कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

नानालिङ्गाध्यायः (7/18)

पुंश्चल्यां गौतमेनोक्ता तथान्यैश्च महर्षिभिः ।चर्वणा तु स्त्रियां नीलमक्षिकायामथो नपि ॥ ७२१ ॥
4.721 · p. 110
अनुष्टुप्
खादने चमसो न स्त्री यज्ञपाने परः पुनः ।कर्णावयवभेदे चेत्याह मेधे तु पुंस्ययम् ॥ ७२२ ॥
4.722 · p. 110
अनुष्टुप्
स्त्रियां तु चमसी भित्ते मुद्गादीनां कृते भवेत् ।व्यञ्जने चरितं तु क्ली गतिभक्षणयोस्तथा ॥ ७२३ ॥
4.723 · p. 110
अनुष्टुप्
आचारे भक्षिते तु त्रिश्वकोरस्तु द्वयोरयम् ।पक्षिभेदे पुमांस्तु स्याद् गिरिभेदे च चत्वरम् ॥ ७२४ ॥
4.724 · p. 110
अनुष्टुप्
स्थण्डिले प्राङ्कणे च क्ली पुमांस्तु स्याच्चतुष्पथे ।स्त्री तु स्याद्देवताभेदे रथ्यायामपि चत्वरी ॥ ७२५ ॥
4.725 · p. 110
अनुष्टुप्
चक्राटो विषवैद्ये द्वे दीनारे तु पुमानयम् ।चतुर्थं तु चतुर्णां त्रिः पूरणे च चतुर्थ्यसौ ॥ ७२६ ॥
4.726 · p. 110
अनुष्टुप्
तुरीयायां विभक्तौ स्त्री विनायकतिथावपि ।चप्पटस्तु चपेटे ना पर्पटे च त्रिषु त्वयम् ॥ ७२७ ॥
4.727 · p. 110
अनुष्टुप्
स्यात् स्फारविपुले चैष रभसेन समीरितः ।चतुरस्तु त्रि दक्षे स्याद् धीमत्यप्यथ भाषते ॥ ७२८ ॥
4.728 · p. 110
अनुष्टुप्
विदुषामग्रणीरेनं विदग्धे शाकटायनः ।क्लीबं त्वल्पभ्रुकुट्यां स्याच्छालायामपि हस्तिनः ॥ ७२९ ॥
4.729 · p. 110
अनुष्टुप्
मृगभेदे तु चतुरा स्त्री तस्या लक्षणं विदुः ।चतुरा तु घनस्निग्धरोमा श्यामा सबिन्दुका ॥ ७३० ॥
4.730 · p. 110
अनुष्टुप्
इत्यथ स्त्री चतुष्की स्यात् ख्याते यवनिकान्तरे ।आढ्यानां मशकहरीत्यजयस्त्वाह शब्दवित् ॥ ७३१ ॥
4.731 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
लिङ्गभेदमनुक्त्वैव भवने यष्टिकान्तरे ।ना तु सङ्घे चतुर्णां स्यात् प्लक्षवृक्षे तु दृश्यते ॥ ७३२ ॥
4.732 · p. 111
अनुष्टुप्
शास्त्रे वररुचेर्ना तु चक्राङ्कः शार्ङ्गधन्वनि ।दध्यालीसंज्ञवल्ल्यां तु चक्राङ्का स्त्री द्वयोः पुनः ॥ ७३३ ॥
4.733 · p. 111
अनुष्टुप्
चक्राङ्गो हंसविहगे चक्राङ्गी तु स्त्रियामियम् ।उक्ता कटुकरोहिण्यामथाग्नौ चर्षणिः पुमान् ॥ ७३४ ॥
4.734 · p. 111
अनुष्टुप्
