कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śāśvatakośa (Anekārthasamuccaya)

अनेकार्थसमुच्चय Śāśvatakośa (Anekārthasamuccaya)

828 verses · text only, tagging comes next

Part 4 (4/7)

दुर्जातं व्यसने प्रोक्तमसम्यग्जातवस्तुनि ।कुल्या नदी कुल्यमस्थि कुल्या नीरप्रणालिका ॥ ३४४ ॥
344 · p. 31
अनुष्टुप्
कुञ्जराणां करः शुण्डा शुण्डा कादम्बरी मता (तथा) ।विद्यादपचितिं हानौ निष्कृतावर्चने व्यये ॥ ३४५ ॥
345 · p. 31
अनुष्टुप्
वैदेहको वाणिजके वैश्यतो ब्राह्मणीसुते ।(वैश्यापुत्रे च शूद्रजे)आशीरभीप्सिताशंसा दंष्ट्राशीरनिलाशिनाम् ॥ ३४६ ॥
346 · p. 31
अनुष्टुप्metre not read in every line
कृतप्रसाधने ख्याते प्रसिद्धं पण्डिता विदुः ।उदर्क उत्तरः काल उदर्कः फलमुत्तरम् ॥ ३४७ ॥
347 · p. 31
अनुष्टुप्
वेदना स्यादनुभवः पीडायामपि वेदना ।मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः ॥ ३४८ ॥
348 · p. 31
अनुष्टुप्
कलेवरसिरा नाडी नाडी स्यात्कालनालयोः ।वचोर्हे कुत्सितेधीने वक्तव्यं वाच्यवन्मतम् ॥ ३४९ ॥
349 · p. 31
अनुष्टुप्
प्रक्षेपे चालवाले च विदुरावापमुत्तमाः ।कलकण्ठः कोकिलः स्यान्मधुरो यस्य च ध्वनिः ॥ ३५० ॥
350 · p. 31
अनुष्टुप्
मूषिकः खनकाभिख्यः खनकश्चावदारकः ।इक्षुशी(सी)धौ शी(सी)धुपाने सरकं मद्यभाजने ॥ ३५१ ॥
351 · p. 32
अनुष्टुप्
निराश्रये महीभागे भवेदीर(दिरि)णमूषरे ।रसातलं स्यात्पातालं पातालं वडवानलः ॥ ३५२ ॥
352 · p. 32
अनुष्टुप्
पारायणं समासङ्गः कार्त्स्न्ये पारायणं स्मृतम् ।निरूपणं दर्शने च विचारे च निरूपणम् ॥ ३५३ ॥
353 · p. 32
अनुष्टुप्
आराधनं तोषणं स्यात्प्राप्तौ चाराधनं विदुः ।आस्वादने च रसनं रसनं ध्वनिजिह्वयोः ॥ ३५४ ॥
354 · p. 32
अनुष्टुप्
इषुक्षेपक इष्वास इष्वासो(सं) धनुरिष्यते ।रीतिर्दग्धसुवर्णादिमले स्यादारकूटके ॥ ३५५ ॥
355 · p. 32
अनुष्टुप्
अत्याहितं महाभीतिर्जीवे च निरपेक्षता ।अगाधमतलस्पर्शमगाधं विवरं विदुः ॥ ३५६ ॥
356 · p. 32
अनुष्टुप्
स्मृतं शुष्कफलं वानं वानं सीवनकर्म च ।रथाधोधरणे दारुण्यनुकर्षोऽनुकर्षणे ॥ ३५७ ॥
357 · p. 32
अनुष्टुप्
उत्सर्गस्त्यागवद्दाने परित्यागे प्रयुज्यते ।असाराश्वगजे शान्ते वीतमङ्कुशकर्मणि ॥ ३५८ ॥
358 · p. 32
अनुष्टुप्
निर्याणं द्विरदस्याङ्गे निर्याणमथ निर्गमे ।उपधिं व्याजमिच्छन्ति रथस्यावयवे तथा ॥ ३५९ ॥
359 · p. 32
अनुष्टुप्
लेपने वाद्यभाण्डे च कवयो गोमुखं विदुः ।भागधेयं मतं भाग्यं भागधेयं बलिं विदुः ॥ ३६० ॥
