All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · समुद्रादिप्रकाण्डः (1/2)
समुद्रः सागरः सिन्धुस्तरिषस्तारिषोऽर्णवः ।लौहित्यस्तरणिर्धेनः पारावारो महाशयः ॥ १ ॥
1.14.1 · p. 343
अनुष्टुप्
तरीषो नभसः पेरुरुदन्वान्पृथिवीप्लवः ।गङ्गाधरो महाकच्छो मितद्रुर्दारदश्च सः ॥ २ ॥
1.14.2 · p. 344
अनुष्टुप्
दैत्यदानवशैलानां पर्यायेभ्यो गृहार्थकः ।तिम्यूर्म्यर्थपदान्माली कोशार्थोऽपि पलंकषः ॥ ३ ॥
1.14.3 · p. 344
अनुष्टुप्
जलपर्यायराशिर्धिर्निधिर्नदनदीपतिः ।पारावारोप्यकूपारो महीप्रावरणार्थकः ॥ ४ ॥
1.14.4 · p. 344
अनुष्टुप्
विततश्चन्द्रपर्यायजनको यादसां पतिः ।रत्नाकरोऽपि जलदस्तद्भेदा लवणादयः ॥ ५ ॥
1.14.5 · p. 344
अनुष्टुप्
अपि ते स्युः सुरासर्पिर्दधिक्षीरपयोमयाः ।स्वस्वापिधानपर्यायात्सिन्धुपर्यायवाचकः ॥ ६ ॥
1.14.6 · p. 344
अनुष्टुप्
स्त्रियां तृप्तिरिरापः स्त्री भूम्नि पुंसि रसो द्वयोः ।गौः क्लीबे प्राणदं क्षीरं वाश्चापि सलिलं जलम् ॥ ७ ॥
1.14.7 · p. 344
अनुष्टुप्
कृपीटं कमलं सारं क्षीरं विषमिदं घृतम् ।कबन्धमुदकं पाथः कीलालं पुष्करं सरम् ॥ ८ ॥
1.14.8 · p. 344
अनुष्टुप्
वनं पवित्रममृतं कंवलं कं कुलीनसम् ।पानीयं पिप्पलं पीथं पातालं सर्वतोमुखम् ॥ ९ ॥
1.14.9 · p. 344
अनुष्टुप्
जीवनं भुवनं यादः पावनं क्षणदं दकम् ।अम्ब्वम्भः शंवरं तोयं कोमलं धरुणं सुखम् ॥ १० ॥
1.14.10 · p. 344
अनुष्टुप्
घनपर्यायतः पुष्पं नीरमर्णश्च वारुणम् ।निम्नगं दहनारिः स्यात्सरिलं कर्वुरं मधु ॥ ११ ॥
1.14.11 · p. 345
अनुष्टुप्
दैव्यं सलं विषं यादः पर्यायेभ्यो गृहार्थकम् ।ऋतमापो बन्धकं षण् न ना वारि कमव्ययम् ॥ १२ ॥
1.14.12 · p. 345
अनुष्टुप्
काण्डोऽस्त्रियां घनरसो नरा नारा अपि स्त्रियाम् ।भूम्नि गावः स्त्रियां भूम्नि गौः स्त्रियामपि सर्वतः ॥ १३ ॥
1.14.13 · p. 345
अनुष्टुप्
इरा जडं जीवनीयं चलोदे संवरं कुशम् ।शिवं शवं शरं क्लीबे वा स्त्रियां स्यादुडूरुडुः ॥ १४ ॥
1.14.14 · p. 345
अनुष्टुप्
सरः पुंस्यथ सामुद्रं मृगादिवृष्टिजे जले ।आश्विने जलदैर्मुक्तमम्बु स्वातिविशाखयोः ॥ १५ ॥
1.14.15 · p. 345
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
