All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
स्वरादिकाण्डः · भूमिवर्गप्रकाशः (1/2)
इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां स्वर्गवर्गप्रकाशः ॥
रन्ध्रं निर्व्यथनं श्वभ्रं च्छिद्रं रोकं दरो बिलम् ।विवरं कुहरञ्चैव शुषिरञ्च वपाशुषिः ॥
2.2.3 · p. 37
अनुष्टुप्
गर्तो वटः स्यादवटिस्तथा चावटुरित्यपि ।शुषिरन्तु सरन्ध्रे स्यात् त्रिष्विदं क्लीब इत्यपि ॥
2.2.4 · p. 37
अनुष्टुप्
अस्त्रियामन्धकारः स्यात्तिमिरन्तु तमस्तमम् ।नीलपङ्कं निशाचर्म तमिस्रञ्च रजो रजम् ॥
2.2.5 · p. 37
अनुष्टुप्
दिनान्तकं वियद्भूतिरन्धकं ध्वान्तमित्यपि ।घनध्वान्तेऽन्धतमसं क्षीणेऽवतमसं भवेत् ॥
2.2.6 · p. 37
अनुष्टुप्
स्यात् सर्वव्यापिनि ध्वान्ते ज्ञेयं सन्तमसं बुधैः ।अथ नागाः काद्रवेयास्तथा कद्रुसुता अपि ॥
2.2.7 · p. 37
अनुष्टुप्
तदीश्वरश्च भोगीन्द्रः शेषोऽनन्तः फणीश्वरः ।वासुकिः सर्पराजः स्याद् वासुकेयोऽपि स स्मृतः ॥
2.2.8 · p. 37
अनुष्टुप्
अथ वोड्रस्तिलित्सः स्यात् गोनासो गोनसोऽपि च ।वाहसः स्यादजगरः शीर-शीनौ शयुः शयः ॥
2.2.9 · p. 37
अनुष्टुप्
कालसर्पो जलव्याल आलगर्दो महाविषः ।अलिगर्दोऽप्यलगर्दः कालकः कालकन्दकः ॥
2.2.10 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
राजिलो डुण्डुभो धोडस्तथा डुण्डभ इत्यपि ।मालुधानो मातुलाहिश्चित्रसर्पश्च चित्रकः ॥
2.2.11 · p. 37
अनुष्टुप्
हालाहलधरो ब्रह्मसर्पो बाल (?) इत्यपि ।द्विमुखाहिश्च राजा हिरहीवानाविमे समाः ॥
2.2.12 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कालीयः कालियश्चैव कालिकः कालिरित्यपि ।मुक्तकञ्चुको निर्मुक्तः सर्पे निर्मुक्तचर्मणि ॥
2.2.13 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
सर्पो भुजगभुजङ्गभुजङ्गमसरीसृपाः ।दर्वीकरो विषधरो बिलवासी विषायुधः ॥
2.2.14 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भु (wrong syllable)
चक्षुःश्रवा बिलशयो दीर्घपृष्ठो बिलेशयः ।कुम्भीरसो द्विरसनो भेकभुक् श्वसनोत्सुकः ॥
2.2.15 · p. 37
अनुष्टुप्
उरगो जिह्मगो भोगी पृदाकुर्व्याडपन्नगौ ।दंष्ट्री विषास्यो गोकर्णो गूढपात् पवनाशनः ॥
2.2.17 · p. 37
अनुष्टुप्
अहिराशीविषश्चक्री काकोदर उरङ्गमः ।गूढपादो बिलेवासी दर्विभृत् दर्वीकृत् तथा ॥
2.2.18 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र्वी (wrong syllable)
आहेयं त्रिषु विज्ञेयं विषास्थ्यादिकमप्यहेः ।स्फुटा स्फटा फटा दर्वी दर्विर्भोगः फणा द्वयोः ॥
