कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śāśvatakośa (Anekārthasamuccaya)

अनेकार्थसमुच्चय Śāśvatakośa (Anekārthasamuccaya)

828 verses · text only, tagging comes next

Part 6 (6/7)

ब्राह्मण्यं ब्राह्मणत्वे च समूहे च द्विजन्मनाम् ।निकारः परिभावे च धान्यस्योत्क्षेपणेपि च ॥ ५८२ ॥
582 · p. 51
अनुष्टुप्
वितर्काकाङ्क्षयोस्तर्कस्तर्क ऊह उदाहृतः ।विजृम्भितं विकसिते चेष्टायां च विजृम्भितम् ॥ ५८३ ॥
583 · p. 51
अनुष्टुप्
विवरच्छिद्ररन्ध्रादीनाहुर्दूषणगर्तयोः ।प्रयुज्यते महाकालं किंपाके प्रमथेऽपि च (शिवे) ॥ ५८४ ॥
584 · p. 51
अनुष्टुप्
अरमङ्गे रथाङ्गस्य शीघ्रशीघ्रगयोऽपि ।बद्धप्राहितयोरुक्तमुद्ग्राहितपदं बुधैः ॥ ५८५ ॥
585 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्याद्दर्शको दर्शयिता प्रतिहारश्च दर्शकः ।समीपमन्तिकं विद्यादन्तिकां चुल्लिकामपि ॥ ५८६ ॥
586 · p. 52
अनुष्टुप्
स्यादावेशनमावेशे शालायामपि शिल्पिनाम् ।विदुरास्कन्दनं युद्धमास्कन्दं च विचक्षणाः ॥ ५८७ ॥
587 · p. 52
अनुष्टुप्
विस्मये चोदनार्हे च चोद्यमाहुर्मनीषिणः ।विषाणिनः स्युः करिणः शृङ्गिणश्च विषाणिनः ॥ ५८८ ॥
588 · p. 52
अनुष्टुप्
विश्लेषवदयोगः स्याद्वियोगे विधुरे तथा ।जिष्णोर्धनुषि कोदण्डे गाण्डीवं गाण्डीवं यथा ॥ ५८९ ॥
589 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ण्डी (wrong syllable)
प्रवीणोपायिनौ योग्यौ योग्यामभ्यसनं विदुः ।विलेपने चन्दने च शब्दज्ञैर्वर्णकः स्मृतः ॥ ५९० ॥
590 · p. 52
अनुष्टुप्
विश्रब्धशब्दमिच्छन्ति विश्वस्तानुद्भटार्थकम् ।स्यादश्वहितमश्वीयमश्वीयं चाश्वसंहतिः ॥ ५९१ ॥
591 · p. 52
अनुष्टुप्
निषधः कठिने देशे तद्राजे पर्वतान्तरे ।कश्यं मद्ये कशार्हे च हयमध्ये च दृश्यते ॥ ५९२ ॥
592 · p. 52
अनुष्टुप्
आनन्दे परिमाणे च दिष्टिं बहुविदो विदुः ।दीपे दीपदशायां च वर्तिर्गात्रानुलेपने ॥ ५९३ ॥
593 · p. 52
अनुष्टुप्
गुप्तिः कारा च रक्षा च जी(दी)र्णं च विवरं भुवः ॥ ५९४ ॥
594 · p. 52
विभक्तिप्रविभागेण नानारूपैरतः परम् ।श्लोकपादैः प्रवक्ष्यन्ते शब्दाः श्रुतिसुखावहाः ॥ ५९४ ॥