तत्र गाङ्गं दिव्यमपि धारं स्यादन्तरिक्षजम् ।पार्थिवं पृथिवीजातं तत्कौपं च खनित्रिमम् ॥ १६ ॥
1.14.16 · p. 345
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दि (wrong syllable)
औद्भिदं तु झरोद्भूतं स्वयं जातमथ त्रिषु ।स्यादाप्यमम्मयाद्यूह्यं वीचिर्वीची स्त्रियां पुमान् ॥ १७ ॥
1.14.17 · p. 345
अनुष्टुप्
ऊर्मिर्द्वयोस्तरङ्गो ना भङ्गो भङ्गि स्त्रियामियम् ।भङ्गी च लहरी वीचा लहरिश्चोर्म्यपि स्त्रियाम् ॥ १८ ॥
1.14.18 · p. 345
अनुष्टुप्
त्रिष्वर्गलं महत्सु द्वौ कल्लोलोल्लकावुभौ ।पुटे भेदो वङ्कचक्रे भ्रमश्च जलनिर्गमः ॥ १९ ॥
1.14.19 · p. 345
metre not recognisednearly अनुष्टुप्
तटं त्रिषु प्रतीरं च तीरं रोधश्च रोधसम् ।स्यादथास्त्री परं पारं पारेपारमवारकम् ॥ २० ॥
1.14.20 · p. 346
अनुष्टुप्
पारावारे परार्वाची तीरे पात्रं तदन्तरम् ।द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ २१ ॥
1.14.21 · p. 346
अनुष्टुप्
अम्मुक्तमस्त्री पुलिनं सैकतं सिकतामयम् ।मर्यादा तटभूमिः स्त्री वेला स्याद्वृद्धिरम्भसः ॥ २२ ॥
1.14.22 · p. 346
अनुष्टुप्
डिण्डीरोब्धिकफः फेनो वुद्वुदस्थासकौ समौ ।निषद्वरोऽस्त्री जम्बालं तस्मिंस्तु कलिलो घने ॥ २३ ॥
1.14.23 · p. 346
अनुष्टुप्
अपि तु स्यात्पत्रयुक्ते पङ्कः कर्वटिकोऽस्त्रियाम् ।दमः कर्दमशादौ च कूपकास्तु विदारकाः ॥ २४ ॥
1.14.24 · p. 346
अनुष्टुप्
परिवाहः परीवाहो जलोच्छ्वासेऽथ निम्नके ।गभीरमतलस्पर्शं गम्भारं चाप्यमी त्रिषु ॥ २५ ॥
1.14.25 · p. 346
अनुष्टुप्
स्थाघमस्थाघं चागाधं मस्तारं त्रिष्वमूनि च ।तद्वस्तुन्यप्यथोत्तानमगाधार्थविपर्यये ॥ २६ ॥
1.14.26 · p. 346
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घं (wrong syllable)
अनच्छं त्वप्रसन्नं स्यात्कच्चरं मलिनं पुनः ।किट्टमं पुष्पितं सेव्यं शालूकं किट्टिमं चलम् ॥ २७ ॥
1.14.27 · p. 346
अनुष्टुप्
दोहलं कलुषं चान्धमाविलं तद्विपर्यये ।निर्मलं च त्रिषूत्तानात्पुंस्यगाधजले ह्रदः ॥ २८ ॥
1.14.28 · p. 346
अनुष्टुप्
स चाप्यप्रवहार्थः स्याद् भिद्यउद्ध्यो द्रहोऽपि च ।वहः सरस्वान्प्रवहः प्रवाहो रोध इत्यपि ॥ २९ ॥
1.14.29 · p. 347
अनुष्टुप्