2.2.19 · p. 38
अनुष्टुप्
निर्मोकः कञ्चुकश्चापि द्वयन्तु सर्पचर्मणि ।आसीराशीः सर्पदंष्ट्रा तत्स्त्री सर्पी च सर्पिणी ॥
2.2.20 · p. 38
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)
विषं क्षेडस्तु गरलं जङ्गुलं जाङ्गुलञ्च तत् ।अस्त्रियामथ काकोलः कालकूटो हलाहलः ॥
2.2.21 · p. 38
अनुष्टुप्
ब्रह्मपुत्रः शौक्लिकेयो वत्सनाभः प्रदीपनः ।सौराष्ट्रिको दारदः स्युर्विषभेदा अमी नव ॥
2.2.22 · p. 38
अनुष्टुप्
सारोष्ट्रिकोऽपि विज्ञेयः सौराष्ट्रिक इति द्विधा ।व्यालग्राही जाङ्गुलिः स्याद् जाङ्गुलिश्चाहितुण्डिकः ॥
2.2.24 · p. 38
अनुष्टुप्
व्यालग्रहो गारुडिको विषवैद्योऽहितुण्डिकः ।नरको नारकोऽपि स्यान्निरयो दुर्गतिः स्त्रियाम् ॥
2.2.25 · p. 38
अनुष्टुप्
कालसूत्रञ्च संघातः प्रकम्पनप्रतापनौ ।अवीचिस्तपश्चैव महारौरव-रौरवौ ॥
2.2.26 · p. 38
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म्प (wrong syllable)
प्रेतनदी वैतरणी वैतरण्यपि सा स्मृता ।अलक्ष्मीर्निर्दतिः कालकर्णी[ति] नवदेवता ॥
2.2.28 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 त (wrong syllable)
विष्टिराजूः स्त्रियां द्वे तु वेगारकसमाह्वये ।यातना कारणा तीव्रवेदनाऽतिव्यथापि च ॥
2.2.29 · p. 38
अनुष्टुप्
पीडा कष्टं व्यथा दुःखं अर्तिरार्तिश्च पीडनम् ।आबाधा बाधनं बाधा कृच्छ्रं दुःखं प्रसूतिजम् ॥
2.2.30 · p. 38
अनुष्टुप्
अमानस्यमामनस्यमामानस्यं विबाधनम् ।विहेठनं विबाधान आभीशमपि पीडितम् ॥
2.2.31 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्य (wrong syllable)
सत्त्ववृत्तास्त्रिषु द्वे ते पीडापर्याय ईरितः ।समुद्रः सागरः सिन्धुः सरस्वान् सरितां पतिः ॥
2.2.32 · p. 38
अनुष्टुप्
अब्धिर्जलनिधिर्नीरनिधि[र्जलधि]रम्बुधिः ।पाथोनिधिरकूपारः पाथोधिर्यादसांपतिः ॥
2.2.33 · p. 39
अनुष्टुप्
नदीन इन्दुजनकस्तिमिकोषः सरित्पतिः ।वारांनिधिर्वारिनिधिर्वार्ब्धिर्वारिधिरित्यपि ॥
2.2.34 · p. 39
अनुष्टुप्
वाङ्कः कचङ्गलः पेरुर्मितद्रुर्वाहिनीपतिः ।गङ्गाधरो दारदः स्याद् उदन्वान् उदधिस्तिमिः ॥
2.2.36 · p. 39
अनुष्टुप्
प्राणभास्वान् ऊर्मिमाली पारावारो महाशयः ।अम्भोनिधिः स्यादम्बोधिः तरिष्यो मकरालयः ।कूलङ्कषस्तारिषः स्यात् महीप्राचीर इत्यपि ॥
2.2.37 · p. 39
अनुष्टुप्metre not read in every line
समुद्रभेदाः सप्त स्युः क्षीरोदलवणादयः ।आपः स्त्रियां बहुत्वे तु जलं कमलपुष्करम् ॥