594 · p. 53
अनुष्टुप्
केशवौ केशवत्कृष्णौ चक्रिणौ सर्पशार्ङ्गिणौ ।वेधसौ हरिधातारौ विधू विष्णुनिशाकरौ ॥ ५९५ ॥
595 · p. 53
अनुष्टुप्
देवसूर्यौ विवस्वन्तौ खगावादित्यपक्षिणौ ।भानू दीप्तिदिनकरौ प्रभुतिग्मरुचाविनौ ॥ ५९६ ॥
596 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प्ति (wrong syllable)
वृषाकपी विष्णुशिवौ भीमौ शिवभयानकौ ।स्वामिनौ गुहभर्तारौ मरुतौ पवनामरौ ॥ ५९७ ॥
597 · p. 53
अनुष्टुप्
मुण्डौ मुण्डितमूर्धानौ शारौ शबलमारुतौ ।सुरमत्स्यावनिमिषौ सिद्धार्थौ बुद्धसर्षपौः ॥ ५९८ ॥
598 · p. 53
अनुष्टुप्
श्लोकौ यशोवृत्तबन्धौ प्राणोद्योगौ पराक्रमौ ।वल्लभौ दयिताध्यक्षौ मधुरौ स्वादुशोभनौ ॥ ५९९ ॥
599 · p. 53
अनुष्टुप्
तुरंगगरुडौ तार्क्ष्यौ ह्रादिन्यौ वज्रविद्युतौ ।षण्ढनिर्विक्रमौ क्लीबौ बुधौ ग्रहविचक्षणौ ॥ ६०० ॥
600 · p. 53
अनुष्टुप्
अब्दौ संवत्सराम्भोदौ शरदावृतुवत्सरौ ।शूलौ प्रहरणामयौ पिशुनौ खलसूचकौ ॥ ६०१ ॥
601 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 म (wrong syllable)
प्रस्तरौ मणिपाषाणौ ग्रावाणौ पर्वतोपलौ ।यानपात्रशिशू पोतौ भृङ्गौ धूम्याटषट्पदौ ॥ ६०२ ॥
602 · p. 53
अनुष्टुप्
ऋक्षौ नक्षत्रभल्लूकौ श्येनौ श्येतविहंगमौ ।बलिपुष्टबकौ ध्वाङ्क्षौ नीचमूर्खौ पृथग्जनौ ॥ ६०३ ॥
603 · p. 53
अनुष्टुप्
वाजिनौ पक्षितुरगौ वृद्धौ स्थविरपण्डितौ ।विसरावसरौ वारौ पाकौ पचनबालकौ ॥ ६०४ ॥
604 · p. 53
अनुष्टुप्
सितौ च बद्धधवलौ कुञ्जौ च हनुगह्वरौ ।मूढौ च तन्द्रितजडौ शिती च धवलासितौ ॥ ६०५ ॥
605 · p. 53
अनुष्टुप्
शिखिपिच्छदलौ बर्हौ बाणभृङ्गौ शिलीमुखौ ।भुजंगौ षिड्गभुजगौ शकुन्तौ भासपक्षिणौ ॥ ६०६ ॥
606 · p. 54
अनुष्टुप्
निवेशौ शिबिरोद्वाहौ जिह्मौ कुटिलमन्दकौ ।विश्वसंज्ञौ जगत्सर्वौ चित्रदर्पौ च विस्मयो ॥ ६०७ ॥
607 · p. 54
अनुष्टुप्
हरिणौ पाण्डुरमृगौ जीमूतौ मेघपर्वतौ ।उपलौ रत्नपाषाणौ बालिशौ मूर्खशावकौ ॥ ६०८ ॥
608 · p. 54
अनुष्टुप्
निपाकौ पचनस्वेदौ गेयौ गातव्यगायनौ ।पक्षितार्क्ष्यौ गरुत्मन्तौ प्राप्तौ लब्धसमञ्जसौ ॥ ६०९ ॥
609 · p. 54
अनुष्टुप्