360 · p. 32
अनुष्टुप्
कार्पासं बादरं विद्याद्बादरं कोलिकाफलम् ।वार्द्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि ॥ ३६१ ॥
361 · p. 32
अनुष्टुप्
निषूदने निरसनं निरासे च प्रयुज्यते ।अङ्गीकृतावुपगमः समीपगमनेऽपि च ॥ ३६२ ॥
362 · p. 32
अनुष्टुप्
त्रिषु प्रणीतो विहिते संस्कृतेऽग्नौ प्रवेशिते ।आचक्षते घनरसं सान्द्रनिर्यासनीरयोः ॥ ३६३ ॥
363 · p. 33
अनुष्टुप्
शंव(शम्ब)रं जलमाख्यातं शंव(शम्ब)रो मृगदैत्ययोः ।युगो रथस्यावयवे कृतादौ युगले युगम् ॥ ३६४ ॥
364 · p. 33
अनुष्टुप्
पोत्रिप्लवकयोः कोलः कोलं तु बदरीफलम् ।(पोत्रिभेलकयोः कोलः कोलं च बदरीफलम्)विदुर्विहायसं व्योम पक्षिणश्च विहायसः ॥ ३६५ ॥
365 · p. 33
अनुष्टुप्
वरीयानतिविस्तीर्णो वरीयानथ सत्तमः ।पङ्क्तिवर्त्मगृहाङ्गेषु वीथी वीथी च रूपकम् ॥ ३६६ ॥
366 · p. 33
अनुष्टुप्
चौर्याभियोगसंनाहेष्वभिहारपदं विदुः ।महाकाले यमे मृत्यौ कालः समयकृष्णयोः ॥ ३६७ ॥
367 · p. 33
अनुष्टुप्
रहस्ये कलहे द्वन्द्वं द्वन्द्वं मिथुनयुग्मयोः ।पार्थिवौपयिकद्रव्ये परिबर्हः परिच्छदे ॥ ३६८ ॥
368 · p. 33
अनुष्टुप्
परिवाहो जलोच्छ्वासे नृपयोग्ये च वस्तुनि ।अघमंहसि दुःखे च व्यसने स प्रयुज्यते ॥ ३६९ ॥
369 · p. 33
अनुष्टुप्
गजालिके वृष्टिरोधे प्रतिबन्धेऽप्यवग्रहः ।जानीयान्मेचकं कृष्णं मेचको बर्हचूडयोः ॥ ३७० ॥
370 · p. 33
अनुष्टुप्
पटलं छदिषि ज्ञेयमक्षिरोगसमूहयोः ।अपह्नवोऽपलापश्च स्नेहश्चापह्नवो मतः ॥ ३७१ ॥
371 · p. 33
अनुष्टुप्
कौक्कुटिको दाम्भिकश्च यश्चादूरेरितेक्षणः ।लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः ॥ ३७२ ॥
372 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 टि (wrong syllable)
हिङ्गुनिर्यासशब्दोऽयं निम्बे हिङ्गुरसेऽपि च ।कुमिप्रभेदे रोमाञ्चे पुलकं प्रस्तरे विदुः ॥ ३७३ ॥
373 · p. 33
अनुष्टुप्
ब्रह्मबन्धुरधिक्षेपे निर्देशे ब्राह्मणस्य च ।अवष्टब्धं द्वयं विद्याददूरमवलम्बितम् ॥ ३७४ ॥
374 · p. 34
अनुष्टुप्
उक्तः समर्थः संबन्धे समर्थो हितशक्तयोः ।शयनीयं विदुस्तल्पं तल्पमट्टकलत्रयोः ॥ ३७५ ॥
375 · p. 34
अनुष्टुप्
निगदन्ति क्रुधं मन्युं मन्युरध्वरदैन्ययोः ।अंसे महीपतौ स्कन्धः समुदायसमूहयोः ॥ ३७६ ॥
376 · p. 34
अनुष्टुप्
कविर्विद्वान्कविः शुक्रो विज्ञेया खलिना कवि ।अभ्यागमोऽभ्यागमनं युद्धमभ्यागमं विदुः ॥ ३७७ ॥
377 · p. 34
अनुष्टुप्
