कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śāśvatakośa (Anekārthasamuccaya)

अनेकार्थसमुच्चय Śāśvatakośa (Anekārthasamuccaya)

828 verses · text only, tagging comes next

Part 7 (7/7)

रूप्ये कुवर्णे दुर्वर्णमाभीलं भीष्मकृच्छ्रयोः ।फले रूप्ये च खर्जूरं वाशिता करिणीस्त्रियोः ॥ ७०१ ॥
701 · p. 62
अनुष्टुप्
अनृतं कृषावसत्ये तक्षकस्तक्षनागयोः ।वेश्यावासे गृहे वेशो भास्वान्भास्वरसूर्ययोः ॥ ७०२ ॥
702 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कृ (wrong syllable)
हृदयं वक्षसि स्वान्ते पुरुषो मानवात्मनोः ।ज्ञाते गृहीते कलित ईहा स्यादुद्यमेच्छयोः ॥ ७०३ ॥
703 · p. 62
अनुष्टुप्
खण्डेऽर्धः समभागेऽर्धं प्रदोषो दोषकालयोः ।मित्रं सुहृदि मित्रोऽर्के वैरोन्नत्योः समुच्छ्रयः ॥ ७०४ ॥
704 · p. 62
अनुष्टुप्
दीप्तौ रोको बिले रोकं नाकः स्वर्गान्तरिक्षयोः ।दलं खण्डे दलं पत्रे पुष्पमार्तवसूनयोः ॥ ७०५ ॥
705 · p. 62
अनुष्टुप्
संव्यानं छादने वस्त्रे भरणं वेतने भृतौ ।स्थापत्ये कञ्चुकी सर्पे वोल्लितं कुटिले धुते ॥ ७०६ ॥
706 · p. 62
अनुष्टुप्
वह्नित्रये युगे त्रेता रैशब्दः कनके धने ।ओषधौ चित्रको व्याघ्रे पलाशे गरुतिच्छदः ॥ ७०७ ॥
707 · p. 62
अनुष्टुप्
रिष्टं स्यादशुभे पापे शस्ताकारे तनौ वपुः ।स्तम्भो जडत्वे स्थूणायां निर्यासे नर्मणि द्रवः ॥ ७०८ ॥
708 · p. 62
अनुष्टुप्
शीलं स्वभावे सद्वृत्ते छले द्यूते च कैतवम् ।उत्कटः प्रवले क्षीबे स्थाणौ ज्वाले च कीलवाक् ॥ ७०९ ॥
709 · p. 62
अनुष्टुप्
उदर्चिरुत्प्रभे वह्नौ पुरं स्यान्नगरे गृहे ।आनन्दे वर्धने वृद्धिः कृष्टिराकर्षणे बुधे ॥ ७१० ॥
710 · p. 62
अनुष्टुप्
जघन्यजोऽनुजे शूद्रे शालपर्ण्यां भुवि स्थिरा ।तृणत्वे तृणता चापे कारुः शिल्पिनि कारके ॥ ७११ ॥
711 · p. 62
अनुष्टुप्
मुष्के खगादिकोशेण्डं द्वापरः संशये युगे ।विभागे सेवने भक्तिस्तरणिर्नावि भास्करे ॥ ७१२ ॥
712 · p. 62
अनुष्टुप्
एनोपराधे दुरिते वरेण्ये पुंगवो वृषे ।पूजार्हे श्वशुरे पूज्यो हृषीके रेतसीन्द्रियम् ॥ ७१३ ॥
713 · p. 63
अनुष्टुप्
आनकः पटहे भेर्यां मन्दिरं नगरे गृहे ।इतरः पामरेऽन्यस्मिन्दक्षे चारौ च पेशलः ॥ ७१४ ॥
714 · p. 63
अनुष्टुप्
वर्त्म नेत्रच्छदे मार्गे प्रोक्षणं सेचने वधे ।कारणं घातने हेतावश्वार्या मातरिः प्रसूः ॥ ७१५ ॥
715 · p. 63
अनुष्टुप्
स्वर्गेन्तरिक्षे त्रिदिवं दानं गजमदे दितौ ।हविः सर्पिषि होतव्ये मल्लः पात्रे बलीयसी ॥ ७१६ ॥
716 · p. 63
अनुष्टुप्