वध्वां बुद्धौ मनुष्ये च व्यवसाये च ना पुनः ।चतुष्पाद्रावणे त्रिस्तु चतुरङ्घ्रौ पुमान् पुनः ॥ ७३५ ॥
4.735 · p. 111
अनुष्टुप्
मयूरे चन्द्रकी द्वे तु व्याघ्रेऽथो भेद्यलिङ्गकम् ।ज्ञेयं चन्द्रकवत्यर्थे चातुरस्तु पुमानयम् ॥ ७३६ ॥
4.736 · p. 111
अनुष्टुप्
शकटे चक्रगण्डौ च त्रिस्तु स्याद्दृष्टिगोचरे ।तथा चतुरसम्बन्धिन्याशुकारिण्यथ द्वयोः ॥ ७३७ ॥
4.737 · p. 111
अनुष्टुप्
चाक्रिको घाण्टिके चापि तैलिके चाप्यथो नपि ।प्रकीर्णके चामरं स्याद्ध्रीबरे च त्रिषु त्वदः ॥ ७३८ ॥
4.738 · p. 111
अनुष्टुप्
यत् स्याच्चमरसम्बन्धि तत्र चाम्पेयवाक् पुनः ।स्वर्णकिञ्जल्कयोश्चापि तथा चम्पकपादपे ॥ ७३९ ॥
4.739 · p. 111
अनुष्टुप्
नागकेसरवृक्षे च पुमान् क्लीबं पुनस्तयोः ।प्रसवेऽथ बुधैरुक्तश्चारणो ना कुशीलवे ॥ ७४० ॥
4.740 · p. 111
अनुष्टुप्
देवजातिविशेषे तु द्वयोः स्त्रीशण्डयोः पुनः ।अर्थे चारयतेर्धातोश्चारणा चालनी पुनः ॥ ७४१ ॥
4.741 · p. 111
अनुष्टुप्
स्त्रीनपोस्तितउन्यर्थे तथा चालयतेरपि ।रूपे तु तत्र भवतश्चालनं चालना तथा ॥ ७४२ ॥
4.742 · p. 112
अनुष्टुप्
चित्रकस्तु पुमान् वह्निसंज्ञायां भेषजौषधौ ।तन्मूले च तथैरण्डे द्वे तु राजिलभोगिनाम् ॥ ७४३ ॥
4.743 · p. 112
अनुष्टुप्
त्रयोदशानां भेदानामेकस्मिन् व्याघ्र एव च ।क्लीबं तु पुण्ड्रेऽथ पुमान् कालिङ्गाख्यलतान्तरे ॥ ७४४ ॥
4.744 · p. 112
अनुष्टुप्
चित्रलश्चित्रला तु स्त्री छाग्यां चित्रवति त्रिषु ।चित्राङ्गो द्वे व्याघ्रभेदे पिण्डाकारसमाख्यके ॥ ७४५ ॥
4.745 · p. 112
अनुष्टुप्
त्रि तु चित्रशरीरे स्याच्चिकुरस्तु पुमानयम् ।केशे वृक्षे वृक्षभेदे रभसः प्रोक्तवानमुम् ॥ ७४६ ॥
4.746 · p. 112
अनुष्टुप्
द्वयोस्तु गृहबभ्रौ स्यात् सरीसृपविहङ्गयोः ।चञ्चले च त्रिषु ज्ञेयं युवतीनां विलोचने ॥ ७४७ ॥
4.747 · p. 112
अनुष्टुप्
ईषन्निमीलिते क्लीबं चिक्कणस्त्वभिधेयवत् ।मसृणे ना तु कट्वाख्यधान्येऽथ चिपिटः पुमान् ॥ ७४८ ॥
4.748 · p. 112
अनुष्टुप्
पृथुकाह्वयभक्षे स्यात् त्रि तु पिच्छितविस्तृते ।चित्रकृत् तु पुमानुक्तस्तिमिशाह्वयपादपे ॥ ७४९ ॥
4.749 · p. 112
अनुष्टुप्
त्रि तु चित्रकरेऽथ स्त्री चुलुम्पा छागयोषिति ।पुमांस्तु गमनेऽथ द्वे चुलुको द्वीपिसंज्ञके ॥ ७५० ॥