पयोधरौ स्त्रीस्तनाब्दौ संस्तरौ प्रस्तराध्वरौ ।आमिषौ पललोत्कोचौ कृषकौ फालकर्षकौ ॥ ६१० ॥
610 · p. 54
अनुष्टुप्
सपिण्डपुत्रौ दायादौ मातङ्गौ श्वपचद्विपौ ।श्वशुर्यौ देवरश्या(स्या)लौ तुषारौ हिमशीकरौ ॥ ६११ ॥
611 · p. 54
अनुष्टुप्
जम्बुकौ कोष्टवरुणौ स्पशौ प्रणिधिसंगरौ ।नीलकण्ठौ शिखिहरौ नरेन्द्रौ नृपवार्तिकौ ॥ ६१२ ॥
612 · p. 54
अनुष्टुप्
रतभोगौ च संभोगौ देहात्मानौ च पुद्गलौ ।शिखण्डौ च शिखाबर्हौ क्षेत्रज्ञौ चात्मशिक्षितौ ॥ ६१३ ॥
613 · p. 54
अनुष्टुप्
रदाभ्यवहृती जम्भौ संबाधौ योनिसंकटौ ।स्फुटौ व्याकोशविशदौ विकाशौ विजनस्फुटौ ॥ ६१४ ॥
614 · p. 54
अनुष्टुप्
सेनान्यौ गुहसेनापौ विगतौ वीतानिष्प्रभौ ।मणिदोषदरौ त्रासौ पार्ष्णिगप्रसभौ हठौ ॥ ६१५ ॥
615 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ता (wrong syllable)
पूजाप्रतिक्रियावर्घौ पिण्डौ पुद्गलगोलकौ ।मानभेदकषौ शाणौ भ्रातृव्यौ भ्रातृजद्विषौ ॥ ६१६ ॥
616 · p. 54
अनुष्टुप्
प्रमोदगन्धावामोदौ स्थूलौ निष्प्रज्ञपीवरौ ।आभोगौ पूर्णतायत्नौ शक्रौ कुटजवासवौ ॥ ६१७ ॥
617 · p. 54
अनुष्टुप्
प्रतिघौ रुट्प्रतीघातावादित्यौ देवभास्करौ ।सामजौ गजसामोत्थौ देवौ सुरमहीभुजौ ॥ ६१८ ॥
618 · p. 55
अनुष्टुप्
अण्डीरौ शक्तपुरुषौ धीरौ मन्थरपण्डितौ ।विस्तारौ विस्तृतिस्तम्बवादृतौ सादरार्चितौ ॥ ६१९ ॥
619 · p. 55
अनुष्टुप्
मन्थौ साक्तवमन्थानौ वृषभौ वृषपुंगवौ ।संकीर्णौ निचिताशुद्धौ मूर्च्छितौ मूढसोच्छ्रयौ ॥ ६२० ॥
620 · p. 55
अनुष्टुप्
कुबेराढ्यौ धनपती एतावागतकर्बुरौ ।उत्साहकार्तिकावूजौ यक्षौ यक्षेशगुह्यकौ ॥ ६२१ ॥
621 · p. 55
अनुष्टुप्
चक्रवाकवृकौ कोकौ रक्षोवृक्षौ पलाशिनौ ।वैधेयबालकौ डिम्भौ राहूत्पातावुपप्लवौ ॥ ६२२ ॥
622 · p. 55
अनुष्टुप्
विशारदौ धृष्टबुधौ मिथुने युग्मदम्पती ।मैथुने रतसंबन्धौ तलिमे तल्पकुट्टिमौ ॥ ६२३ ॥
623 · p. 55
अनुष्टुप्
मन्त्रिसहायौ सचिवौ नाशावज्ञे पराभवौ ।आविद्धौ कुटिलक्षिप्तौ भर्तारौ स्वामिधारकौ ॥ ६२४ ॥
624 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 न्त्रि (wrong syllable)
काकेभगण्डौ करटावुत्सेधौ वपुरुन्नती ।दन्तौ रदाद्रिकटकावसुराशीविषावही ॥ ६२५ ॥
