All kośas › Śāśvatakośa (Anekārthasamuccaya)
अनेकार्थसमुच्चय Śāśvatakośa (Anekārthasamuccaya)
828 verses · text only, tagging comes next
Part 3 (3/7)
पृश्रिपर्णी गुहा ज्ञेया गुहा पर्वतगह्वरम् ।मत्तः करी मदकलो मदेनाव्यक्तवाक्च यः ॥ २२७ ॥
227 · p. 21
अनुष्टुप्
समा वर्षं समं सर्वं समं साधु समं सदृक् ।क्षणो व्यापारशून्यत्वे मुहूर्तोत्सवपर्वसु ॥ २२८ ॥
228 · p. 21
अनुष्टुप्
उषा रात्रिस्तदन्ते च स्यादुषाध्वनिरव्ययम्(यः) ।बालः केशाज्ञडिम्भेषु ह्रीवेरे गजवालधौ ॥ २२९ ॥
229 · p. 21
अनुष्टुप्
दार्वाघाटः शतपत्त्रः शतपत्त्रं सरोरुहम् ।एकाग्रमेकतानाख्यमेकाग्रं स्यादनाकुलम् ॥ २३० ॥
230 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
भवेत्कलिङ्गो धूम्याटः कलिङ्गं कौटजं फलम् ।अयनं पथि सूर्यस्याप्युदग्दक्षिणतो गतौ ॥ २३१ ॥
231 · p. 21
अनुष्टुप्
सूक्ष्मैलायां कालमाने त्रुटिरल्पेपि संशये ।(त्रुटिरल्पे प्रशस्यते)पुष्परेणौ परागः स्यात्स्नानीयरजसोरपि ॥ २३२ ॥
232 · p. 21
अनुष्टुप्metre not read in every line
नागानां जननी कद्रूः कद्रुः कनकपिङ्गलः ।पाकस्थानं कुलालस्य पवनं पवनो मरुत् ॥ २३३ ॥
233 · p. 21
अनुष्टुप्
शोणः स्याद्बन्धुजीवाभे नदे लोहितवाजिनि ।लोहितं रक्तवद्दृष्टं क्षतजारुणयोरपि ॥ २३४ ॥
234 · p. 21
अनुष्टुप्
सुवर्णप्रतिमामृग्योर्हरिणी हरिता च या ।अवदातः सिते गौरे परिशुद्धे च दृश्यते ॥ २३५ ॥
235 · p. 22
अनुष्टुप्
तनुस्त्वगल्पकायेषु तनुः स्याद्विरले कृशे ।आस्थामालम्बनं विद्यादास्था चास्थानयत्नयोः ॥ २३६ ॥
236 · p. 22
अनुष्टुप्
शिपिविष्टः शिवो देवो दुश्चर्मा खलतिश्च यः ।शवे श्रोणौ क(कि)लिञ्जे च गजगण्डे भृशे कटः ॥ २३७ ॥
237 · p. 22
अनुष्टुप्
वृजिनं किल्बिषे भुग्ने वृजिनश्च शिरोरुहः ।केदारे वपुषि क्षेत्रं सिद्धस्थानकलत्रयोः ॥ २३८ ॥
238 · p. 22
अनुष्टुप्
पारावतः कपितः स्यात्कपोतो विहगान्तरम् ।शीतले शिशिरं विद्यात्तुषारऋतुभेदयोः ॥ २३९ ॥
239 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)
वृक्षप्रभेदे कलशे करीरो वैणवाङ्कुरे ।नेत्रं वस्त्रे मथिगुणे तरुमूले विलोचने ॥ २४० ॥
240 · p. 22
अनुष्टुप्
सर्वपृथ्वीपतौ राज्ञि सार्वभौमोथ दिग्गजे ।ऋक्षे लाङ्लिदारेषु रेवत्याख्याथ मातृषु ॥ २४१ ॥