उपस्थः शिस्न उत्सङ्गे कुब्जे पृष्टगुडे गडुः ।यन्ता हस्तिपके सूते गृथे गुह्येप्यवस्करः ॥ ७१७ ॥
717 · p. 63
अनुष्टुप्
निस्त्रिंशे गण्डके खड्गः प्रणिधिः प्रार्थने चरे ।वञ्चुको जम्बुके धूर्ते दुर्विधो दुर्गते खले ॥ ७१८ ॥
718 · p. 63
अनुष्टुप्
ऋषिर्वेदे वसिष्ठादौ गिरीशोऽद्रिपतौ शिवे ।अस्त्रं स्यादायुधे चापे कदम्बाख्या द्रुमे चये ॥ ७१९ ॥
719 · p. 63
अनुष्टुप्
कबन्धं सलिले रुण्डे क्रन्दे रोदनमश्रुणि ।पद्माकरेब्जे नलिनी कुहरं गह्वरे बिले ॥ ७२० ॥
720 · p. 63
अनुष्टुप्
शिखायां वलभौ चूडा छदनं गरुतिच्छदे ।चितिः समूहे चित्यायां गमने पद्धतौ सृतिः ॥ ७२१ ॥
721 · p. 63
अनुष्टुप्
स्थूणां स्तम्भेथ(म्भे च) सूर्म्यां च नक्षत्रे गवि रोहिणी ।षण्डो वने गवां पत्यौ तिग्मे स्याद्गर्दभे खरः ॥ ७२२ ॥
722 · p. 63
अनुष्टुप्
वराङ्गं मस्तके योनौ कृपीटमुदरे जले ।तोदनं व्यथने तोत्त्रे कृत्ये स्यादास्पदं पदे ॥ ७२३ ॥
723 · p. 63
अनुष्टुप्
भूभृद्गिरौ महीपाले वधे दानेतिसर्जनम् ।निमित्तं लक्षणे हेतौ जीवनं वर्तनेम्भसि ॥ ७२४ ॥
724 · p. 63
अनुष्टुप्
आविले कलुषं पापे शय्यायां शयनं रते ।शास्त्रे शासनमाज्ञायां गह्वरे गहनं वने ॥ ७२५ ॥
725 · p. 64
अनुष्टुप्
अवनं रक्षणे तृप्तौ लिप्तं भुक्ते विलिप्तके ।व्युषिते दग्ध उषितमुदितं प्रोक्त उद्गते ॥ ७२६ ॥
726 · p. 64
अनुष्टुप्
आक्रोशे शपथे शापस्तरुणो यूनि नूतने ।छादिते रहसिच्छन्नं भुवनं विष्टपे जने ॥ ७२७ ॥
727 · p. 64
अनुष्टुप्
शय्या तल्पे ग्रन्थगुम्फे पर्णाख्या किंशुके छदे ।मूलमाद्ये शिफायां च कान्तरं प्रान्तरे वने ॥ ७२८ ॥
728 · p. 64
अनुष्टुप्
भावितं वासिते लब्धे चुल्ल्यामुद्धा(द्वा)नमुद्गते(मे) ।स्वच्छे तलिनमल्पे स्यादर्दितं प्रार्थिते हते ॥ ७२९ ॥
729 · p. 64
अनुष्टुप्
भ्रमोम्बुनिर्गमे भ्रान्तौ पूर्द्वारि द्वारि गोपुरम् ।प्रसरः प्रणये वेगे वर्तको श्वखुरे खगे ॥ ७३० ॥
730 · p. 64
अनुष्टुप्
निःश्रेयसं शिवे मोक्षे दिवौकाश्चातके सुरे ।आजिः समावनौ युद्धे पर्यायोऽवसरे क्रमे ॥ ७३१ ॥
731 · p. 64
अनुष्टुप्
पीडने प्रेषणे प्रैषः कलिरन्त्ययुगे रणे ।कुथे प्रवेणी वेण्यां च काले दैवे च दिष्टवाक् ॥ ७३२ ॥
732 · p. 64
अनुष्टुप्
आलोको दर्शने द्योते विन्नं लब्धे विचारिते ।वाञ्छायां वचने शंसा वह्नौ पार्थे धनंजयः ॥ ७३३ ॥
733 · p. 64
अनुष्टुप्
कर्दमे कल्मषे पङ्कं भङ्गे रोगे रुजा मता ।शकलं वल्कले खण्डे व्यायतो व्यापृते दृढे ॥ ७३४ ॥
734 · p. 64
अनुष्टुप्
अपिशब्देन साध्यन्ते पूर्वाचार्चानुसारतः ।विस्मृता ये प्रमादेन कथ्यते तेऽधुना पुनः ॥ ७३५ ॥
735 · p. 64
अनुष्टुप्