625 · p. 55
अनुष्टुप्
अजा विष्णुहरच्छागा बलिहस्तांशवः कराः ।अवयश्चाद्रिमेषार्का गोष्ठाध्वनिवहा व्रजाः ॥ ६२६ ॥
626 · p. 55
अनुष्टुप्
ध्वान्तदैत्यारतो वृत्रा अद्रयोर्कगिरिद्रुमाः ।वर्चांसि रूपविड्भासो दन्तविप्राण्डजा द्विजाः ॥ ६२७ ॥
627 · p. 55
अनुष्टुप्
गृहा गेहं गृहा दाराः कुटो वेश्म कुटो घटः ।शस्त्रं हेतिरयः शस्त्रं पयः क्षीरं पयोम्बु च (घृतम्) ॥ ६२८ ॥
628 · p. 55
अनुष्टुप्
गभस्तिरुस्र उस्रा गौर्द्युतिः कन्तिर्द्युतिः प्रभा ।उरो वक्ष उरः श्रेष्ठं ज्या मौर्वी ज्या वसुन्धरा ॥ ६२९ ॥
629 · p. 55
अनुष्टुप्
श्वेतं रुप्यं सितः श्वेतस्तपा माघस्तपो व्रतम् ।सूक्ष्मोणुः सूक्ष्ममध्यात्मं नभः खं श्रावणो नभाः ॥ ६३० ॥
630 · p. 56
अनुष्टुप्
वनं नीरं वनं सत्त्रं विषं क्ष्वेडो विषं जलम् ।भर्म हेम भृतिर्भर्म त्विषः शोभास्त्वि(त्वि)षो रुचः ॥ ६३१ ॥
631 · p. 56
अनुष्टुप्
भीरु स्त्री कातरो भीरुर्घृतमाज्यं घृतं जलम् ।क्षीरमम्बुः पयः क्षीरमभ्रं व्योमाभ्रमम्बुदः ॥ ६३२ ॥
632 · p. 56
अनुष्टुप्
मदो गर्वो मदो हर्ष ऋतं सत्यमृतं शिलम् ।युतं पृथग्युतं युक्तं यतिः कारो यतिर्यती ॥ ६३३ ॥
633 · p. 56
अनुष्टुप्
कारो बलिर्यतिः कारो जलमम्बु जलो जडः ।काव्यं ग्रन्थो ग्रहः काव्यः सहा मासः सहो बलम् ॥ ६३४ ॥
634 · p. 56
अनुष्टुप्
वक्षः क्रोडः किरः क्रोडः शुषिः शोषः शुषिर्बिलम् ।व्यक्तं स्फुटं बुधो व्यक्तश्चरश्चारश्चरश्चलः ॥ ६३५ ॥
635 · p. 56
अनुष्टुप्
सेवार्होशीरयोः सेव्यं लभ्यं लब्धव्ययुक्तयोः ।शलाकाबाणयोः शल्यं स्वरुर्यूपाङ्गवज्रयोः ॥ ६३६ ॥
636 · p. 56
अनुष्टुप्
वस्त्रगर्हितयोश्चेलमशनिर्वज्रविद्युतोः ।वृषाकपायी श्रीगौर्योरम्बिका मातृकोमयोः ॥ ६३७ ॥
637 · p. 56
अनुष्टुप्
वचागौर्योर्हैमवती वर्जनं त्यागहिंसयोः ।चापाग्रपीडयोरर्तिरतसीदुर्गयोरुमा ॥ ६३८ ॥
638 · p. 56
अनुष्टुप्
लीलाविलासक्रिययोर्विभ्रमो भ्रान्तिहावयोः ।महिषी पशुराट्पत्न्योस्तन्द्री निद्राप्रमीलयोः ॥ ६३९ ॥
639 · p. 56
अनुष्टुप्
आधिबन्धनयोर्बन्धः कार्यहेत्वोः प्रयोजनम् ।घर्मस्वेदनयोः स्वेदः सरणिः पङ्क्तिमार्गयोः ॥ ६४० ॥
