All kośas › Śāśvatakośa (Anekārthasamuccaya)
अनेकार्थसमुच्चय Śāśvatakośa (Anekārthasamuccaya)
828 verses · text only, tagging comes next
Part 2 (2/7)
अवर्णवादः कौलीनं कौलीनं च कुलीनता ।कौलीनं विविधं द्यूतं पक्षीभिः पशुभिस्तथा ॥ १०८ ॥
108 · p. 11
अनुष्टुप्
काकिणी मानदण्डः स्यात्तुरीयांशे पणस्य च ।काकिणीं ब्रुवते केचिदेकमेव वराटकम् ॥ १०९ ॥
109 · p. 11
अनुष्टुप्
पारंपर्योपदेशेन प्रख्याते मङ्गले किल ।कौतुहले च शब्दज्ञाः कौतुकं संप्रचक्षते ॥ ११० ॥
110 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ह (wrong syllable)
विना पुष्पं फलं यस्य वृक्षस्य स वनस्पतिः ।प्रयुज्यते प्रयोगज्ञैर्वृक्षमात्रे वनस्पतिः ॥ ११२ ॥
112 · p. 11
अनुष्टुप्
ऋजुदीर्घं महेन्द्रस्य चापमैरावतं मतम् ।तस्यैव हस्तिमल्लाख्यो गजोऽप्यैरावतो मतः ॥ ११३ ॥
113 · p. 11
अनुष्टुप्
संभाषणे क्रियाकारे संकेते नाम्नि तोषणे ।संविदाजौ प्रतिज्ञायामाचारज्ञानयोरपि ॥ ११४ ॥
114 · p. 11
अनुष्टुप्
काषायवस्त्रविधवां द्वितीयवयसं स्त्रियम् ।कात्यायनीं विदुः सन्त उमा कात्यायनी मता ॥ ११५ ॥
115 · p. 11
अनुष्टुप्
सरिद्विशेषे सरिति वाचि प्रोक्ता सरस्वती ।सरस्वती गवि क्वापि सरस्वान्वारिधौ नदे ॥ ११६ ॥
116 · p. 11
अनुष्टुप्
शरीरसाधनापेक्षं नित्यं कर्म यमो मतः ।यमजश्च यमो ज्ञेयो यमो दक्षिणदिक्पतिः ॥ ११७ ॥
117 · p. 11
अनुष्टुप्
शुद्धान्तसंज्ञं शब्दज्ञैराख्यातमवरोधनम् ।कक्षान्तरं च भूपानामसर्वजनगोचरम् ॥ ११९ ॥
119 · p. 12
अनुष्टुप्
ऐरावतीशतह्रदासौदामन्य इति त्रयम् ।प्रयुज्यते कविवरैर्विद्युद्विद्युद्विशेषयोः ॥ १२० ॥
120 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ह्र (wrong syllable)
नीवीं ग्रन्थिं विदुर्नार्या जघनस्थस्य वाससः ।धनं चोपचयाजीवैर्मूलं यस्य न हिंस्यते ॥ १२१ ॥
121 · p. 12
अनुष्टुप्
अनूचानं वदन्त्यार्या विनयावनतं नरम् ।साङ्गे प्रवचनेऽधीती द्विजोऽनूचानसंज्ञकः ॥ १२३ ॥
123 · p. 12
अनुष्टुप्
अर्जुनी सौरभेयी स्यादर्जुनं तृणशुक्लयोः ।अर्जुनो वृक्षभेदे च तथा मध्यमपाण्डवे ॥ १२४ ॥
124 · p. 12
अनुष्टुप्
बृहस्पतिसवेनेष्टं येनासौ स्थपतिर्मतः ।प्रासादादिकरः शिल्पी स्थपतिः कञ्चुकी मतः ॥ १२५ ॥
125 · p. 12
अनुष्टुप्
अर्थज्ञैरिष्यते दर्शः पक्षान्ते वैदिको विधिः ।दर्शः सूर्येन्दुसंपर्कादमावास्येति या स्मृता ॥ १२६ ॥