तरङ्गिणी सागरगा तटिनी चञ्चला धुनी ।स्रोतस्विनी द्वीपवती तलोदा ह्रदिनी नदी ॥ ३० ॥
1.14.30 · p. 347
अनुष्टुप्
स्रवन्ती निम्नगा स्रोत्या सिन्धुः सस्नुत्सरस्वती ।ऋषिकुल्यापगा माता धेना कूलंकषा शिफा ॥ ३१ ॥
1.14.31 · p. 347
अनुष्टुप्
अपगार्णा निर्झरिणी रोधश्चक्रा च पार्वती ।रोधस्वती समुद्रस्त्री ह्रादिनी च वहा धुनिः ॥ ३२ ॥
1.14.32 · p. 347
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
हिरण्यवर्णा कर्षूः स्यात्सरिज्जम्बालिनीत्यपि ।इरावती रोधवक्रा रुजानाथ त्रिमार्गगा ॥ ३३ ॥
1.14.33 · p. 347
अनुष्टुप्
देवनद्याश्च पर्याया शिवपर्यायशेखरा ।स्यात्पदी विष्णुपर्यायात्त्रिस्रोता भीष्मसूस्त्रियाम् ॥ ३४ ॥
1.14.34 · p. 347
अनुष्टुप्
सिद्धनद्याश्च पर्याया धर्मद्रव्यपि गान्दिनी ।गङ्गा त्रिपथगाऽपि स्यात्सुरालम्बगमा पुनः ॥ ३५ ॥
1.14.35 · p. 347
अनुष्टुप्
हिमाद्रिपर्यायसुता स्वर्गपर्यायवाप्यपि ।जह्नोर्भगीरथस्यापि प्रजार्था च कुमारसूः ॥ ३६ ॥
1.14.36 · p. 347
अनुष्टुप्
यमुनायम्यर्कसुता कालिन्दी च यमस्वसा ।एवं तापी तु तपनी शनिपर्यायतोऽनुजा ॥ ३७ ॥
1.14.37 · p. 347
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म्य (wrong syllable)
रेवा तु नर्मदा सोमोद्भवा स्यान्मेकलाद्रिजा ।स्यात्पूर्वगङ्गापर्याया मुरला च मुरंदला ॥ ३८ ॥
1.14.38 · p. 348
अनुष्टुप्
स्यादर्द्धगङ्गा काबेरी वासिष्ठी गोमती पुनः ।गोदा गोदावरी भीमोत्पलाऽपि त्र्यम्बकोद्भवा ॥ ३९ ॥
1.14.39 · p. 348
अनुष्टुप्
गोला ब्रह्माण्डसम्भूता गौतम्यथ च बाहुदा ।करतोया सदानीरा सैव स्यात्सैतवाहिनी ॥ ४० ॥
1.14.40 · p. 348
अनुष्टुप्
सैतवाहन्यथ शताद्द्रुर्द्रूरपि शितादमू ।द्रिद्री शुतु परा एताः स्त्रियामथ विपाट् स्त्रियाम् ॥ ४१ ॥
1.14.41 · p. 348
अनुष्टुप्
विपाशाथ हिरण्यात्स्याद्बाहुर्वाहश्च शोणकः ।काञ्चनाक्षी विशाला च चक्षुः सिन्धुः सरस्वती ॥ ४२ ॥
1.14.42 · p. 348
अनुष्टुप्
वेदाग्रजा ब्रह्मसुता प्लक्षजाता च वाक्प्रदा ।चन्द्रभागा चान्द्रभागी चन्द्रिका चान्द्रभागगा ॥ ४३ ॥
1.14.43 · p. 348
अनुष्टुप्
रथेष्ठा च रथस्था च सरयुः सरयूरपि ।अमोघातनये ब्रह्मपुत्रो लोहित्यलोहितौ ॥ ४४ ॥
1.14.44 · p. 348