4.750 · p. 112
अनुष्टुप्
व्याघ्रभेदे द्रवाधारप्रसृते तु नरस्त्रियोः ।चुलुकी रभसस्त्वाह भाण्डभेदे पुमानयम् ॥ ७५१ ॥
4.751 · p. 112
अनुष्टुप्
इत्येव चूलिकस्तु स्यात् तिले ना द्वे तु कुक्कुटे ।चूलिका तु स्त्रियां जातिच्छन्दोभेदे गजस्य च ॥ ७५२ ॥
4.752 · p. 112
अनुष्टुप्
कर्णमूले तथाधीते रभसः शब्दवित्तमः ।नाटकाङ्गेऽथ चूटालस्तूच्चटाख्यमहीरहे ॥ ७५३ ॥
4.753 · p. 113
अनुष्टुप्
त्रिस्तु चूटावति स्त्री तु वेदवाक्ये हि चोदना ।कर्कट्यां चोदनीति स्याद् विरोधोक्तौ तु नप्स्त्रियोः ॥ ७५४ ॥
4.754 · p. 113
अनुष्टुप्
चोदना चोदनं चेति प्रेषणे च विदुर्बुधाः ।चोलकी तु त्रिषु ज्ञेयश्चोलकेन समन्विते ॥ ७५५ ॥
4.755 · p. 113
अनुष्टुप्
पुमांस्तु नागरङ्गे च करीरे किष्कुपर्वणि ।चौरिको ना पुराध्यक्षे द्यूतकारे तु स द्वयोः ॥ ७५६ ॥
4.756 · p. 113
अनुष्टुप्
स्त्रियां तु चौरिका स्तेये छत्वरस्तु पुमानयम् ।निकुञ्जे कुड्यहीने तु मन्दिरे स्यान्नपुंसकम् ॥ ७५७ ॥
4.757 · p. 113
अनुष्टुप्
शय्योत्तरपटे च त्रि पुनः स्याद्भर्त्सके परे ।कुत्सकेऽथो अहिच्छत्रे छत्राकं क्ली स्त्रियां पुनः ॥ ७५८ ॥
4.758 · p. 113
अनुष्टुप्
छत्राकीत्येव रास्नायां छगलस्तु द्वयोरजे ।ऋषिभेदे तु ना स्त्री तु च्छगली वृद्धराजके ॥ ७५९ ॥
4.759 · p. 113
अनुष्टुप्
रभसेनोदिता ना तु च्छर्दनो मदनद्रुमे ।निम्बाख्यपादपे चैनं रभसो वक्त्यलम्बुके ॥ ७६० ॥
4.760 · p. 113
अनुष्टुप्
शुनामपि ज्वरेऽथ स्यात् त्रपुसे छर्दनी स्त्रियाम् ।छर्दना तु न नोद्वान्तौ छान्दसः श्रोत्रिये पुमान् ॥ ७६१ ॥
4.761 · p. 113
अनुष्टुप्
छन्दःसम्बन्धिनि त्रि स्यात् करीषाग्नौ पुनः पुमान् ।छागणस्त्रि तु सम्बद्धे छगणेनोच्यतेऽपि तत् ॥ ७६२ ॥
4.762 · p. 113
अनुष्टुप्
छगणं पशुविष्ठेति च्छित्वरस्तु पुमाञ्छरे ।हर्षनन्दी तु शठ इत्याह तत्रैष भेद्यवत् ॥ ७६३ ॥
4.763 · p. 113
अनुष्टुप्
छिदिरस्तु पुमानग्नौ वज्रे क्ली मूषिके द्वयोः ।अस्त्री त्वायुधसामान्ये वज्रशब्दः प्रयोगवान् ॥ ७६४ ॥
4.764 · p. 114
अनुष्टुप्
तस्येह ग्रहणं युक्तं तथा चाह धनञ्जयः ।छिगुरस्तु द्वयोः सर्प गेहबभ्रौ च नप् पुनः ॥ ७६५ ॥
4.765 · p. 114
अनुष्टुप्