प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः ।उपस्पर्शनमिच्छन्ति स्नानाचमनयोरपि ॥ ३७८ ॥
378 · p. 34
अनुष्टुप्
समृद्धे स्यान्महामात्रस्तथा हस्तिपकाधिपे ।गोकर्णो दन्दशूके स्यादङ्गुष्ठानामिकोन्मिते ॥ ३७९ ॥
379 · p. 34
अनुष्टुप्
प्रियकः पीतसारे च मृगभेदे च दृश्यते ।चूर्णानि वासयोगाः स्युश्चूर्णो धूलिः सशर्करा ॥ ३८० ॥
380 · p. 34
अनुष्टुप्
(चूर्णो धूलिरुदाह्रतः ॥ ३८० ॥)
380 · p. 34
अनुष्टुप्metre not read in every line
तरस्विनो वेगवन्तो बलिनश्च तरस्विनः ।स्वरूपप्रान्तयोरन्तमन्तिकेऽपि प्रयुज्यते ॥ ३८१ ॥
381 · p. 34
अनुष्टुप्metre not read in every line
व्रीहावप्यणुलोहित्यौ सूक्ष्मसागरयोः क्रमात् ।मौलिः संयतकेशेषु चूडामुकुटयोस्तथा ॥ ३८२ ॥
382 · p. 34
अनुष्टुप्
जारजे विधवापुत्रे गोलको गोलको गुडे ।अव्यक्तशब्दं जानीयादस्फुटे परमात्मनि ॥ ३८३ ॥
383 · p. 34
अनुष्टुप्
कथ्यते कम्बलः सास्ना प्रावारेऽपि च कम्बलः ।आसनं करिणां स्कन्धः पीठमासनमिष्यते ॥ ३८४ ॥
384 · p. 34
अनुष्टुप्
संख्याकीलकयोः शङ्कुः शङ्कुः प्रहरणान्तरे ।आलवालेऽधिकरणे वाप्यामाधार इष्यते ॥ ३८५ ॥
385 · p. 35
अनुष्टुप्
विपर्यासः प्रपञ्चः स्यात्प्रपञ्चो विस्तरो मतः ।ईर्ष्यालुर्दम्भचर्या च कुहनः कुहना क्रमात् ॥ ३८६ ॥
386 · p. 35
अनुष्टुप्
(ईर्ष्यालौ दम्भचर्यायां)अकूपारः समुद्रः स्यादकूपारश्च कूर्मराट् ।पृषन्मृगे पृषद्बिन्दौ पृषतोऽप्यनयोर्मतः ॥ ३८७ ॥
387 · p. 35
अनुष्टुप्metre not read in every line
नभोऽनन्तमनन्ता भूरनन्तो नागनायकः ।(… तो नागनायकः ।)संधिर्भगं सुर(रु)ङ्गा च संधिं संघट्टनं विदुः ॥ ३८८ ॥
388 · p. 35
अनुष्टुप्metre not read in every line
निग्रहो भर्त्सनाभिख्यो मर्यादां निग्रहं विदुः ।समीरणो गन्धवहो नासा गन्धवहा मता ॥ ३८९ ॥
389 · p. 35
अनुष्टुप्
जानीयात्सत्तमं श्रेष्ठं साधीयानपि सत्तमः ।हरिन्मात्रं च तोक्मं स्यात्तोक्मश्च हरितो यवः ॥ ३९० ॥
390 · p. 35
अनुष्टुप्
ओजो बलमवष्टम्भ ओजः स्यात्त्विट्प्रकाशयोः ।समीरणे(णः) स्पर्शनाख्या(ख्यः) स्पर्शनं स्पर्शदानयोः ॥ ३९१ ॥
391 · p. 35
अनुष्टुप्
उपतप्ते गदे विद्यादुपतापं विचक्षणः ।ज्ञेया भगवती दुर्गा भगवान्बुद्धपूज्ययोः ॥ ३९२ ॥
392 · p. 35
अनुष्टुप्
बालोऽतिमात्रं शिशुकः शिशुकः शिशुमारकः ।प्राकारमूलबन्धश्च समूहश्च चयो मतः ॥ ३९३ ॥
393 · p. 35
अनुष्टुप्
विकारेऽम्बुनिधेर्वेला कालमर्यादयोस्तथा ।समापनं विनिर्दिष्टं समाप्तिवधयोरपि ॥ ३९४ ॥