640 · p. 56
अनुष्टुप्
वेश्याकरिण्योर्गणिका स्यादर्हञ्जिनपूज्ययोः ।रत्नशक्रास्त्रयोर्वज्रं रङ्गसीसकयोस्त्रपुः ॥ ६४१ ॥
641 · p. 56
अनुष्टुप्
जनविष्टपयोर्लोकः पवित्रं कुशपूतयोः ।व्यापृताकुलयोर्व्यग्रः प्रजा संतानलोकयोः ॥ ६४२ ॥
642 · p. 57
अनुष्टुप्
अनीकं सैन्यमृधयोर्जीवातुर्जायुजीवयोः ।आयुधज्वालयोर्हेतिरर्चिर्ज्वालामयूखयोः ॥ ६४३ ॥
643 · p. 57
अनुष्टुप्
रश्मिर्घृणिप्रग्रहयोर्भूरि प्राज्यसुवर्णयोः ।स्फुटभासोः प्रकाशः स्यान्महद्राज्यविशालयोः ॥ ६४४ ॥
644 · p. 57
अनुष्टुप्
भाग्यैकदेशयोर्भागः सोम ओषधिचन्द्रयोः ।मेषादिपुञ्जयो राशिः सत्यं शपथतथ्ययोः ॥ ६४५ ॥
645 · p. 57
अनुष्टुप्
योग्यकल्याणयोर्भव्यं हिमं शीततुषारयोः ।शुक्लप्रदीप्तयोः शुभ्रं पलमुन्मानमांसयोः ॥ ६४६ ॥
646 · p. 57
अनुष्टुप्
प्रेमप्रमोदयोः प्रीतिर्धृतिर्धारणसौख्ययोः ।इष्टिर्यागेच्छयोरुक्ता भृतिर्भरणमूल्ययोः ॥ ६४७ ॥
647 · p. 57
अनुष्टुप्
कृतं पर्याप्तयुगयोः क्रव्यान्मांसाशिरक्षसोः ।न्यग्रोधो व्यामवटयोर्बिन्दुर्वेदितृविप्रुषोः ॥ ६४८ ॥
648 · p. 57
अनुष्टुप्
उत्सङ्गलक्ष्मणोरङ्कश्चर्म स्यात्फलकत्वचोः ।अविद्यामूर्च्छयोर्मोहश्चिकुरश्चलकेशयोः ॥ ६४९ ॥
649 · p. 57
अनुष्टुप्
ग्रहावहारयोर्ग्राहश्चोक्षो गीतमनोज्ञयोः ।प्लवभीलुकयोर्भेलः कीलालमसृगम्बुनोः ॥ ६५० ॥
650 · p. 57
अनुष्टुप्
रिपुतस्करयोर्दस्युर्मतिरिच्छामनीषयोः ।रणः स्यात्क्वाणमृधयोर्लवश्छेदनलेशयोः ॥ ६५१ ॥
651 · p. 57
अनुष्टुप्
मर्यादा धारणासीम्नोरिज्या यजनपूजयोः ।लताविटपयोर्विरुज्जयन्तीदुर्गयोर्जया ॥ ६५२ ॥
652 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्वि (wrong syllable)
प्रदेशकुड्ययोर्भित्तिर्वपा विवरमेदसोः ।सती हैमवतीसाध्व्योर्मूल्यं वेतनवस्नयोः ॥ ६५३ ॥
653 · p. 57
अनुष्टुप्
नगरीशाखयोर्लङ्का प्रसूनं फलपुष्पयोः ।मणिप्रकृष्टयो रत्नं प्रतिपत्तिथिसंविदो ॥ ६५४ ॥
654 · p. 58
अनुष्टुप्
पताकालक्ष्मणोश्चिह्नं गैरिकं धातुरुक्मयोः ।अर्गप्रस्थानयोर्व्रज्या वाहिनी सिन्धुसेनयोः ॥ ६५५ ॥
655 · p. 58
अनुष्टुप्