मन्दो हस्तिविशेषेपि घर्मः स्यादातपेपि च ।स्पर्शेप्युपस्पर्शनं स्यात्करो मेघोपलेपि च ॥ ७३६ ॥
736 · p. 64
अनुष्टुप्
स्यादिच्छायामपि वशश्चाण्डालेपि प्लवो मतः ।प्रसवः स्यादपत्येपि वरणेपि वरः स्मृता ॥ ७३७ ॥
737 · p. 65
अनुष्टुप्
अन्तरं परिधानेपि बृहती वाच्यपि स्मृता ।अङ्कं विदुः समीपेपि वेला कूलेपि वारिधेः ॥ ७३८ ॥
738 · p. 65
अनुष्टुप्
सूचना दर्शनेपि स्यात्पिण्डमाजीवनेपि च ।विदुष्यपि स्मृतो वेधाश्चिकुरः पादपेपि च ॥ ७३९ ॥
739 · p. 65
अनुष्टुप्
वालः स्यादश्वपुच्छेपि क्वचित्कोपेपि मत्सरः ।आधिर्मानसपीडापि तिलकं क्लोम्न्यपि स्मृतम् ॥ ७४० ॥
740 · p. 65
अनुष्टुप्
सुरभिः स्यान्मनोज्ञेपि तारः शुद्धेपि मौक्तिके ।खण्डनेपि मतं दानं खगः काण्डेपि दृश्यते ॥ ७४१ ॥
741 · p. 65
अनुष्टुप्
ऋश्येपि रोहितः प्रोक्तः प्रजानाथेप्यजः स्मृतः ।गोकर्णो मृगभेदेपि मूलं स्यादन्तिकेपि च ॥ ७४२ ॥
742 · p. 65
अनुष्टुप्
रास्नायामपि भद्रा स्याच्छालपर्ण्यामपि ध्रुवा ।लता स्यादतिमुक्तेपि शेषः सीरिण्यपि स्मृतः ॥ ७४३ ॥
743 · p. 65
अनुष्टुप्
क्षारो रसविशेषेपि मतं स्वप्नेपि दर्शनम् ।नाभिश्चक्रस्य मध्येपि ग्रामो गीतस्वरेपि च ॥ ७४४ ॥
744 · p. 65
अनुष्टुप्
वृषः स्यात्पुंविशेषेपि याञ्चायामपि मार्गणम् ।सादृश्येपि क्वचित्स्थानं विद्वानप्यात्मवेदिनि ॥ ७४५ ॥
745 · p. 65
अनुष्टुप्
वानं विशुष्कमात्रेपि भव्यं भाविन्यपि स्मृतम् ।शाखा वेदविभागेपि मध्यं स्यादन्तरेपि च ॥ ७४६ ॥
746 · p. 65
अनुष्टुप्
ऋषभो गेयभेदेपि तेजो दीप्तावपि स्मृतम् ।चारः पि(प्रि)यालवृक्षेपि मतं पत्रेपि पल्लवम् ॥ ७४७ ॥
747 · p. 65
अनुष्टुप्
वार्त्ताकेपि क्वचिद्वार्ता स्फुटो व्याप्तेपि च क्वचित् ।पात्रं मुगादिकोपे स्यात्कायः संघेपि दृश्यते ॥ ७४८ ॥
748 · p. 65
अनुष्टुप्
क्ल्याणेपि भवः प्रोक्तो दीर्घत्वेप्यायतिं विदुः ।विस्तारेपि घनं विद्यादनन्तः केशवेपि च ॥ ७४९ ॥
749 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 क्ल्या (syllables merged)
तन्त्रं कुटुम्बकृत्येपि प्रधानं प्रकृतावपि ।कदली मृगभेदेपि कर्कशः कठिनेपि च ॥ ७५० ॥
750 · p. 66
अनुष्टुप्
पणः स्याद्व्यवहारेपि ग्रामणीर्भोगिकेपि च ।बोधेपिः प्रतिपत्तिः स्याद्धैर्येपि धृतिरिष्यते ॥ ७५१ ॥
751 · p. 66
अनुष्टुप्
कोरकेपि मतं जालं महेपि स्मृत उत्सवः ।आवावेपि परीवापो हेतिर्भास्करभास्यपि ॥ ७५२ ॥
752 · p. 66
अनुष्टुप्
मनस्यपि मतं सत्त्वं विद्यादिष्टं क्रतावपि ।कोशः पात्रविशेषेपि संतानेपि परंपरा ॥ ७५३ ॥
753 · p. 66
अनुष्टुप्