2.2.38 · p. 39
अनुष्टुप्
वार्वारि तोयमुदकं नीरपानीयसम्बरम् ।अम्भः क्षीराम्बु सलिलं सर्वतोमुखजीवनम् ॥
2.2.39 · p. 39
अनुष्टुप्
इरा कमन्धं नारोदं जडपीथ-घृत-क्षरम् ।ऋतमूर्जं काण्ड-सरं कोमलं सोम इत्यपि ॥
2.2.41 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
आप्य-मम्मयमित्येतत् द्वयं जलमये त्रिषु ।अथ भङ्गस्तरङ्गः स्यादूर्मिर्वीचिरिति स्त्रियाम् ॥
2.2.42 · p. 39
अनुष्टुप्
भाङ्गिर्विचिरपीत्येके लहरिर्लहरीति च ।अथ कल्लोल उल्लोलस्तरङ्गे महति द्वयम् ॥
2.2.43 · p. 39
अनुष्टुप्
नायुग्मन्म(?)स्तथावर्तो भ्रान्तिः स्याद्भ्रमिरित्यपि ॥
2.2.44 · p. 39
द्वौ पुंसि विन्दुपृषतौ पृषन्तिर्विप्रुषः स्त्रियाम् ।पृषदित्यपि पुंसि स्यादिति केचित् प्रचक्षते ॥
2.2.45 · p. 39
अनुष्टुप्
भ्रमो जलनिर्गमश्च गृहादिजलनिर्गमे ।पुटभेदश्च चक्रञ्च वङ्को वाकसमाह्वये ॥
2.2.46 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable)
कूलं तीरं प्रतीरञ्च रोधं रोधस्तटं त्रिषु ।अथ पारमवारञ्च परमर्वाक् तटद्वयम् ।तटयोरन्तरं यत्तु तत् पात्रमभिधीयते ॥
2.2.47 · p. 39
अनुष्टुप्
द्वीपो द्वीपं अन्तरीपं जलान्तस्तटमीरितम् ।तोयादुत्थिततीरे तु पुलिनं परिकीर्तितम् ॥
2.2.48 · p. 40
अनुष्टुप्
वालुकामयतीरन्तु सैकतं सिकतामयम् ।कर्दमः कङ्कटोऽपि स्याद् जम्बालस्तु निषद्वलः ॥
2.2.49 · p. 40
अनुष्टुप्
कर्दः कर्कटशादौ च पङ्कोऽस्त्री दम इत्यपि ।पूरोढिः पत्रसङ्कारो रायभाटीसमाह्वये ॥
2.2.50 · p. 40
अनुष्टुप्
दरणिः कूलहण्डस्तु कूलभङ्गे समीरितौ ।जलहासस्तु हिण्डीरः फेणः सिन्धुकफोऽपि च ॥
2.2.51 · p. 40
अनुष्टुप्
स्त्रोतोभेदकरे दारुशिलादौ जलमध्यगे ।नौका तरण्योग्यन्तु नाव्यं त्रिषु विधीयते ॥
2.2.53 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (syllables merged)
स्त्रियां नौस्तारिका नौका तरणिस्तरणी तरी ।तरिः तरण्डा स्यात् तरण्डः पादानिन्दा दथो प्लवा ॥
2.2.54 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
होडो वाधुर्वावटश्च वहित्रं पोत इत्यपि ।भेलकः प्लवकोलाः स्युः उडूपमुडुपस्तथा ॥
2.2.55 · p. 40
अनुष्टुप्
तरणस्तारणश्चेति तारकोऽपि च कुत्रचित् ।स्वतोऽम्बुसरणं स्रोतः स्रोतसं स्रोतमित्यपि ॥
2.2.56 · p. 40
अनुष्टुप्
अथ काष्ठाम्बुवाहिन्यां द्रोणी द्रोणिर्द्रुणिर्द्रुनिः ।पादारकश्च पोलिन्दः पत्रबालस्तुला धटः ॥
2.2.58 · p. 40
अनुष्टुप्
