दुर्जर
durjaraIn 4 kośas: 0 synonym verses, 4 as a meaning of another word.
दुर्जर as a meaning in nānārtha verses
- धरणिकोश गुरुगुरुर्महति विख्यातो दुर्जरालघुनोर्गुरुः । गुरुर्निषेकादिकरे पित्रादिसुरमन्त्रिणोः ॥ Dharaṇikośa 26.3.18
- नानार्थार्णवसंक्षेप गुरुनीलिकासंज्ञलोहे च त्रिषु तु स्याच्चतुर्ष्वपि । दुर्जरे बृहति ख्याते लघुनः प्रतियोगिनि ॥ ३६० ॥ Nānārthārṇavasaṃkṣepa 2.5.360
- शब्दरत्नावली गुरुत्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10
- शब्दरत्नाकर गुरुउपदेष्टरि मन्त्रादेः पित्रादौ गीष्पतौ गुरुः । मात्रादौ स्त्री बृहत्ख्यातदुर्जरालघुषु त्रिषु ॥ १९११ ॥ Śabdaratnākara 4.1.1911