वह्नि
vahniपुं · masc.In 23 kośas: 31 synonym verses, 4 as a nānārtha head word, 111 as a meaning of another word.
असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः ।उदधिद्वीपदिशो दश भवनाधीशाः कुमारान्ताः ॥ ९० ॥
आर्या
genderपुंmasc.
वह्निर्बृहद्भानुहिरण्यरेतसौ धनंजयो हव्यहविर्हुताशनः ।कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् ॥ १०९७ ॥कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू ।अप्पित्तधूमध्वजकृष्णवर्त्मार्चिष्मच्छमीगर्भतमोघ्नशुक्राः ॥ १०९८ ॥शोचिष्केशः शुचिहुतवहोषर्बुधाः सप्तमन्त्र-ज्वालाजिह्वो ज्वलनशिखिनौ जागृविर्जातवेदाः ।बर्हिःशुष्मानिलसखवसू रोहिताश्वाश्रयाशौबर्हिर्ज्योतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः ॥ १०९९ ॥विभावसुः सप्तोदर्चिः स्वाहाग्नेयी प्रियास्य च ।
upajati 12
वह्निपुंबृहद्भानुपुंहिरण्यरेतस्पुंधनंजयपुंहव्यहविस्पुंहुताशनपुंकृपीटयोनिपुंदमुनस्पुंविरोचनपुंआशुशुक्षणिपुंछागरथपुंतनूनपात्पुंकृशानुपुंवैश्वानरपुंवीतिहोत्रपुंवृषाकपिपुंपावकपुंचित्रभानुपुंअप्पित्तपुंधूमध्वजपुंकृष्णवर्त्मन्पुंअर्चिष्मत्पुंशमीगर्भपुंतमोघ्नपुंशुक्रपुंशोचिष्केसपुंशुचिपुंहुतवहपुंउषर्बुधपुंसप्तमन्त्रज्वालाजिह्वपुंज्वलनपुंशिखिन्पुंजागृविपुंजातवेदस्पुंबर्हिःशुष्मन्पुंअनिलसखपुंवसुपुंरोहिताश्वपुंआश्रयाशपुंबर्हिस्पुंज्योतिस्क्लीदहनपुंबहुलपुंहव्यवाहपुंअनलपुंअग्निपुंविभावसुपुंसप्तोदर्चिस्पुंस्वाहास्त्रीआग्नेयीस्त्री
genderपुंmasc.
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ ५३ ॥बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः ।आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५४ ॥रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः ।हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ ५५ ॥सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः ।शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
अग्निपुंवैश्वानरपुंवह्निपुंवीतिहोत्रपुंधनञ्जयपुंकृपीटयोनिपुंज्वलनपुंजातवेदस्पुंतनूनपात्पुंबर्हिस्पुंशुष्मन्पुंकृष्णवर्त्मन्पुंशोचिष्केशपुंउषर्बुधपुंआश्रयाशपुंबृहद्भानुपुंकृशानुपुंपावकपुंअनलपुंरोहिताश्वपुंवायुसखपुंशिखावत्पुंआशुशुक्षणिपुंहिरण्यरेतस्पुंहुतभुज्पुंदहनपुंहव्यवाहनपुंसप्तार्चिस्पुंदमुनस्पुंशुक्रपुंचित्रभानुपुंविभावसुपुंशुचिपुंअप्पित्तक्लीऔर्वपुंवाडवपुंवडवानलपुं
genderपुंmasc.
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ।अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ।इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् ।
अनुष्टुप्
genderपुंmasc.
सप्तार्चिर्बहुलः शिखी हुतवहो वैश्वानरोऽग्निर्वसु-र्वह्निर्वायुसखः सितेतरगतिः स्वाहाप्रियः पावकः ।अर्चिष्मान् ज्वलनः कृशानुरनलो धूमध्वजो हव्यवाट्,बर्हिर्ज्योतिरुषर्बुधश्च दहनः स्याच्चित्रभानुः शुचिः ॥ ६२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।सर्वभुग्जलजो ज्वाली वाशिर्वातसखः शुचिः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
भुवन-वलि-वह्नि-विद्या-सन्ध्या-गजजाति-शम्भुनेत्राणि ।त्रिशिरोमौलि-दशा-क्षेत्रपाल-फण-काल-मुनि-दण्डाः ॥ ५ ॥
आर्या
genderपुंmasc.
स्मरबाण-पाण्डवेन्द्रिय-कराङ्गुली-शम्भुमुख-महायज्ञाः ।विषय-व्या(क)रणाङ्ग-व्रत-वह्नि-सुपार्श्वफणिफला(णा)-श्चैव ॥ १२ ॥
metre not recognised
genderपुंmasc.
कृशानुगुणरामाग्निपावकानलवह्नयः ।हुताशनास्त्रयास्तिस्रः प्रोक्ताश्च शिखिना बुधैः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।रोहिताश्वो बृहद्भानुर्दहनो हव्यवाहनः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
सप्तार्चिः पावनो वह्निर्विश्वप्सा वायुवाहनः ।कृपीटयोनिः कुतपो रक्तवर्णस्तनूनपात् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वह्निश्चाथ महेन्द्रस्तु रक्षश्चाथ जलेश्वरः ।चतुर्दशः पञ्चदशो भटस्तु स्यात्तथा भगः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
वह्निर्वैश्वानरो* ज्वलन-हुतभुजौ वीतिहोत्रोऽप्सुयोनिःशोचिष्केशः शिखावान्पवि-पचन-शुचि-ज्वाल-जिह्वानलाः स्युः ।सप्तार्च्चिः शुन्ध्यु-शुक्राद्यनि-वनि-दहनोदर्चिरर्चिष्मदग्नि-स्वाहानाथाश्रयाशानिलसख-शिखिनश्चित्रभानुः कृशानुः ॥ १२३ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा
genderपुंmasc.