126 · p. 12
अनुष्टुप्
शाखापुरे विदुर्गृह्यां गृह्यमस्वैरिपक्षयोः ।गृह्यान्वदन्ति विद्वांसो गृहासक्तान्मृगाण्डजान् ॥ १२७ ॥
127 · p. 12
अनुष्टुप्
विज्ञेयं चक्षुषि क्लिन्ने चिल्लं पिल्लं च चुल्लवत् ।क्लिन्नाक्षे प्राणिनि प्रोक्ता चिल्लपिल्लौ सचुल्लकौ ॥ १२८ ॥
128 · p. 12
अनुष्टुप्
जन्तोरवयवे कक्षः कच्छवीरुत्तृणेषु च ।कक्षा स्यात्परिधानस्य पश्चादञ्चलपल्लवे ॥ १२९ ॥
129 · p. 12
अनुष्टुप्
संभूतो दक्षिणस्यां यो दक्षिणः स उदाहृतः ।परच्छन्दानुवर्ती च सरलोऽपि च दक्षिणः ॥ १३० ॥
130 · p. 13
अनुष्टुप्
सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका ।वर्णसंकरजा या च सैरन्ध्री सा प्रकीर्तिता ॥ १३१ ॥
131 · p. 13
अनुष्टुप्
अव्यक्तरागमरुणमरुणः सूर्यसारथिः ।संध्यारागोऽरुणः क्वापि लोहितोऽरुण इष्यते ॥ १३२ ॥
132 · p. 13
अनुष्टुप्
आहतं हेमरजतं रूप्यमाहुर्मनीषिणः ।प्रशस्तरूपको रूप्यो रूप्यं रजतमिष्यते ॥ १३३ ॥
133 · p. 13
अनुष्टुप्
गौर,२;गौरी,२चामीकराभं शुक्लं च गौरमाहुर्मनीषिणः ।असंजातरजाः कन्या गौरी गौरी च पार्वती ॥ १३४ ॥
134 · p. 13
अनुष्टुप्metre not read in every line
क्ष्वेडो विषं ध्वनिः क्ष्वेडः क्ष्वेडा शस्यं च वैणवम् ।योधानां सिंहनादोऽपि रणे क्ष्वेडेति कीर्तितः (ता) ॥ १३५ ॥
135 · p. 13
अनुष्टुप्
उत्थानं गृहवास्त्वन्ते स्यादुत्थानं च पौरुषे ।उत्थानमुद्यमे तन्त्रे विद्यादुत्थानमुद्गमे ॥ १३६ ॥
136 · p. 13
अनुष्टुप्
अवकाशे स्थितौ स्थानं सप्तम्यन्तमिदं पुनः ।युक्तार्थं कारणार्थं च शब्दतत्त्वविदां मतम् ॥ १३७ ॥
137 · p. 13
अनुष्टुप्
हृत्प्रियं हृद्भवं हृद्यं हृदयाय हितं च यत् ।वशीकरणमन्त्रोऽपि वैदिको हृद्य इष्यते ॥ १३८ ॥
138 · p. 13
अनुष्टुप्
दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगव्ययम् ।प्राच्योदीच्यप्रतीच्यानां वाचकं स्यादनव्ययम् ॥ १३९ ॥
139 · p. 13
अनुष्टुप्
खगादिबन्धने पाशः समूहे केशपूर्वकः ।कर्णपूर्वोऽपि शब्दोऽयं कर्णं वदति शोभनम् ॥ १४० ॥
140 · p. 13
अनुष्टुप्
मुक्ताशुद्धौ स्वनेऽत्युच्चे तारस्तारं च रूप्यके ।नक्षत्रे नेत्रमध्ये च तारा तारवदिष्यते ॥ १४१ ॥
141 · p. 13
अनुष्टुप्
पौनः पुन्यं सर्वदा च स्यादभीक्ष्णार्थकं द्वयम् ।अनव्ययमयं शब्दः कथितो बहुदर्शिभिः ॥ १४२ ॥
142 · p. 14
अनुष्टुप्