अनुष्टुप्
पयोष्ण्यजा भारती स्याद्विशाला मुकुलाप्यथ ।ओघनादा सुवेषा च सुप्रभा मानसी ह्रदा ॥ ४५ ॥
1.14.45 · p. 348
अनुष्टुप्
अच्छोदा च पुनः शिप्रा गण्डकी विमलोदका ।देवव्रता तथैवान्या वितस्तेरावती शिवा ॥ ४६ ॥
1.14.46 · p. 348
अनुष्टुप्
विभागा देविका रेभा धनपापा च मद्रिणी ।कौशिकीक्षुमती केशा देवमाता कुमुद्वती ॥ ४७ ॥
1.14.47 · p. 349
अनुष्टुप्
देवस्मृतिश्च पार्णाशा पीता चर्मण्वती कषूः ।कुन्त्यवन्ती वेणुमती विदर्भा सुरसा कुहूः ॥ ४८ ॥
1.14.48 · p. 349
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
पलाशिनी नन्दना च धूमा मन्दाकिनी दया ।चित्रोपला चित्रवर्णा सिन्धु रेखारिका तथा ॥ ४९ ॥
1.14.49 · p. 349
अनुष्टुप्
दशार्णा पिप्पली श्येनी मञ्जुलावा पिशाचिका ।कुलामती शुक्तिमती सिनीवाली तथाऽपरा ॥ ५० ॥
1.14.50 · p. 349
अनुष्टुप्
वीणा वैतरणी भीमा निर्विन्ध्या तृपिका सिता ।कृष्णवेणा कृष्णगङ्गा कृष्णा कृष्णसमुद्भवा ॥ ५१ ॥
1.14.51 · p. 349
अनुष्टुप्
भयंकरा कृष्णवर्णाथापरा निषधावती ।तुङ्गभद्रा भीमरथी घट्टगा सा मलापहा ॥ ५२ ॥
1.14.52 · p. 349
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 भी (wrong syllable)
कृतमाला ताम्रपर्णी पुष्यभद्रोत्पलावती ।क्षमा जम्बूर्वेत्रवती सुभद्रा मन्दवाहिनी ॥ ५३ ॥
1.14.53 · p. 349
अनुष्टुप्
इत्याद्याः स्युः पुनर्नद्यो घर्घराद्याः परे नदाः ।सारिणिः कृत्रिमा कुल्या सरित्स्यादथ च त्रिषु ॥ ५४ ॥
1.14.54 · p. 349
अनुष्टुप्
प्रणाली जलपर्यायपदवी सिन्धुसंगमे ।संभेदोऽथ स्त्रियां भूम्नि सिकता अपि वालुकाः ॥ ५५ ॥
1.14.55 · p. 349
अनुष्टुप्
पृषन्ति विन्दु पृषतः पुमांसो विप्रुषः स्त्रियाम् ।तीर्थोऽस्त्रियां पुंसि घट्टः स्नानपानावतारके ॥ ५६ ॥
1.14.56 · p. 350
अनुष्टुप्
पुंसि पानीयवृद्धिः स्यात्प्लवः पूरोऽपि चाप्यथ ।देविकासरयूद्भूते त्रिषु दाबिकसारवौ ॥ ५७ ॥
1.14.57 · p. 350
अनुष्टुप्
नावा तार्यं तु नाव्यं स्यान्नौतार्ये वस्तुनि त्रिषु ।स्त्रियां पुंसि तरण्डा तु तरणी तरणिस्तरिः ॥ ५८ ॥
1.14.58 · p. 350
अनुष्टुप्
द्वयोर्वारिरथः पुंसि तरान्धुस्तरणस्तरी ।पोतो नौर्वार्वटः क्लीबे वहिनं वहनं पुनः ॥ ५९ ॥