सोत्प्राशहासे छुरितं त्रि तु च्छिन्नेऽथ नप्यदः ।छेदनं व्रश्चने विद्यात् कतकस्य फलेऽपि च ॥ ७६६ ॥
4.766 · p. 114
अनुष्टुप्
साधने तु त्रिषुच्छित्तेरना तु च्छेदना भवेत् ।धातोश्छेदयतेरर्थे नृलिङ्गस्तु परस्मृतः ॥ ७६७ ॥
4.767 · p. 114
अनुष्टुप्
शङ्खे स्याज्जलजं तु क्ली पद्मे द्वे मत्स्यकूर्मयोः ।जलदस्तु पुमान् मेघे जलदा विद्युति स्त्रियाम् ॥ ७६८ ॥
4.768 · p. 114
अनुष्टुप्
जलप्रदे तु त्रिः क्ली तु जतुकं हिङ्गुनि स्मृतम् ।स्त्रियां त्वजिनपत्राख्यक्षुद्रपक्ष्यन्तरे स्मृता ॥ ७६९ ॥
4.769 · p. 114
अनुष्टुप्
स्याच्चक्रवर्तिनीसंज्ञे प्रोक्ता च स्थावरान्तरे ।जयन्तस्तु पुमानिन्द्रपुत्रे स्त्री तु जयन्त्यसौ ॥ ७७० ॥
4.770 · p. 114
अनुष्टुप्
कात्यायन्यामिन्द्रपुत्र्यां तर्कार्यां तिथिभेदके ।त्रिस्तु जेतर्यथो जीर्णे जरणं क्ली च हिङ्गुनि ॥ ७७१ ॥
4.771 · p. 114
अनुष्टुप्
जीरके तु पुमान् कृष्णजीरके रभसोऽपठीत् ।अना तु जरयत्यर्थे जरणाथो जरन्तवाक् ॥ ७७२ ॥
4.772 · p. 114
अनुष्टुप्
स्थविरे भेद्यलिङ्गं स्यान्महिषे तु द्वयोरयम् ।जर्जरस्त्वस्त्रियामिन्द्रध्वजे वाद्यान्तरे तु ना ॥ ७७३ ॥
4.773 · p. 114
अनुष्टुप्
दण्डिकासंज्ञके द्वे तु कोकिले भेद्यवत् पुनः ।जीर्णे भिन्ने परे ना तु जगलं पिष्टमद्यके ॥ ७७४ ॥
4.774 · p. 114
अनुष्टुप्
मेदके कितवे तु त्रि जङ्गलस्तु त्रि निर्जले ।देशे क्लीबं तु मासेऽथ जम्बुको वरुणे पुमान् ॥ ७७५ ॥
4.775 · p. 114
अनुष्टुप्
द्वे सृगालेऽथ जम्बालः पङ्कशैवलयोरयम् ।अस्त्री पुंसि तु जम्बीरः पादपे जम्भलाह्वये ॥ ७७६ ॥
4.776 · p. 115
अनुष्टुप्
फणिर्जकाख्यस्तम्बे च क्ली तु तत्प्रसवेऽथ ना ।जम्भलो यक्ष्मभेदे स्याज्जम्बीराख्यतरावपि ॥ ७७७ ॥
4.777 · p. 115
अनुष्टुप्
क्ली तु तत्प्रसवेऽथो ना ज्वलनोऽग्नौ नपि त्वदः ।दीपने ज्वालने तु स्याज्ज्वलना न पुमानथ ॥ ७७८ ॥
4.778 · p. 115
अनुष्टुप्
जवनो वेगयुक्ते त्रिर्गतौ तु क्ली परे पुनः ।हेतौ गतिविशेषस्य वेग इत्यनिले तु ना ॥ ७७९ ॥
4.779 · p. 115
अनुष्टुप्
जठरं तूदरे न स्त्री त्रिर्बद्धे कठिनेऽपि च ।जनित्रं तु नपि प्रोक्तं सामभेदेषु केषुचित् ॥ ७८० ॥
4.780 · p. 115
अनुष्टुप्
