जीवन्ती
jīvantīस्त्री · fem.In 16 kośas: 28 synonym verses, 8 as a nānārtha head word, 14 as a meaning of another word.
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ॥ ११८५ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ।
अनुष्टुप्
genderस्त्रीfem.
वन्दारो वृक्षको वन्द्या जीवन्त्यपि च रोहिणी ।वृक्षादनी वृक्षरुहा सेव्यास्मिन् क्षीरवृक्षजे ॥ २१९ ॥
अनुष्टुप्
genderस्त्रीfem.
गण्डकारी गण्डकाली दार्वी दर्वीच दर्विका ।जीवन्ती जीवनी जीवा जीवनीया च कथ्यते ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवन्त्यलर्कमत्स्याक्षी कालशाकः कटिल्लकः ।कुस्तुम्बुरी भग्नफला शार्ङ्गरी गिरिकर्णिका ॥ ४७ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवन्ती स्त्री रक्तनालस्ताम्रपत्रः सनालकः ।शाकवीरो जीवशाको मेषोऽथ षण् सुगन्धिकम् ॥ १७४ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 थ (wrong syllable)
genderस्त्रीfem.
कायस्था श्रेयसी दिव्या जीवन्यपि हरीतकी ।त्रिषु नामस्थानजातिभेदाद्गुणभिदः क्रमात् ॥ १४५ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवन्ती विजया रोहिण्यमृता पूतनाऽभया ।रसा तद्वच्छेतकिनीत्येषा सप्तविधा मता ॥ १४६ ॥
अनुष्टुप्
genderस्त्रीfem.
कुरङ्गिका काशिलाऽथ काञ्जिका शशिबिम्बिका ।जीवन्ती जीवनी जीवा जीवनीयाऽपि जीवना ॥ ३८८ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवन्ती बहुवल्ली स्यादथ नीलसिताञ्जनी ।अञ्जनी रेचनी काली कृष्णाभाऽप्यथ सारिणी ॥ ५२५ ॥
अनुष्टुप्
genderस्त्रीfem.
वत्सादनी गुडूची च जीवन्ती सोमवल्ल्यपि ।चन्द्रहासा लता सोमा वयःस्था चक्रलक्षणा ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवकर्षभकावेतौ हिमाद्रिशिखरोद्भवौ ।जीवन्ती जीवनी जीवा जीवनीया यशस्करी ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
वन्दा वृक्षादनी वृक्षरुहा कामरुहा तथा ।नलपर्णी नीलवल्ली जीवन्ती पादपाशना ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
विशल्या कुण्डली लम्बा तन्त्रिका चक्रलक्षणा ।देव्यनन्ता मधुपर्णी जीवन्त्यमृतवल्ल्यपि ॥ ३१९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
genderस्त्रीfem.
पालङ्क्यायां तु पालक्या क्षुरिका मधुसूदनी ।जीवन्त्यां स्याज्जीवनीया जीवनी जीववर्धनी ॥ ३४९ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवन्ती जीवनीया च जीवा च जीवनी पुनः ।मधुर्मधुस्रवा श्रवा चेति नामानि सन्ति वै ॥ २१४० ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 3, syllable 7 श्र (wrong syllable)
genderस्त्रीfem.
गुडुची स्यात् छिन्नरुहा जीवन्ती तन्त्रिकामृता ।वत्सादनी सोमवल्ली निर्जरा मधुपर्णिका ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 छि (wrong syllable)
genderस्त्रीfem.
पञ्चाष्टवर्गपठिते जीवकाख्ये महौषधे ।जीवन्ती जीवनी जीव्या जीवनीया मधुस्वरा ॥
अनुष्टुप्
genderस्त्रीfem.
सम्मार्जनी सोमराजीफञ्जिका कटकाजटा ।जीवन्ती खदिरी मांसी चण्डा तुम्बी यमानिका ॥
अनुष्टुप्
genderस्त्रीfem.
जीवन्ती सुषिणे करमर्दः स्यात् करमन्दवत् ।कृष्णपाकफलः कृष्णपाकः कृष्णफलात् परः ॥ १७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 क (wrong syllable)
genderस्त्रीfem.
जीवन्ती जीवनीया च जीवा स्यात् क्षारपात्रके ।शाकवीरो वीरशाको वास्थूकमपि वास्तुकम् ॥ २६२ ॥
अनुष्टुप्
genderस्त्रीfem.
काकादनी गृध्रनखी दुराधर्षा स्थिरा च सा ।जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ॥ ५२५ ॥
अनुष्टुप्
genderस्त्रीfem.
वृक्षादनी वृक्षरुहा जीवन्त्यपदरोहिणी ।धुत्तूरः कितवो धूर्त उन्मत्तः कनकाह्वयः ॥ ५३४ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्योतिष्मती पूतितैला पारावतपदीङ्गुदी ।तेजोवती किङ्किणिका जीवन्ती स्फुटवल्कला ॥ ६०४ ॥
अनुष्टुप्
genderस्त्रीfem.
सुषेणो विग्नकोऽप्यल्पफलेऽस्मिन् करमर्दिका ।वन्दाके वृक्षको वन्दा जीवन्त्यपदरोहिणी ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
वत्सादनी सोमवल्ली विशल्या चक्रलक्षणा ।जीवन्ती खरुहा देवी विषघ्न्यमृतवल्लिका ॥ १३२ ॥
अनुष्टुप्
genderस्त्रीfem.
पारावतपदी पिण्या जीवन्ती स्फुटवल्कली ।नागवल्ली तु तांबूली तथा तांबूलवल्लिका ॥ १४० ॥
अनुष्टुप्
genderस्त्रीfem.
