यते ॥ ७८ ॥
78 · p. 8
अनुष्टुप्
मतङ्गजस्य हस्ताग्रे व्योम्नि खड्गफलेम्बुजे ।जलभेषजयोस्तीर्थे तूर्यवक्त्रे च पुष्करम् ॥ ७९ ॥
79 · p. 8
अनुष्टुप्
अवतारे विदुस्तीर्थं पात्रोपाध्यायमन्त्रिषु ।स्त्रीणां रजसि शास्त्रे च क्षेत्रोपायाध्वरेषु च ॥ ८० ॥
80 · p. 8
अनुष्टुप्
प्रधानध्वजशृङ्गेषु पुण्ड्रवालधिलक्ष्मसु ।भूषावाजिप्रभावेषु ललामं च ललाम च ॥ ८१ ॥
81 · p. 8
अनुष्टुप्
मायादम्भादिशृङ्गेषु सीरावयवयन्त्रयोः ।अयोघनेऽनृते राशौ निश्चले कूट इष्यते ॥ ८२ ॥
82 · p. 8
अनुष्टुप्
ग्रन्थावृत्तौ पशौ शब्दे नाटकादिस्वभावयोः ।रूपमाकारसौन्दर्ये नाणकश्लोकयोरपि ॥ ८२ ॥
82 · p. 9
अनुष्टुप्
उपायारम्भशिक्षासु निष्कृतौ संप्रधारणे ।चिकित्साकर्मपूजासु चेष्टाकरणयोः क्रिया ॥ ८३ ॥
83 · p. 9
अनुष्टुप्
गोशब्दः पशुभूम्यंशुवाग्दिगर्थः प्रयुज्यते ।स्वर्गलोचनबाणाम्बुकुलिशार्थोपि दृश्यते ॥ ८४ ॥
84 · p. 9
अनुष्टुप्
निवृत्तौ दापने सिद्धौ गतावनुगमे धने ।उपायमृतसंस्कारवधमेढ्रेषु साधनम् ॥ ८५ ॥
85 · p. 9
अनुष्टुप्
शुल्बे मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये ।त्यागशौर्यादिसत्त्वादिसंध्यादिषु गुणः स्मृतः ॥ ८६ ॥
86 · p. 9
अनुष्टुप्
इन्द्रचन्द्राश्ववातार्कशकभेकयमाहिषु ।कपौ सिंहे सुवर्णाभे वर्णे विष्णौ हरिं विदुः ॥ ८७ ॥
87 · p. 9
अनुष्टुप्
भेदावसरबाह्येषु मध्यावधिविनात्मसु ।स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम् ॥ ८८ ॥
88 · p. 9
अनुष्टुप्
भोजनाच्छादने सद्भिरुभे कशिपुरिष्यते ।एकैकशोपि कशिपुं[पू] भोजनाच्छादने विदुः ॥ ८९ ॥
89 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्यावापृथिव्योरेकत्र प्रयोगे रोदसीं विदुः ।दिवि विश्वंभरायां च रोदसी रोदसा सह ॥ ९० ॥
90 · p. 9
अनुष्टुप्
आचक्षेते संसरणं नगरस्योपनिर्गमे ।संसारेपि रथादीनामसंबाधगतावपि ॥ ९१ ॥
91 · p. 9
अनुष्टुप्
इन्द्राणी करणे स्त्रीणां रतिशिल्पकृतात्मनाम् ।इन्द्राणी सिन्धुवारे च कलत्रे च शतक्रतोः ॥ ९२ ॥
92 · p. 9
अनुष्टुप्
बीजकोशे सरोजस्य कर्णिका कर्णभूषणे ।मता गजस्य हस्ताग्रे कर्णिकाङ्गुलिसंज्ञके ॥ ९३ ॥
93 · p. 9
अनुष्टुप्
प्रबन्धाद्यस्य यो ज्ञातः स तस्य विषयः स्मृतः ।इन्द्रियार्थे जनपदे विषयो गोचरे पदे ॥ ९४ ॥
94 · p. 10
अनुष्टुप्
अग्रं प्रधानमूर्ध्वं च पुरस्तादग्रमिष्यते ।अग्रमभ्यधिके दृष्टं परिमाणे पलस्य च ॥ ९५ ॥
95 · p. 10
अनुष्टुप्
गात्राणि विदुरङ्गेषु गात्रमुक्तं कलेवरे ।अग्रजङ्घाविभागे च गजानां गात्रमिष्यते ॥ ९६ ॥
96 · p. 10
अनुष्टुप्
ऊर्ध्वविस्तृतदोःपाणिनृमाने पौरुषं विदुः ।भावे कर्मणि विज्ञेयं पौरुषं पुरुषस्य च ॥ ९७ ॥
97 · p. 10
अनुष्टुप्
पुरुषेण कृते कार्ये पुरुषाणां कदम्बके ।वधे विकारे पुंसश्च पौरुषेयपदं विदुः ॥ ९८ ॥
98 · p. 10
अनुष्टुप्
भवान्तरकृतं कर्म भाग्यमाहुः शुभात्मकम् ।अशुभात्मकमप्याहुः केवलं च शुभाशुभम् ॥ ९९ ॥
99 · p. 10
अनुष्टुप्
योगः संनह(वन)नोपायः संगतिध्यानयुक्तिषु ।योगोऽपूर्वार्थसंप्राप्तौ योगो विश्रम्भवातिनि ॥ १०० ॥
100 · p. 10
अनुष्टुप्
अन्तराभवसत्त्वे स्याद् गन्धर्वः खेचरे हये ।गन्धर्वः पशुभेदे च गन्धर्वं गायनं विदुः ॥ १०१ ॥
101 · p. 10
अनुष्टुप्
कुतपो वाद्यविन्यासे दर्भकालप्रभेदयोः ।छागरोममयं केचित्कम्बलं कुतपं विदुः ॥ १०२ ॥
102 · p. 10
अनुष्टुप्
कामे(म्ये) निकामे कामाख्या कामाश्च मदनेच्छयोः ।यत्काममभ्यनुज्ञाने तदव्ययमुदाहृतम् ॥ १०३ ॥
103 · p. 10
अनुष्टुप्
पिप्पलं सलिलं विद्यात्तरुजातिश्च पिप्पलः ।वस्त्रच्छेदप्रभेदं च केचिदिच्छन्ति पिप्पलम् ॥ १०४ ॥
104 · p. 10
अनुष्टुप्
वैयावृत्त्य(पृत्त्य) करो भोगी भोगी राजभुजंगयोः ।विहाय महिषीमन्या भोगिन्यो राजयोषितः ॥ १०५ ॥
105 · p. 10
अनुष्टुप्
निर्वेश उपभोगः स्यान्निर्वेशः कर्मणो भृतिः ।सम्मूर्च्छनं च केषांचिन्निर्वेश इति सम्मतम् ॥ १०६ ॥
106 · p. 11
अनुष्टुप्
पतिवत्नीसुतो जारात्कुण्डः कुण्डमुखा मता ।देवतादेर्जलाधारविशेषः कुण्डसंज्ञकः ॥ १०७ ॥
107 · p. 11
अनुष्टुप्