अश्वकुत्सितयोरर्वा गह्वरं बिलदम्भयोः ।ऊष्मनेत्राम्भसोर्बाष्पः प्रेम स्निग्धत्वनर्मणोः ॥ ६५६ ॥
656 · p. 58
अनुष्टुप्
कुत्सापवादयोर्निन्दा सुतः पुत्रमहीभुजोः ।निदेशागमयोः शास्त्रं प्रवेणीकुशयोः कुथः ॥ ६५७ ॥
657 · p. 58
अनुष्टुप्
त्वक्चर्मवल्कयोरुक्ता सदृशव्याजयोर्निभः ।प्लीहविप्लवयोर्डिम्बः शुद्धः केवलपूतयोः ॥ ६५८ ॥
658 · p. 58
अनुष्टुप्
ऋक्समिधोः सामिधेनी लक्षणं नामचिह्नयोः ।कल्याणशमयोः शान्तिः कान्तिः शोभेच्छयोः स्मृता ॥ ६५९ ॥
659 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मि (wrong syllable)
आकरोपस्थयोर्योनिरोघो वृन्दाम्बुवेगयोः ।मन्दस्वच्छन्दयोः स्वैरो योग्यपण्डितयोः कृती ॥ ६६० ॥
660 · p. 58
अनुष्टुप्
मेषयादवयोर्वृष्णिर्विलग्नो मध्यलग्नयोः ।शष्पकर्दमयोः शादो द्रोणो वायसमानयोः ॥ ६६१ ॥
661 · p. 58
अनुष्टुप्
वसतिर्वेश्मयामिन्योः क्षवथुः क्षुतकासयोः ।द्वाःस्थद्वारोः प्रतीहारः सायकः शरखड्गयोः ॥ ६६२ ॥
662 · p. 58
अनुष्टुप्
वितर्कत्रासयोः शङ्का बन्धनं वृत्तबन्धयोः ।परुषास्निग्धयो रूक्षः कोमलातिग्मयोर्मृदुः ॥ ६६३ ॥
663 · p. 58
अनुष्टुप्
अधमान्तभुवोरन्त्यो वाडवो ब्राह्मणौर्वयोः ।घृणा जुगुप्साकृपयोरवटः कूपगर्तयोः ॥ ६६४ ॥
664 · p. 58
अनुष्टुप्
स्यूतिरक्षणयोरूतिः सातिर्दानावसानयोः ।सेवनं सीवनोपास्त्योर्द्रुतं शीघ्रविलीनयोः ॥ ६६५ ॥
665 · p. 58
अनुष्टुप्
वामदक्षिणयोः सव्यमधमो न्यूनगर्ह्ययोः ।धीनृत्यदर्शयोः प्रेक्षा मूर्तिः काठिन्यकाययोः ॥ ६६६ ॥
666 · p. 59
अनुष्टुप्
वृतिप्रस्थानयोर्यात्रा धनं गोधनवित्तयोः ।प्रतिमापूजयोरर्चा मह उत्सवतेजसोः ॥ ६६७ ॥
667 · p. 59
अनुष्टुप्
प्राप्तिसंबन्धयोराप्तिर्लक्ष्म चिह्नप्रधानयोः ।(… लक्ष्मचिह्नप्रधानयोः)नवेऽ(?)विचारेति चित्रं वदान्यो दातृवाग्मिनोः ।चौर्यादिवधयोर्हिंसा जामिः स्वसृकुलस्त्रियोः ॥ ६६८ ॥
668 · p. 59
अनुष्टुप्metre not read in every line
जग्धिलेपनयोर्लेपः स्यादन्नं भक्तभुक्तयोः ।विद्वान् विदत्पण्डितयोर्गोपतिः षण्डसूर्ययोः ॥ ६६९ ॥
669 · p. 59
अनुष्टुप्
श्राद्धत्वकाङ्क्षयोः श्रद्धा भूतिः संपत्तिभस्मनोः ।निषेधदुःखयोर्बाधा क्षुल्लकः पामराल्पयोः ॥ ६७० ॥
