All kośas › Trikāṇḍaśeṣa
त्रिकाण्डशेष Trikāṇḍaśeṣa
1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)
प्रथमः काण्डः · वारिवर्गः
इति नरकवर्गः ॥ ९ ॥
पाथोधिसिन्धुमकरालयवारिराशि- गंगाधरेन्दुजनकास्तिमिरूर्मिमाली ।वार्धिर्मितद्रुतिमिकोषमहाशयाश्चक्लीबं च शैलशिबिरं धरणीप्लश्च ॥ १ ॥
1.9.1 · p. 25
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका
पुमान् कचंग वांकः कूलंकषपरंगवौ ।तरन्तो दारदः पेरुर्महीप्राचीरमद्वयोः ॥ २ ॥
1.9.2 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नदीनश्चाथ कमलं नीरं नाराः स्त्रियामिरा ।कं दकं जलमस्थानमगाधेऽथाम्भसांभ्रमः ॥ ३ ॥
1.9.3 · p. 25
अनुष्टुप्
तारूरो वायुगुल्मश्च कललाभः कलकुरः ।पुरोटिः पत्रझङ्कारे दरणिः कूलचुण्डकः ॥ ४ ॥
1.9.4 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ल (wrong syllable)
चुलुको धनजम्बाले दलाढ्ये पंककर्वटः ।तरणो भेलके वारिरथो नौस्तरिकः प्लवः ॥ ५ ॥
1.9.5 · p. 26
अनुष्टुप्
होडस्तरांधुर्वहनः तरण्डो वार्वटः पुमान् ।पादारकः स्यात्पोलिन्दः पत्रबाले तुलाधटः ॥ ६ ॥
1.9.6 · p. 26
अनुष्टुप्
समुद्रकफडिण्डीरजलहसास्तु फेणके ।कैवर्ते जालिकश्छोटी कुपिनी स्यादथ प्लवः ॥ ७ ॥
1.9.7 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
पलवः पञ्जराखेटः कण्टकी तु जलेशयः ।आत्माशी शम्बरो मूकोऽनिमिषो वल्कवानपि ॥ ८ ॥
1.9.8 · p. 26
अनुष्टुप्
मीने वदालः पाठीनो मत्स्यराजस्तु रोहितः ।भालांकश्चाथ कुलिशं कटं काष्टील इत्यपि ॥ ९ ॥
1.9.9 · p. 26
अनुष्टुप्
फलकी स्याच्चित्रफली वाजग्रीवो मदार्मदः ।कवयी क्रकचपृष्ठी कंकत्रोटो जलव्यधः ॥ १० ॥
1.9.10 · p. 26
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 च्चि (wrong syllable); pāda 3, syllable 6 च (wrong syllable)
शफरः श्वेतकोलः स्यात्खशेटस्तु खलेशयः ।इल्लिशे वारिकर्पूरगाङ्गेयशफराधिपाः ॥ ११ ॥
1.9.11 · p. 27
अनुष्टुप्
जलतालोऽप्यथ चलत्पूर्णिमाचन्द्रचञ्चलौ ।जलवृश्चिक इञ्चाके गङ्गाटेयो गलानिलः ॥ १२ ॥
1.9.12 · p. 27
अनुष्टुप्
शालः शकुलगण्डः स्यादन्धाहिः कूर्चिका द्वयोः ।ब्राह्मी तु पङ्कगण्डको लघुगर्गस्त्रिकण्टकः ॥ १३ ॥
1.9.13 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ण्ड (wrong syllable)
तिर्यग्यानः कुलीरः स्यान्मुखास्त्रो हरिलोचनः ।बहिः कुटीचरः पोताधानं तु स्याज्जलाण्डकम् ॥ १४ ॥
1.9.14 · p. 27
अनुष्टुप्
नक्रस्तु वार्भटः स्यादम्बुकिण्टोम्बुकण्टकः ।जलशूकरमायादझषाशनह्रदग्रहाः ॥ १६ ॥
1.9.16 · p. 27
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श (wrong syllable)
जलकूर्मस्त्वम्बुकीशो वसाढ्यः शिशुकश्च सः ।उद्रस्तु जलमार्जारजलाखुनकुलप्लाः ॥ १७ ॥
1.9.17 · p. 27
metre not recognisednearly अनुष्टुप्
मृत्किरा धुर्घुरी वारिकृमिस्तु जलमक्षिका ।पटालुका जलौकाम्बुसर्पिणी वेणिवेधिनी ॥ १८ ॥
1.9.18 · p. 28
अनुष्टुप्
व्यङ्गस्तु नन्दको भेको गूढवर्चाः क्षतालयः ।कोकोजिह्वोऽथ पञ्चाङ्गगुप्ते क्रोडांघ्रिकच्छपौ ॥ १९ ॥
1.9.19 · p. 28
अनुष्टुप्
गडुः किञ्चुलुकोऽथाऽम्बुर्विकिरश्चूडकश्च सः ।चुण्टा चुण्टी च लूताऽथान्धकूपः कर्करान्धुकः ॥ २० ॥
1.9.20 · p. 28
अनुष्टुप्
पल्वलं दीर्घिका वापी यष्टिका मीनगाधिका ।अवघट्टावैटौ तुल्यौ तल्लं विल्लं तलं च तत् ॥ २१ ॥
1.9.21 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
द्विजप्रपालवाले स्यात्केदारः पांशुमर्दनः ।नदी निर्झरिणी रोधोवक्रा सागरगामिनी ॥ २२ ॥
1.9.22 · p. 28
अनुष्टुप्
तलोदा चाम्पिला सिन्धुर्ऋषिकुल्या वहा च सा ।अवगा गान्दिनी गङ्गा हैमवत्युग्रशेखरा ॥ २३ ॥
1.9.23 · p. 28
अनुष्टुप्
धर्मद्रवी सिद्धसिन्धुस्तापी तु यमुना यमी ।रेवा तु पूर्वगंगा स्यान्मुरला तु मुरन्दला ॥ २४ ॥
1.9.24 · p. 28
अनुष्टुप्
स्यादर्द्धगङ्गा कावेरी वाशिष्ठी गोमती समे ।अथ गोदावरी भीमोपला गोला च गौतमी ॥ २५ ॥
1.9.25 · p. 29
अनुष्टुप्
सप्तगोदावरं तत्र कुवलं तूत्पलं कुवम् ।कैरवं गन्धसोमं स्यात्कन्दोटश्च निशाहसः ॥ २६ ॥
1.9.26 · p. 29
अनुष्टुप्
श्रीकरं कृष्णकन्दं च रक्तोत्पलमलिप्रियम् ।लक्ष्मीगृहं कुमुच्चाऽथ शालूकः पङ्कशूरणः ॥ २७ ॥
1.9.27 · p. 29
अनुष्टुप्
प्रश्नी तु कुम्भिका वारिमूली पर्णी खमूलिका ।स्याद्वारिचत्वरोऽथाम्बुतालः सलिलकुन्तलः ॥ २८ ॥
1.9.28 · p. 29
अनुष्टुप्
शैवलो हठपर्णी स्त्री कावारं वारिचामरम् ।पद्मे कवारं पङ्केजं बिसनाभिस्तु पद्मिनी ॥ २९ ॥
1.9.29 · p. 29
अनुष्टुप्
पुटकिन्येवमेवाऽन्याः कुन्दिनीतालिनीमुखाः ।विषण्डं तन्तुलविषे शृङ्गाटो वारिकुब्जकः ॥ ३० ॥
1.9.30 · p. 29
अनुष्टुप्