ज्योतिर्ज्वालः शठो व्यालो वल्ली(?)वह्निः कुटः शिखी ।चव्यं त्रिषु स्याच्चवनं चविका कोलवल्लरी ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
फेनो जनोऽप्यभिजनो ध्वनिरर्दनिश्चस्थेमोष्म-पाप्म-परिघातन-वह्नयोऽश्मा ।आत्माग्निरह्नचरमास्त्वपरादहीनाःप्लीहा च यक्ष्मसहितोऽपि च देवनोऽक्षैः ॥ १८ ॥
वसन्ततिलका
genderपुंmasc.
तत्सखाऽग्निः शिखी वह्निः पावकश्चाशुशुक्षणिः ।हिरण्यरेता सप्तार्चिर्जातवेदास्तनूनपात् ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
प्रदिग्विदिक्त्वपदिशं दिग्भवे दिश्यमिष्यते ।तिर्यग्दिगीश्वरा इन्द्रवह्निकीनाशनैर्ऋताः ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
अग्निश्छागरथो वह्निः कृशानुः पावकः शिखी ।चित्रभानुश्च दमुना धनंजयहुताशनौ ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वह्न्यग्निदीदिविग्रन्थिकृमयो वमतिस्तथा ।गिरिजायू दृतिः शिश्रुरर्दनिः कलिरञ्जलिः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
द्विजराजः पक्षजन्मा कुह्वन्तो? रोहिणीधवः ।वह्निरग्निर्वायुसखः कृष्णवर्त्मा तनूनपात् ॥ ३१० ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 र्वा (wrong syllable)
genderपुंmasc.
आन्तरिक्षोऽर्द्धदिक् ब्राह्मी पाताली फणिराजदिक् ।शक्रो वह्निर्यमो रक्षः पाशी वायुः शशीश्वरौ ॥ ३३८ ॥
अनुष्टुप्
genderपुंmasc.
अग्निर्वह्निर्बृहद्भानुर्दहनो ज्वलनोऽनलः ।वैश्वानरः कृष्णवर्त्मा चित्रभानुर्धनंजयः ॥ १६६ ॥
अनुष्टुप्
genderपुंmasc.
अग्निर्वह्निः स्वनिः शिखी शुक्रः शुष्मा शुचिर्वसुः ।आशयाशः शमीगर्भः शोचिष्केशस्तथाऽऽशिरः ॥ १९१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 शि (wrong syllable)
genderपुंmasc.
इत्येवमादिगन्धर्वो गान्धर्वोऽपि निगद्यते ।अग्निर्वायुरथो वह्निः कृष्णवर्त्मा विभावसुः ॥
अनुष्टुप्
genderपुंmasc.
अग्निर्हव्यवहः कृशानुरनलो वैश्वानरः पावकःशोचिष्केश उषर्बुधो हुतवहः स्वाहासहायः शुचिः ।सप्तार्चिर्दहनः समीरणसखो वह्निस्त्रिधामा शिखीशुक्रः शुष्मकृपीडयोनिहुतभुग्बर्हिर्बृहद्भानवः ॥ ९६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वातो मरुच्चाग्निवह्निधरा क्ष्मा जल-वारिणी ।विभुः खञ्च चरः शुचिर्भूर्वनं स्वञ्च शक्तियुक् ॥ ५५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 शु (wrong syllable)
genderपुंmasc.
नृसिंहास्त्रं शान्ति-माये गोविन्दश्च सुरेश्वरः ।त्रिमूर्तिर्वामनयनो वह्निरीकारकः स्मृतः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
अग्निर्वह्निः शुचिस्तेजः प्रभा दावः शिखी द्युतिः ।दाहो ग्रासश्च संज्ञोक्ता वह्न्यर्णानां क्रमादियम् ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
अग्निः-इ, वह्निः-ई, शुचिः-ऐ, तेजः-ख, प्रभा-छ, दावः-ठ, शिखी-थ, द्युतिः-फ, दाहः-र, ग्रासः-क्ष
genderपुंmasc.
तत्र शक्रो वामपार्श्वे दण्डाख्यो दण्डनायकः ।वह्निस्तु दक्षिणे पार्श्वे पिङ्गलो वामनश्च सः ॥
अनुष्टुप्
genderपुंmasc.
