गाङ्गेय
gāṅgeyaक्ली · neut.In 18 kośas: 25 synonym verses, 9 as a nānārtha head word, 2 as a meaning of another word.
स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकंखर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्णं पुनः ।स्वर्णं हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनंकल्याणं कनकं महारजनरैगाङ्गेयरुक्माण्यपि ॥ १०४३ ॥कलधौतलोहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे ।तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि ॥ १०४४ ॥जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् ।
metre not recognised
रूप्यक्लीकलधौतक्लीतारक्लीरजतक्लीश्वेतक्लीदुर्वर्णकक्लीखर्जूरक्लीहिमांशुक्लीहंसक्लीकुमुदक्लीसुवर्णक्लीस्वर्णक्लीहेमन्क्लीहिरण्यक्लीहाटकक्लीवसुक्लीअष्टापदक्लीकाञ्चनक्लीकल्याणक्लीकनकक्लीमहारजनक्लीरैपुंगाङ्गेयक्लीरुक्मक्लीलोहोत्तमक्लीवह्निबीजक्लीगारुडक्लीगैरिकक्लीजातरूपक्लीतपनीयक्लीचामीकरक्लीचन्द्रक्लीभर्मन्क्लीअर्जुनक्लीनिष्कक्लीकार्तस्वरक्लीकर्बुरक्लीजाम्बूनदक्लीशातकुम्भक्लीभूरिक्लीभूत्तमक्ली
genderक्लीneut.
स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम् ।तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम् ॥ ९४ ॥चामीकरं जातरूपं महारजतकाञ्चने ।रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
गाङ्गेयो ब्रह्मचारी च गुहो वर्हिणवाहनः ।महासेनो महातेजाः शरजन्मा च कथ्यते ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
हेम स्वर्णं जातरूपं सुवर्णं,भर्मं रुक्मं हाटकं शातकुम्भम् ।गाङ्गेयं स्याद्गैरिकं भूरि चन्द्रं,राः कल्याणं निष्कमष्टापदं च ॥ १७३ ॥
शालिनी
genderक्लीneut.
गङ्गापर्यायपुत्रार्थो गाङ्गेयो गाङ्ग इत्यपि ।गाङ्गायनिः शान्तनवो भीष्मो देवव्रतोपि च ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
काञ्चनं हिरणं भर्म गाङ्गेयं शतकुम्भजम् ।तपनीयं शातकौम्भमभ्रं कर्बूरमित्यपि ॥ ५३७ ॥
अनुष्टुप्
genderक्लीneut.
स्याद्द्वयोः शकरी प्रोष्ठी श्वेतकालो जलव्यधे ।कङ्कत्रोटोऽथ झल्लीशो गाङ्गेयः शवराधिपः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
महातेजा ब्रह्मचारी गाङ्गेयः क्रौञ्चदारणः ।सैनापत्यं तु तद्भावे [स्कान्दः] स्कन्दसमेऽन्यवत् ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
कार्तस्वरं शातकुम्भं भूत्तमं भूषणोत्तमम् ।गारुडं गैरिकं पारग्गाङ्गेयं पुरटार्जुने ॥ ५० ॥
अनुष्टुप्
genderक्लीneut.
भवेदुत्पलगन्धिश्च सैरन्ध्री नित्ययौवना ।भीष्मः शांतनवो गाङ्गो गाङ्गेयश्च पितामहः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
मुस्तायां भद्रको भद्रमुस्ता राजकशेरुकः ।गुन्द्री वरोहो गाङ्गेयः कुरुविन्दोऽम्बुदाह्वया ॥ ३८१ ॥
अनुष्टुप्
genderपुंmasc.
कार्तस्वरं जातरूपं गाङ्गेयं भूरिभर्मणी ।स्वर्णं चन्द्रो हेमशातकुम्भे रजतभूत्तमे ॥ ३२४ ॥
अनुष्टुप्
genderक्लीneut.
कनके तपनीयं स्याद्गाङ्गेयं भर्म हेम च ।कर्बुरं जातरूपं च रुक्मं कार्तस्वरं तथा ॥ ५४० ॥
अनुष्टुप्
genderक्लीneut.
सुवर्णं कनकं स्वर्णं हिरण्यं हेम काञ्चनम् ।चामीकरं शातकौम्भं गाङ्गेयं भर्म हाटकम् ॥ १७२ ॥
अनुष्टुप्
genderक्लीneut.
तारकारिः महातेजाः कुमारः करवीरकः ।गाङ्गेयो बालचर्यश्च वैजयन्तो दिवाकरः ॥ २६६ ॥
अनुष्टुप्
genderपुंmasc.
