All kośas › Śāśvatakośa (Anekārthasamuccaya)
अनेकार्थसमुच्चय Śāśvatakośa (Anekārthasamuccaya)
828 verses · text only, tagging comes next
Part 5 (5/7)
शाखायां पल्लवे स्तम्बे विटपं विदुरुत्तमाः ।पिञ्जनं स्याद्विहननं विदुर्विहननं वधम् ॥ ४६३ ॥
463 · p. 41
अनुष्टुप्
धवलं सुन्दरे शुक्ले धवली गौरपि स्मृता ।ग्रामः संवसथे ज्ञेयो वृन्दे शब्दादिपूर्वकः ॥ ४६४ ॥
464 · p. 41
अनुष्टुप्
विक्रमः शक्तिसंपत्तिः क्रान्तिमात्रं च विक्रमः ।उत्थितं विदुरुत्पन्ने प्रोद्यते वृद्धिमत्यपि ॥ ४६५ ॥
465 · p. 41
अनुष्टुप्
शरासने कार्मुकं स्याच्छक्तमात्रे च कार्मुकः ।स्यादैशुकं शुक्लवस्त्रे वस्त्रमात्रोत्तरीययोः ॥ ४६६ ॥
466 · p. 41
अनुष्टुप्
गुडौ गोलेक्षुविकृती स्नुहीगुडिकयोर्गुडा ।विश्रम्भशब्दमिच्छन्ति विश्वासे प्रणयेऽपि च ॥ ४६७ ॥
467 · p. 42
अनुष्टुप्
आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् ।बीभत्सो विकृतो ज्ञेयो विकृतो रोगितेऽपि च ॥ ४६८ ॥
468 · p. 42
अनुष्टुप्
ज्या जीवा जीवितं जीवं जीवौ जन्तुबृहस्पती ।जानीयाच्छोभनं साधु साधू वार्धुषिसज्जनौ ॥ ४६९ ॥
469 · p. 42
अनुष्टुप्
छाया स्यादातपाभावे प्रभाप्रतिमयोरपि ।आम्नायं श्रुतिमिच्छन्ति श्रोत्रं तत्कर्म च श्रुतिः ॥ ४७० ॥
470 · p. 42
अनुष्टुप्
हरित्ककुभि वर्णे च तृणवाजिविशेषयोः ।छन्दोविशेषे जगती पृथिव्यां विष्टपे जने ॥ ४७१ ॥
471 · p. 42
अनुष्टुप्
मेघनिःस्तनिते मेघे स्तनयित्नुं विदुर्बुधाः ।ग्रहराजं विदुश्चन्द्रं ग्रहराजो दिवाकरः ॥ ४७२ ॥
472 · p. 42
अनुष्टुप्
मातरौ गोजनन्यौ च रेवत्याद्याश्च मातरः ।इष्यते चपला विद्युच्चपलं लोलशीघ्रयोः ॥ ४७३ ॥
473 · p. 42
अनुष्टुप्
दग्धे विभासिते दीप्तं दृष्टं ज्वलितवद्बुधैः ।सभासंगमयुद्धेषु भाषन्ते समितिं बुधाः ॥ ४७४ ॥
474 · p. 42
अनुष्टुप्
सिकता बालुकायां च देशे च सिकतान्विते ।लता व्रततिराख्याता लता शाखा च शाखिनाम् ॥ ४७५ ॥
475 · p. 42
अनुष्टुप्
स्ववासिन्यां चिरिण्टी स्याद् द्वितीयवयसि स्त्रियाम् ।कुलं सजातीयगणे गोत्रे जनपदे तनौ ॥ ४७६ ॥
476 · p. 42
अनुष्टुप्
सारमेये कुलोद्भूते कौलेयक इति स्मृतः ।भयंकरं प्रतिभयं भयं प्रतिभयं विदुः ॥ ४७७ ॥
477 · p. 42
अनुष्टुप्
अभिग्रहोऽभिग्रहणमभियोगोऽप्यभिग्रहः ।अर्थिनः स्युर्याचनका अर्थिनः सेवका अपि ॥ ४७८ ॥
478 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्या (wrong syllable)