देव्यामपि भवेच्चर्चा विशाखेपि गुहः स्मृतः ।रतिः स्मरकलत्रेपि धीरः स्याद्धैर्यवत्यपि ॥ ७५४ ॥
754 · p. 66
अनुष्टुप्
वडवा स्त्रीविशेषेपि निकुञ्जेपि च गह्वरः ।क्षीरकीटेपि काली स्याद् भीमः पाण्डुसुतेपि च ॥ ७५५ ॥
755 · p. 66
अनुष्टुप्
शारिः पर्याणभेदेपि व्यूढः स्यात्पृथुलेपि च ।भावो रसनिमित्तेपि च वाजी स्याद्विशिखेपि च ॥ ७५६ ॥
756 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कलावयवमात्रेपि संस्था स्यात्प्रणिधावपि ।करकः स्यात्करङ्केपि पुरं देहेपि दृश्यते ॥ ७५७ ॥
757 · p. 66
अनुष्टुप्
करटो दुर्दुरूटेपि द्रोणोर्जुनगुरावपि ।युगं हस्तचतुष्केपि दीर्घेपि व्यायतं विदुः ॥ ७५८ ॥
758 · p. 66
अनुष्टुप्
बह्वृचाद्येपि चरणो मदो बीजेपि देहिनाम् ।रथोद्वहेपि रथ्यः स्यादलङ्कारेपि वालिका ॥ ७५९ ॥
759 · p. 66
अनुष्टुप्
अश्वावर्तेपि शुक्तिः स्याद् भ्रमः कुन्देपि दृश्यते ।पद्मो व्यूहविशेषेपि धर्म चापेपि कीर्तितम् ॥ ७६० ॥
760 · p. 66
अनुष्टुप्
प्रचारेपि स्मृता रीतिः काण्डः स्कन्धेपि शाखिनाम् ।सोमग्रहेपि ग्रहणं सुधा लेपेपि दृश्यते ॥ ७६१ ॥
761 · p. 67
अनुष्टुप्
कटुः शोभनगन्धेपि वसतिश्च स्थितावपि ।भाण्डं भूषणमात्रेपि सूनं स्यात्पुष्पितेपि च ॥ ७६२ ॥
762 · p. 67
अनुष्टुप्
सौहार्देपि मतः स्नेहो जन्यः स्याज्जनकेपि च ।धर्मराजः पाण्डवेपि रामो दाशरथावपि ॥ ७६३ ॥
763 · p. 67
अनुष्टुप्
जम्भो दैत्यविशेषेपि कुल्यः स्यात्कुलजेपि च ।पटलं पिटकेपि स्यात्केवलेपि परं मतम् ॥ ७६४ ॥
764 · p. 67
अनुष्टुप्
स्कन्धस्तरुप्रकाण्डेपि कुलं गेहेपि दृश्यते ।मेघध्वानेपि पर्जन्यो मधुरेपि वसुः स्मृतः ॥ ७६५ ॥
765 · p. 67
अनुष्टुप्
कीला कफो(फ)णिभागेपि वर्चस्केपि मलं मतम् ।उत्पादेपि प्रसूतिः स्यात्पारंपर्येपि संततिः ॥ ७६६ ॥
766 · p. 67
अनुष्टुप्
शाला गृहैकदेशेपि धवलो गोवृषेपि च ।परुषं रूक्षमात्रेपि शरेपि विशिखः स्मृतः ॥ ७६७ ॥
767 · p. 67
अनुष्टुप्
क्वचित्कषायं रक्तेपि लघु स्यादजुरुण्यपि ।क्रियाभेदेपि करणं चपलः पारदेपि च ॥ ७६८ ॥
768 · p. 67
अनुष्टुप्
पुष्पच्छदेपि पक्ष्म स्याद् भोगो वित्तेपि च क्वचित् ।फलं हेतुसमुत्थेपि योगः स्याद्भेषजेपि च ॥ ७६९ ॥
769 · p. 67
अनुष्टुप्
पक्षोश्मन्तकरन्ध्रेपि वाहमाहुर्वृषेपि च ।आरोहो हस्तिवाहेपि वशा वन्ध्यस्त्रियामपि ॥ ७७० ॥
770 · p. 67
अनुष्टुप्
कं सुखेपि विजानीयात्कक्षा स्पर्धापदेपि च ।मन्देपि च वितानं स्याद् विनाशेऽप्यन्त इष्यते ॥ ७७१ ॥
771 · p. 67
अनुष्टुप्
शृङ्गं क्रीडाम्बुयन्त्रेपि मतं लेखेपि शासनम् ।चूर्णं क्षारविशेषेपि कविः काव्यकरेपि च ॥ ७७२ ॥