अश्वानां गतयः पञ्च धारा धारा च संततिः ।अग्रस्कन्धे च सैन्यस्य धारामाहुर्मनीषिणः ॥ १४३ ॥
143 · p. 14
अनुष्टुप्
स्यात्कंसस्तैजसे द्रव्ये पानपात्रे च कांस्यवत् ।दृष्टः कंसो विशेषेण दैत्यमानप्रभेदयोः ॥ १४४ ॥
144 · p. 14
अनुष्टुप्
स्याज्जन्महेतुः प्रभवः प्रभवो मूलमप्यपाम् ।प्रभवं केचिदिच्छन्ति स्थानमाद्योपलब्धये ॥ १४५ ॥
145 · p. 14
अनुष्टुप्
गीतस्वरे देहमध्ये मध्योद्भुते च मध्यमः ।पाणेर्मध्याङ्गुलिर्दृष्टरजाः कन्या च मध्यमा ॥ १४७ ॥
147 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्भु (wrong syllable)
प्रत्ययः प्रथितत्वे स्यात्प्रत्ययो ज्ञानवाचकः ।प्रत्ययः शपथे रन्ध्रे (स्यादि-) विश्वासाधीनहेतुषु ॥ १४८ ॥
148 · p. 14
अनुष्टुप्
तथागते धर्मराजजिनबुद्धविनायकाः ।अन्तकेऽर्हति दोषज्ञे गजवक्त्रे क्रमादमी ॥ १४९ ॥
149 · p. 14
अनुष्टुप्
स्यादुपाये निस्तरणं द्वारं निःसरणं तथा ।तरणे द्वारि निर्याणे(र्वाणे) यथासंख्यमवस्थितम् ॥ १५० ॥
150 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
त्रयं स्त्रीरजसि ज्ञेयमृतुः कुसुममार्तवम् ।शरदादिषु पुष्पे च ऋतूत्थे च विदुः क्रमात् ॥ १५१ ॥
151 · p. 14
अनुष्टुप्
दिग्गजः कज्जलं माता मारुताङ्गभुवः कपेः ।यथासंख्यं विनिर्दिष्टमञ्जनोऽञ्जनमञ्जना ॥ १५२ ॥
152 · p. 14
अनुष्टुप्
प्रकरश्चोपकारश्च विकीर्णकुसुमादिषु ।संहतौ चोपकृत्यां च यथासंख्यमवस्थितौ ॥ १५३ ॥
153 · p. 14
अनुष्टुप्
श्लोकेनैकेन निर्दिष्टं यथाशास्त्रमतः परम् ।श्लोकस्यार्धेन वक्ष्यन्ते शब्दाः प्रव्यक्तया गिरा ॥ १५४ ॥
154 · p. 15
अनुष्टुप्
प्रियं सत्यं च वचनं सूनृतं सुनृतं शिवम् ।वेद्योऽध्यात्मं तपो ब्रह्म ब्राह्मणौ विप्रवेधसौ ॥ १५५ ॥
155 · p. 15
अनुष्टुप्
स्थाणोर्धनुः पिनाकं स्यात्पिनाकं शूलमात्रकम् ।मातृभेदे स्मृता काली भवानीनवमेघयोः ॥ १५६ ॥
156 · p. 15
अनुष्टुप्
स्थविरे नष्टबीजे च दशमीस्थं द्वयोर्विदुः ।हेरम्बो महिषः ख्यातो हेरम्बो विघ्ननायकः ॥ १५७ ॥
157 · p. 15
अनुष्टुप्
योगिभेदे खगे हंसो निर्लोभनृपसूर्ययोः ।गणः समूहे प्रमथे संख्यासैन्यप्रभेदयोः ॥ १५८ ॥
158 · p. 15
अनुष्टुप्
वृंदारकं विदुर्देवे मनोज्ञश्रेष्ठयोरपि ।अभिख्या कीर्तिता कीर्तावभिख्या नामशोभयोः ॥ १५९ ॥
159 · p. 15
अनुष्टुप्
उदीच्यश्रेष्ठयोरूर्ध्वे वाग्भेदेविदुरुत्तरम् ।ईश ईश्वरवद्दृष्टः प्रभुचन्द्रार्धचूडयोः ॥ १६० ॥