वह्निर्वैश्वानरो घासिः कृष्णवर्त्मा समन्तभुक् ।जातवेदा बृहद्भानुर्वीतिहोत्रस्तनूनपात् ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
वनं नीरे निवासे स्यादालये विपिनेऽपि च ।वह्निः स्याच्चित्रकौषद्यां भवेद्वैश्वानरे पुमान् ॥
अनुष्टुप्
वह्नि as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् चित्रभानुसूर्यवह्नी चित्रभानू भानू रश्मिदिवाकरौ । Amarakośa 3.3.201
- नामलिङ्गानुशासनम् शिखिन्तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ ॥ १०६ ॥ Amarakośa 3.3.106
- नामलिङ्गानुशासनम् विभावसुरविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू । Amarakośa 3.3.440
- धरणिकोश हिमारातिधनपती कुबेराढ्यौ वृषपती वृषेश्वरौ । हिमाराती रविर्वह्निः प्रजापतिर्नृपो विधिः ॥ Dharaṇikośa 15.1.28
- धरणिकोश चित्रभानुचित्रभानू रविर्वह्निः सामिधेनी च ऋक्समित् । मातुलानी कलायेऽपि सरोजिन्यम्बुजेऽपि च ॥ Dharaṇikośa 19.1.23
- धरणिकोश शिखिन्शिखी वह्नौ मयूरे च व्रतिभेदः शिखी स्मृतः । पद्मी गजे[59]ऽब्जवत्यां च स्त्रीभेदे चापि पद्मिनी ॥ Dharaṇikośa 19.2.15
- धरणिकोश दहनदहनाः स्युः सुदुर्वृत्तवह्निभल्लातचित्रकाः । मलिनः कृपणे म्लाने मलिनी ऋतुमत्यपि ॥ Dharaṇikośa 19.2.31
- धरणिकोश पावनफाल्गुनस्त्वर्जुने मासे फाल्गुनी चास्य पूर्णिमा । पावनः सिह्लके वह्नौ पूते पथ्या च पावनी ॥ Dharaṇikośa 19.2.36
- धरणिकोश तमोघ्नतमोघ्ना वह्निरवीन्दुशम्भुनारायणाः स्मृताः । स्थापनं स्यात्पुंसवनं स्थापनं रोपणं मतम् ॥ Dharaṇikośa 19.2.46
- धरणिकोश विरोचनविरोचनो रवौ वह्नौ चन्द्रे प्रह्लाददानवे । वैरोचनो वैवस्वतो बलिर्दैत्यस्तथागतः ॥ Dharaṇikośa 19.2.63
- धरणिकोश भास्करविस्तारौ विततस्तम्बौ तुषारौ हिमशीकरौ । भास्करौ वह्निमार्तण्डौ विकारौ रोगवैकृतौ ॥ Dharaṇikośa 26.1.13
- धरणिकोश आश्रयाशपरिवेशः परिवृतावुपसूर्यकमण्डले । आश्रयाशः स्मृतो वह्निर्योऽपि चाश्रयनाशकः ॥ Dharaṇikośa 29.2.17
- धरणिकोश उदर्चिस्वायसी काकमाची स्यादभ्यासो निकटेऽपि च । उदर्चिरुत्प्रभे वह्नौ दिवौकाश्चातके सुरे । निःश्रेयसं शिवो मोक्षः श्वःश्रेयसं शिवं सुखम् ॥ Dharaṇikośa 31.1.9
- धरणिकोश ज्योतिस्ज्योतिर्वह्नौ रवौ नेत्रे दीप्तौ च तारकासु च । ज्यायान् श्रेष्ठे च वृद्धे च प्रशस्येऽतितरामपि ॥ Dharaṇikośa 31.2.9
- धरणिकोश सप्तार्चिस्सप्तार्चिर्वह्निराख्यातः सप्तार्चिश्च शनैश्चरः । अगौकाश्च नगौकाश्च शरभे सिंहपक्षिणोः ॥ Dharaṇikośa 31.2.20
- धरणिकोश दक्षदक्षः स्याच्चतुरे वह्नौ ताम्रचूडे प्रजापतौ । दक्षः स्यात्पुंगवे स्थाणोर्दक्षो वामतरेऽपि च ॥ Dharaṇikośa 33.3.4
- कोषकल्पतरु देवताडऽथो वातखुडोऽस्त्री मरुत्संघे । वामे च वातरक्ते स्फोटे स्यात्पिच्छिले परवत् । वेण्यां तु देवताडो वह्नौ राहुग्रहे तद्वत् । शैंले तु चक्रवाडो [गदि]तोऽप्यन्ते तु मण्डलार्थे द्वौ ॥ ९१ ॥ Koṣakalpataru 6.12.91
- कोषकल्पतरु धमनकामेऽप्यशोके कमनोऽन्यवत्तु कम्रेऽभिरूपे धमनस्तु वह्नौ । आध्मापके क्रूरतरेऽन्यलिङ्गः स्त्रियां हरिद्राद्रुतिवाचकश्च ॥ १९ ॥ Koṣakalpataru 6.21.19
- कोषकल्पतरु पावनपापापनुत्त्यै नियमेऽथ वह्नौ स्यात्सिह्ल[15a]केऽथ त्रिषु शुद्धिहेतौ । स्त्रियां तु तत्स्यादभयार्थकं चे- दकोटवैकुण्ठहरिद्गजेषु ॥ ४१ ॥ Koṣakalpataru 6.21.41
- कोषकल्पतरु शिखिन्स्त्रियां गुडूचीत्रिवृतोः शिखी तु वह्नौ वृषे स्याद्विशिखे च वृक्षे । केतुग्रहे केकिनि कुक्कुटे च स्याच्छार्ङ्गकेषु त्रितये सचूडे ॥ ७४ ॥ Koṣakalpataru 6.21.74