394 · p. 35
अनुष्टुप्
द्वयोरायतिराख्याता प्रभावागामिकालयोः ।दृष्टं निशमनं धीरैर्दर्शने क्षवणे तथा ॥ ३९५ ॥
395 · p. 35
अनुष्टुप्
भ्रूणे गर्भं विजानीयाज्ज्ठरार्भकयोरपि ।अवदानमितिवृत्ते कर्मखण्डनयोस्तथा ॥ ३९६ ॥
396 · p. 36
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ति (wrong syllable)
पाशयन्त्रकमुन्माथ उन्मातो वधघातयोः ।भूतं क्ष्मादौ पिशाचादौ न्याय्ये जन्तूपमानयोः ॥ ३९७ ॥
397 · p. 36
अनुष्टुप्
वृक्षप्रभेदे जडुले चित्रके तिलकं विदुः ।प्रागल्भ्ये गौरवे प्राप्तौ प्रवृत्तौ प्रतिपत्तिवाक् ॥ ३९८ ॥
398 · p. 36
अनुष्टुप्
पर्णवाहनयोः पत्त्रं पत्त्रं पक्षे पतत्त्रिणाम् ।दम्भभ्रूमध्ययोः कूर्चः कूर्चः श्मश्रुणि दृश्यते ॥ ३९९ ॥
399 · p. 36
अनुष्टुप्
प्राणोऽसुबलयोरुक्तः प्राणो देहचरोऽनिलः ।योग्यभाजनयोः पात्रं पात्रं कूलद्वयांतरम् ॥ ४०० ॥
400 · p. 36
अनुष्टुप्
विधानर्द्धिप्रकारेषु गजान्ने वेतने विधा ।अकार्यगुह्यचीरेषु कौपीनं कवयोः विदुः ॥ ४०१ ॥
401 · p. 36
अनुष्टुप्
गायत्रीप्रभृति च्छन्दच्छन्दो वेदेच्छयोरपि ।यागे वितान उल्लोचे शून्यविस्तारयोरपि ॥ ४०२ ॥
402 · p. 36
अनुष्टुप्
अश्रिचापाग्रयोः कोटिः कोटिः संख्याप्रकर्षयोः ।मेखलायां स्मृता कक्ष्या गजरज्जुप्रकोष्ठयोः ॥ ४०३ ॥
403 · p. 36
अनुष्टुप्
भाण्डागारं(रे) विदुर्गञ्जं खनौ गञ्जा सुरागृहे ।काले प्राप्तेप्यश्रुङ्गो गौर्नरोऽश्मश्रुश्च तूव(प)रः ॥ ४०४ ॥
404 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्य (wrong syllable)
शम्बः स्यान्मुसलाग्रस्थे लोहमण्डलके पवौ ।विविक्तं रहसि ख्यातमसंपृक्तपवित्रयोः ॥ ४०५ ॥
405 · p. 36
अनुष्टुप्
ग्रामभेदे विदुः खेटं कफकुत्सितयोरपि ।प्रभुत्वे पर्वताग्रे च शृङ्गमङ्गे पशोरपि ॥ ४०६ ॥
406 · p. 36
अनुष्टुप्
छन्दोविशेषे लेखायां दशसंख्यासु पङ्क्तिवाक् ।धान्यस्यवयवे लेशे कणः स्यात्पिप्पली कणा ॥ ४०७ ॥
407 · p. 36
अनुष्टुप्
सूनं पुष्पं वधस्थाने सूना जिह्वातलेपि च ।रौहिषं रक्तकतृणं रौहिषो हरिणान्तरम् ॥ ४०८ ॥
408 · p. 37
अनुष्टुप्
धर्षणं सुरतं विद्यादभिभूतिश्च धर्षणम् ।शिरसोऽस्थि कपालं स्याद् घटादेः शकलं च यत् ॥ ४०९ ॥
409 · p. 37
अनुष्टुप्
अभिलाषविनिर्मुक्ते(क्तः) प्रणाय्यः स्यादसम्मते(तौ) ।मेखलायां सारसनमुरस्त्रे च प्रयुज्यते ॥ ४१० ॥
410 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