772 · p. 67
अनुष्टुप्
वर्णो विलेपनेपि स्यात्पदं चिह्नेपि दिश्यते ।अरुणः क्वचिदर्केपि च्छाया पङ्क्तावपि स्मृता ॥ ७७३ ॥
773 · p. 68
अनुष्टुप्
वित्तं विचारितेपि स्यान्मार्गणेपि मृगः क्वचित् ।सितं प्राप्तावसानेपि भूतं प्राप्तेति दृश्यते ॥ ७७४ ॥
774 · p. 68
अनुष्टुप्
शल्यकेपि मतः शल्यो घोषः स्याद्घोषकेपि च ।मरीचेपि भवेत्कृष्णं विश्वं शुण्ठ्यामपि स्मृतम् ॥ ७७५ ॥
775 · p. 68
अनुष्टुप्
प्रवणं दक्षिणेपि स्यात्कूलं स्यूतेपि कथ्यते ।तालं स्याद्धरितालेपि रक्तं कुङ्कुमकेपि च ॥ ७७६ ॥
776 · p. 68
अनुष्टुप्
घृणात्मकेपि बीभत्सो रसः स्वादेपि कीर्तितः ।सिन्धुर्देशविशेषेपि विनीतो वाणिजेपि च ॥ ७७७ ॥
777 · p. 68
अनुष्टुप्
स्यात्प्रभावेप्यधिष्ठानं तपो धर्मेपि कीर्तितम् ।वर्षास्वपि नभाः प्रोक्तो यवान्यामपि भूतिकम् ॥ ७७८ ॥
778 · p. 68
अनुष्टुप्
हेमन्तेपि सहाः प्रोक्तः शिशिरेपि तपाः स्मृतः ।(खरो वेगसरेपि च ।)मधुर्मतो वसन्तेपि शुचिर्ग्रीष्मेपि दृश्यते ॥ ७७९ ॥
779 · p. 68
अनुष्टुप्metre not read in every line
अश्वायामपि वामी स्यात्कारणं करणेपि च ।प्रार्थितं चाभियुक्तेपि भागो रूपार्धकेपि च ॥ ७८० ॥
780 · p. 68
अनुष्टुप्
अथाव्यया निबध्यन्ते श्लोकार्धेन सविस्तरम् ।प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ॥ ७८१ ॥
781 · p. 68
अनुष्टुप्
प्रशंसायां प्रकर्षे च लङ्घने च भवेदति ।गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि ॥ ७८२ ॥
782 · p. 68
अनुष्टुप्
हिशब्दः स्याद्विशेषार्थे कारणार्थेवधारणे ।ईर्ष्यायामभ्यनुज्ञाने पीडायामस्तु कथ्यते ॥ ७८३ ॥
783 · p. 68
अनुष्टुप्
हन्त हर्षे विषादे च वाक्यारम्भानुकम्पयोः ।खेदानुकम्पाहर्षेषु विस्मये च स्मृतं बत ॥ ७८४ ॥
784 · p. 68
अनुष्टुप्
निषेधे वाक्यभूषायां जिज्ञासादौ मतं खलु ।विस्तारेङ्गीकृतावूरी निर्दिष्टमुररी तथा ॥ ७८५ ॥
785 · p. 69
अनुष्टुप्
प्राकाश्येङ्गीकृतौ कोपे नाम संभाव्यकुत्सयोः ।वारणे भूषणे शक्तौ विद्यादलमिति ध्वनिम् ॥ ७८६ ॥
786 · p. 69
अनुष्टुप्
पुराणेऽनागतेऽतीते प्रबन्धे निकटे पुरा ।कार्त्स्न्यशीघ्रोभयत्राग्रे समीपेष्वभितो मतम् ॥ ७८७ ॥
787 · p. 69
अनुष्टुप्
प्रश्नावधारणानुज्ञानुनयेषु स्मृतं ननु ।इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ॥ ७८८ ॥
788 · p. 69
अनुष्टुप्
पुरस्ताच्चतुर्षु प्राच्यां पुरार्थे प्रथमेग्रतः ।यावत्तावत्परिच्छेदे कार्त्स्न्ये मानेवधारणे ॥ ७८९ ॥
789 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ ।अन्योन्यार्थे समाहारे च स्यादन्वाचयादिषु ॥ ७९० ॥