कनकं काञ्चनं कार्त्तस्वरं चामीकरं तथा ।कल्याणं कर्णिकारच्छायं गाङ्गेयञ्च गैरिकम् ॥ १८०६ ॥
अनुष्टुप्
genderक्लीneut.
इलोशो राजशफरो वारिकर्फुर इत्यपि ।इल्लीशो जलव्यापी स्याद् गाङ्गेयः शफराधिपः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल (wrong syllable)
genderपुंmasc.
शान्तनुः स्यान्महाभीमः प्रतीपः प्रतिपोऽपि च ।अथ भीष्मः शान्तनवो गाङ्गेयो गान्दिनीसुतः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
genderपुंmasc.
अश्मजातौ च मुक्तादौ क्लीबे रत्नं मणिर्द्वयोः ।सुवर्णं काञ्चनं हेम हिरण्यं स्वर्णहाटकम् ।गाङ्गेयं कनकं भर्म शातकुम्भञ्च कर्वुरम् ॥
अनुष्टुप्
genderक्लीneut.
चामुण्डा चण्डमुण्डा च चर्च्चा चर्च्चिः सचर्चिका ।स्कन्दे गाङ्गायनिर्गाङ्गो गाङ्गेयो भीष्मकेऽप्यमी ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
बाहुलेयगुहकुक्कुटध्वजस्वामिशक्तिधरतारकारयः ।षाण्मातुरमहासेनगाङ्गेयक्रौञ्चभेदनाः ॥ ६३ ॥
रथोद्धताtwo metres in one verse
genderपुंmasc.
द्युम्नं हिरण्यमथ हाटकशातकुम्भ-गाङ्गेयचन्द्रकलधौतशिलोद्भवानि ।कल्याणरुक्मतपनीयहिरण्यहेमकार्तस्वरं कनककाञ्चनकर्बुराणि ॥ १४० ॥
वसन्ततिलका
genderक्लीneut.
शफरः श्वेतकोलः स्यात्खशेटस्तु खलेशयः ।इल्लिशे वारिकर्पूरगाङ्गेयशफराधिपाः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
विचित्रवीर्या चित्राङ्गदसूर्योजनगन्धिका ।व्यासमाता सत्यवती गाङ्गेयो गान्दिनीसुतः ॥ ११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
genderपुंmasc.
स्वामी गाङ्गेयगौरेयब्रह्मचारिमहौजसः ।षाण्मातुरः कार्त्तिकेयो ब्रह्मगर्भः षडाननः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
शैलेयं लवणेऽम्बुधेश्च मुशलीक[न्दे]तथा शैलजेभृङ्गे पुंस्यथ जाह्नवीतनुजनौ गाङ्गेय उक्तः पुमान् ।मुस्तायां कनके कशेरुणि भवेदन्त्येऽथ चामीकरेचाम्पेयं नरि नागकेसरगतं स्याच्चम्पके केसरे ॥ ६६ ॥
शार्दूलविक्रीडितम्
औचित्यं न द्वयोः साम्ये उचितत्वे च सत्यके ।कषायः पुंसि निर्यासे रसभेदे विलेपने ॥अङ्गरागेऽप्यस्त्रियान्तु सुरभौ लोहिते त्रिषु ।कुलायः पक्षिवासायां स्थानमात्रे च पुंस्ययम् ॥क्षेत्रियेऽसाध्यरोगे स्यात्परदाररते पुमान् ।क्लीबं परचिकित्सायां तया क्षेत्रोद्भवे तृणे ॥गाङ्गेयः पुंसि भीष्मे स्यात्क्लीबं स्वर्गे कशेरुके ।चक्षुष्यं पुण्डरीकाक्षाख्यपादये केतकेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गाङ्गेय as a meaning in nānārtha verses
- शब्दरत्नावली भीष्मभीष्मो घोरतरेऽपि स्याद् गाङ्गेयेऽपि च पुंस्ययम् । भीमो घोरे शिवे मध्यपाण्डवे चाम्लवेतसे ॥ अथ भूमिः स्थानमात्रे पृथिव्यामपि च स्त्रियाम् । भौमस्त्रिषु भूमिभवे पुंसि स्यान्नरके कुजे ॥ यमः शत्रौ च शमने काके ना यमजेऽन्यवत् । ना देहसाधनापेक्षनित्यकर्मणि संयमे ॥ यामस्तु प्रहरे पुंसि संयमावसयोरपि (?) ॥ Śabdaratnāvalī 7.25.16
- त्रिकाण्डशेष भीष्मगाङ्गेयभीषणौ भीष्मौ भीमः शम्भौ च पाण्डवे । नरके मङ्गले भौमः स्वरे मध्ये च मध्यमः ॥ ३०१ ॥ Trikāṇḍaśeṣa 3.3.301