धनञ्जयेन तु प्रोक्ता जनित्री मातरि स्त्रियाम् ।जनकः पुंसि पितरि सीताताते च राजनि ॥ ७८१ ॥
4.781 · p. 115
अनुष्टुप्
उत्पादके तु त्रिषु स क्लीबं तु जननं कुले ।उत्पत्तौ च स्त्रियां त्वेषा जननी मातरि स्मृता ॥ ७८२ ॥
4.782 · p. 115
अनुष्टुप्
करुणायां च जटिलः पुनस्त्रिर्जटया युते ।जटिला तु स्त्रियां मास्यां वचायां चापि नप्यदः ॥ ७८३ ॥
4.783 · p. 115
अनुष्टुप्
ह्रीबेरेऽथ जघन्यस्त्रिः पाश्चात्ये गर्हिते तथा ।जघनं (त्वे?स्थे) नपि त्वेतद्विज्ञेयं रक्तचन्दने ॥ ७८४ ॥
4.784 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जहकस्तु पुमान् काले त्रि तु क्षुद्रे परः पुनः ।त्यागिन्याह जरायुस्तु न स्त्री गर्भाशयेऽथ नप् ॥ ७८५ ॥
4.785 · p. 115
अनुष्टुप्
आरण्यके सामभेदे जलात्मा तु द्वयोरयम् ।महिषे त्रि तु तत्र स्याद् यस्यात्मा जडतां गतः ॥ ७८६ ॥
4.786 · p. 115
अनुष्टुप्
कालेयके तु क्लीबं स्याज्जापकं भेद्यवत् पुनः ।जपकारिण्यथ स्त्री स्याज्जङ्घायां जाघनी त्रि तु ॥ ७८७ ॥
4.787 · p. 115
अनुष्टुप्
जघनस्य तु सम्बन्धिन्यथो जाबालवाग्द्वये ।अजाजीवे जबालायां अपत्ये चाथ जाह्नवी ॥ ७८८ ॥
4.788 · p. 116
अनुष्टुप्
स्त्री गङ्गायामपत्ये तु द्वे जह्नोर्जाह्नवः स्मृतः ।धनञ्जयेन तु क्लीबं जाह्नवं जन्तुनि स्मृतम् ॥ ७८९ ॥
4.789 · p. 116
अनुष्टुप्
अथात्र रभसेनोक्तं जाहको द्वे बिडालके ।ना तु कारुण्डिकायां च घोङ्घे चेति महाधिया ॥ ७९० ॥
4.790 · p. 116
अनुष्टुप्
गन्धद्रव्ये त्वगुर्वाख्ये जाङ्गलं क्ली त्रिषु त्वदः ।यज्जङ्गलस्य सम्बन्धि तत्र द्वे तु कपिञ्जले ॥ ७९१ ॥
4.791 · p. 116
अनुष्टुप्
स्त्रियां तु शूकशिम्ब्यां स्याज्जाङ्गली ना तु जालकः ।तिले क्षारकसंज्ञे तु बालपुष्पान्तरे नपि ॥ ७९२ ॥
4.792 · p. 116
अनुष्टुप्
गवाक्षभेदे त्वपरे स्त्री त्वयोमयकङ्कटे ।जालिकाथो वागुरिके दाम्भिके च त्रि जालिकः ॥ ७९३ ॥
4.793 · p. 116
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
द्वयोस्तु लूतिकासंज्ञक्षुद्रजन्त्वन्तरे मतः ।जाम्बवांस्तु पुमान् ऋक्षराजभेदे महाबले ॥ ७९४ ॥
4.794 · p. 116
अनुष्टुप्
रामसाहायकः कर्तुं रावणस्य वधे पुरा ।ब्रह्मणो जृम्भमाणस्य वक्त्राद्यः समजायत ॥ ७९५ ॥
4.795 · p. 116