निकृतः स्याद्विप्रकृतो निकृतो विप्रलब्ध(म्भ)कः ।मुक्तनिर्मितयोः सृष्टं सृष्टं निश्चितभूरिणोः ॥ ४७९ ॥
479 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वि (wrong syllable)
द्वितीया कथ्यते जाया द्वितीया पूरणी द्वयोः ।वदन्ति वधमारम्भमारम्भः समुपक्रमः ॥ ४८० ॥
480 · p. 43
अनुष्टुप्
निःश्रेयसे मोचने च मुक्तिर्मोक्षवदिष्यते ।धनुर्मात्रं विदुः शार्ङ्गं शार्ङ्गं विष्णोः शरासनम् ॥ ४८१ ॥
481 · p. 43
अनुष्टुप्
चन्द्रहासो रावणासिरसिमात्रे च कुत्रचित् ।अन्तावसायी चाण्डाले नापिते च क्वचिन्मतः ॥ ४८२ ॥
482 · p. 43
अनुष्टुप्
परित्यागे च दाने च जानीयादपवर्जनम् ।नियामकाः पोतवाहा नियन्तारो नियामकाः ॥ ४८३ ॥
483 · p. 43
अनुष्टुप्
समर्यादं समीपं च मर्यादासहितं च यत् ।संख्यातं पिण्डितं ज्ञेयं निबिडं पिण्डितं विदुः ॥ ४८४ ॥
484 · p. 43
अनुष्टुप्
मुखं मुखान्तरालं च द्वयमास्यमुदाहृतम् ।विज्ञेयं सह्यमारोग्यं सह्यौ सोढव्यपर्वतौ ॥ ४८५ ॥
485 · p. 43
अनुष्टुप्
छेको विदग्धश्छेकाश्च गृहासक्तमृगाण्डजाः ।आयोधनं घातनं स्याद्युद्धमायोधनं मतम् ॥ ४८६ ॥
486 · p. 43
अनुष्टुप्
उपमर्दं विदुः पीडां पीडामाहुः कृपामपि ।अणिमश्रिं विजानीयादाणिरक्षाग्रकीलकः ॥ ४८७ ॥
487 · p. 43
अनुष्टुप्
प्रत्यक्षं विदुरध्यक्षमध्यक्षोऽधिकृतो मतः ।अपाङ्गो लोचनान्तः स्यादपाङ्गस्तिलकेपि च ॥ ४८८ ॥
488 · p. 43
अनुष्टुप्
समीपगलशब्देषु त्रिषु कण्ठं विदुर्बुधाः ।सुगन्धिद्रव्यभेदे स्यादम्बरं व्योमवस्त्रयोः ॥ ४८९ ॥
489 · p. 43
अनुष्टुप्
कायः शरीरे लक्षे च समूहे च प्रयुज्यते ।भार्यायां स्त्रीनितम्बे च कलत्रं कवयो विदुः ॥ ४९० ॥
490 · p. 43
अनुष्टुप्
हस्तिभेदे वृषे भद्रः स्याद्भद्रं साधुशर्मणोः ।आरामे मलयं विद्यात्पर्वतावयवे तथा ॥ ४९१ ॥
491 · p. 44
अनुष्टुप्
बुधाः विदुः प्रतिकृतिं प्रतिमाप्रतिकारयोः ।आयस्तः क्लेशिते क्षिप्ते कुपिते तेजिते तथा ॥ ४९२ ॥
492 · p. 44
अनुष्टुप्
उष्णे स्वेदाम्भसि ग्रीष्मे निदाघो घर्मवन्मतः ।बुधाः प्रसव्यमिच्छन्ति प्रतिकूलानुकूलयोः ॥ ४९३ ॥
493 · p. 44
अनुष्टुप्
शाला तरुस्कन्धशाखा शाला भवनमिष्यते ।(शाला तरोः स्कन्धशाखा)विदुर्दिग्वाससं नग्नं नग्ना वैतालिकादयः ॥ ४९४ ॥
494 · p. 44
अनुष्टुप्
इष्यते कदली रम्भा कदली वैजयन्तिका ।वेष्टनं मुकुटं विद्यादुष्णीषमपि वेष्टनम् ॥ ४९५ ॥
495 · p. 44