1.14.59 · p. 350
अनुष्टुप्
तरीः प्लवो भिलो नौका न स्त्रियामुडुपोलुपौ ।आकर्षोऽपि च कर्षुः स्यात्पुनः क्लीबे सुखायनम् ॥ ६० ॥
1.14.60 · p. 350
अनुष्टुप्
तुलाधटः पत्रवालो द्वयोः पादालकोऽपि च ।पोलिन्दस्त्वन्तरादण्डो मङ्गोऽस्त्री मङ्गिनी स्त्रियाम् ॥ ६१ ॥
1.14.61 · p. 350
अनुष्टुप्
नौकादण्डः क्षेपणी स्त्री क्षेपणिः क्षिपणिः स्त्रियाम् ।क्षिपण्यपि तथैवस्यादरित्रे केनिपातनम् ॥ ६२ ॥
1.14.62 · p. 350
अनुष्टुप्
कोटिपात्रं स्त्र्यभ्रिरभ्री काष्ठकुद्दालकः पुमान् ।सेचनं सेकपात्रं स्याद् गुणवृक्षस्तु कूपकः ॥ ६३ ॥
1.14.63 · p. 350
अनुष्टुप्
गुणः पुंसि स्त्रियां रज्जुर्वरत्रा रश्मिरित्यपि ।वातप्रतिच्छदो वाताधारो वातमहापटः ॥ ६४ ॥
1.14.64 · p. 350
अनुष्टुप्
सांयात्रिकः पोतवणिग्यानपात्रं वहित्रकम् ।वोहित्थं वहनं पोतः पोतवाहो नियामकः ॥ ६५ ॥
1.14.65 · p. 351
अनुष्टुप्
निर्यामकः क्षेपकस्तु कर्णधारोऽपि नाविकः ।पोतधारः पोतधरो यानादौ नौः समुद्रिया ॥ ६६ ॥
1.14.66 · p. 351
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पो (wrong syllable)
सामुद्रिको मनुष्यः स्यात्सामुद्रं तद्भवे त्रिषु ।आतरस्तरपण्यं स्यादातारस्तरणं तरः ॥ ६७ ॥
1.14.67 · p. 351
अनुष्टुप्
संतारः संतरस्तारोऽप्यथ दुस्तारदुस्तरौ ।काष्ठाम्बुवाहिनी द्रोणी द्रोणिर्द्रुणिरपि द्रुणी ॥ ६८ ॥
1.14.68 · p. 351
अनुष्टुप्
क्लीबेऽर्द्धनावं नौकार्द्धेऽतीतनौकेऽतिनु त्रिषु ।मत्स्यपर्यायजीव्यर्थः कैवर्त्तो दाशधीवरौ ॥ ६९ ॥
1.14.69 · p. 351
अनुष्टुप्
दासेरकोऽथ जालं स्यादानायः पुंसि कोटिका ।शणसूत्रं पवित्रं स्यात् क्लीबे मत्स्यादिबन्धनम् ॥ ७० ॥
1.14.70 · p. 351
अनुष्टुप्
कुपिनी च स्त्रियां क्लीबे वडिशं मत्स्यवेधनम् ।वडिशावलिशे द्वे स्त्री वलिशं विलिशं पुनः ॥ ७१ ॥
1.14.71 · p. 351
अनुष्टुप्
मत्स्याधानी कुवेणी स्यात्कुवेणिः कुविणाऽपि च ।एषां तु पञ्जराखेटे पलावश्च प्लवोऽपि च ॥ ७२ ॥
1.14.72 · p. 351
अनुष्टुप्
पृथुरोमा झषो मीन आत्माश्यनिमिषोऽण्डजः ।कण्टकी शम्बरो मूको वल्कवान् शकली द्वयोः ॥ ७३ ॥
1.14.73 · p. 351
अनुष्टुप्
विसारो मत्सो मत्स्योऽपि वैसारिणजलेशयौ ।मछः शल्क्यथ तद्भेदा एककण्टकमञ्जरी ॥ ७४ ॥