अनुष्टुप्
तत्र जाम्बवती तु स्त्री तस्य जाम्बवतः सुता ।पत्नी कृता या कृष्णेन तं निहत्य रसातले ॥ ७९६ ॥
4.796 · p. 116
अनुष्टुप्
तस्यामथ द्वयोर्ज्ञेयोः जिह्वालः सारमेयके ।पृषदंशे च ना तु स्याज्जिगर्तुर्वह्निमार्गयोः ॥ ७९७ ॥
4.797 · p. 116
अनुष्टुप्
तथा प्राणेषु दिवसेऽप्यथ द्वे ब्राह्मणेऽथ ना ।शत्रौ जिघांसुस्त्रिषु तु हन्तुमिच्छौ पुमान् पुनः ॥ ७९८ ॥
4.798 · p. 116
अनुष्टुप्
जीवकः स्यात् क्षपणके तथैवासनपादपे ।त्रि तु श्रेष्ठे प्राणितरि वृद्धयाजीविनि सेवके ॥ ७९९ ॥
4.799 · p. 116
अनुष्टुप्
स्त्रियां तु जीविका ज्ञेया जीवन्त्याख्यलतान्तरे ।आजीवे च स्मृताथ क्ली जीवितं प्राणने तथा ॥ ८०० ॥
4.800 · p. 117
अनुष्टुप्
प्राणेषु च त्रिषु त्वेतज्जीवेर्ण्यन्तस्य कर्मणि ।तथैव प्राणितवति जीवला तु स्त्रियामियम् ॥ ८०१ ॥
4.801 · p. 117
अनुष्टुप्
वचायामृषिभेदे तु नाथ कूर्ममयूरयोः ।जीवथो द्वे अथ पुमान् जीवन्त ऋषिभेदके ॥ ८०२ ॥
4.802 · p. 117
अनुष्टुप्
जीवन्ती तु स्त्रियां ज्ञेया जीवन्त्याख्यलतान्तरे ।ज्योतिष्मत्यां गुलूच्यां च त्रि तु स्याज्जीवतादिति ॥ ८०३ ॥
4.803 · p. 117
अनुष्टुप्
स्यादाशीविषये जीवितरि क्लीबं तु जीवनम् ।जीविकायां जलेऽन्ने च प्राणने च स्त्रियां पुनः ॥ ८०४ ॥
4.804 · p. 117
अनुष्टुप्
जीवन्त्याख्यलताजातौ जीवनी शार्ङ्गिणस्तथा ।नवानामपि शक्तीनामेकशक्तावियं पुनः ॥ ८०५ ॥
4.805 · p. 117
अनुष्टुप्
मेदासंज्ञौषधीभेदे टाबन्ता स्यादना पुनः ।जीवना जीवयत्यर्थे जीवदस्तु रिपौ पुमान् ॥ ८०६ ॥
4.806 · p. 117
अनुष्टुप्
वैद्ये च भेद्यवत् त्वेष जीवस्य स्यात् प्रदातरि ।जीवस्य स्थाच्छेत्तरि च जीवातुस्तु नृशण्डयोः ॥ ८०७ ॥
4.807 · p. 117
अनुष्टुप्
स्याज्जीवनौषधे केचित् त्वौषधे सलिलान्नयोः ।द्रव्ये च रभसस्त्वाह जीवे बहुविदां वरः ॥ ८०८ ॥
4.808 · p. 117
अनुष्टुप्
जुङ्गितस्तु द्वयोर्हीनवर्णे त्रिषु तु वर्जिते ।क्लीबं तु वर्जनेऽथ क्ली जृम्भितं स्याद्विचेष्टिते ॥ ८०९ ॥
4.809 · p. 117
अनुष्टुप्
जृम्भणे च त्रि तूत्फुल्ले विवृद्धेऽप्यथ पुंस्ययम् ।नीललोहितसम्मिश्रवर्णे तद्वति तु त्रिषु ॥ ८१० ॥
4.810 · p. 117
अनुष्टुप्