सुदर्शनायां चक्रांका दध्याली वृषपर्ण्यपि ।जीवन्त्यां जीवनी जीवा जीवनीया मधुश्च सा ॥ १४३ ॥
अनुष्टुप्
genderस्त्रीfem.
मद्गौ च चटके चाथ जीवन् स्यात् प्राणति त्रिषु ।जीवन्ती तु स्त्रियां जीवासंज्ञशाकलतान्तरे ॥ ४८५ ॥
अनुष्टुप्
meaningsजीवासंज्ञशाकलता
ज्योतिष्मतीगुडूच्योश्च जूर्णस्तु स्यान्नृलिङ्गकः ।वज्रेऽपि यावनालेऽपि त्रि तु वृद्धे स्त्रियां पुनः ॥ ४८६ ॥
अनुष्टुप्
doubtful
जीवन्ती तु स्त्रियां ज्ञेया जीवन्त्याख्यलतान्तरे ।ज्योतिष्मत्यां गुलूच्यां च त्रि तु स्याज्जीवतादिति ॥ ८०३ ॥
अनुष्टुप्
जीवन्ती as a meaning in nānārtha verses
- कोषकल्पतरु रक्ताङ्गमातङ्गः श्वपचविषाणिनोरथ स्या- द्रक्ताङ्गः क्षितितनयेऽन्यवत्तु वीरे । जीवन्त्यामरुणरुचि स्त्रियां प्रवाले कम्पिल्ले त्यजति नृयोषितोः स लिङ्गम् ॥ २३ ॥ Koṣakalpataru 6.3.23
- कोषकल्पतरु वृषाकपायीकालानुसार्यं तगरे शिलाजे स्याच्छिंशपायामपि चान्त्यलिङ्गम् । वृषाकपायी तु हरिप्रियायां जीवन्त्युमानाम्नि शतावरौ च ॥ ९२ ॥ Koṣakalpataru 6.26.92
- नानार्थार्णवसंक्षेप मधुक्षीरे पुष्परसे मद्ये मन्त्रभेदेषु केषुचित् । शाकवल्लयां तु जीवन्तीसंज्ञायां स्त्री नृनप् पुनः ॥ ९५९ ॥ Nānārthārṇavasaṃkṣepa 2.5.959
- नानार्थार्णवसंक्षेप जीविकास्त्रियां तु जीविका ज्ञेया जीवन्त्याख्यलतान्तरे । आजीवे च स्मृताथ क्ली जीवितं प्राणने तथा ॥ ८०० ॥ Nānārthārṇavasaṃkṣepa 4.800
- नानार्थार्णवसंक्षेप जीवनीजीवन्त्याख्यलताजातौ जीवनी शार्ङ्गिणस्तथा । नवानामपि शक्तीनामेकशक्तावियं पुनः ॥ ८०५ ॥ Nānārthārṇavasaṃkṣepa 4.805
- नानार्थार्णवसंक्षेप रक्ताङ्गाकांम्बिल्यजीवन्त्योस्त्वाह स्त्रीलिङ्गं रभसः कविः । अर्थलिङ्गसमासांश्च तर्कयेदिह पूर्ववत् ॥ १४९५ ॥ Nānārthārṇavasaṃkṣepa 4.1495
- नानार्थार्णवसंक्षेप जीवनीयास्थाने जारद्गवं क्लीबं त्रिर्जरद्गवयोगिनि । जीवनीया तु जीवन्तीसंज्ञशाकलतान्तरे ॥ २४३ ॥ Nānārthārṇavasaṃkṣepa 6.243
- शिवकोष राधामधु पुष्परसक्षौद्रमद्यक्षीराविकासु च । जीवन्त्यां तु स्त्रियां राधा श्रीफले च विषोदरे ॥ २३५ ॥ Śivakoṣa 15.1.235
- शिवकोष रसायनवरारसायनवरा धात्रीजीवन्तीत्रिफलासु च । पुनर्नवाकाकमाच्योः क्लीबं पयसि सर्पिषि ॥ ४३६ ॥ Śivakoṣa 22.6.436
- शिवकोष जीवामहानिम्बेऽपि जीवा स्याज्जीवन्तीवचयोरपि । दार्वी दारुहरिद्रायां गोजिह्वायामपि स्त्रियाम् ॥ ४९६ ॥ Śivakoṣa 24.1.496
- शब्दरत्नावली रक्ताङ्गीरक्ताङ्गो मण्डले स्त्री तु जीवन्त्यां विद्रुमेऽस्त्रियाम् । अस्त्री रथाङ्गं चक्रे ना चक्रवाकविहङ्गमे ॥ Śabdaratnāvalī 7.3.46
- शब्दरत्नावली मधुस्त्रियां माध्वीके वृद्धौ च जीवन्त्यामपि योषिति । सिद्धं क्लीबन्तु निद्रायामालस्ये चित्तविभ्रमे ॥ Śabdaratnāvalī 7.19.9
- शब्दरत्नावली जीवनीजननी स्त्री दयामात्रोर्जननं जन्मवंशयोः । जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥ जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च । जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् । जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥ जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके । तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥ तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् । तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥ तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु । त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥ तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् । तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥ तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥ Śabdaratnāvalī 7.20.56
- शब्दरत्नावली जीवाजीवोऽस्त्री जीविते ना तु वृत्तिप्राणिगुरुद्रुमे । जीवा मौर्व्वी वचा भूमिजीवन्तीष्वपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.29.7