कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

व्रत

vrataपुंक्ली · m. n.

In 16 kośas: 16 synonym verses, 4 as a nānārtha head word, 22 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.678 · p. 34
प्रायः संन्यास्यनशने नियमः पुण्यकं व्रतम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.37
नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥ ३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात पञ्चसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 5.12 · p. 200
स्मरबाण-पाण्डवेन्द्रिय-कराङ्गुली-शम्भुमुख-महायज्ञाः ।विषय-व्या(क)रणाङ्ग-व्रत-वह्नि-सुपार्श्वफणिफला(णा)-श्चैव ॥ १२ ॥
metre not recognised
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.28 · p. 71
अतिपातोऽथ नियमस्त्वस्त्रियां व्रतमित्यपि ।पुण्यकं तूपवासाद्यमुपवस्तमुपोषणम् ॥ २८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.159 · p. 479
हस्तोपवीतपलितवृन्तानां दैवतस्य च ।लोहितव्रतबुद्धानां वसन्तध्वान्तयोरपि ॥ १५९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.90 · p. 240
मोक्षोपायो भवेद्योगो नियमो व्रतमस्त्रियाम् ।पुण्यकं चाथ न स्त्री स्यादौपवस्त्रमुपोषणम् ॥ ९० ॥
अनुष्टुप्
genderपुंक्लीm. n.
चतुष्पथादीनां नपुंसकत्वं विद्धि जानीहि । इदं चतुष्पथम् । युगलं युग्मम् । छलं व्याजः । चेलं वस्त्रजातिः । खोलं भग्नभाण्ड[ड]म् । धिष्ण्यं गृहम् । अर्गलं द्वारपिधानम् । शफं खुरः । पण्यं विक्रेतव्यम् । पिच्छं मयूरस्य । पलं चतुःपलिपरिमाणम् ।रयमण्डपनरककपालगुडमणिमेढ्रदर्दुरकुसूलाः ।युग्माकाशव्रतशृङ्गवर्जिताः मञ्चः सदा पुंसि ॥ ६९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चे (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.141 · p. 228
genderपुंक्लीm. n.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.135 · p. 33
उपवासश्चोपवस्तं व्रतं नियमपालनम् ।समाधिर्धारणा ध्यानं प्रणिधानं च चिन्तनम् ॥ १३५ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1406 · p. 222
अशनत्यागतात्पर्ये ख्यातः प्रायः शब्दः प्रयुज्यते ।नियमः पुण्यकं चैव व्रतं तपोऽपि कथ्यते ॥ १४०६ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.71 · p. 115
अत्ययश्वातिपतनं व्यत्ययः स्यादतिक्रमे ।अस्त्री व्रतन्तु नियमो नियामः संयमोऽपि च ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1191 · p. 146
स्युर्ब्रह्माध्वर्युरुद्गाता होता चामी महर्त्विजः ।ऋत्विजो याजकाश्चाथ नियमो व्रतमस्त्रियाम् ॥ ११९१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.10 · p. 274
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.13 · p. 36
मालं मैनं व्रतं जालं नारासंगे पराणि षट् ।अनुद्वीपाश्च षट् तेषामंगद्वीपादयो यथा ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.32 · p. 37
अप्यन्येऽन्ध्रा व्रताः साल्वा इत्याद्या नीवृतः पृथक् ।विन्ध्यात्तु दक्षिणा देशा दक्षिणापथसंज्ञिताः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.136 · p. 94
तपो व्रतोऽस्त्री कृच्छ्रोऽस्त्री तच्च चान्द्रायणादिकम् ।चान्द्रायणं चन्द्रव्रतं प्राजापत्यं तु कृच्छ्रकम् ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न्द्र (wrong syllable)
genderपुंक्लीm. n.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1177 · p. 143
आपस्तम्बप्रयोगेऽसावश्वगोष्ठे च दृश्यते ।ना तु मेघे च शैले च नियमे तु व्रतोऽस्त्रियाम् ॥ ११७७ ॥
अनुष्टुप्
meaningsनियम
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1178 · p. 143
क्ली त्वृतौ वत्सरे मासे विष्णावग्नौ धनान्नयोः ।भुक्तौ कर्मणि चाथाह विधाने चापि सज्जनः ॥ ११७८ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1179 · p. 143
महाव्रतसमाख्ये स्यात् क्रतुभेदेऽप्यथ त्रिषु ।व्यक्तं स्यान्निश्चिते स्पष्टे विदुष्यन्यस्त्वभाषत ॥ ११७९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.31 · p. 226
वर्चोऽर्चीरूपविड्भाः सु वनं भास्यप्सु कानने ।व्रतं विष्ण्वृतुवर्षेज्यातपोमासाग्निभुक्तिषु ॥ ३१ ॥
अनुष्टुप्