जटा कचविकारे च मूले च धरणीरुहाम् ।कादम्बे राजहंसे च कलहंसः प्रयुज्यते ॥ ४११ ॥
411 · p. 37
अनुष्टुप्
भाण्डप्रभेदः कमठः कमठः कच्छपो मतः ।काकोलो द्रोणकाकः स्यात्काकोलो विषमुच्यते ॥ ४१२ ॥
412 · p. 37
अनुष्टुप्
पिण्डीतके पद्मकन्दे करहाटपदं विदुः ।(पुष्पजातौ पद्मकन्दे)पुत्रयोः सह संतत्या तोकापत्यप्रसूतयः ॥ ४१३ ॥
413 · p. 37
अनुष्टुप्
विज्ञेया विबुधाः देवा विबुधाः पण्डिता अपि ।अङ्गजो मन्मथे पुत्रे शोणितं क्वचिदङ्गजम् ॥ ४१४ ॥
414 · p. 37
अनुष्टुप्
कर्कशः स्यात्साहसिके खरस्पर्शेऽथ निर्दये ।लवणादौ समुद्रस्य सामुद्रं देहलक्षणे ॥ ४१५ ॥
415 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सा (wrong syllable)
पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि ।कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द इष्यते ॥ ४१६ ॥
416 · p. 37
अनुष्टुप्
सभा सभ्याः सभा गोष्ठी सभा द्यूतं सभा गृहम् ।विषाणं करिणां दन्तो विषाणं शृङ्गमुच्यते ॥ ४१७ ॥
417 · p. 37
अनुष्टुप्
शरणं गृहरक्षित्रोः शरणं रक्षणे वधे ।वक्रोपायं विदुः पार्श्व पार्श्वं चावयवान्तरम् ॥ ४१८ ॥
418 · p. 37
अनुष्टुप्
आघाटे कथिता सीमा स्थितौ क्षेत्रे च दृश्यते ।एकं श्रेष्ठे विजानीयादन्यकेवलयोरपि ॥ ४१९ ॥
419 · p. 38
अनुष्टुप्
क्षुद्रायां क्षुद्रवार्त्ताक्यां बृहती छन्दसि क्वचित्(स्मृता) ।नक्षत्रे चाक्षिमध्ये च तारकं तारकापि च(यथा) ॥ ४२० ॥
420 · p. 38
अनुष्टुप्
प्रियङ्गुयोषितोः कान्ता कान्तः प्रियमनोज्ञयोः ।गवाक्षवृन्ददम्भेषु जालं मत्स्यादिबन्धने ॥ ४२१ ॥
421 · p. 38
अनुष्टुप्
संवित्तिः प्रतिपत्तिः स्यात्संवित्तिरविवादिता ।पश्चाद्वाची जघन्यं स्याद्जघन्यं गर्हितार्थकम् ॥ ४२२ ॥
422 · p. 38
अनुष्टुप्
आपदायतियुद्धेषु संपरायपदं विदुः ।आलिः सखी सेतुरालिरालिरावलिरिष्यते ॥ ४२३ ॥
423 · p. 38
अनुष्टुप्
परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ।रथाङ्गाध्यासनपुरेष्वधिष्ठानपदं विदुः ॥ ४२४ ॥
424 · p. 38
अनुष्टुप्
आमलक्युपमाता च धात्री धात्री च मेदिनी ।हव्यकव्यविधिः श्राद्धं श्राद्धः श्रद्धासमन्वितः ॥ ४२५ ॥
425 · p. 38
अनुष्टुप्
नर्तक्यामथ मत्तायां विदग्धायां च वाणिनी ।वीणादीनां गुणस्तन्त्री तन्त्री देहसिरा मता ॥ ४२६ ॥
426 · p. 38
अनुष्टुप्
कृतौ विवरणश्लोके यातनायां च कारिका ।भ्रूमध्यावर्तमेषादीलोम्नोरूर्णा निगद्यते ॥ ४२७ ॥
427 · p. 38
अनुष्टुप्
शेखरे कर्णपूरे स्यादवन्तसो वतंसवत् ।बालायां बालुकायां च बालिकाशब्द इष्यते ॥ ४२८ ॥