241 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ऋ (syllables merged)
प्रतिपत्पक्षतिर्ज्ञेया गरुन्मलेपि पक्षतिः ।सारसो विहगः ख्यातः सारसं सरसीरुहम् ॥ २४२ ॥
242 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्म (wrong syllable)
सितोपलायां शकले रोगभेदे च शर्करा ।शक्रजित्वरयोर्जिष्णुर्जिष्णुर्मध्यमपाण्डवे ॥ २४३ ॥
243 · p. 22
अनुष्टुप्
मुखाग्रं पोत्रमुद्दिष्टं सूकरस्य हलस्य च ।सुवर्णं शारिफलकं द्वयमष्टापदं विदुः ॥ २४४ ॥
244 · p. 22
अनुष्टुप्
चषकं शी(सी)धु विज्ञेयं चषकं मद्यभाजनम् ।उपग्रहाख्यं द्वितयं स्याद्बन्दिरनुकूलनम् ॥ २४५ ॥
245 · p. 22
अनुष्टुप्
श्रेणिः समानशिल्पानां संहतिः श्रेणिरावलिः ।अर्घार्थं यत्तदर्घ्यं स्यादर्घ्यो यश्चार्घमर्हति ॥ २४६ ॥
246 · p. 22
अनुष्टुप्
कल्याणं मङ्गलं विद्यात्काञ्चनं च यदक्षयम् ।आतिथ्यं स्यादतिथ्यर्थ आतिथ्यमतिथिं विदुः ॥ २४७ ॥
247 · p. 23
अनुष्टुप्
शक्तौ(क्ते) निवारणे तृप्तौ पर्याप्तं स्याद्यथेप्सिते ।कृच्छ्रे दण्डे च दोषे च नाशे च विदुरत्ययम् ॥ २४८ ॥
248 · p. 23
अनुष्टुप्
पताकायां मतः केतुः केतुरुत्पातचिह्नयोः ।पर्याहाराध्वभारेषु मतौ विवधवीवधौ ॥ २४९ ॥
249 · p. 23
अनुष्टुप्
जैवातृकौ विजानीयादायुष्मन्मृगलाञ्छनौ ।अनधीनो भुजिष्याख्यो भुजिष्यः प्रैष्य इष्यते ॥ २५० ॥
250 · p. 23
अनुष्टुप्
इन्द्रियं विषयि ज्ञेयं विषयी विषयान्वितः ।विधी विधानधातारौ विधिः स्यात्कालदैवयोः ॥ २५१ ॥
251 · p. 23
अनुष्टुप्
अवधी कालगतौ स्तः सीमानोऽवधयः स्मृताः ।क्षमा तितिक्षा पृथ्वी च योग्ये शक्ते हिते क्षमम् ॥ २५२ ॥
252 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
समुन्नद्धाभिधानौ द्वौ पण्डितंमन्यगर्वितौ ।न्याय्ये कुलीनबुधयोरभिजातपदं विदुः ॥ २५३ ॥
253 · p. 23
अनुष्टुप्
आच्छादनं संपिधानं वस्त्रमाच्छादनं मतम् ।विदुराकृतिमाकारमाकारो गात्रवैकृतम् ॥ २५४ ॥
254 · p. 23
अनुष्टुप्
विष्टरः कुशमुष्टौ स्यात्पीठपादपयोरपि ।भेदकल्लोलयोर्भङ्गो भङ्गा सस्यं शणाह्वयं ॥ २५५ ॥
255 · p. 23
अनुष्टुप्
अपदेशं विदुर्लक्ष्ये निमित्तव्याजयोस्तथा ।जानीयान्निगमं वेदे नगरेथ वणिक्पथे ॥ २५६ ॥
256 · p. 23
अनुष्टुप्
आक्रोशशापाभिभवेष्वभिषङ्गपदं विदुः ।संनयः समवाये स्यात्पृष्ठस्थायिबले तथा ॥ २५७ ॥
257 · p. 23
अनुष्टुप्