व्रत as a meaning in nānārtha verses

  • हलायुधकोशः (अभिधानरत्नमाला) निष्ठानिष्ठा क्लेशेऽवसाने च व्यवस्थोत्कर्षयोर्व्रते । श्रेष्ठे स्थाम्नि धने शुक्रे मज्ज्ञि सार उदाहृतः ॥ ८५३ ॥ Abhidhānaratnamālā (Halāyudha) 5.853
  • हलायुधकोशः (अभिधानरत्नमाला) वर्णशुक्लादौ ब्राह्मणादौ च शोभायामक्षरे व्रते । गीतक्रमे स्तुतौ वेषे वर्णशब्दं प्रचक्षते ॥ ८६० ॥ Abhidhānaratnamālā (Halāyudha) 5.860
  • धरणिकोश नियमकलमो लेखनी चैव शालीनां वाचकः पृथक् ? । नियमस्तु प्रतिज्ञायां यन्त्रणे निश्चये व्रते ॥ Dharaṇikośa 24.2.13
  • कोषकल्पतरु पराकयुद्धे वराकस्त्रिषु तु स्मृतोऽसौ शोच्ये पराको व्रतखड्गयोः स्यात् । पिनाकमस्त्री हरचापपांशु- वर्षे त्रिशूलेऽपि च संप्रदिष्टम् ॥ ५६ ॥ Koṣakalpataru 6.1.56
  • कोषकल्पतरु संयमनव्रते भवेत्संयमनं यमस्य पुरि स्त्रियां स्यादथ दर्शनेऽपि । निशामनं स्याच्छ्रवणे च नेत्रे दन्तान्तरा[21b]ले प्रतिमानमैभे ॥ २० ॥ Koṣakalpataru 6.21.20
  • नानार्थार्णवसंक्षेप निष्ठानान्दिः कल्याणवृद्धौ स्यान्नाट्यारम्भार्चनान्तरे । निष्ठोत्कर्षेऽप्यवस्थायां नाशेऽन्ते व्रतयाच्ञयोः ॥ ५८ ॥ Nānārthārṇavasaṃkṣepa 2.1.58
  • नानार्थार्णवसंक्षेप पुण्यव्योम्नि हेम्नि तथा धर्मे ( ब्रु ? व्र )ते च शुभकर्मणि । गङ्गार्घ्ययोस्तु पुण्या स्त्री मनोज्ञे तु त्रि पावने ॥ ७८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.785
  • नानार्थार्णवसंक्षेप वज्रव्रतभेदे च गोमूत्रयावकाहारजीवने । मासमेकं पुमांस्त्वेष यज्ञभेदे जिघांसतः ॥ ११६१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1161
  • नानार्थार्णवसंक्षेप नियमआज्ञायां च प्रतिज्ञायां व्रतनिश्चययोरपि । निवहस्तु समूह स्याद् वायुस्कन्धान्तरेऽपि च ॥ ११८ ॥ Nānārthārṇavasaṃkṣepa 3.2.118
  • परमानन्दीयनाममाला नियमनियमोऽथावधौ ज्ञाने व्रते निश्चयबन्धयोः । नालिका चुल्हिकारन्ध्रे बिलकालविशेषयोः ॥ २७३ ॥ Paramānandīyanāmamālā 5.18.273
  • शब्दरत्नावली पराकनीलिका स्यात् क्षुद्ररोगनिलीशेफालिकासु च । प्रसेकः स्यात् च्युतौ सेके पराको व्रतखड्गयोः ॥ Śabdaratnāvalī 7.1.96
  • शब्दरत्नावली इष्टअट्टं भक्ते पुंसि शुष्के क्षौमेऽत्यर्थे गृहान्तरे ॥ इष्ट आशंसिते पूज्ये क्रतौ ना प्रेयसि त्रिषु । संस्कारे क्लीबलिङ्गं स्याद् व्रते च क्रतुकर्मणि ॥ Śabdaratnāvalī 7.11.2
  • शब्दरत्नावली संयमनसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
  • शब्दरत्नावली नियमनिगमो वाणिजे वेदे कटे पूर्यां वणिक्पथे । नियमश्च प्रतिज्ञायां मन्त्रणानिश्चयव्रते ॥ Śabdaratnāvalī 7.25.37
  • शब्दरत्नावली वप्रवप्रो ना जतुके न स्त्री क्षेत्रे रेणौ तटे व्रते । व्याघ्रः करञ्जशार्दूलरक्तैरण्डेषु पुंस्ययम् ॥ Śabdaratnāvalī 7.27.43
  • शब्दरत्नाकर वर्णवेणी तु देवताली स्यात् केशबन्धोऽम्बुसंततिः । वर्णो विप्रादिशुक्लाद्योर्व्रते गीतिक्रमे कुथे ॥ १९९८ ॥ Śabdaratnākara 4.1.1998
  • शब्दरत्नाकर नियमनिश्चयाज्ञाप्रतिज्ञासु नियमो यन्त्रणे व्रते । नितम्बः पश्चिमश्रोणिभागेऽद्रिकटकेऽपि च ॥ २११२ ॥ Śabdaratnākara 4.1.2112
  • त्रिकाण्डशेष पराकपर्यस्त्यामपि पल्यङ्कः प्रियको मृगनीपयोः । पुष्पकं कङ्कणेऽपि स्यात्पराको व्रतखड्गयोः ॥ ३१ ॥ Trikāṇḍaśeṣa 3.3.31
  • त्रिकाण्डशेष नियमधर्मोऽहिंसोपमायागोपनिषत्सु धनुष्यपि । कटे पुर्य्याञ्च निगमो नियमो निश्चये वृते ॥ २९८ ॥ Trikāṇḍaśeṣa 3.3.298
  • त्रिकाण्डशेष तपस्तमः शोकेऽप्यथ हिमर्त्तौ ना धर्म्मे व्रते तपः । पद्मे स्वर्णे तामरसं निशा दुर्गा च तामसी ॥ ४४६ ॥ Trikāṇḍaśeṣa 3.3.446
  • वैजयन्ती निष्ठानिष्ठोत्कर्षे व्यवस्थायां नाशेऽन्ते व्रतयज्ञयोः । भित्तिमूले प्रधौ नेमिर्निन्दा कुत्सापवादयोः ॥ २१ ॥ Vaijayantī 6.2.21
  • वैजयन्ती नियमप्रतिज्ञायन्त्रणाज्ञासु नियमो निश्चये व्रते । पतंगः शलभे शालौ मार्जारेऽग्नौ रवौ खगे ॥ ४० ॥ Vaijayantī 7.1.40