अनुष्टुप्
सम्यक्सिद्धिः स्वभावश्च द्वयं संसिद्धिवाचकम् ।मध्यप्राप्तं विस्मृतं च द्वयमन्तर्गतं विदुः ॥ ४९६ ॥
496 · p. 44
अनुष्टुप्
प्रतोलीं विशिखामाहुर्विशिखा च खनित्रिका ।समञ्जसं स्यादुचितमभ्यस्तमुचितं विदुः ॥ ४९७ ॥
497 · p. 44
अनुष्टुप्
कल्पनं कर्तने क्लृप्तौ कल्पना गजसज्जना ।पितामहः पितृपिता परमेष्ठी पितामहः ॥ ४९८ ॥
498 · p. 44
अनुष्टुप्
अहार्यं ब्रुवते शैलं यच्च हर्तुं न शक्यते ।प्राध्वोऽतिमात्रं प्रणतः प्राध्वं बन्धनमिष्यते ॥ ४९९ ॥
499 · p. 44
अनुष्टुप्
व्यसने व्यतिषङ्गे च विदुर्व्यतिकरं वुधाः ।राहुव्यसनयोरुक्तमुपरागपदं बुधैः ॥ ५०० ॥
500 · p. 44
अनुष्टुप्
नन्द्यावर्तं विदुर्वेश्मप्रभेदे तगरद्रुमे ।वल्लकीवादनोपाये निर्वादे परिवादवाक् ॥ ५०१ ॥
501 · p. 44
अनुष्टुप्
द्यौः स्वर्गे नभसि ख्याता द्योशब्दोऽप्यनयोर्मतः ।अक्षोपकरणं शारिः शारिः शकुनिकान्तरम् ॥ ५०२ ॥
502 · p. 44
अनुष्टुप्
याप्यं गर्हितमिच्छन्ति याप्यं स्याद्यापनीयकम् ।प्रतिस्खलिताविद्विष्टौ मतौ प्रतिहतार्थकौ ॥ ५०३ ॥
503 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable)
मतं प्रसूतमुत्पन्नं प्रसूतं कुसुमं विदुः ।प्रसेवः सेवको ज्ञेयः सेवाजीवी च सेवकः ॥ ५०४ ॥
504 · p. 45
अनुष्टुप्
गन्धमाल्योपहारे स्यादायोगे व्यापृतावपि ।कादम्बो विशिखो ज्ञेयः कादम्बो विहगान्तरम् ॥ ५०५ ॥
505 · p. 45
अनुष्टुप्
सुकृतं शोभनं कर्म पुण्यं च सुकृतं मतम् ।इष्यते हव आह्वानं हव आज्ञा हवः क्रतुः ॥ ५०६ ॥
506 · p. 45
अनुष्टुप्
आजूवेतनयोर्विष्टिः कर्मकृत्कर्मणोरपि ।(विष्टिं कर्मकरे विद्यात्कर्मवेतनयोरपि ।)तपस्वी चानुकम्पार्हे तपस्वी च तपोधमे ॥ ५०७ ॥
507 · p. 45
अनुष्टुप्
मुक्तास्फोटे स्मृता शुक्तिः शुक्तिर्दुर्नामकेऽपि(मिकापि) च ।प्राण्यङ्गे क्षत्रिये नाभिः प्रधाननृपतावपि ॥ ५०८ ॥
508 · p. 45
अनुष्टुप्
अश्वायां कुम्भदास्यां च वडवा परिकीर्तिता ।इन्द्रध्वजे विशीर्णे च जर्जरं परिचक्षते ॥ ५०९ ॥
509 · p. 45
अनुष्टुप्metre not read in every line
कुङ्कुमे देववृक्षे च हरिचन्दनमिष्यते ।अग्रजन्मा ब्राह्मणे च ज्येष्ठे भ्रातरि च स्मृतः ॥ ५१० ॥
510 · p. 45
अनुष्टुप्
द्विजन्मा विहगे विप्रे द्विजातिरपि दन्तके ।(द्विजातिरपि दृश्यते ।)तनूकृतं समुत्कीर्णं द्वयमुल्लिखितं विदुः ॥ ५११ ॥
511 · p. 45
अनुष्टुप्metre not read in every line