670 · p. 59
अनुष्टुप्
करेणुर्गजहस्तिन्योर्वर्तनी वृत्तिमार्गयोः ।विस्तारवल्ल्योर्व्रततिराकृतिः कायरूपयोः ॥ ६७१ ॥
671 · p. 59
अनुष्टुप्
स्नेहस्तैलादिकप्रेम्णोरक्षरं ब्रह्मवर्णयोः ।कर्षूर्नदीकरीषाग्न्योर्भरोतिशयभारयोः ॥ ६७२ ॥
672 · p. 59
अनुष्टुप्
उपस्थरहसोर्गुह्यमनूकं कुलशीलयोः ।विषयोत्पातयो राष्ट्रमागः पापापराधयोः ॥ ६७३ ॥
673 · p. 59
अनुष्टुप्
न्याय्यावलग्नयोर्मध्यं चर्चा स्थासकचिन्तयोः ।रथौघमार्गयो रथ्या मृत्युयाचितयोर्मृतम् ॥ ६७४ ॥
674 · p. 59
अनुष्टुप्
स्रोतोम्बुवेगेन्द्रिययोश्छद्मस्खलितयोश्छलम् ।अत्यर्थगृहयोरट्टः प्रस्थः स्यात्सानुमानयोः ॥ ६७५ ॥
675 · p. 59
अनुष्टुप्
इतरासदृशोरन्य उडुपश्चन्द्रभेलयोः ।छन्दोभिप्रयवशयोः संस्था स्थितिविनाशयोः ॥ ६७६ ॥
676 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प्र (wrong syllable)
स्वल्पकल्लोलयोर्वीचिरहिभुक्केकितार्क्ष्ययोः ।द्विजिह्वः सर्पखलयोर्निजमात्मीयनित्ययोः ॥ ६७७ ॥
677 · p. 60
अनुष्टुप्
धूलिपेषणयोः क्षोदो रभसो वेगहर्षयोः ।कुटीग्रामकयोः पल्लिः सखा मित्रसहाययोः ॥ ६७८ ॥
678 · p. 60
अनुष्टुप्
विन्यस्ते संहते व्यूढश्चारो बन्धापसर्पयोः ।आशुगो मारुते बाणे वैशाखो मासमन्थयोः ॥ ६७९ ॥
679 · p. 60
अनुष्टुप्
आशा ककुभि तृष्णायां स्वादुर्मृष्टमनोज्ञयोः ।मार्गणो याचके बाणे जातं जन्मसमूहयोः ॥ ६८० ॥
680 · p. 60
अनुष्टुप्
नियतिः संयमे दैवे प्रकारस्तुल्यभेदयोः ।व्यवायः सुरतेऽन्तर्धौ धन्वपर्वतयोर्मरुः ॥ ६८१ ॥
681 · p. 60
अनुष्टुप्
गजाङ्गे कलशे कुम्भः पताकाचिह्नयोर्ध्वजः ।भ्रूणोऽर्भके स्त्रैणगर्भे प्रियङ्गुः कङ्गुवृक्षयोः ॥ ६८२ ॥
682 · p. 60
अनुष्टुप्
आकल्पः कल्पने वेषे निस्त्रिंशः क्रूरखङ्गयोः ।रतेन्वितौ संप्रयोगः कलङ्कोङ्कापवादयोः ॥ ६८३ ॥
683 · p. 60
अनुष्टुप्
उदयेधिगमे प्राप्तिः क्षारः स्यात्काचभस्मनोः ।वहो वाहे गवां स्कन्धे पद्धतिः पङ्क्तिवर्त्मनोः ॥ ६८४ ॥
684 · p. 60
अनुष्टुप्
वल्कले शकले शल्कं प्रगाढं दृढकृच्छ्रयोः ।स्वभूर्वेधसि गोविन्दे शुक्तं स्यात्परुषाम्लयोः ॥ ६८५ ॥
685 · p. 60
अनुष्टुप्