1.14.74 · p. 352
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सो (wrong syllable)
सहस्रदंष्ट्रः पाठीनोऽप्यवदालक इत्यपि ।महामत्स्यो रूप्यवर्णो दीर्घः स्यादथ लोहितः ॥ ७५ ॥
1.14.75 · p. 352
अनुष्टुप्
कृष्णशल्की श्वेतकुक्षिस्तालाङ्गो मत्स्यराडपि ।वृत्तवज्रोऽप्यथ पुनर्गर्गरः पीतवर्णकः ॥ ७६ ॥
1.14.76 · p. 352
अनुष्टुप्
पिच्छलाङ्गः पृष्ठरेखाबहलः स च शल्ककः ।अथ भीरुः पृष्ठगलपुच्छेषु द्विद्विपक्षकः ॥ ७७ ॥
1.14.77 · p. 352
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पृ (wrong syllable)
अशल्को वृत्ततुण्डोऽथ पालको वृत्तवक्त्रकः ।नातिस्थूलो विशल्काङ्गः श्मश्रुलो दन्तवानपि ॥ ७८ ॥
1.14.78 · p. 352
अनुष्टुप्
सन्ध्ययोरात्रिशेषे च प्रचारी चाश्ववर्वरः ।कुक्षौ पृष्ठे च कण्टालोऽप्यथान्यश्छगलः पुनः ॥ ७९ ॥
1.14.79 · p. 352
अनुष्टुप्
गले द्विकण्टकः श्वेतः पृष्ठेकण्टः सुविग्रहः ।समानदीर्घवृत्तः स्यान्निःशल्कोऽप्यथ रोहितः ॥ ८० ॥
1.14.80 · p. 352
अनुष्टुप्
रक्तमत्स्यो लोहितः स्याद्रोहिः सालो गडो गलः ।छालोऽथ नडजे मत्स्ये चिलिचीमश्चिलीचिमः ॥ ८१ ॥
1.14.81 · p. 352
अनुष्टुप्
खलेहः खलिशश्चापि नलमीनः खलेशयः ।क्षीरजालोऽतिरक्ताङ्गो नातिदीर्घो न चाल्पकः ॥ ८२ ॥
1.14.82 · p. 352
अनुष्टुप्
नातिस्थूलः स गोमेदोऽप्यथ स्यान्महिषः पुनः ।स्थूलाङ्गो महिषाकारः स्थूलशल्कः स तालुनि ॥ ८३ ॥
1.14.83 · p. 353
अनुष्टुप्
वितस्तिमात्रः स्वल्पाङ्गः स्थूलशल्कस्तथापरः ।कर्णवेशोऽतिकृष्णाङ्गो वृत्ताल्पस्थूलचर्म्यपि ॥ ८४ ॥
1.14.84 · p. 353
अनुष्टुप्
चन्द्रिका सर्पतुल्याथ तिमिर्योजनविस्तरः ।तिमिंगिलो महामीनस्तिमिंगिलगिलस्तु सः ॥ ८५ ॥
1.14.85 · p. 353
अनुष्टुप्
तद्गिलश्चाथ कुलिशः कण्टकाष्ठील इत्यपि ।वज्राभश्चाथ राजीवः कृशो दीर्घाकृतिश्च सः ॥ ८६ ॥
1.14.86 · p. 353
अनुष्टुप्
सस्याजीवस्तु रेखाङ्कः पाटलः पाटलानिभः ।निरुलो जलपीने स्यात्सुरुलो लोष्ठिताङ्गके ॥ ८७ ॥
1.14.87 · p. 353
अनुष्टुप्
स्यान्नन्दी वारला सैव समुद्राद्भङ्गिकाऽप्यथ ।सकण्टकश्चन्द्रिकः स्यात्पार्श्वे वर्त्तुल इत्यथ ॥ ८८ ॥
1.14.88 · p. 353
अनुष्टुप्