पक्षिमत्स्यादिपिटके क्षारकः कोरकेपि च ।वाद्यभाण्डे स्मृता गुञ्जा गुञ्जा स्यात्काकचिञ्चिका ॥ ५१२ ॥
512 · p. 45
अनुष्टुप्
स्तनवृन्ते पिप्पलकं तथा सीवनसूत्रके ।उर्वरा सर्वसस्या भूरुर्वरा भूमिमात्रकम् ॥ ५१३ ॥
513 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
प्रखरोऽश्वादिसंनाहः प्रखरः स्याद्भृशं खरः ।चर्चायां स्थासको ज्ञेयः स(स्फ)रादेरपि बुद्बुदे ॥ ५१४ ॥
514 · p. 46
अनुष्टुप्
अश्वादीनां च संनाहे जये च जयनं मतम् ।खाद्यप्रभेदे चिपिटस्तथा पिच्छि(च्चि)तविस्तृते ॥ ५१५ ॥
515 · p. 46
अनुष्टुप्
घट्टाख्ये गुल्मके साधौ सज्जनं सज्जनः क्रमात् ।परुषः कर्बुरो ज्ञेयः परुषं निष्ठुरं वचः ॥ ५१६ ॥
516 · p. 46
अनुष्टुप्
सम्मतिः स्यादनुज्ञानमभिलाषोपि सम्मतिः ।पलितं पाण्डुरः केशः पलितं कर्दमं विदुः ॥ ५१७ ॥
517 · p. 46
अनुष्टुप्
विद्धं सूच्यादिभिर्भिन्ने सादृश्ये च प्रयुज्यते ।खाद्यप्रभेदे पृथुकः पृथुकः शिशुकेपि च ॥ ५१८ ॥
518 · p. 46
अनुष्टुप्
कुलायो नीडवद्दृष्टः स्थाने गेहे च पक्षिणाम् ।विद्यादुत्कालिकाशब्दमुत्कण्ठावीचिवाचकम् ॥ ५१९ ॥
519 · p. 46
अनुष्टुप्
वृकं रूपकभेदं च द्वयमीहामृगं विदुः ।क्रियायां कारिराख्याता नापितादौ च शिल्पिनि ॥ ५२० ॥
520 · p. 46
अनुष्टुप्
विडम्बने भेदने च विदारणमुदाहृतम् ।संगते दारिते भिन्नं भिन्नमन्यार्थकं विदुः ॥ ५२१ ॥
521 · p. 46
अनुष्टुप्
समालब्धे विभक्ते च विच्छिन्नमभिधीयते ।विशाले विकराले च विकटं कवयो विदुः ॥ ५२२ ॥
522 · p. 46
अनुष्टुप्
स्वप्नः स्वापे च सुप्तस्य विज्ञाने च प्रयुज्यते ।निष्ठ्यूते त्वरितोक्ते च निरस्तमभिधीयते ॥ ५२३ ॥
523 · p. 46
अनुष्टुप्
ग्रासीकृतं भवेद्ग्रस्तं ग्रस्तं लुप्तपदं वचः ।अविस्पष्टं वचो म्लिष्टं म्लानं म्लिष्टमुदाहृतम् ॥ ५२४ ॥
524 · p. 46
अनुष्टुप्
सनातनः स्मृतो विष्णुः शाश्वतं च सनातनम् ।विश्वासयोग्यो विश्वस्तो विश्वस्ता विधवा मता ॥ ५२५ ॥
525 · p. 47
अनुष्टुप्
गदा शस्त्रं गदो व्याधिर्गदो भ्राता च शार्ङ्गिणः ।विज्ञेया पर्कटी प्लक्षः प्लक्षः पिप्पलपादपः ॥ ५२६ ॥
526 · p. 47
अनुष्टुप्
शुभाशंसिनिमित्ते च खगे च शकुनं विदुः ।विसर्जनीयाक्षरयोरभिनिष्टान इष्यते ॥ ५२७ ॥
527 · p. 47
अनुष्टुप्
संधिन्यकालदुग्धा गौर्वृषाक्रान्ता च संधिनी ।कङ्कणं मण्डणे सूत्रे कङ्कणं करभूषणम् ॥ ५२८ ॥
528 · p. 47
अनुष्टुप्