160 · p. 15
अनुष्टुप्
उच्यते काञ्चनं चन्द्रं चन्द्रश्च मृगलाञ्छनः ।पादग्रन्थरेधः पार्ष्णिः पार्ष्णिः स्याद्वाहिनीकटिः ॥ १६१ ॥
161 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable)
शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दृष्यते ।प्राप्तिसंसारसत्तासु जन्मशङ्करयोर्भवः ॥ १६२ ॥
162 · p. 15
अनुष्टुप्
धर्मे रहसि वेदान्ते बुधैरुपनिषन्मता ।लोचने दर्शने बुद्धौ दृग्दृष्टी दृक्च वीक्ष्यते ॥ १६३ ॥
163 · p. 15
अनुष्टुप्
इष्यते संकुलं व्याप्ते विष्ल्लिष्टार्थवचस्यपि ।क्रियावसानसाफल्ये मोक्षे त्यागेऽपवर्गवाक् ॥ १६४ ॥
164 · p. 15
अनुष्टुप्
सांख्योक्तप्रकृतौ लिङ्गं लिङ्गं स्यात्चिह्नशेफसोः ।अभिशापप्रार्थनयोरभिशस्तिपदं विदुः ॥ १६५ ॥
165 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
युवराजे शिशौ स्कन्दे कुमारोऽश्वानुचारके ।मालत्यां पण्डिते पुष्पे देवे च सुमनोभिधा ॥ १६६ ॥
166 · p. 16
अनुष्टुप्
लिङ्गे स्वभवावे प्रकृतिः पौरामात्यादियोनिषु ।निर्माणे च स्वभावे च निसर्गः सृष्टिवन्मतः ॥ १६७ ॥
167 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शंभुरर्हन् पिनाकी च शंभुः कमलसंभवः ।लोचने दर्शनं दृष्टं बुद्धिशास्त्रोपलब्धिषु ॥ १६८ ॥
168 · p. 16
अनुष्टुप्
दैवे कृतान्तः सिद्धान्ते यमाकुशलकर्मणोः ।त्रयं दुरोदराभिख्यं द्यूतं द्यूतकरः पणः ॥ १६९ ॥
169 · p. 16
अनुष्टुप्
उक्तः श्रेष्ठाखुधर्मेषु वृषा गोबहुशुक्रयोः ।विषात्मत्यागिनोस्तिग्म तीक्ष्णस्तीक्ष्णं रणायसोः ॥ १७० ॥
170 · p. 16
अनुष्टुप्
इष्यते रजसः शुक्ले रजतं रुप्यहारयोः ।शालिप्रभेदे शलभे पतङ्गः पक्षिसूर्ययोः ॥ १७१ ॥
171 · p. 16
अनुष्टुप्
काद्रवेयगजौ नागौ नागं सीसकरङ्गयोः ।उदुम्बरो वृक्षजातिर्देहली स्यादुदुम्बरः ॥ १७२ ॥
172 · p. 16
अनुष्टुप्
रजतं कलधौतं स्यात्कलधौतं च काञ्चनम् ।सध्वानमेघः पर्जन्यः पर्जन्यो मेघवाहनः ॥ १७३ ॥
173 · p. 16
अनुष्टुप्
गोविन्दो भगवान् विष्णुर्गोविन्दोऽधिकृतो गवाम् ।ऋजुशक्रधनुर्मत्स्यौ रोहितौ रोहितोऽरुणः ॥ १७४ ॥
174 · p. 16
अनुष्टुप्
उत्साहादौ बले शक्तिः शक्तिं प्रहरणं विदुः ।निष्ठा निष्पत्तिनाशान्तयाञ्चानिर्वणेषु च ॥ १७५ ॥
175 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गीतस्वरे बलीवर्दे श्रेष्ठे च ऋषभं विदुः ।पराक्रमे च वित्ते च द्रविणं द्युम्नवन्मतम् ॥ १७६ ॥
