कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

खलेशय

khaleśayaपुं · masc.

In 3 kośas: 3 synonym verses.

कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.82 · p. 352
खलेहः खलिशश्चापि नलमीनः खलेशयः ।क्षीरजालोऽतिरक्ताङ्गो नातिदीर्घो न चाल्पकः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.75 · p. 41
सकुलः शकुलोऽपि स्यादन्येऽपि शलिशादयः ।खलेशयस्तु खलिशः कङ्कत्रोटो जलव्यधः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वारिवर्गः Trikāṇḍaśeṣa 1.9.11 · p. 27
शफरः श्वेतकोलः स्यात्खशेटस्तु खलेशयः ।इल्लिशे वारिकर्पूरगाङ्गेयशफराधिपाः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.