राक्षसे किंशुके पर्णे पलाशाख्या हरित्यपि ।न्यस्ते समाहिते प्राप्ते विदुः प्रणिहितं बुधाः ॥ ५२९ ॥
529 · p. 47
अनुष्टुप्
व्यञ्जने सूपकारे च सूदः सूपवदिष्यते ।गुणोत्कर्षे विभूतौ च संपदुक्ता मनीषिभिः ॥ ५३० ॥
530 · p. 47
अनुष्टुप्
जानीयादचलां पृथ्वीमचलश्च महीधरः ।नागानां नगरीनद्यौ भोगवत्यौ प्रकीर्तिते ॥ ५३१ ॥
531 · p. 47
अनुष्टुप्
प्लवंगमः कपौ भेके प्लवगोऽप्यनयोर्मतः ।प्रत्यक्षे संनिधाने च संनिधिः परिकीर्तितः ॥ ५३२ ॥
532 · p. 47
अनुष्टुप्
उपाहितोनलोत्पात आरोपित उपाहितः ।विवशः स्यादवश्यात्मा विवशोऽरिष्टदुष्टधीः ॥ ५३३ ॥
533 · p. 47
अनुष्टुप्
अधिक्षिप्तं प्रणिहिते भर्त्सिते च प्रयुज्यते ।अभावः स्यादसत्तायामभावो निधनार्थकः ॥ ५३४ ॥
534 · p. 47
अनुष्टुप्
प्राज्ञी स्त्री भवति प्रज्ञा प्रज्ञा बुद्धिरुदाहृता ।आसारः स्यात्प्रसरणे वेगाद्वर्षे सुहृद्बले ॥ ५३५ ॥
535 · p. 47
अनुष्टुप्
पुनरर्थेव्ययं भूयो भूयान्बहुतरार्थकः ।अव्ययं स्यादनुज्ञाने परमं परमः परः ॥ ५३६ ॥
536 · p. 47
अनुष्टुप्
उदास्थितः प्रतिहारे चरभेदे च कीर्तितः ।प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः ॥ ५३७ ॥
537 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
एकत्वादौ विचारे च संख्या संख्यं च संयुगे ।पादस्खलितमुद्धात उद्धातः समुपक्रमः ॥ ५३८ ॥
538 · p. 48
अनुष्टुप्
विषलिप्तशरो दिग्धो दिग्धो लिप्तार्थवाचकः ।प्रार्थितः प्रार्थनालब्धः प्रार्थितं च हतं विदुः ॥ ५३९ ॥
539 · p. 48
अनुष्टुप्
कुमुदं कैरवे ख्यातं कुमुदौ कपिदिग्गजौ ।रक्ताब्जे रक्तकुमुदे बुधैः कोकनदं स्मृ(म)तम् ॥ ५४० ॥
540 · p. 48
अनुष्टुप्
अनेडमूकमिच्छन्ति शठे वाक्श्रुतिवार्जिते ।प्रवक्तरि प्रवाच्ये च द्वयोः प्रवचनीयवाक् ॥ ५४१ ॥
541 · p. 48
अनुष्टुप्
मधूच्छिष्टे स्मरे वृक्षे वसन्ते मदनं विदुः ।निखर्वे दिग्गजे विष्णौ वामनः परिकीर्तितः ॥ ५४२ ॥
542 · p. 48
अनुष्टुप्
अधिवासो निवासो स्यात्संस्कारे धूपनादिभिः ।परिक्रमक्रीडनयोर्विहारः सुगतालये ॥ ५४३ ॥
543 · p. 48
अनुष्टुप्
अभिरूपप्राप्तरूपस्वरूपा बुधरूपिणोः ।द्रवेङ्गरागे सुरभौ रसे वर्णे कषायवाक् ॥ ५४४ ॥
544 · p. 48
अनुष्टुप्
धरा भूमिर्धरः शैलः कर्पासीतूलको धरः ।घट्टे शुल्कं विवाहार्थे जामातुर्गृह्यते च यत् ॥ ५४५ ॥
545 · p. 48
अनुष्टुप्
तीर्थेवतरणे विद्यादवतारपदं बुधः ।इक्षुचित्रकयोः पुण्ड्रः पुण्ड्राञ्जनपदान् विदुः ॥ ५४६ ॥