शिरोवेष्टनमुष्णीषमुष्णीषं मुकुटं विदुः ।स्याद्व्रीहिशुकः किंशारुः किंशारुर्विशिखो मतः ॥ २५८ ॥
258 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कः (wrong syllable)
आकर्षः शारिफलके द्यूतपाशकयोरपि ।सुवर्णमिष्यते सद्भिर्हेमकर्षे च हेम्नि च ॥ २५९ ॥
259 · p. 24
अनुष्टुप्
संग्रहो बृहदुद्रङ्गे ग्रहसंक्षेपयोरपि ।गर्तोदपानयोः कूपः कूपः स्याद्गुणवृक्षके ॥ २६० ॥
260 · p. 24
अनुष्टुप्
सैन्यभेदे रुजायां च गुल्मो विटपघट्टयोः ।क्षयौ निलयकल्पान्तौ क्षयोपचयरोगयोः ॥ २६१ ॥
261 · p. 24
अनुष्टुप्
आक्रन्दः क्रन्दनध्वाने नाथदारुणयुद्धयोः ।अमर्षोत्सेकयोरिच्छाप्रसवेप्युत्सवं विदुः ॥ २६२ ॥
262 · p. 24
अनुष्टुप्
आडम्बरः समारम्भे गजगर्जिततूर्ययोः ।स्थूलोच्चयोप्यसामग्र्ये गजानां मध्यमे गते ॥ २६३ ॥
263 · p. 24
अनुष्टुप्
संस्कारे प्रतियत्नः स्यादुपग्रहणलिप्सयोः ।पटुरामयनिर्मुक्तः पटुश्चतुरतीक्ष्णयोः ॥ २६४ ॥
264 · p. 24
अनुष्टुप्
क्षेत्रे चारुस्त्रियां सस्ये पूर्द्वारे वलजाभिधा ।उदारो दातृमहतोरुदारम् दक्षिणं विदुः ॥ २६५ ॥
265 · p. 24
अनुष्टुप्
शक्वरी छन्दसि ज्ञेया शक्वरी मेखला क्वचित् ।यज्वा च कल्यपालश्च द्वयं स्यादासुतीवलः ॥ २६६ ॥
266 · p. 24
अनुष्टुप्
उपजापो विशेषश्च भेदौ भेदो विदारणम् ।पितृकेदारयोर्वप्रो वप्रः प्राकाररोधसोः ॥ २६७ ॥
267 · p. 24
अनुष्टुप्
राजा नृपः प्रभू राजा राजा क्षत्रियचन्द्रयोः ।शिशुमारा जलोद्भुतजन्तौ तारामयाच्युते ॥ २६८ ॥
268 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्भु (wrong syllable)
बाष्पोऽस्र(श्र)मस्रं रुधिरमस्रः शिरसिजः स्मृतः ।मिथ्योक्तौ ताडिते विद्यादाहते गुणिते तथा ॥ २६९ ॥
269 · p. 24
अनुष्टुप्
यादसांपतिरम्भोधिः ग्रचेता यादसांपतिः ।सैन्यस्य पश्चिमे भागे प्रतीरे कूलमिष्यते ॥ २७० ॥
270 · p. 24
अनुष्टुप्
परिचर्या परीष्टिः स्यात्परीष्टिश्च गवेषणे ।दरो भये च गर्ते च किंचिदर्थे दरा(रो)व्ययम् ॥ २७१ ॥
271 · p. 25
अनुष्टुप्
पर्यस्तिकायां पर्यङ्कः पर्यङ्कः शयनं तथा ।कारा बन्धनशालायां कारा बन्धनमात्रके ॥ २७२ ॥
272 · p. 25
अनुष्टुप्
मूर्धाभिषिक्तो भूपाले क्षत्रिये च प्रयुज्यते ।वंशोन्वयः समूहश्च वंशो वंशाश्च वेणवः ॥ २७३ ॥
273 · p. 25
अनुष्टुप्