176 · p. 16
अनुष्टुप्
नृत्तयुद्धस्थले रागे रङ्गो रङ्गं त्रपु स्मृतम् ।प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे ॥ १७७ ॥
177 · p. 16
अनुष्टुप्
दण्डो लगुडमन्थानदमसैन्येषु दृश्यते ।वीणादिवादनोपाये कोणोऽस्त्रौ(श्रौ) लगुडे तथा ॥ १७८ ॥
178 · p. 17
अनुष्टुप्
निर्वृत्तिः स्यादस्तमये सुस्थतायां च निर्वृत्तिः ।अनुभावः प्रभावे स्यान्निश्चये भावसूचके ॥ १७९ ॥
179 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 र्वृ (wrong syllable)
स्फटिके वृक्षभेदेऽर्कः स्यादर्को दिननायकः ।रोमाञ्चे क्षुद्रशत्रौ च तरोरङ्गे च कण्टकः ॥ १८१ ॥
181 · p. 17
अनुष्टुप्
पादो भासि तुरीयांशे गिरेः प्रत्यन्तपर्वते ।मानभेदे धने हेम्नि हिरण्यं स्यादकुप्यके ॥ १८२ ॥
182 · p. 17
अनुष्टुप्
परमात्ममहामात्रमनीषासु प्रधानवाक् ।गुग्गुलूलूकशक्राहितुण्डिकेषु च कौशिकः ॥ १८३ ॥
183 · p. 17
अनुष्टुप्
उग्रः शूद्रासुते क्षत्रादुग्रावुत्कटशूलिनौ ।गर्वविज्ञप्तिहिंसासु प्रणये चाभिमानवाक् ॥ १८४ ॥
184 · p. 17
अनुष्टुप्
गर्ते गर्तान्विते वाद्यविशेषे सु(शु)षिरं त्रिषु ।(गर्ते गर्तान्विते वाद्ये सुषिरं त्रिषु दृश्यते ।);समान,४एकतुल्यशरीरस्थवायुसत्सु समानवाक् ॥ १८५ ॥
185 · p. 17
अनुष्टुप्metre not read in every line
आदावुपाये च मुखं वदनं च मुखं विदुः ।प्रमाणदेहयोर्वर्ष्म स्यादाकारे च सुन्दरे ॥ १८६ ॥
186 · p. 17
अनुष्टुप्
त्रयं संभ्रममिच्छन्ति भयं संवेगमादरम् ।स्वशब्दो वदति ज्ञातिमात्मात्मीयधनानि च ॥ १८७ ॥
187 · p. 17
अनुष्टुप्
भव्यभेषजयोर्द्रव्यं द्रव्यं द्रविणमिष्यते ।शङ्कायामाहुरातङ्कं रोगसंतापयोरपि ॥ १८८ ॥
188 · p. 17
अनुष्टुप्
वामा स्त्री सुन्दरं वामं वामं सव्यप्रतीपयोः ।हयरश्मौ तुलासूत्रे प्रग्राहः सद्भिरिष्यते ॥ १८९ ॥
189 · p. 18
अनुष्टुप्
आदृतत्वे प्रतिष्ठा स्यात्प्रतिष्ठा स्थानमात्रके ।;प्रलय,३प्रलयौ मृत्युसंवर्तौ मूर्च्छायां प्रलयं विदुः ॥ १९० ॥
190 · p. 18
अनुष्टुप्metre not read in every line
मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतावपि ।लोकधातौ च वृष्टौ च वर्षं वर्षं च वत्सरे ॥ १९१ ॥
191 · p. 18
अनुष्टुप्
वारुणीं मदिरामाहुः पश्चिमा दिक्च वारुणी ।ज्योत्स्ना ज्योतिष्मती रात्रिर्ज्योत्स्ना चन्द्रमसः प्रभा ॥ १९२ ॥