यावनालाख्यधान्ये तु जोन्नाला स्त्री त्रिषु त्वदः ।ज्योतिष्मज्जोतिषा युक्ते स्त्री तु ज्योतिष्मती स्मृता ॥ ८११ ॥
4.811 · p. 118
अनुष्टुप्
पिण्ड्याख्यस्थावरे क्षुद्रधान्ये यस्याह्वयान्तरम् ।गवीथुरिति ना तु स्याज्ज्योतिषो मासि कुत्रचित् ॥ ८१२ ॥
4.812 · p. 118
अनुष्टुप्
ज्योतिःसम्बन्धिनि त्रि स्याज्झर्झरं तु कलौ युगे ।नदप्रभेदे च प्राह रभसः शब्दवित्तमः ॥ ८१३ ॥
4.813 · p. 118
अनुष्टुप्
वाद्यभेदे च ना त्रिस्तु विशीर्णे टट्टरस्तु ना ।भेरीनादे टट्टरी तु लम्बापटहसंज्ञके ॥ ८१४ ॥
4.814 · p. 118
अनुष्टुप्
वाद्यभेदे स्त्रियां मिथ्यावादे च रभसोऽपठीत् ।टागरष्टङ्गनक्षारे केकराख्ये तु वीक्षिते ॥ ८१५ ॥
4.815 · p. 118
अनुष्टुप्
अजयः प्राह रभसो हेलाविभ्रमगोचरे ।ना भेद्यलिङ्गं तु तथा केकराक्षे शरीरिणि ॥ ८१६ ॥
4.816 · p. 118
अनुष्टुप्
टुण्डुकस्तु पुमान् वृक्षभेदे शोणकसंज्ञके ।स्तोकार्थे तु पठत्येनं रभसो भेद्यलिङ्गकम् ॥ ८१७ ॥
4.817 · p. 118
अनुष्टुप्
तरलं तु त्रिषु ज्ञेयं चञ्चले भास्वरेऽपि च ।हारमध्यगरत्ने तु पुमान् हारे च नप् पुनः ॥ ८१८ ॥
4.818 · p. 118
अनुष्टुप्
चर्मकोशे स्त्रियां तु स्याद् यवागूसुरयोर्भवेत् ।अथास्त्री खजके फेने तण्डकोऽन्यस्त्ववोचत ॥ ८१९ ॥
4.819 · p. 118
अनुष्टुप्
व्याख्यातामरकोशस्य छन्दोभेद इति भ्रमात् ।तरुजस्तु पुमानग्नौ भेद्यलिङ्गं तु वृक्षजे ॥ ८२० ॥
4.820 · p. 118
अनुष्टुप्
तरुणस्तु द्वयोर्यूनि नवीने त्वभिधेयवत् ।एरण्डवृक्षे तु पुमान् रभसस्त्वन्यथावदत् ॥ ८२१ ॥
4.821 · p. 119
अनुष्टुप्
कुब्जपुष्पैरण्ड इति तमिस्रा तु स्त्रियामियम् ।ध्वान्तरात्रौ तथा रात्रौ स्यादन्धतमसे त्वना ॥ ८२२ ॥
4.822 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
तमोमात्रे परेऽथास्त्री त्रसरः सूत्रवेष्टने ।शलाकामण्डले ना तु वर्णकौशेयसूत्रके ॥ ८२३ ॥
4.823 · p. 119
अनुष्टुप्
तपनस्तु पुमानग्नौ सूर्ये च नरकान्तरे ।भल्लातकतरौ ग्रीष्मे क्लीबलिङ्गं तु मन्वते ॥ ८२४ ॥
4.824 · p. 119
अनुष्टुप्
तप्तावथ पुमान् सर्पराजभेदे हि तक्षकः ।तक्ष्णि चाथो तक्षितरि त्रिस्त्वक्सारस्तु पुंस्ययम् ॥ ८२५ ॥
4.825 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