- कोषकल्पतरु चित्रभानुस्यात्कुम्भयोनिर्मुनिवृक्षभेदे कामे पुनर्ब्रह्मणि चात्मयोनिः । स्याच्चित्रभानुस्तरणौ च वह्नौ कलध्वनिः कोकिलकेकिनोश्च ॥ ४६ ॥ Koṣakalpataru 6.21.46
- कोषकल्पतरु वमिभूमिः स्थितौ स्याद्भुवि चाथ वह्नौ वमिः पुमान्स्त्री वमनेऽथ रश्मिः । पक्षे द्युतौ योषिति रज्जुवाची जामिः कुलस्त्रीभगिनीगतः स्त्री ॥ ७१ ॥ Koṣakalpataru 6.25.71
- कोषकल्पतरु द्युयः सर्वनामानिलदण्डभृत्सु स्त्रियां तु लक्ष्म्यां जननीधरित्र्योः । द्युरह्नि वह्नौ त्रिदिवे पुमान्स्याद्- द्यौस्तु स्त्रियां स्वर्गसुराध्वनोश्च ॥ १ ॥ Koṣakalpataru 6.26.1
- कोषकल्पतरु भुवन्युदेहे वसन्तेऽपि नरि क्षिपण्यु- र्वह्नौ भुवन्युः शशिसूर्ययोश्च । वायौ शरण्युस्त्रिषु वारिते स्या- न्मासे तपस्यस्तपसि स्मृतः स्त्री ॥ ८२ ॥ Koṣakalpataru 6.26.82
- कोषकल्पतरु छिदिरनल्यौषधौ स्त्री छिदिरस्तु वह्नौ खड्गे कुठारे नरि रज्जुगोऽपि । ना वालपत्रे खदिरः सुधांशौ स्त्रियां तु शाकस्य विशेष एषः [54a] ॥ १३ ॥ Koṣakalpataru 6.27.13
- कोषकल्पतरु अनलस्त्री शर्करायामथ मांसशून्ये स्यादुत्पलं वाच्यसमं न तु स्त्री । इन्दीवरे स्याच्चरमे तु कुष्ठौ- [69a]षधेऽनलः स्याद्वसुदेववह्नयोः ॥ ९५ ॥ Koṣakalpataru 6.28.95
- कोषकल्पतरु कपिलशुनि मुनिभिदि वह्नौ पुंसि पिङ्गेऽन्यवत्स्या- त्कपिल इह तु योषिच्छिंशपागोभिदोश्च । अनलदिगिभनार्यां रेणुकायां तथाथ त्रिषु पटलमुशन्ति ह्यूर्ध्वभागे गृहाणाम् ॥ ९९ ॥ Koṣakalpataru 6.28.56
- कोषकल्पतरु उद्धवश्रेष्ठे मतस्तूद्धव उत्सवे च क्रतोश्च वह्नौ हरिमातुले च । स्यादुत्सवस्तु प्रसरप्रकोप- महेषु पुंनागतरौ तु विष्णौ ॥ १८ ॥ Koṣakalpataru 6.29.18
- कोषकल्पतरु वसुस्कन्धे विभागेऽप्यथ मांसमस्त्री स्यादामिषे स्त्री जटिलार्थकः स्यात् । काकोलिकायामथ पुंसि वह्नि- कुबेरयोक्त्रह्र[88a]दरश्मिदेवे ॥ ८२ ॥ Koṣakalpataru 6.31.82
- कोषकल्पतरु तमोपहपितामहो ब्रह्मणि तातताते तमोपहोऽर्केन्दुजिनेषु वह्नौ । तनूरुहोऽस्त्री गरुतीह लोम्नि समीरणे गन्धवहो नसि स्त्री ॥ ६१ ॥ Koṣakalpataru 6.32.61
- नानार्थार्णवसंक्षेप सृणिसृणिस्तु वह्नौ कुलिशे सुह्या जनपदान्तरे । भूम्नि तस्य नृपे सर्ववचनोऽथासुरान्तरे ॥ १३२ ॥ Nānārthārṇavasaṃkṣepa 2.2.132
- नानार्थार्णवसंक्षेप हवदेयभेदेऽध्वमाने च दशधन्वन्तराह्वये । हवस्तु यज्ञ आज्ञायामाह्वाने वह्निहोमयोः ॥ १३७ ॥ Nānārthārṇavasaṃkṣepa 2.2.137
- नानार्थार्णवसंक्षेप अर्कमाक्षिके क्ली स्त्रियो लक्ष्म्यां नरः पद्मस्य सारसे । अथार्कशब्दो ना सूर्ये वह्नाविन्दौ पुरन्दरे ॥ १४ ॥ Nānārthārṇavasaṃkṣepa 2.5.14
- नानार्थार्णवसंक्षेप उशिज्प्रथमापञ्चमीसप्तम्यर्थयुक्तमुशिक् पुनः । ना गौतमर्षो वह्नौ चाप्युशीरे तु स्त्रियां त्रि तु ॥ १०५ ॥ Nānārthārṇavasaṃkṣepa 2.5.105
- नानार्थार्णवसंक्षेप त्वष्टृतप्ता स्याद्भास्करे पुंसि भेद्यलिङ्गं तु तापके । त्वष्टा प्रजापतौ वह्नौ देवतक्षणि तक्षणि ॥ ५१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.514
- नानार्थार्णवसंक्षेप तिष्यमहादेवे कलियुगे वह्नौ पुष्याख्यतारके । तद्युक्ते कालसामान्ये तज्जाते तु त्र्यथ स्त्रियाम् ॥ ५३७ ॥ Nānārthārṇavasaṃkṣepa 2.5.537
- नानार्थार्णवसंक्षेप दस्मपुंसि वह्नौ च वज्रे च त्रि तूपक्षयकारिणि । द्रवो नर्मणि निर्यासे द्रवणे च पलायने ॥ ५७४ ॥ Nānārthārṇavasaṃkṣepa 2.5.574
- नानार्थार्णवसंक्षेप ब्रह्मन्ब्रह्मा रुद्रहृषीकेशविरिञ्चार्केन्दुवह्निषु । यज्ञे विप्रे च भृग्वादिष्वृत्विग्भेदे च पुंस्ययम् ॥ ८४५ ॥ Nānārthārṇavasaṃkṣepa 2.5.845