192 · p. 18
अनुष्टुप्
दाक्षायणीं विदुर्दुर्गामश्विन्याद्याश्च तारकाः ।परिश्रमार्थो व्यायामो व्यायामं पौरुषं विदुः ॥ १९३ ॥
193 · p. 18
अनुष्टुप्
आपन्नं ब्रुवते प्राप्तमापन्नश्चापदि स्थितः ।विज्ञाते वेष्टिते प्राप्ते विदुः परिगतध्वनिम् ॥ १९४ ॥
194 · p. 18
अनुष्टुप्
धिषणस्त्रिदशाचार्यो धिषणा धीरपि स्मृता ।ऊनेन्दुपूर्णिमानुज्ञे द्वे अप्यनुमती मते ॥ १९५ ॥
195 · p. 18
अनुष्टुप्
चारुचन्द्रजयोः सौम्यः सोमो यस्य च देवता ।पूर्णेन्दुपूर्णिमा राका कन्या जातरजाश्च या ॥ १९६ ॥
196 · p. 18
अनुष्टुप्
व्यघनेभिनये सूचा सूचनात्प्रयुज्यते ।;तत,३;वितत,३वादित्रे विस्तृते व्याप्ते ततं विततवन्मतम् ॥ १९७ ॥
197 · p. 18
अनुष्टुप्metre not read in every line
ऋक्षे कलियुगे तिष्यः पुष्यवत्परिकीर्तितः ।सूर्ये वह्नौ चित्रभनुर्विभावसुरिवेष्यते ॥ १९८ ॥
198 · p. 18
अनुष्टुप्
कं वारिशिरसोः कश्च प्रजापत्यत्मवायुषु ।उत्पाते ग्रहभेदे च धूमकेतुर्हुताशने ॥ १९९ ॥
199 · p. 18
अनुष्टुप्
(स्यादुत्पातो धूमकेतुर्धूमकेतुर्हुताशनः)त्रयः कीनाशनामानः कदर्यः कर्षको यमः ।मनोज्ञं सुकृतं धर्मस्त्रयं पुण्यमुदाहृतम् ॥ २०० ॥
200 · p. 18
अनुष्टुप्metre not read in every line
शिखी हुताशने वृक्षे शिखिनौ केकिकुक्कुटौ ।कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने ॥ २०१ ॥
201 · p. 19
अनुष्टुप्
इच्छन्ति वधमर्थज्ञाः शमनं शमनोऽन्तकः ।उपक्रमश्चिकित्सायामारम्भोपधयोरपि ॥ २०२ ॥
202 · p. 19
अनुष्टुप्
शम्बूक इष्यते कम्बुः कम्बुर्वलयशङ्खयोः ।निधिभेधः स्मृतः शङ्खः शङ्खं कम्बुललाटयोः ॥ २०३ ॥
203 · p. 19
अनुष्टुप्
प्रशस्यवृद्धतरयोर्ज्यायाञ्ज्येष्ठवदिष्यते ।बलशुक्रप्रभावेषु वीर्यं तेजश्च कीर्तीतम् ॥ २०४ ॥
204 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 र्ती (wrong syllable)
ऊर्णायुरिष्यते मेष ऊर्णायुर्मेषकम्बलः ।विमानः देवतायाने सप्तभूमे च वेश्मनि ॥ २०५ ॥
205 · p. 19
अनुष्टुप्
धर्ममङ्गलयोः श्रेयः प्रशस्तातिशयेपि च ।पिच(चि)ण्ड उदरे ज्ञेयः पिच(चि)ण्डोऽवयवः पशोः ॥ २०६ ॥
206 · p. 19
अनुष्टुप्
त्रयं ग्रहणमिच्छन्ति बन्दीं स्वीकारमादरम् ।मधुमासः सुगन्धिश्च सुरभिः सुरभिश्च गौः ॥ २०७ ॥
207 · p. 19
अनुष्टुप्
अभिष्वङ्गाभिलाषौ च दीप्तिश्च रुचिरेष्यते ।मण्डले प्रतिबिम्बे च बिम्बं स्याद्बिम्बिकाफले ॥ २०८ ॥