सांयात्रिकः पोनपणिक् नौवाणिज्यकरे द्वयम् ।नाविकः कर्णधारः स्यात् पोतवाहो नियामकः ॥
2.2.59 · p. 40
अनुष्टुप्
नौकाबन्धनकाष्ठे तु कूपको गुणवृक्षकः ।नौकादण्डः क्षेपणिः स्यात् क्षेपणी क्षिपणी तथा ॥
2.2.60 · p. 40
अनुष्टुप्
अरित्रं केनिपातः स्यात् केनिपातक इत्यपि ।अभ्रिः स्त्री काष्ठकुद्दालः काष्ठकुदाल इत्यपि ॥
2.2.61 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
जलसेचनके पात्रे सेकपात्रन्तु सेचनम् ।त्रिषु चागाधपर्यन्तुं प्रसन्नोऽच्छस्तु निर्मले ॥
2.2.62 · p. 40
अनुष्टुप्
गभीरविपरीते स्याद् उत्तानायति कीर्तितम् ।अगाधमतलस्पर्शमस्थाघास्थागमित्यपि ॥
2.2.64 · p. 41
अनुष्टुप्
दासेरकोऽपि दाशेरो दाशेयोऽपि च कुत्रचित् ।जालकं जालमानायः शनसूत्रं पवित्रकम् ॥
2.2.66 · p. 41
अनुष्टुप्
कुवेणिर्मत्स्यधानी च स्वल्पा चेत् कुपिनी भवेत् ।वडिशी वलिशी मत्स्यवेधनी मत्स्यबेधनम् ॥
2.2.67 · p. 41
अनुष्टुप्
वरिशी वलिशिश्चाषि वालिशं वडिशं तथा ।मत्स्यो वैसारिणो मीनः पाठीनश्च वदालकः ॥
2.2.68 · p. 41
अनुष्टुप्
उलूपी स्यादुलोपी च चुलुम्पी चुलुकी तथा ।शिशुकश्चेति पर्यायः शिशुमाराकृतौ झषे ॥
2.2.69 · p. 41
अनुष्टुप्
कैश्चिदुत्पलमत्स्ये तु पर्यायोऽयं निगद्यते ॥
2.2.70 · p. 41
नलमीनौ नलीमीनस्तलमीनश्चिलीचिमः ।चिलीचीमश्चेलीचिमः तथा स्याद्वालुकागडः ॥
2.2.71 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ली (wrong syllable)
अथ प्रोष्ठी श्वेतकोलः शफरी शफरोऽपि च ।क्षुद्राण्डमत्स्यसंघाते पोताधानं जलाण्डकम् ॥
2.2.72 · p. 41
अनुष्टुप्
अथ मत्स्यप्रभेदास्तु रोहितोमद्गुरस्तथा ।शालराजीवशकुलास्तिमिश्चापि तिमिङ्गिलः ॥
2.2.73 · p. 41
अनुष्टुप्
रोहितो मत्स्यराजः स्याद् भालाङ्को लोहितस्तथा ।स्यान्मद्गुरो मद्गुरकः शालः शालजगर्जको ॥
2.2.74 · p. 41
अनुष्टुप्
राजग्रीवश्चित्रफली फलकी च (मदार्मदः) महोन्मदः ।कवरः कचपृष्ठी तु कवजिः कवजीत्यपि ॥
2.2.76 · p. 41
अनुष्टुप्
इलोशो राजशफरो वारिकर्फुर इत्यपि ।इल्लीशो जलव्यापी स्याद् गाङ्गेयः शफराधिपः ॥
2.2.77 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल (wrong syllable)
अथ चन्द्रकला वाचा इञ्चाको जलवृश्चिकः ।कज्जली कज्जलानन्ता माध्वी मधुरकण्टका ॥
2.2.78 · p. 41
अनुष्टुप्
स्याच्चलत् पुर्णिमा चन्द्रचन्द्रिका चञ्चलापि च ।स्याद्गाङ्गटो गाङ्गटको गाङ्गटेयो गलाविलः ॥
2.2.79 · p. 41
अनुष्टुप्
ब्राह्मी तु पङ्कगडको बृहच्छल्कस्तु चिङ्गढः ॥
2.2.80 · p. 41