- नानार्थार्णवसंक्षेप वाजिन्गृहभूमौ गृहे सीम्नि सुरुङ्गायां पुरेऽपि च । वाजी तु ना शरे वह्नौ पर्वतेऽपि धनञ्जयः ॥ १२४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1246
- नानार्थार्णवसंक्षेप सृत्वन्सृपा तु द्वे शिशौ सर्पे यतिनि त्वेष भेद्यवत् । सृत्वा प्रजापतौ वह्नौ पुंसि द्वे नीचजातिषु ॥ १५५२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1552
- नानार्थार्णवसंक्षेप सोमसोमो ब्रह्मणि पूष्णीन्तो वह्नौ पुण्ये लतान्तरे । याज्ञिकानां प्रसिद्धे ना ----- चामृते ॥ १५६२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1562
- नानार्थार्णवसंक्षेप अनलएवमाद्यौपनिषद्प्रयोगेषु मनीषिभिः । अनलश्चित्रके वह्नावनयस्तु विपद्यपि ॥ ४ ॥ Nānārthārṇavasaṃkṣepa 3.2.4
- नानार्थार्णवसंक्षेप जसुरिऋषिभेदे तथैव स्यादरण्यजतिलेऽपि च । जसुरिस्त्वरणौ पत्रे वह्नौ चाथ जटायुवाक् ॥ ८७ ॥ Nānārthārṇavasaṃkṣepa 3.2.87
- नानार्थार्णवसंक्षेप दमुनस्दरथो विवरे भीत्यां दिक्षु चापि प्रसारणे । दमुनास्तु रवौ वह्वावुत्तरार्धं तु राभसम् ॥ ९७ ॥ Nānārthārṇavasaṃkṣepa 3.2.97
- नानार्थार्णवसंक्षेप परिज्वन्दशानामपि तज्जातिभेदानां कुत्रचित् स्मृतः । परिज्वा तु मरुद्वह्न्योश्चन्द्रे प्राग्भारवाक् पुनः ॥ १५९ ॥ Nānārthārṇavasaṃkṣepa 3.2.159
- नानार्थार्णवसंक्षेप भास्करभास्करस्तु भवेद्वह्नावादित्ये रभसः पुनः । भाकूटः शैलभेदे स्यात् तथैवानिमिषान्तरे ॥ १७० ॥ Nānārthārṇavasaṃkṣepa 3.2.170
- नानार्थार्णवसंक्षेप भुवन्युभुवन्युर्भास्करे वह्नौ भूतात्मा तु विरिञ्चने । जीवात्मनि शरीरे च पवने चाथ मन्दरः ॥ १७१ ॥ Nānārthārṇavasaṃkṣepa 3.2.171
- नानार्थार्णवसंक्षेप हिमारितथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन । हिमारिस्तु रवौ वह्नौ हृच्छ्रयस्त्वपि मन्मथे ॥ २४८ ॥ Nānārthārṇavasaṃkṣepa 3.2.248
- नानार्थार्णवसंक्षेप आशिरआशिरस्तु पुमान् विष्णौ सूर्ये वह्नौ च भोजने । तथा क्षीरविकारे स्यादथ बह्वाशिनि त्रिषु ॥ २०५ ॥ Nānārthārṇavasaṃkṣepa 4.205
- नानार्थार्णवसंक्षेप कुतपकुतपः सूर्यवह्न्योर्ना वृषभेऽप्यतिथावपि । भागिनेये द्वे तु विप्रे पुन्नपुंसकयोः पुनः ॥ ४९४ ॥ Nānārthārṇavasaṃkṣepa 4.494
- नानार्थार्णवसंक्षेप चित्रकचित्रकस्तु पुमान् वह्निसंज्ञायां भेषजौषधौ । तन्मूले च तथैरण्डे द्वे तु राजिलभोगिनाम् ॥ ७४३ ॥ Nānārthārṇavasaṃkṣepa 4.743
- नानार्थार्णवसंक्षेप जिगर्तुतस्यामथ द्वयोर्ज्ञेयोः जिह्वालः सारमेयके । पृषदंशे च ना तु स्याज्जिगर्तुर्वह्निमार्गयोः ॥ ७९७ ॥ Nānārthārṇavasaṃkṣepa 4.797
- नानार्थार्णवसंक्षेप दहनगृध्रेऽथ दहनः पुंसि वह्नावुष्णगुणेऽपि च । त्रि तु तद्वति शण्डे तु दाहेऽथ दरणं नपि ॥ ८९९ ॥ Nānārthārṇavasaṃkṣepa 4.899
- नानार्थार्णवसंक्षेप प्रचेतस्पुमांस्त्री तु विधिज्ञायां स्त्रियां ज्ञेया प्ररीत्वरी । प्रचेता वरुणे वह्नौ ना त्रिस्तूत्कृष्टचेतसि ॥ ११२५ ॥ Nānārthārṇavasaṃkṣepa 4.1125
- नानार्थार्णवसंक्षेप पिङ्गलरभसस्त्वाह वह्नौ च मुकुन्दे च बहुश्रुतः । पिशङ्गवर्णे च त्रिस्तु तद्वति स्त्री तु पिङ्गला ॥ ११५७ ॥ Nānārthārṇavasaṃkṣepa 4.1157
- नानार्थार्णवसंक्षेप भुरण्युभुरण्यो भास्करे विष्णौ वह्नौ क्षिप्रे पुनस्त्रिषु । भूमिजस्तु पुमान् दैत्यभेदे नरकसंज्ञके ॥ १३०५ ॥ Nānārthārṇavasaṃkṣepa 4.1305
- नानार्थार्णवसंक्षेप सुगन्द्धित्रि तु तद्वति चारौ च श्रेष्ठे च स्यात् स्त्रियां पुनः । + + + + + वह्नौ स्यात् तथा चैत्रवसन्तयोः ॥ १९९० ॥ Nānārthārṇavasaṃkṣepa 4.1990