790 · p. 69
अनुष्टुप्
युक्तार्थमधुनार्थं च सांप्रतं संप्रयुज्यते ।क्षेमार्थे विनियोगार्थमहशब्दं विदुर्बुधाः ॥ ७९१ ॥
791 · p. 69
अनुष्टुप्
पूर्वेद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासरे(रः) ।पुनः पुनरभीक्ष्णं स्यादभीक्ष्णमनिशं मतम् ॥ ७९२ ॥
792 · p. 69
अनुष्टुप्
अन्तरेणपदं विद्याद्विनामध्यार्थवाचकम् ।आङभिव्याप्तिमर्यादाकिंचिदर्थादिषु स्मृतम् ॥ ७९३ ॥
793 · p. 69
अनुष्टुप्
श्लोकपादैरितो वक्ष्ये स्वित्स्यात्प्रश्नवितर्कयोः ।अमा सहार्थान्तिकयोर्वा विकल्पोपमानयोः ॥ ७९४ ॥
794 · p. 69
अनुष्टुप्
स्वः स्वर्गः स्वः परो लोको भेदाप्रथमयोः पुनः ।समीपदूरयोरारात्प्रभाते प्रागनन्तरे ॥ ७९५ ॥
795 · p. 69
अनुष्टुप्
प्रतीच्यां चरमे पश्चात्साक्षात्प्रत्यक्षतुल्ययोः ।प्रकारोपमयोरेवमेवोपम्येवधारणे ॥ ७९६ ॥
796 · p. 69
अनुष्टुप्
ई दुःखभावने कोपे खेदे स्यादहहाद्भुते ।आशब्दः स्मरणे वाक्ये तु स्याद्भेदेवधारणे ॥ ७९७ ॥
797 · p. 70
अनुष्टुप्
पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः ।पुनःसदार्थयोः शश्वत्सामि निन्दार्धयोर्मतम् ॥ ७९८ ॥
798 · p. 70
अनुष्टुप्
नु स्यात्प्रश्ने वितर्कार्थे पश्चात्सादृश्ययोरनु ।उप हीनेधिके दृष्टं किंशब्दः प्रश्नकुत्सयोः ॥ ७९९ ॥
799 · p. 70
अनुष्टुप्
हुं वितर्के परिप्रश्ने नूनं निश्चिततर्कयोः ।अन्तिके समया मध्ये मिथोन्योन्यं मिथो रहः ॥ ८०० ॥
800 · p. 70
अनुष्टुप्
निर्निश्चये निषेधे च वन्ध्ये निष्कारणे वृथा ।किमुतातिशये प्रश्न उत बाढविकल्पयोः ॥ ८०१ ॥
801 · p. 70
अनुष्टुप्
आशिषि स्वस्ति पुण्यादावीश्वराधिकयोरधि ।जोषं च तूष्णींसुखयोः कम् शिरःसुखवारिषु ॥ ८०२ ॥
802 · p. 70
अनुष्टुप्
प्रकाश्ये संभवे प्रादुर्वार्त्तासंभाव्ययोः किल ।दुःखे शुचि विषादे हा तत्त्वतूर्णार्थमञ्जसा ॥ ८०३ ॥
803 · p. 70
अनुष्टुप्
सत्कृत्सहै(दै)कवारे च स्यादाः संतापकोपयोः ।तिरोन्तर्धौ तिर्यगर्थे नानानेकोभयार्थकम् ॥ ८०४ ॥
804 · p. 70
अनुष्टुप्
अभिधनानि विविच्य ज्ञात्वा निखिलानि सुकविकाव्यानि ।कृत्वा गुरुमभियोगं कोशोयं शाश्वतेन कृतः ॥ ८०५ ॥
805 · p. 70
आर्याmetre not read in every line
श्रीमद्विद्याविलासस्य सभ्यैः श्रीखुडुलादिभिः ।महाविदग्धैः कविभिर्विद्वद्भिश्च समीक्षितः ॥ ८०६ ॥
806 · p. 70
अनुष्टुप्
महाबलेन कविना वराहेण च धीमता ।सह सम्यक्परामृश्य निर्मितोयं प्रयत्नतः ॥ ८०७ ॥
807 · p. 70
अनुष्टुप्
समाप्तोयमनेकार्थसमुच्चयः । कृतिरियं भट्टपुत्रशाश्वतस्य ॥
828 · p. 70