रजो गुणे रजो रेणुर्योषितामार्तवं रजः ।आधिं वदन्त्यधिष्ठाने बन्धके व्यसने तथा ॥ २७४ ॥
274 · p. 25
अनुष्टुप्
खलं भूस्थानकल्केषु पामरक्रूरयोः खलः ।वृत्तान्तः प्रक्रियायां स्यात्कार्त्स्न्ये वार्ताविशेषयोः ॥ २७५ ॥
275 · p. 25
अनुष्टुप्
सूतः क्षत्त्राद्ब्राह्मणीजे तक्ष्णि सारथिबन्दिनोः ।(सूतः शूद्रात्क्षत्त्रियाजे)कुण्डली भुजगो येन पिनद्धमपि कुण्डलम् ॥ २७६ ॥
276 · p. 25
अनुष्टुप्metre not read in every line
जनंगमो दिवाकीर्तिर्दिवाकीर्तिश्च नापितः ।माल्यं सुमनसां माला माल्यं सुमनसोपि च ॥ २७७ ॥
277 · p. 25
अनुष्टुप्
ग्रामौघाधिकृते गोपो गोष्ठाध्यक्षेऽथ बल्लवे ।इष्यते चतुरे दक्षस्ताराचूडे प्रजापतौ ॥ २७८ ॥
278 · p. 25
अनुष्टुप्
जवे प्रवाहे किंपाके वेगशब्दस्त्रिषु स्मृतः ।रोगप्रभेदे प्रदरः प्रदरः शरभङ्गयोः ॥ २७९ ॥
279 · p. 25
अनुष्टुप्
समुद्गमे समुदयः संग्रामनिकुर(रु)म्बयोः ।नगागौ शिखरीत्येतत्त्रयं पर्वतवृक्षयोः ॥ २८० ॥
280 · p. 25
अनुष्टुप्
बाहुरेव स्मृतो वाहो वाहो मानतुरंगयोः ।दैत्यमार्गणयोर्बाणो बाणो दासीकुर(रु)ण्टकः ॥ २८१ ॥
281 · p. 25
अनुष्टुप्
सादिनः स्यन्दनारोहा अश्वारोहाश्च सादिनः ।भुजगश्वापदक्रूरास्त्रयो व्याडा(ला) इति स्मृताः ॥ २८२ ॥
282 · p. 26
अनुष्टुप्
विशो भूमिस्पृशो वैश्या विशो भूमिस्पृशो नराः ।त्रयः सा(शा)लावृकाभिख्याः श्वसृ(शृ)गालवलीमुखाः ॥ २८३ ॥
283 · p. 26
अनुष्टुप्
आश्रमो ब्रह्मचर्यादिराश्रमो मठ इष्यते ।अस्वाध्याये निराकारे प्रत्य्यादेशे निराकृतिः ॥ २८४ ॥
284 · p. 26
अनुष्टुप्
जीवकः क्षपणो ज्ञेयः प्राणदोऽपि च जीवकः ।हारभेदे माणवको बाले कुपुरुषे तथा ॥ २८५ ॥
285 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
आश्रये दृढसंनाहे निवातो वातवर्जिते ।संक्षेपे तुच्छधान्ये च पुलाको भक्तसिक्थके ॥ २८६ ॥
286 · p. 26
अनुष्टुप्
राजधान्यां गिरेरङ्गे वलये(यं) कटकं विदुः ।तरलो भास्वरे हारमध्यरत्नेथ चञ्चले ॥ २८७ ॥
287 · p. 26
अनुष्टुप्
वने च वनवह्नौ च दवो दाव इवेष्यते ।शिला द्वाराधरं दारु शिलमुञ्छः शिला दृषत् ॥ २८८ ॥
288 · p. 26
अनुष्टुप्
पेश्यां दिव्ये धने कोशः कुङ्गलासिपिधानायोः ।विज्ञेया नासिका नासा नासा द्वारोर्ध्वदारु च ॥ २८९ ॥
289 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 ना (wrong syllable)