व्युत्पन्ने प्रहते क्षुण्णो निशान्तं गेहशान्तयोः ।गोधा तले निहाकायां विभुः स्यात्प्रभुनित्ययोः ॥ ६८६ ॥
686 · p. 60
अनुष्टुप्
त्रयी त्रिवेद्यां त्रितये निषङ्ग सङ्गतूणयोः ।भ्रमरः कामुके भृङ्गे भूतात्मा धातृदेहयोः ॥ ६८७ ॥
687 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
द्रुमस्तरौ पारिजाते भाण्डहव्यान्नयोश्चरुः ।करालो दन्तुरे तुङ्गे न्यक्षं कार्त्स्न्यनिकृष्टयोः ॥ ६८८ ॥
688 · p. 60
अनुष्टुप्
अदः परस्मिन्नत्रापि व्यूहो विन्यासवृन्दयोः ।स्तिमितोऽतरले क्लिन्ने कष्टं गहनकृच्छ्रयोः ॥ ६८९ ॥
689 · p. 61
अनुष्टुप्
विकारो विकृतौ रोगे विरोधो नाशरोधयोः ।क्षेपे रोधे च संरोधो गाथा वाग्भेदवृत्तयोः ॥ ६९० ॥
690 · p. 61
अनुष्टुप्
प्रव्यक्ते विशदः शुक्ले निधनं कुलनाशयोः ।अर्थ्यो विपश्चिति न्याय्ये बल्लवो गोपसूदयोः ॥ ६९१ ॥
691 · p. 61
अनुष्टुप्
पल्लवो विटपे षिङ्गे किट्टकिल्बिषयोर्मलम् ।पीतिस्तुरंगमे पाने वित्तं द्रव्यप्रकाशयोः ॥ ६९२ ॥
692 · p. 61
अनुष्टुप्
करिण्यां धेनुका धेनौ हेलावज्ञाविलासयोः ।दुर्गतिर्नरके नैःस्व्ये क्रि(कृ)मिः स्यात्कीटलाक्षयोः ॥ ६९३ ॥
693 · p. 61
अनुष्टुप्
वर्तने विवृतौ वृत्तिस्तरः स्याद्बलवेगयोः ।देशे जने जनपदः प्रवृतिर्वृत्तिवार्तयोः ॥ ६९४ ॥
694 · p. 61
अनुष्टुप्
शाखा भुजे पादपाङ्गे लुब्धो मृगयुकाङ्क्षिणोः ।समाघातो वधे युद्धे धावनं गतिशौचयोः ॥ ६९५ ॥
695 · p. 61
अनुष्टुप्
व्युष्टिः फले समृद्धौ च यानं गमनयुग्ययोः ।स्नानीये सवने स्नानं सैन्धवो लवणाश्वयोः ॥ ६९६ ॥
696 · p. 61
अनुष्टुप्
वर्धनं छेदने वृद्धौ रहः सुरतगुह्ययोः ।उत्तमे सुभटे वीरः प्रज्ञानं बुद्धिचिह्नयोः ॥ ६९७ ॥
697 · p. 61
अनुष्टुप्
किर्मिरे कर्बुरं होम्नि गाङ्गेयं गाङ्गरुक्मयोः ।समूहे पादपे पूगः शूकोऽनुक्रोशशुङ्गयोः ॥ ६९८ ॥
698 · p. 61
अनुष्टुप्
अभीषुः(शुः) प्रग्रहे भासि बर्हिर्दर्भहुताशयोः ।अर्यः स्वामिनि वैश्ये च निकृतिः शठशाठ्ययोः ॥ ६९९ ॥
699 · p. 61
अनुष्टुप्
पक्तिः स्याद्गौरवे पाके रतिः सुरतरागयोः ।नरः स्यादर्जुने मर्त्ये नालीकश्च शराब्जयोः ॥ ७०० ॥
700 · p. 61
अनुष्टुप्