त्रिकण्ठको घर्घटः स्याल्लघुगर्गस्तटङ्कटः ।पिङ्गाशोऽपि च पिङ्गास्यः पर्वतः पार्वतोऽपि च ॥
2.2.82 · p. 42
अनुष्टुप्
कातरः कातलोऽपि स्याद् राजीवो राजहासकः ।एते मत्स्यविशेषाः स्युर्यादांसि जलजन्तवः ॥
2.2.83 · p. 42
अनुष्टुप्
जलजन्तुविशेषाश्च मकरः शिशुमारकः ।उद्रः शङ्कुप्रभृतयश्चान्येऽपि बहुसम्मताः ॥
2.2.84 · p. 42
अनुष्टुप्
मकरो जलरूपः स्यादसिदंष्ट्रो मरोलिकः ।शिशुमारश्च शिशुको जलकूर्मो वशा(ट्य)ढ्यकः ॥
2.2.85 · p. 42
अनुष्टुप्
उद्र उर्दो जलाखुश्च स्यान्नीरनकुलोऽपि च ।अथ शङ्कुः शङ्कुचिः स्यात् शङ्कोचिः शाङ्कोचीत्यपि ॥
2.2.86 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ङ्को (wrong syllable)
स्यात् पञ्चगुप्तः क्रोडाङ्घ्रिः (क्रोडाङ्गः) कूर्मः कमठकच्छपौ ।अथ ग्राहो नक्रराजस्त्ववहारोऽवहारकः ॥
2.2.88 · p. 42
अनुष्टुप्
तन्तुनागाह्वये जन्तौ केचित्तु जलहस्तिनि ।कुम्भीरो वार्भटो नक्रोऽम्बकिरातोऽम्बुकण्टकः ॥
2.2.89 · p. 42
अनुष्टुप्
गण्डूपदः किञ्चुलुको किञ्चुलूको महीलता ।निहाका गोधिका गोधिर्जलगौ हि समाह्वये ॥
2.2.90 · p. 42
अनुष्टुप्
जलौकसः स्त्रियां भूम्नि स्त्री जलौका जलात्मिका ।रक्तपा रक्तपाता च बेधनी जलसर्पिणी ॥
2.2.91 · p. 42
अनुष्टुप्
मुक्ता स्फोटः स्त्रियां सूक्तिः शुक्तिश्चापि नखी नखः ।अस्त्रियां कम्बुकम्बोनशङ्खाब्जजलजा अपि ॥
2.2.93 · p. 42
अनुष्टुप्
क्षुद्रशङ्खः शङ्खनखो नखशङ्खोऽपि कुत्रचित् ।जलशुक्तिश्च शम्बूका शम्बूकः शम्बुकोऽपि च ॥
2.2.94 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
शम्बुक्कः शाम्बुकः शम्बू शाम्बूक्कोऽपि कीर्तितः ।भेकः प्लवङ्गमो व्यङ्गः प्लवगो दर्दुरः प्लवः ॥
2.2.95 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शालूरोऽपि च सालूरः शाल्वो मण्डुकनन्दनौ ।स्याद्गूटवर्चा वर्षाभूरजिह्मो जिह्ममोहनः ॥
2.2.96 · p. 42
अनुष्टुप्
अथ किञ्चुलुक स्त्री तु शिली गण्डूपदी मता ।तथा कमठभार्या स्यात् कमठी च दुलिर्दुली ॥
2.2.97 · p. 42
अनुष्टुप्
भेकस्य भार्या भेकी स्याद् वर्षाभ्वीति च कथ्यते ।कैश्चिदल्पविवक्षायां स्त्रियामिति निगद्यते ॥
2.2.98 · p. 43
अनुष्टुप्
मद्गुरस्य प्रिया शृङ्गी शृङ्गिरित्यपि कुत्रचित् ।स्यादप्रिया मद्गुरसीति च नाम द्वयं क्वचित् ॥
2.2.99 · p. 43
अनुष्टुप्
दुर्नामापि च दुर्नाम्नी दुर्नामा दीर्घ-कोषिका ।जलाशयो जलाधारः साधारणजलाशये ।जलाधारेऽतिगम्भीरजले जलह्रदो मतः ॥
2.2.100 · p. 43