428 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
श्रोणिभागे स्त्रियाः पूर्वे जघनं जघनं फटिः ।नितम्बोप्यपरस्तस्याः श्रोणिभागः कटिस्तथा ॥ ४२९ ॥
429 · p. 38
अनुष्टुप्
समाहितं प्रतिज्ञातं समाधिस्थः समाहितः ।उदूढ ऊढमात्रे स्यादुदूढः पृथुलेऽपि च ॥ ४३० ॥
430 · p. 38
अनुष्टुप्
कन्दानि मूलसस्यानि विदुः कन्दांश्च(न्दानि) शूरणान् ।आहुः कृच्छ्राणि दुःखानि कृच्छ्रं सांतपनादिकम् ॥ ४३१ ॥
431 · p. 39
अनुष्टुप्
दशावस्था दशा वर्तिर्वाससोऽवयवे दशा ।सप्रकोष्ठकरः किष्कुर्वितस्तिः किष्कुरिष्यते ॥ ४३२ ॥
432 · p. 39
अनुष्टुप्
अवगीतं मुहुर्दुष्टे निर्वादे गर्हितेऽपि च ।तृष्णा तृट् तर्ष इत्येते शब्दा लिप्सापिपासयोः ॥ ४३३ ॥
433 · p. 39
अनुष्टुप्
अजिरं विषये काये विद्यादजिरमङ्गनम् ।बीभत्सो विकृते क्रूरे तथा मध्यमपाण्डवे ॥ ४३४ ॥
434 · p. 39
अनुष्टुप्
देवशिल्पिन्यपि त्वष्टा त्वष्टारं वर्धकिं विदुः ।मुरजादिकमानद्धमानद्धं बद्धमात्रकम् ॥ ४३५ ॥
435 · p. 39
अनुष्टुप्
न्यासार्पणे वैरशुद्धौ दाने निर्यातनं विदुः ।उत्साहने सूचनायां गन्धनं स्यात्प्रकाशने ॥ ४३६ ॥
436 · p. 39
अनुष्टुप्
पुमांसं पूर्वजाः पूर्वे पूर्वं प्राक् पूर्वमग्रतः ।अभिनीतं संस्कृते च न्याय्ये चामर्षवत्यपि ॥ ४३७ ॥
437 · p. 39
अनुष्टुप्
उद्यान,३प्रयोजने निःसरणे स्यादुद्यानं वनान्तरे ।व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवे तथा ॥ ४३८ ॥
438 · p. 39
अनुष्टुप्metre not read in every line
संस्थानमाकृतौ मृत्यौ संनिवेशे चतुष्पथे ।कुशलं सुकृते क्षेमे पर्याप्तौ शिक्षितेऽपि च ॥ ४३९ ॥
439 · p. 39
अनुष्टुप्
स्यात्पावनः पावयिता प्रायश्चित्तं तु पावनम् ।निमन्त्रणे ध्वजे कार्ये केतनं कवयो विदुः ॥ ४४० ॥
440 · p. 39
अनुष्टुप्
ककुद्वत्ककुदं श्रेष्ठे वृषाङ्गे नृपलक्ष्मणि ।हेतौ रेतसि बीजं स्याद्बीजमङ्कुरकारणम् ॥ ४४१ ॥
441 · p. 39
अनुष्टुप्
लाभे सस्ये शराद्यग्रे व्युष्टौ च फलके फलम् ।स्थलं धन्व धनुर्धन्व धन्वा मरूरपि स्मृतः ॥ ४४२ ॥
442 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
जानीयादागमं शास्त्रं स्यादागमनमागमः ।प्रह्वे च क्रमनिम्ने च प्रवणः स्याच्चतुष्पथे ॥ ४४३ ॥
443 · p. 40
अनुष्टुप्
दृढं नितान्ते स्थूले च दृढः स्याद्बलवत्यपि ।औशीरं चामरे दण्डेऽप्यौशीरं शयनासने ॥ ४४४ ॥
444 · p. 40
अनुष्टुप्
