कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जीवना

jīvanāस्त्री · fem.

In 4 kośas: 1 synonym verse, 3 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.388 · p. 292
कुरङ्गिका काशिलाऽथ काञ्जिका शशिबिम्बिका ।जीवन्ती जीवनी जीवा जीवनीयाऽपि जीवना ॥ ३८८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.45 · p. 253
क्लीबे तु वृत्तौ सलिलेऽथ मेदास्याज्जीवनाह्वा किल जीवनी तु ।जीवन्तिका देवनमन्तिमे स्यात्क्रीडाजिगीषाव्यवहारवाचि ॥ ४५ ॥
इन्द्रवज्रा
meaningsमेदा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.806 · p. 117
मेदासंज्ञौषधीभेदे टाबन्ता स्यादना पुनः ।जीवना जीवयत्यर्थे जीवदस्तु रिपौ पुमान् ॥ ८०६ ॥
अनुष्टुप्
meaningsमेदा
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.56 · p. 237
जननी स्त्री दयामात्रोर्जननं जन्मवंशयोः ।जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च ।जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् ।जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके ।तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् ।तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु ।त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् ।तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
meaningsमोदक