वेणौ तृणद्रुमाख्येषु तालहिन्तालकादिषु ।क्ली तु तत्प्रसवे स्त्री तु त्वक्सारा वल्लिषु स्मृता ॥ ८२६ ॥
4.826 · p. 119
अनुष्टुप्
त्वरितं तु त्वरायां क्ली स्याच्छीघ्रे त्वभिधेयवत् ।तण्डुलस्तु नृलिङ्गः स्याद् व्रीह्यादिफलबीजके ॥ ८२७ ॥
4.827 · p. 119
अनुष्टुप्
विडङ्गे च स्त्रियां तु स्यात् पिप्पल्यां तण्डुलाथ ना ।तर्कारः पादपे तक्रे नवनीतेन संयुते ॥ ८२८ ॥
4.828 · p. 119
अनुष्टुप्
स्यात् सद्योमथिते स्त्री तु तर्कारी स्थावरान्तरे ।वैजयन्तीति विख्याते तमसा तु स्त्रियामियम् ॥ ८२९ ॥
4.829 · p. 119
अनुष्टुप्
नदीभेदे परैरुक्तो ना रूपाध्यवसाययोः ।त्वक्पत्रं तु वराङ्गाख्यगन्धद्रव्ये नपुंसकम् ॥ ८३० ॥
4.830 · p. 119
अनुष्टुप्
त्वक्पत्री रभसेनोक्ता स्त्रियां बाप्पाख्यभेषजे ।तगरं तु नताभिख्ये गन्धद्रव्ये नपुंसकम् ॥ ८३१ ॥
4.831 · p. 119
अनुष्टुप्
नन्द्यावर्तस्य पुष्पे च ना पुनः पुष्पगुल्मके ।नन्द्यावर्ताह्वये त्रिस्तु तरन्तः स्यात् तरीतरि ॥ ८३२ ॥
4.832 · p. 120
अनुष्टुप्
अन्यस्तु भेक इत्याह तत्र द्वे अथ नप्यदः ।तरत्रं स्यात् प्लवे त्रिस्तु घासहारिण्यथ त्रिषु ॥ ८३३ ॥
4.833 · p. 120
अनुष्टुप्
नवाम्बरे तन्त्रकं स्याद् गुलूच्यां तु स्त्रियामियम् ।तन्त्रिकेति वदत्येकस्तर्पणं तु नपुंसकम् ॥ ८३४ ॥
4.834 · p. 120
अनुष्टुप्
तृप्तावपि गुडाद्याढ्यलाजसक्तुषु चेन्धने ।अना तु तर्पयत्यर्थे शृङ्गाटाख्ये तु पुंस्ययम् ॥ ८३५ ॥
4.835 · p. 120
अनुष्टुप्
स्तम्बे जलोद्भवे ना तु तविषः सिन्धुनाकयोः ।बले च स्त्री तु तविषी स्याद्वात्यादेवकन्ययोः ॥ ८३६ ॥
4.836 · p. 120
अनुष्टुप्
भुवीन्द्रपुत्त्र्यां चाथ त्रिस्तलिनं विरलाल्पयोः ।अजयस्त्वब्रवीत् तुच्छे तलिनी तु स्त्रियामियम् ॥ ८३७ ॥
4.837 · p. 120
अनुष्टुप्
अट्टालिकायां तपसः पुनश्चन्द्रे पुमांस्त्रि तु ।महति स्यादथो सूर्ये तरणिर्वारिधावपि ॥ ८३८ ॥
4.838 · p. 120
अनुष्टुप्
स्त्रियां तु नावि नद्यां च पुष्पस्तम्बान्तरे तथा ।कुमारीसंज्ञके किञ्च व्रजस्तम्भे स चाप्ययम् ॥ ८३९ ॥
4.839 · p. 120
अनुष्टुप्
गवामुत्थापनं काष्ठं पतितानां समीरितम् ।सज्जनस्तु रयेऽप्याह त्रि तु क्षिप्रे पुमान् पुनः ॥ ८४० ॥
4.840 · p. 120
अनुष्टुप्