फलकी स्याच्चित्रफलो वागुसो वागुजारतः ।कुवरी कङ्कपृष्ठी स्याद्वाजग्रीवो मदार्मदः ॥ ८९ ॥
1.14.89 · p. 353
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चि (wrong syllable)
स्याद्द्वयोः शकरी प्रोष्ठी श्वेतकालो जलव्यधे ।कङ्कत्रोटोऽथ झल्लीशो गाङ्गेयः शवराधिपः ॥ ९० ॥
1.14.90 · p. 353
अनुष्टुप्
स चलत्पूर्णिमा चाथ गङ्गाटेयो जलानिलः ।जलवृश्चिक इञ्चाकाऽप्यथ स्याल्लघुगर्गरः ॥ ९२ ॥
1.14.92 · p. 354
अनुष्टुप्
त्रिकण्टकोऽथ शालः स्याद् गन्धाहिः कूचिका द्वयोः ।स स्याच्छकुलगण्डोऽथ ब्राह्मी चम्पकपादुकः ॥ ९३ ॥
1.14.93 · p. 354
अनुष्टुप्
पुंस्त्रियोर्मद्गुरः शृङ्गी दुर्नामा दीर्घकोश्यपि ।उलुप्युलूपी चुलुकी चुलुम्पी चुलपीत्यपि ॥ ९४ ॥
1.14.94 · p. 354
अनुष्टुप्
स तु राजीवसंज्ञः स्याद्यस्त्रिरेखासमन्वितः ।शिलीन्ध्रः कचघो रामो दण्डारिः पाकमत्स्यकः ॥ ९५ ॥
1.14.95 · p. 354
अनुष्टुप्
संकोचिका पक्षिमत्स्यो विषपुच्छोऽप्यमीनरः ।जात्या मत्स्या द्विधा ज्ञेयाश्चर्मजाः शल्कजा इति ॥ ९६ ॥
1.14.96 · p. 354
अनुष्टुप्
प्रत्येकं ते द्विधा प्रोक्ताः स्थूलसूक्ष्मप्रभेदतः ।द्रुमचर्मपिनद्धाङ्गाश्चर्मजाः शल्कवर्जिताः ॥ ९७ ॥
1.14.97 · p. 354
अनुष्टुप्
शल्कशुक्तिपिनद्धा ये शल्कजास्ते प्रकीर्त्तिताः ।केचित्समुद्रसंभूताः केचिन्नद्युद्भवा इति ॥ ९८ ॥
1.14.98 · p. 354
अनुष्टुप्
सारश्च शृङ्गसारश्च वञ्चिलो वालकस्तथा ।कण्टकारः संकुचकश्चर्मजाः सागरोद्भवाः ॥ ९९ ॥
1.14.99 · p. 354
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
कावाकः खिरिडिश्चैव पाठीनः सिंहतुण्डकः ।एते मत्स्या महाकायाश्चर्मजा निम्नगोद्भवाः ॥ १०० ॥
1.14.100 · p. 354
अनुष्टुप्
पाटलः पिच्छकस्त्वेकस्तथान्यो दन्तपाटलः ।मध्यकायाविमौ मत्स्यौ नदीजौ चर्मसम्भवौ ॥ १०१ ॥
1.14.101 · p. 355
अनुष्टुप्
घाघेरो गोजलश्चैव निद्रुवश्च तथाऽपरः ।मत्स्यः कटरथश्चेति स्वल्पकाया नदीभवाः ॥ १०२ ॥
1.14.102 · p. 355
अनुष्टुप्
पडिमानो महाकायः शल्कजः सागरोद्भवः ।पल्लाकस्तोमकश्चेति स्वल्पकायौ समुद्रजौ ॥ १०३ ॥
1.14.103 · p. 355
अनुष्टुप्
महाशीलः कल्हवश्च ताडको बडिशस्तथा ।परगिश्च महाकायाः शल्कजाः सरिदुद्भवाः ॥ १०४ ॥
1.14.104 · p. 355
अनुष्टुप्
