कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Ekādisaṃkhyāsaṃjñākoṣa

एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa

30 verses · 261 words tagged · 97 marked doubtful (dashed)

पञ्चसंख्यावाचकाः शब्दाः

५. पञ्चसंख्यावाचकाः शब्दाः-

स्मरबाण-पाण्डवेन्द्रिय-कराङ्गुली-शम्भुमुख-महायज्ञाः ।विषय-व्या(क)रणाङ्ग-व्रत-वह्नि-सुपार्श्वफणिफला(णा)-श्चैव ॥ १२ ॥
5.12 · p. 200
metre not recognised
परमेष्ठि-महाकाव्य-स्थानक-तनुवात-मृगशिरश्च तथा ।पञ्चकुल-महाभूत-प्रणाम-पञ्चोत्तरविमानाः ॥ १३ ॥
5.13 · p. 200
आर्या
महाव्रत-मरुद्वृक्ष-समिति-स्थानकानि च ।शस्त्रश्रमस्य चैतानि बध्नीयात् पञ्चसंख्यया ॥ १४ ॥
5.14 · p. 200
अनुष्टुप्