अन्धो दर्शननिर्मुक्तो जन्तुरन्धं तमो मतम् ।शाक्करोऽनडुहि ज्ञेय उक्तं छन्दसि शाक्वरम् ॥ २९० ॥
290 · p. 26
अनुष्टुप्
नृशंसकठिनौ क्रूरौ क्रूरं विद्याद्भयंकरम् ।दृष्टो दृष्टान्तशब्दोयमुदाहरणशास्त्रयोः ॥ २९१ ॥
291 · p. 26
अनुष्टुप्
सत्रं यज्ञे सदादाने छादनारण्ययोरपि ।जानीयान्मङ्गलं क्षेमं क्षेमं लब्धार्थरक्षणम् ॥ २९२ ॥
292 · p. 26
अनुष्टुप्
व्यवहारे जिगीषायां क्रीडयामपि देवनम् ।प्राकारवृक्षयोः सा(शा)लः सा(शा)लः सर्जतरुः स्मृतः ॥ २९३ ॥
293 · p. 26
अनुष्टुप्
वार्ताहरे पुरोगे च सहाये च प्रतिष्कशः ।सैन्यभेदे पदातौ च पत्तिः पत्तिर्गतावपि ॥ २९४ ॥
294 · p. 27
अनुष्टुप्
पललं तिलमिश्रे(चूर्णे) स्यात्पललं पिशितेपि च ।बन्धुरं सुन्दरे दृष्टं बन्धुरं नम्रवाचकम् ॥ २९५ ॥
295 · p. 27
अनुष्टुप्
जगच्चराचरमिव भुवने गतिमत्यपि ।प्रेषिते स्यात्प्रतिक्षिप्तं प्रतिक्षिप्तं निराकृते ॥ २९६ ॥
296 · p. 27
अनुष्टुप्
व्यसनेष्वशुभे दैवे विपत्तवनयस्त्रिषु ।रुजायां स्पर्शके स्पर्शो दानस्पर्शनयोरपि ॥ २९७ ॥
297 · p. 27
अनुष्टुप्
परिवारः परिजने तथा खड्गपिधानके ।पुंश्चली बन्धकी विद्यात्करेणुरपि बन्धकी ॥ २९८ ॥
298 · p. 27
अनुष्टुप्
प्रयुज्यते जीवितेशो यमजीवितनाथयोः ।अत्यल्पयूनोरनुजे कनीयान्स्यात्कनिष्ठवत् ॥ ३०० ॥
300 · p. 27
अनुष्टुप्
वयो बाल्यादि पक्षी च यौवनं च वयः क्वचित् ।शीघ्रे मनोज्ञे निःसारे लघुः स्यादगुरुद्रुमे ॥ ३०१ ॥
301 · p. 27
अनुष्टुप्
सोमनिर्दलने स्नाने यजने सवनं मतम् ।पृथिव्यां वाचि पानीये मदिरायामिरा मता ॥ ३०२ ॥
302 · p. 27
अनुष्टुप्
परिभुक्तोज्झिते जीर्णे यातयामपदं विदुः ।समुन्नते(द्वे) प्रवृद्धे च जाते च विदुरुच्छ्रितम् ॥ ३०३ ॥
303 · p. 27
अनुष्टुप्
केवलः कृत्स्न एकश्च केवलश्चावधारितः ।सत्सत्येभ्यर्हिते साधौ विद्यमानप्रशस्तयोः ॥ ३०४ ॥
304 · p. 27
अनुष्टुप्
जातिच्छन्दसि सामान्ये मालतीगोत्रजन्मसु ।ओष्ठे स्यादधरो हीनमनूर्ध्वमधरं विदुः ॥ ३०५ ॥
305 · p. 27
अनुष्टुप्
दृषन्निष्पेषणशिला केवलापि शिला दृषत् ।उपासनं विदुः सेवां बाणाभ्यास उपासनम् ॥ ३०६ ॥
306 · p. 28
अनुष्टुप्
शुष्रूषा श्रोतुमाशंसा शुश्रूषा स्यादुपासनम् ।नामचेतनयोः संज्ञा सूचनायां करादिभिः ॥ ३०७ ॥
307 · p. 28
अनुष्टुप्
प्रसूनकाण्डयोः पीलुः पीलुः स्याद्गजवृक्षयोः ।आनर्त्तो नृत्यशालायां जन्ये(ने) जनपदान्तरे ॥ ३०८ ॥