अनुष्टुप्metre not read in every line
प्रहि-कूपान्धवः पुंसि उदपानञ्च न स्त्रियाम् ।नेमिर्नेमी त्रिका च स्यात् कूपान्तिकसमस्थले ॥
2.2.102 · p. 43
अनुष्टुप्
दारुयन्त्रे च केषाञ्चित् मतञ्च बहुसम्मतम् ।वीनाहोऽपि विनाहः कूपाननपिधानको ॥
2.2.103 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अथ पुष्करिणी खातं भवेत् पौष्करिणीति च ।अखातं देवखातञ्च क्वचिद्दैवविनिर्मिते ॥
2.2.104 · p. 43
अनुष्टुप्
सरं सरकमित्येष पर्यायस्तु सरोवरे ।वेशन्तः पल्वलं चाल्पे वापिर्वापी च दीर्घिका ॥
2.2.106 · p. 43
अनुष्टुप्
आवापः स्यादालबालमाबालं त्वलबालकम् ।नदी तरङ्गिनी द्वीपवती स्रोतस्वती धूनी ॥
2.2.107 · p. 43
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 7 धू (wrong syllable)
ह्रदिनी ह्रादिनी सिन्धुः सरित् सागरगामिनी ॥
2.2.108 · p. 43
स्याद्द्रवन्ती स्रवन्ती च तटिनी निम्नगापगा ।रोधोवक्रा शैवलिनी ऋषिकुल्यावहा धुनिः ॥
2.2.109 · p. 43
अनुष्टुप्
निर्भरिण्यापगा चेति नदोपर्याय ईरितः ।अथ गङ्गा विष्णुपदी जाह्णवी सुरनिम्नगा ॥
2.2.110 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
त्रिस्रोता जह्णुतनया भीष्मसूरुग्रशेखरा ।भागीरथी हैमवती सिद्धसिन्धुश्च गान्दिनी ॥
2.2.111 · p. 43
अनुष्टुप्
धर्मद्रवी त्रिपथगा सितसिन्धुर्भवायना ।कालिन्दी यमुना श्यामा तापी च शमनस्वसा ॥
2.2.112 · p. 43
अनुष्टुप्
कलिन्दनन्दिनी सूर्यतनया यमनी यमी ।रेवा मेकलकन्या स्यात् पूर्वगङ्गा च नर्मदा ॥
2.2.113 · p. 43
अनुष्टुप्
अथ सैतवाहिनी स्याद् वाहुदा सेतवाहिनी ।वशिष्ठशापात् शतधा विद्रुता या पुरा नदी ॥
2.2.115 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
शतद्रुश्च शितद्रुश्च शुतुद्रीत्यपि सा स्मृता ।वशिष्ठशापान्मुक्तायां विपाशा तु विपाट् स्त्रियाम् ॥
2.2.116 · p. 44
अनुष्टुप्
नदी विशेषाः कावेरी वाशिष्ठी च सरस्वती ।अर्धगङ्गा गोमती च गोदा गोदावरी तथा ॥
2.2.117 · p. 44
अनुष्टुप्
सुरन्दाना च सुवला मालती च शरावती ।वेत्रवती चन्द्रभागा रथम्पा सरयूरसि ॥
2.2.118 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
वरणा देविका चण्डा तीव्रा पद्मावती तथा ।चन्द्रभागा चन्द्रभागी चन्द्रकीयं त्रिधा मता ॥
2.2.119 · p. 44
अनुष्टुप्
सरयूः शरयूश्चेति कुल्याम्पा कृत्रिमा नदी ।शोणो हिरण्यबाहुश्च हिरण्यवाह इत्यपि ॥
2.2.120 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्य (wrong syllable)