546 · p. 48
अनुष्टुप्
नक्षत्रे श्रवणो ज्ञेयः श्रवणं श्रुतिकर्णयोः ।पारदाख्ये रसद्रव्ये जनने सूतकं मतम् ॥ ५४७ ॥
547 · p. 48
अनुष्टुप्
देवाधिवासे प्रासादः प्रासादो नृपवेश्मनि ।क्षौमे दुकूलमिच्छन्ति दुकूलं सूक्ष्मवाससि ॥ ५४८ ॥
548 · p. 48
अनुष्टुप्
रागः क्लेशादिके रक्तौ मात्सर्ये लोहितादिषु ।समूहे मण्डलं बिम्बे देशे द्वादशराजके ॥ ५४९ ॥
549 · p. 49
अनुष्टुप्
प्रभायां किरणे भासा सममंशुरुदाहृतः ।मधूच्छिष्टं स्मृतं सिक्थं सिक्थ ओदनसंभवः ॥ ५५० ॥
550 · p. 49
अनुष्टुप्
ऊर्ध्वे गमनमुत्पत्तिर्द्वयमुत्पतनं मतम् ।शुभगन्धे रसे तिक्तस्तिक्ता स्यात्कटुरोहिणी ॥ ५५१ ॥
551 · p. 49
अनुष्टुप्
सितेतरः स्यात्कल्माषः कल्माषः कृष्णपाण्डुरः ।दमो दण्डः समाख्याते दम इन्द्रियनिग्रहः ॥ ५५२ ॥
552 · p. 49
अनुष्टुप्
लेख्यदेवतयोर्लेखो लेखा राजिरुदाहृता ।प्रविदारणमाख्यातं विद्वद्भिर्दारणे रणे ॥ ५५३ ॥
553 · p. 49
अनुष्टुप्
विस्तारे प्रतिबन्धे(बिम्बे) च विष्कम्भः समुदाहृतः ।समुज्झिते निन्दिते स्यादवध्वस्तोऽवचूर्णिते ॥ ५५४ ॥
554 · p. 49
अनुष्टुप्
पतने च तदात्वे च विदुरापातमुत्तमाः ।प्रवाहशब्दमिच्छन्ति प्रवृत्तिजलवेगयोः ॥ ५५५ ॥
555 · p. 49
अनुष्टुप्
आप्लुतः स्नातको ज्ञेय आप्लुतः स्नातमात्रके ।आत्मयोनिर्मतो वेधा आत्मयोनिर्मनोभवः ॥ ५५६ ॥
556 · p. 49
अनुष्टुप्
पृथिव्यां स्थानमात्रे च भूमिर्भूरिव दृश्यते ।गोपनीयं भवेद्गोप्यं गोप्या दासस्य सूनवः ॥ ५५७ ॥
557 · p. 49
अनुष्टुप्
संसकारशब्दमिच्छन्ति संकल्पप्रतियत्नयोः ।विद्यात्प्रवचनं वेदे प्रकृष्टवचनं च यत् ॥ ५५८ ॥
558 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मञ्जुलो मधुरे ख्यातो जलरङ्कुपतत्रिणि ।आकरो निकरो ज्ञेय उत्पत्तिस्थानमाकरः ॥ ५५९ ॥
559 · p. 49
अनुष्टुप्
रौहिणेयो बुधो ज्ञेयो रौहिणेयो हलायुधः ।संघ(ह)र्षशब्दमिच्छन्ति स्पर्धायां घर्षणेपि च ॥ ५६० ॥
560 · p. 49
अनुष्टुप्
वालकं कटकं विद्यादङ्गुलीयं च वालकम् ।परायणमभीष्टं स्यात्तत्परश्च परायणः ॥ ५६१ ॥
561 · p. 50
अनुष्टुप्
समुद्रोत्थे प्रवालाख्ये रत्ने वृक्षे च विद्रुमः ।निसर्गे च सहोत्थे च सहजं पण्डिता विदुः ॥ ५६२ ॥
562 · p. 50
अनुष्टुप्
प्रख्याते प्रेषिते च प्रतिशिष्टपदं विदुः ।उपोढमूढमात्रेपि समासन्नेपि कीर्तितम् ॥ ५६३ ॥