- नानार्थार्णवसंक्षेप हवनहोमे वह्नौ तु ना स्त्री तु हवनी स्रुचि नप् पुनः । हास्ये स्याद्धसनं स्री तु हसनी परिकीर्तिता ॥ २०२८ ॥ Nānārthārṇavasaṃkṣepa 4.2028
- नानार्थार्णवसंक्षेप अपांगर्भभेषजस्तम्बभेदे च प्रहस्ताख्ये च राक्षसे । अपांगर्भो मरुद्वह्न्योरथाथर्वणिरित्ययम् ॥ ३२ ॥ Nānārthārṇavasaṃkṣepa 6.32
- नानार्थार्णवसंक्षेप चित्रभानुचन्द्रहासोऽर्धचन्द्राग्र इति शब्दार्थकोविदः । चित्रभानू रवौ वह्नौ देशे जनपदो जने ॥ ५७ ॥ Nānārthārṇavasaṃkṣepa 6.57
- नानार्थार्णवसंक्षेप प्रभाकररविवह्योरथो पङ्करसः शीधौ तथा रसे । पङ्कस्याथाम्बुदे स्त्रीणां स्तने मु(क्ते ? स्ते) पयोधरः ॥ ८१ ॥ Nānārthārṇavasaṃkṣepa 6.81
- नानार्थार्णवसंक्षेप विरोचनअर्केन्दुवह्निष्वसुरराजेऽप्यथ विभीषणः । पुरन्दरे रावणस्य कनिष्ठेऽप्यथ कथ्यते ॥ ११० ॥ Nānārthārṇavasaṃkṣepa 6.110
- नानार्थार्णवसंक्षेप हिमारितथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन । हिमारिस्तु रवौ वह्नौ हृच्छ्रयस्त्वपि मन्मथे ॥ २४८ ॥ Nānārthārṇavasaṃkṣepa 6.248
- नानार्थार्णवसंक्षेप जुहुराणपुल्लिँङ्गोऽत्राप्यर्थलिङ्गसमासाः पूर्ववत् स्मृताः । जुहुराणस्तु ना वह्नावध्वर्यावनडुह्यपि ॥ २४५ ॥ Nānārthārṇavasaṃkṣepa 6.245
- नानार्थार्णवसंक्षेप निषद्वरनिषद्वरस्तु ना पङ्के वह्नाविन्द्रे च मन्मथे । निषद्वरी तु स्त्री दृश्या प्रभायां रजनावपि ॥ ३१६ ॥ Nānārthārṇavasaṃkṣepa 6.316
- नानार्थार्णवसंक्षेप पर्परीकपर्परीकस्तु ना वह्नौ भक्षे च द्वे तु कुक्कुरे । कुररे पर्परीका तु पुंस्य नापाकरे(?) त्रि तु ॥ ३५६ ॥ Nānārthārṇavasaṃkṣepa 6.356
- नानार्थार्णवसंक्षेप पवमानपञ्चाङ्गुलस्तु पुंसि स्यादेरण्डाह्वयपादपे । पञ्चाङ्गुलिप्रमाणे तु त्रिष्वथो वह्निवातयोः ॥ ३५८ ॥ Nānārthārṇavasaṃkṣepa 6.358
- नानार्थार्णवसंक्षेप पचेलिमपचेलिमस्तु ना वह्नौ माषे च द्वे तुरङ्गमे । पद्मासनो विरिञ्चे ना क्ली तु स्यादासनान्तरे ॥ ३६५ ॥ Nānārthārṇavasaṃkṣepa 6.365
- नानार्थार्णवसंक्षेप विभावसुविभावसुस्तु ना सूर्ये चन्द्रे वह्नौ द्वयोः पुनः । शतपत्रेऽथ गन्धर्वभेदे विश्वावसुः पुमान् ॥ ५७८ ॥ Nānārthārṇavasaṃkṣepa 6.578
- नानार्थार्णवसंक्षेप प्राचीनबर्हिस्विज्ञेयः परमरसः स्यात् तु पर्यनुयोगवाक् । अनुयोगेऽप्युपालम्भेऽप्यथ वह्नौ पुरन्दरे ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 7.12
- परमानन्दीयनाममाला कब्रह्मवायुसुहृत्केकिवह्न्युद्योतमात्मसु । कुः पापीयसि मह्यां च निवारणकुशब्दयोः ॥ १० ॥ Paramānandīyanāmamālā 1.10
- परमानन्दीयनाममाला गोरश्मिवह्न्योश्च सत्याक्षिस्वर्गमातृषु भाषितः । गीश्च वाण्यां दिशाब्राह्म्योर्दुर्गायामथ घो घटे ॥ १४ ॥ Paramānandīyanāmamālā 1.14
- परमानन्दीयनाममाला द्युदाष्णुबन्धनयोर्दृक्स्यान्नेत्रदर्शनयोरपि । द्योः स्वर्गनभसोर्द्युस्तु व[3]ह्निवासरयोरथ ॥ २५ ॥ Paramānandīyanāmamālā 1.25
- परमानन्दीयनाममाला ररः कामवह्निशब्देषु तीव्रे रामे नरे पवौ । राः स्वर्णधनयोर्मेघे स्थानके रुर्भये ध्वनौ ॥ ३६ ॥ Paramānandīyanāmamālā 1.36
- परमानन्दीयनाममाला चित्रभानुचित्रभानू रवौ वह्नौ चिरंजीव्यजकाकयोः । चन्द्रोदयो विधूद्रेक उल्लोचौषधभेदयोः ॥ १८८ ॥ Paramānandīyanāmamālā 5.11.188
- परमानन्दीयनाममाला ज्योतिस्ज्योतिर्वह्नौ दिवानाथे नक्षत्रेऽक्षिप्रकाशयोः । जातिर्गोत्रामलक्योः स्याज्जन्मसामान्ययोरपि ॥ १९८ ॥ Paramānandīyanāmamālā 5.13.198