208 · p. 19
अनुष्टुप्
मन्दाः स्वैराल्परोगार्त्तमूढाभाग्यशनैश्चराः ।तिस्रश्च हायनाभिख्या व्रीहिसंवत्सरार्चिषः ॥ २०९ ॥
209 · p. 19
अनुष्टुप्
अब्जो धन्वन्तरौ चन्द्रे स्यादब्जं शङ्खपद्मयोः ।सूर्यादौ पूतनादौ च राहुनिर्बन्धयोर्ग्रहः ॥ २१० ॥
210 · p. 19
अनुष्टुप्
पुत्रादौ तर्णके वर्षे वत्सो वत्सं च वक्षसि ।खमिन्द्रिये खमाकाशे खं स्वर्गेऽपि प्रयुज्यते ॥ २११ ॥
211 · p. 19
अनुष्टुप्
अवरोहोऽवतरणे पादपाङ्गे लतोद्गमे ।काष्ठा दिक्कालमर्यादाप्रकर्षेषु प्रयुज्यते ॥ २१२ ॥
212 · p. 20
अनुष्टुप्
स्वान्तन्त्र्यकृते व्युत्थानं विरोधाचरणे तथा ।मृद्भेदाक्षिगदौ काचौ काचः शिक्येऽपि दृश्यते ॥ २१३ ॥
213 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ते (wrong syllable)
तेजोजन्मप्रभावेषु स्मृतं धाम गृहेषु च ।वरिष्ठं स्याद्गुरुतमं तथा वरतमं च यत् ॥ २१४ ॥
214 · p. 20
अनुष्टुप्
अरुष्करः स्याद्व्रणकृद्भल्लातकमरुष्करम् ।आशितंभवमन्नाद्यं तृप्तिरप्याशितंभवः ॥ २१५ ॥
215 · p. 20
अनुष्टुप्
दीप्तिताराहुताशेषु ज्योतिर्ज्योतिर्विलोचने ।कलापः संहतौ बर्हे काञ्चीतूणीरयोरपि ॥ २१६ ॥
216 · p. 20
अनुष्टुप्
शारदौ वर्षशालिनौ प्रत्यग्रं शारदं विदुः ।पतिप्रधाने ग्रामण्यौ ग्रामण्यं (णीर्) वक्ति नापितम् ॥ २१७ ॥
217 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 लि (wrong syllable)
सौरभ्यमाहुः सौगन्ध्यं सौरभं च मनोज्ञता ।तुरंगाभरणे पात्रे भाण्डं मूलवणिग्धने ॥ २१८ ॥
218 · p. 20
अनुष्टुप्
कनिष्ठामणिबन्धान्तरो(रु)ष्ट्रयोः करभो मतः ।मासान्वेषनयोर्मार्गो मार्गो मृगमदाध्वनोः ॥ २२० ॥
220 · p. 20
अनुष्टुप्
स्तबके हारभेदे च गुच्छमिच्छन्ति सूरयः ।स्थितमूर्ध्वं विजानीयात्प्रतिज्ञानवति स्थितः ॥ २२२ ॥
222 · p. 20
अनुष्टुप्
नारायणः स्मृतो बभ्रुर्बभ्रू नकुलपिङ्गलौ ।श्येनाख्यो विहगः पत्त्री पत्त्रिणौ शरपक्षिणौ ॥ २२३ ॥
223 · p. 20
अनुष्टुप्
अप(व)वादं विदुर्विन्दामप(व)वादो निदेशनम् ।आह्वानं क्रन्दनं विद्यात्क्रन्दनं रुदितध्वनिः ॥ २२४ ॥
224 · p. 21
अनुष्टुप्
धवो नरो धवो वृक्षो धवो भर्ता च योषिताम् ।ध्वान्तं तमस्तमो राहुस्तमः शोकस्तमो गुणः ॥ २२५ ॥
225 · p. 21
अनुष्टुप्
स्वनो गर्जितमब्दानां गर्जितो मत्तकुञ्जरः ।कमला श्रीर्जलं पद्मः कमलं कमलो मृगः ॥ २२६ ॥
226 · p. 21
अनुष्टुप्