308 · p. 28
अनुष्टुप्
मृते भूतान्तरे प्रेतः परेतोऽप्यनयोर्मतः ।शङ्कुभिर्निचिते श्वभ्रे तुषाग्नौ च कुकूलवाक् ॥ ३०९ ॥
309 · p. 28
अनुष्टुप्
प्रतिश्रयः सभायां स्यादाश्रयश्च प्रतिश्रयः ।निर्यासे शेखरे द्वारे निर्यूहो नागदन्तके ॥ ३१० ॥
310 · p. 28
अनुष्टुप्
नदप्रभेदे नद्यां च सिन्धुर्नीरनिधावपि ।मृगभेदे च पुत्रस्य प्रपौत्रे च परंपरः ॥ ३१२ ॥
312 · p. 28
अनुष्टुप्
व्यलीकमप्रियाकार्यवैलक्ष्येष्वथ पीडने ।निष्क्रमो निर्गमे ख्यातो बुद्धिसंपदि निष्क्रमः ॥ ३१३ ॥
313 · p. 28
अनुष्टुप्
अध्याये निश्चये पर्वो निर्माणोत्साहयोरपि ।पक्षिभिः ॥ ३१४ ॥
314 · p. 28
अनुष्टुप्metre not read in every line
पाणिनक्षत्रयोर्हस्तः संघाते केशपूर्वकः ।अविश्वासेऽपलापे च निकृताषपि निह्नवः ॥ ३१५ ॥
315 · p. 28
अनुष्टुप्
मृत्यावनशने प्रायः प्रायो बाहुल्यतुल्ययोः ।क्षत्ता शूद्रात्क्षत्रियाजे सारथिप्रतिहारयोः ॥ ३१६ ॥
316 · p. 28
अनुष्टुप्
कुले च जन्मभूमौ च विद्यादभिजनध्वनिम् ।निर्ग्रन्थकं विजानीयात्क्षपणे निष्परिच्छदे ॥ ३१७ ॥
317 · p. 29
अनुष्टुप्
महासेनः कार्तिकेये महासैन्यपतावपि ।आरोहो योषिताम् श्रोणौ तरोरङ्गे समुच्छ्रये ॥ ३१८ ॥
318 · p. 29
अनुष्टुप्
वाणिज्ये वणिजं विद्यात्तथा वाणिज्यजीविनि ।संग्रामे विग्रहः ख्यातः कायविस्तारयोरपि ॥ ३१९ ॥
319 · p. 29
अनुष्टुप्
विद्यादनुशयं द्वेषे पश्चात्तपानुबन्धयोः ।स्थाननक्षत्रयोर्धिष्ण्यं धिष्ण्योऽग्नौ धिष्ण्यमालये ॥ ३२० ॥
320 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्त (wrong syllable)
मागधी पिप्प्लीयूथ्योर्मागधो बन्दिनि स्मृतः ।महारजनं कुसुम्भं कुसुम्भश्च कमण्डलुः ॥ ३२१ ॥
321 · p. 29
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 पि (syllables merged); pāda 3, syllable 4 ज (wrong syllable)
परिवापो जलस्थानं परिवापः परिच्छदः ।करिणां बन्धनी वारिरम्बु वारीति विश्रुतम् ॥ ३२३ ॥
323 · p. 29
अनुष्टुप्
अयं द्वीपः कुमारी स्यात्कुमारी कन्यका स्मृता ।वातूलो वातसंघाते वातूलो मारुतासहे ॥ ३२४ ॥
324 · p. 29
अनुष्टुप्
पादाङ्घ्रि(दांह्रि)चरणा जन्तोरङ्गे मूले च भूरुहाम् ।आपणः पण्यवीथी च द्वयं विपणिसंज्ञकम् ॥ ३२५ ॥
325 · p. 29
अनुष्टुप्