- परमानन्दीयनाममाला जूहूराणजूहूराणो हये वह्नौ जीवितेशः प्रिये स्मृतः । कालेऽथ जलसूचिस्तु शुङ्गाटे शिशुमारके ॥ २०८ ॥ Paramānandīyanāmamālā 5.13.208
- परमानन्दीयनाममाला तेजस्नवनीते बले वह्नौ तीक्ष्णं तिग्मे विषे रणे । तूणी नील्यां निषङ्गे च तल्पं शय्याकलत्रयोः ॥ २२३ ॥ Paramānandīyanāmamālā 5.15.223
- परमानन्दीयनाममाला दहनदासेरः करभे दासीपुत्रे वह्नौ च दहनः । भल्लाते चित्रके दुष्टचेष्टितेऽपि निबध्यते ॥ २४६ ॥ Paramānandīyanāmamālā 5.16.246
- परमानन्दीयनाममाला धिष्ण्यधिष्ण्यं रश्मौ गृहे स्थाने वह्नौ नक्षत्रशुक्रयोः । धात्री क्षोण्यामलक्योश्च धातक्यामुपमातरि ॥ २५४ ॥ Paramānandīyanāmamālā 5.17.254
- परमानन्दीयनाममाला भास्करभरतस्तु मुनौ भूपे भुवनं जललोकयोः । भास्करः सूर्यवह्न्योः स्याद् भ्रमरः कामुकेऽप्यलौ ॥ ३३६ ॥ Paramānandīyanāmamālā 5.20.336
- परमानन्दीयनाममाला यज्ञयज्ञो नारायणे यागे वह्नौ मेषात्मनोरथ । यमो ध्याङ्क्षे कृतान्ते च यानं युग्ये गतावपि ॥ ३४१ ॥ Paramānandīyanāmamālā 5.21.341
- परमानन्दीयनाममाला हरिलोकान्तरे द्विपे वह्नौ हारो मुक्तागणे स्मृतः । संग्रामेऽथ मतो हीरो रुद्रे वज्रेऽपि कथ्यते ॥ ३७३ ॥ Paramānandīyanāmamālā 5.28.373
- परमानन्दीयनाममाला होमिही? लक्ष्म्यामथो रुद्रे वासरेऽसौ हरो मतः । होमिर्वह्नौ घृते क्षीरे होरा राश्यर्धलग्नयोः ॥ ३७४ ॥ Paramānandīyanāmamālā 5.28.374
- शब्दरत्नावली मलिनमुखत्रिषु स्यात् मलिनमुखः क्रूरगोपुच्छवह्निषु । अथ शितमयुखस्तु घनसारमृगाङ्कयोः ॥ Śabdaratnāvalī 7.2.19
- शब्दरत्नावली उद्घअघं तु दुरिते दुःखव्यसन … चिन्तने । अर्घः पूजाविधौ मूल्ये मङ्गलादिकयोजने । उद्घः हस्तपुटे वह्नौ देहजातसमीरणे ॥ Śabdaratnāvalī 7.4.2
- शब्दरत्नावली शुचिशुचिः ग्रीष्मसिताषाटज्यैष्ठशृङ्गारवह्निषु । शुद्धमन्त्रिणि शुद्धे वा तथानुपहते त्रिषु ॥ Śabdaratnāvalī 7.6.10
- शब्दरत्नावली तमोघ्नजननी स्त्री दयामात्रोर्जननं जन्मवंशयोः । जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥ जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च । जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् । जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥ जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके । तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥ तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् । तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥ तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु । त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥ तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् । तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥ तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥ Śabdaratnāvalī 7.20.56
- शब्दरत्नावली विलोमविलोमो भुजगे वह्नौ प्रतीपे वरुणे शुनि । आमलक्यां विलोमी च क्लीबं स्यादरघट्टके ॥ Śabdaratnāvalī 7.25.42
- शब्दरत्नावली ररः कामवह्नौ च रुः शब्दे रा धने पुमान् । री गतौ स्त्री च रा दाने काञ्चनेऽपि च कुत्रचित् । श्रीः शोभा भारती वेशरचना भूतिवृद्धिषु । विधात्रिवर्गसम्पत्तिलक्ष्मीषु सरलद्रुमे ॥ Śabdaratnāvalī 7.27.1
- शब्दरत्नावली बभ्रुपुमान् क्लीबं कुङ्कुमे स्यात्तथा श्रेष्ठे भवेत्त्रिषु । वरी स्त्रियां शतावर्यां त्रिफलायां वरापि च ॥ वरं क्लीबं मनागिष्टे कुत्रचिन्मान्तमव्ययम् । वम्रूर्विशाले नकुले महेशवह्निविष्णुषु ॥ Śabdaratnāvalī 7.27.35