रोहितः स्वर्णमीनश्च तथा खण्डलियोपरः ।मध्यकायाः सशल्कास्ते बलवन्तो नदीचराः ॥ १०५ ॥
1.14.105 · p. 355
अनुष्टुप्
मरलिस्तुम्बरोर्वौचशल्कजा मध्यविग्रहाः ।कोलत्थश्च महानद्याः संगतस्य महीभृतः ॥ १०६ ॥
1.14.106 · p. 355
अनुष्टुप्
षट्सप्तयोजनं यावन्नदीमायान्ति सागरात् ।नद्यां कर्दमहीनायां सशिलायां भवन्ति ते ॥ १०७ ॥
1.14.107 · p. 355
अनुष्टुप्
कोवाकाद्या महाकायाः सशल्का मत्स्यजातयः ।शिलासंकटके स्थाने गम्भीरे करकादयः ॥ १०८ ॥
1.14.108 · p. 355
अनुष्टुप्
वालुका बहुले तोये गम्भीरे रोहितादयः ।सपङ्के च सुविस्तीर्णे प्रवाहरहिते ह्रदे ॥ १०९ ॥
1.14.109 · p. 355
अनुष्टुप्
पाठीनप्रमुखा मत्स्या निवसन्ति सकच्छपाः ।पाषाणप्रान्तविवरे नाभिदघ्नोदके तथा ॥ ११० ॥
1.14.110 · p. 356
अनुष्टुप्
घाघरस्तुवरो वामी निवसन्ति निजेच्छया ।नागस्तन्तु स बध्नाति प्राणिनं जलमध्यगम् ॥ १११ ॥
1.14.111 · p. 356
अनुष्टुप्
मत्स्याः स्त्रीजातयः सर्वे गर्जद्गर्भा हि ते स्मृताः ।सर्वेषामुदरेऽण्डानां संघातो दृश्यते यतः ॥ ११२ ॥
1.14.112 · p. 356
अनुष्टुप्
शिशुकस्तु वसाढ्यः स्याज्जलात्सूकरमर्कटौ ।शिशुमारोऽप्यथ पुनर्जलौका तु जलोरगी ॥ ११३ ॥
1.14.113 · p. 356
अनुष्टुप्
जलोका जालिका वेणी जलालोका जलाटनी ।जलौकसः स्त्रियां भूम्नि सैवोक्ता जलजन्तुका ॥ ११४ ॥
1.14.114 · p. 356
अनुष्टुप्
जलायुका जलूकाथ शल्कं वल्कं च वल्कलम् ।मत्स्यस्य शकलेमी स्युरित्यपादा जलेचराः ॥ ११५ ॥
1.14.115 · p. 356
अनुष्टुप्
शिशुमारो महाङ्गः स्यात्स्वल्पाङ्गश्चुलकी च सा ।नक्रस्त्वम्बुकिराटः स्यात्स च वाडवहारकः ॥ ११६ ॥
1.14.116 · p. 356
अनुष्टुप्
अम्बुनः कण्टकभटौ वज्राकारशरीर्यपि ।एतस्य भेदे कुम्भीरो मकरस्तु झषाशना ॥ ११७ ॥
1.14.117 · p. 356
अनुष्टुप्
ह्रदग्रहोऽसिदंष्ट्रः स्यान्मरोलिर्जलरूपकः ।जलात्प्लवाखुनकुलविडालशुनका अपि ॥ ११८ ॥
1.14.118 · p. 356
अनुष्टुप्
कच्छपः कमठः कूर्मः क्रोडाङ्घ्रिः पञ्चगुप्तकः ।मण्डूको दर्दुरो भेको वर्षाभूर्दर्दुरः प्लवः ॥ ११९ ॥
1.14.119 · p. 357
अनुष्टुप्
वर्षानन्दो गाढवर्चाः शालूरः कोक इत्यपि ।प्लवंगमश्च शालूरः सालुश्चापि प्रवंगमः ॥ १२० ॥
1.14.120 · p. 357
अनुष्टुप्