कक्षान्तरं प्रकोष्ठः स्यात्प्रकोष्ठः कूर्परादधः ।उपाधिर्धर्मचिन्तापि कुटुम्बव्यापृतोऽपि च (तावपि) ॥ ४४५ ॥
445 · p. 40
अनुष्टुप्
निर्वासनं मारणे स्यान्नगरादेर्बहिष्कृतौ ।भुक्तोज्झितोन्मूलनयोरुक्त उद्धरणध्वनिः ॥ ४४६ ॥
446 · p. 40
अनुष्टुप्
क्रियादेवतयोः कृत्या कृत्यं विद्विष्टकार्ययोः ।निधनानुपलम्भौ च नाशौ नाशः पलायनम् ॥ ४४७ ॥
447 · p. 40
अनुष्टुप्
नैगमः स्याद्वाणिजके नैगमो नगरोद्भवे ।पाप्मानं किल्बिषं विद्यादपराधेऽपि किल्बिषम् ॥ ४४८ ॥
448 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
सवने मध्यसंधाने स्नानेऽप्यभिषवं विदुः ।संतानः सन्ततौ देववृक्षे चापत्यगोत्रयोः ॥ ४४९ ॥
449 · p. 40
अनुष्टुप्
संघाते संनिवेशे च संस्त्यायं कवयो विदुः ।विद्यादभिमरं युद्धे स्वबलादपि साध्वसे ॥ ४५० ॥
450 · p. 40
अनुष्टुप्
आषाढो व्रतिनां दण्डे मासि क्षितिधरान्तरे ।उद्धृतं स्यदुत्तुलितं भुक्त्वा चोज्झितमुद्धृतम् ॥ ४५१ ॥
451 · p. 40
अनुष्टुप्metre not read in every line
देवशिल्पी विश्वकर्मा विश्वकर्मा दिवाकरः ।अभिमर्दं विदुर्युद्धमभिमर्दोऽभिमर्दनम् ॥ ४५२ ॥
452 · p. 40
अनुष्टुप्
आज्ञा भवति निर्देशो निर्देशः कथनं मतम् ।बन्दिनो मधुकाः केपि मधुकं मधुयष्टिका ॥ ४५३ ॥
453 · p. 40
अनुष्टुप्
अनुत्तरमनूर्ध्वे स्यादनुदक्श्रेष्ठयोरपि ।आत्मनोऽन्यत्र दूरे च संपन्नश्रेष्ठयोः परः ॥ ४५४ ॥
454 · p. 40
अनुष्टुप्
स्याद्विमर्दे परिमलो गन्धे जनमनोहरे ।पाटलं कुसुमे वर्णेऽप्याशुव्रीहिश्च(हौ च) पाटलः ॥ ४५५ ॥
455 · p. 41
अनुष्टुप्
स्याद्यापनं निरसनं यापनं वर्तनं विदुः ।राजीवो हरिणो मत्स्यो राजीवं सरसीरुहम् ॥ ४५६ ॥
456 · p. 41
अनुष्टुप्
वसन्ते माधवो विष्णौ वैशाखे मासि माधवः ।पाणिर्निकुब्जः प्रसृतः प्रसृतो वेगितः स्मृतः ॥ ४५७ ॥
457 · p. 41
अनुष्टुप्
साधीयो बाढमत्यर्थे साधीयानतिशोभनः ।मयूखः कथितो दीप्तौ ज्वालाकिरणयोरपि ॥ ४५८ ॥
458 · p. 41
अनुष्टुप्
उपायगात्रयोरङ्गमङ्गवानङ्ग इष्यते ।इष्टं यज्ञेषु यद्दानमिष्टमाशंसितं मतम् ॥ ४५९ ॥
459 · p. 41
अनुष्टुप्
विदुरायतनं चैत्यं चैत्यमुद्देशपादपः ।लालसं प्रार्थनामाहुरौत्सुक्यमपि लालसम् ॥ ४६० ॥
460 · p. 41
अनुष्टुप्
जाङ्गलो निर्जले देशे जाङ्गलं पिशितं विदुः ।विद्यादधोगतं (मुखं) न्युब्जं न्युब्जः कुब्ज उदाहृतः ॥ ४६१ ॥
461 · p. 41
अनुष्टुप्
यौतकद्रविणं प्रोक्तं हरणं हरणं हृतिः ।उत्पादितानुरागा स्त्री वनिता वनिताङ्गना ॥ ४६२ ॥
462 · p. 41
अनुष्टुप्