- शब्दरत्नावली शुक्रशारीऽनिलाक्षोपकृत्योः शवलेऽपि च वाच्यवत् । शिग्रुः पुंसि शाकमात्रे तथा शोभाञ्जनद्रुमे ॥ शिरा नाड्यां स्त्रियामेव पिप्पलीमूलके पुमान् । शीघ्रं नलद चक्राङ्ग(?) क्लीबं द्रुते गतौ(?) त्रिषु ॥ शुभमम्रे क्लीबलिङ्गमुद्दीप्तशुक्लयोस्त्रिषु । शुक्रो मासि भृगौ वह्नौ ना क्लीबे रोगरेतयोः ॥ Śabdaratnāvalī 7.27.46
- शब्दरत्नावली अनलअनलो वसुभिद्वह्न्योरनिलो वाजिवातयोः । अर्गलस्त्रिषु कल्लोले चान्तर्दण्डकपाटयोः ॥ Śabdaratnāvalī 7.28.40
- शब्दरत्नावली पाचलपाचलं पाचने वह्नौ राधनद्रव्यवातयोः । पाटलः श्वेतरक्ताशुधान्ययोः पाटलाद्रुमे । पातालं नागलोके स्याद्विवरे ना तु वाडवे ॥ Śabdaratnāvalī 7.28.75
- शब्दरत्नावली पिङ्गलपिङ्गलो नागभित्सूर्यपारिर्पार्श्वकवह्निषु । निधिभेदे कपौ रुद्रे गुनौ ना कपिले त्रिषु ॥ Śabdaratnāvalī 7.28.77
- शब्दरत्नाकर विस्मयवाहसोऽजगरे वह्नौ चित्रे दर्पे च विस्मयः । विस्तारे प्रतिबन्धे च विष्कम्भो विबुधः सुरे ॥ २१६२ ॥ Śabdaratnākara 4.1.2162
- तन्त्राभिधान एभयं ज्ञानं कृषा(शा) धीरा जङ्घा सर्वसमुद्भवः । वह्निर्विष्णुर्भगवती कुण्डली मोहिनी रसः ॥ ३६ ॥ Tantrābhidhāna 2.12.36
- तन्त्राभिधान खखः प्रचण्डः कामरूपी ऋद्धिर्वह्निः सरस्वती । आकाशमिन्द्रियं दुर्गा चण्डीशस्तापिनी गुरुः ॥ ६० ॥ Tantrābhidhāna 2.19.60
- तन्त्राभिधान छछ-श्छन्दनं सुषुम्णा च पशुः पशुपतिर्मतिः । निर्मलं तरलं वह्निर्भूतमात्रा विलासिनी ॥ ७६ ॥ Tantrābhidhāna 2.24.76
- तन्त्राभिधान ठवर्त्तुलः कुण्डलं वह्निरमृतं चन्द्रमण्डलः । दक्षजानूरुभावौ च देवभक्षो बृहद्धनिः ॥ ९३ ॥ Tantrābhidhāna 2.29.93
- तन्त्राभिधान र----------------------------------- याने यातरि यस्त्यागे कथितः शब्दवेदिभिः । रः स्यात् कामेऽनिले वह्नौ शब्दे रुः परिकीर्त्तितः ॥ २९ ॥ Tantrābhidhāna 3.29
- तन्त्राभिधान कयाम्यकर्णादिकः क्रोधी वायुर्वह्निर्गदी रुजा । यादवेशो मुरारिश्च कामाङ्गः का-र्णक स्मृतः ॥ १८ ॥ Tantrābhidhāna 6.18
- त्रिकाण्डशेष मलिम्लुचमरीचिर्मुनिभेदेऽपि चौरवह्नी मलिम्लुचौ । कक्कोलेऽपि च मारीचो मोचा शाल्मलिरम्भयोः ॥ ७७ ॥ Trikāṇḍaśeṣa 3.3.77
- त्रिकाण्डशेष अग्निहोत्रहविर्वह्नी चाऽग्निहोत्रौ वृक्षे लघुनि चाऽगुरुः । शक्तो निरण्डश्चाण्डीरावङ्घ्रिः स्यात्पादमूलयोः ॥ ३३० ॥ Trikāṇḍaśeṣa 3.3.330
- त्रिकाण्डशेष शुक्रपक्वदाडिमबीजाभमाणिक्यशकलेऽपि च । शुक्रं रेतोक्षिरुक्शुक्रो ना काव्यज्यैष्ठवह्निषु ॥ ३७६ ॥ Trikāṇḍaśeṣa 3.3.376
- त्रिकाण्डशेष उदर्च्चिस्उदर्च्चिरुत्प्रभे वह्नावेनः पापपराधयोः । कनीयाननुजेऽल्पे च कंसो मानेसुरान्तरे ॥ ४४४ ॥ Trikāṇḍaśeṣa 3.3.444
- वैजयन्ती भुवन्यभ्रातृव्यौ भ्रातृजामित्रौ भुरण्यू विष्णुभास्करौ । भूमिस्पृशौ वैश्यनरौ भुवन्यौ वह्निभास्करौ ॥ ५९ ॥ Vaijayantī 7.1.59
- वैजयन्ती वाहसव्यवायो मैथुनेऽन्तर्धौ चित्रे दर्पे च विस्मयः । वाहसौ वह्न्यजगरौ द्रुप्रवालौ तु विद्रुमौ ॥ ६५ ॥ Vaijayantī 7.1.65
- वैजयन्ती अपांगर्भवह्निवातावपांगर्भौ गुह्यगूधाववस्करौ । कूर्मेशेऽब्धावकूपारोऽवलेपो लेपगर्वयोः ॥ १५ ॥ Vaijayantī 8.1.15
- वैजयन्ती आशोचनीअशिरस्कौ बाहुरुण्डाववलोर्णोऽस्फुटापि वाक् । आशोचनी तु वह्नीन्दू आत्मयोनी स्मरानिलौ ॥ १६ ॥ Vaijayantī 8.1.16
- वैजयन्ती पर्परीकअग्न्युत्पातौ धूमकेतू धन्वन्तरिरिनाब्जयोः । पर्परीकौ वह्निभक्ष्यौ शौर्योद्योगौ पराक्रमौ ॥ २५ ॥ Vaijayantī 8.1.25