इष्यते दुन्दुभिर्भेर्यामक्षे बिन्दुत्रिकद्वये ॥ ३२७ ॥
327 · p. 29
प्रार्थनाभृतिसेवासु भिक्षा भिक्षितवस्तुनि ।प्रख्यातज्ञातह्रष्टेषु प्रतीतं त्रिषु विश्रुतम् ॥ ३२८ ॥
328 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
इला गोवाग्धरित्रीषु कलत्रे चन्द्रजस्य च ।गण्डूषा मुखपूर्तौ च गण्डूषा प्रसृतोन्मिते ॥ ३२९ ॥
329 · p. 30
अनुष्टुप्
गोष्पदं गोपदश्वभ्रे गवां च गतिगोचरे ।आदौ प्रधाने प्रथमं प्रमुखेन समं विदुः ॥ ३३० ॥
330 · p. 30
अनुष्टुप्
मृगशीर्षे हस्तिजातौ मृगः पशुकुरङ्गयोः ।तमिस्रा सतमा रात्रिस्तमिस्रा च तमस्ततिः ॥ ३३१ ॥
331 · p. 30
अनुष्टुप्
अरत्निः कफणौ हस्ते सप्रकोष्ठतताङ्गुलौ ।उपायो वर्त्म च गतिर्गतिर्यात्रा गतिर्दशा ॥ ३३२ ॥
332 · p. 30
अनुष्टुप्
घटा स्याद्घटना गोष्ठी करिणां घटना घटा ।(करिसंघटने गोष्ठ्यां घटनायां घटा मता ।)रसे(सः) कटुः कटुस्तीक्ष्णे मत्सराकार्ययोः कटुः ॥ ३३३ ॥
333 · p. 30
अनुष्टुप्
गङ्गेष्टिकास्नुहीमूर्वापीयूषेषु सुधा स्मृता ।आयुधे परिघः ख्यातः परिघोऽर्गलघातयोः ॥ ३३४ ॥
334 · p. 30
अनुष्टुप्
उपह्वरं विजानीयान्निःशलाकसमीषयोः ।लक्षं छद्मनि विख्यातं लक्षं संख्याशरव्ययोः ॥ ३३५ ॥
335 · p. 30
अनुष्टुप्
आमोदलेशयोर्गन्धो गन्धः संबन्धमात्रकः ।कल्कः पापाशये दम्भे कल्कं स्यात्पापकिट्टयोः ॥ ३३६ ॥
336 · p. 30
अनुष्टुप्
कोष्ठः कुशूले स्वीये च कुक्षाव(क्षेर)न्तर्गृहस्य च ।कुशो दर्भः कुशी फालः कुशा वल्गा कुशं जलम् ॥ ३३७ ॥
337 · p. 30
अनुष्टुप्
उपलब्धिर्भवेद्बुद्धौ प्राप्तौ ज्ञाने च दृश्यते ।सारो बले स्थिरांशे च न्याय्ये सारं वरे तथा ॥ ३३८ ॥
338 · p. 30
अनुष्टुप्
न्युङ्खः साम्नः षडोङ्कारे न्युङ्खः सम्यङ्मनोहरे ।चटुः पिच(चि)ण्डे भूपादेरपि सद्गुणवर्णने ॥ ३३९ ॥
339 · p. 30
अनुष्टुप्
रसे नाट्यस्य शृङ्गारः शृङ्गारो गजमण्डने ।विवधे द्विसहस्रे च पलानां भार इष्यते ॥ ३४० ॥
340 · p. 31
अनुष्टुप्
आचितः शकटोन्मेये पलानामयुतद्वये ।पुनर्नवायां वर्षाभूर्वर्षाभूरपि दर्दुरे ॥ ३४१ ॥
341 · p. 31
अनुष्टुप्
राजरक्षिष्वनीकस्थो रा(ग)जशिक्षाविचक्षणे ।अग्रेकृताभ्यर्चितयोरतिशस्ते पुरस्कृतः ॥ ३४२ ॥
342 · p. 31
अनुष्टुप्
नवोढयोषिति वधूः स्नुषाभार्याङ्गनासु च ।आशयं विदुराधारं स्यादभिप्राय आशयः ॥ ३४३ ॥
343 · p. 31
अनुष्टुप्