563 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आकर्षणं स्यादाक्षेपः स्यादाक्षेपश्च भर्त्सनम् ।बलात्कारकृतं कर्म साहसं साहसं दमः ॥ ५६४ ॥
564 · p. 50
अनुष्टुप्
पतनेच्छौ विहंगे च पित्सन् पिपतिषन्यथा ।जिगीषा जेतुमिच्छायां व्यवसाये च दृश्यते ॥ ५६५ ॥
565 · p. 50
अनुष्टुप्
पशुर्मृगादौ छगले पशु दृश्यार्थमव्ययम् ।विपुले त्र्यादिसंख्यासु बहुशब्दः प्रयुज्यते ॥ ५६६ ॥
566 · p. 50
अनुष्टुप्
बन्धने कलनायां च विदुराकलनं बुधाः ।स्तननं क्रन्दनध्वाने ध्वानमात्रे च कीर्तितम् ॥ ५६७ ॥
567 · p. 50
अनुष्टुप्
कवचे वारबाणे च निर्माके चापि कञ्चुकः ।वर्धापके पूर्णपात्रं पात्रे पूर्णे जलादिना ॥ ५६८ ॥
568 · p. 50
अनुष्टुप्
लक्ष्मीपतिर्वासुदेवे भूमिपालेन दृश्यते ।वैदेही पिप्पली प्रोक्ता वैदेही जनकात्मजा ॥ ५६९ ॥
569 · p. 50
अनुष्टुप्
अभिकामयिताऽभीकः स्यादभीको भयोज्झितः ।नतं बन्धुरमिच्छन्ति नतं कुटिलवाचकम् ॥ ५७० ॥
570 · p. 50
अनुष्टुप्
ययुः स्यादस्यमेधाश्वो ययुरश्वोपि केवलः ।वर्णप्रभेदे शुल्बे च ताम्रशब्दं विदुर्बुधाः ॥ ५७१ ॥
571 · p. 50
अनुष्टुप्
उषसं ब्रुवते संध्यामुषः प्रत्यूषवाचकम् ।आग्रहोनुग्रहे दृष्ट आसक्तिग्रहयोस्तथा ॥ ५७२ ॥
572 · p. 50
अनुष्टुप्
द्वीपवत्यः स्मृता नद्यौ द्वीपवानम्बुधौ नदे ।कुसीदिकः कुसीदः स्यात्कुसीदं वृद्धिजीवनम् ॥ ५७३ ॥
573 · p. 51
अनुष्टुप्
प्रतीकोवयवे ख्यातः प्रतीपेपि क्वचिन्मतः ।क्षये निवासे मेदिन्यां क्षितिशब्दस्त्रिषु स्मृतः ॥ ५७४ ॥
574 · p. 51
अनुष्टुप्
पिण्याकस्तिलकल्के च सिह्लकेपि प्रयुज्यते ।कट्फले शुक्लखदिरे सोमवल्क उदाहृतः ॥ ५७५ ॥
575 · p. 51
अनुष्टुप्
श्रीपर्णमग्निमन्थाख्ये(ख्यं) पादपे कमलेपि च ।भूनिम्बे भूस्तृणे प्रोक्तं भूतिकं कत्तृणे तथा ॥ ५७६ ॥
576 · p. 51
अनुष्टुप्
विधूतं कम्पिते त्यक्ते धूतमप्यनयोर्मतम् ।अवसानगते ज्ञाते विद्यादवसितध्वनिम् ॥ ५७७ ॥
577 · p. 51
अनुष्टुप्
गर्वलेपनयोरुक्तमवलेपपदं बुधैः ।क्षेपणे चावहेले च क्षेपशब्दः प्रयुज्यते ॥ ५७८ ॥
578 · p. 51
अनुष्टुप्
बोधने च प्रदाने च प्रतिपादनमिष्यते ।लूताशब्दं विजानीयादूर्णनाभे पिपीलिके ॥ ५७९ ॥
579 · p. 51
अनुष्टुप्
गोपपल्लौ स्वरे घोषो मेघादेरपि निस्वने ।यन्त्राणायां प्रतिज्ञायां नियमो निश्चये व्रते ॥ ५८० ॥
580 · p. 51
अनुष्टुप्
गीर्णौ गिरियके(क-) क्रीडागुडके पर्वते गिरिः ।कृकलासः खगो मीनस्त्रयमण्डजसंज्ञकम् ॥ ५८१ ॥
581 · p. 51
अनुष्टुप्