All kośas › Ekādisaṃkhyāsaṃjñākoṣa
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa
30 verses · 261 words tagged · 97 marked doubtful (dashed)
चतुःसंख्यावाचकाः शब्दाः-
४. चतुःसंख्यावाचकाः शब्दाः-
ब्रह्ममुख-वेद-हरिभुज-सुरगजरद-वर्ण-चतुरिकास्तम्भाः ।सङ्घ-समुद्राशमघात(?)-गोस्तना-ऽऽश्रम-कषाय-दिशः ॥ ९ ॥
4.9 · p. 200
आर्या
गजजाति-याम-सेनाङ्ग-दण्डहस्ता महाजने वणिजः ।दशरथपुत्रोपाय-ध्यान-कथा-ऽभिनय-रीति-गोचरणाः ॥ १० ॥
4.10 · p. 200
गीतिः
माला-स्तबक-कराङ्गुलि-संज्ञा-सुरभेद-योजनक्रोशाः ।एते सलोकपालाः काव्ये योज्याश्चतुःसङ्ख्याः ॥ ११ ॥
4.11 · p. 200
आर्या