कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

चतुर्थः काण्डः · अनेकार्थाधिकाराध्यायः (1/4)

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे उक्तशेषाध्यायः पञ्चविंशः ॥

॥ इति तृतीयः काण्डः समाप्तः ॥

अनेकार्थाधिकारः

अथाध्यायैरनेकार्थाः प्रोच्यन्तेऽत्र यथोदितम् ।क्वचिदेवैकलिङ्गाश्च नानालिङ्गा अपि क्वचित् ॥ १८६० ॥
4.1.1860 · p. 227
अनुष्टुप्
ते तु द्वित्रिचतुःपञ्चवर्णात्मपदसंग्रहात् ।अकरादिक्रमादा च हकारान्तात् प्रयोगिणः ॥ १८६१ ॥
4.1.1861 · p. 227
अनुष्टुप्
अजः पितामहे विष्णौ हरे छागे रघोः सुते ।अर्थो धने शब्दवाच्ये शास्त्रे हेतौ प्रयोजने ॥ १८६२ ॥
4.1.1862 · p. 227
अनुष्टुप्
निवृत्तौ याचने मोक्षे विषयव्यवहारयोः ।वस्तुन्यथाक्ष आधारे व्यवहारे कलिद्रुमे ॥ १८६३ ॥
4.1.1863 · p. 227
अनुष्टुप्
द्यूतमेदे ग्लहे कर्षे शकटेऽप्यक्षमिन्द्रिये ।अट्टः पक्वौदने घातेऽतिशये क्षौमवेश्मनि ॥ १८६४ ॥
4.1.1864 · p. 227
अनुष्टुप्
अङ्कश्चिह्नान्तिकोरःसु भृङ्गवृश्चिकयोरलिः ।अर्कस्तु स्फटिके ज्येष्ठे वृक्षभेदे विवस्वति ॥ १८६५ ॥
4.1.1865 · p. 228
अनुष्टुप्
वर्धमानतिथिप्रायपक्षकीलकयोरणिः ।चन्द्रे धन्वन्तरौ शङ्खेऽप्यब्जोऽब्जं सरसीरहे ॥ १८६६ ॥
4.1.1866 · p. 228
अनुष्टुप्
अंशुर्मयूखे सूत्रादिसूक्ष्मांशे भासि भास्वति ।अणुः सूक्ष्मे व्रीहिभेदेऽप्यर्घोऽर्चायां प्रतिक्रये ॥ १८६७ ॥
4.1.1867 · p. 228
अनुष्टुप्
अस्त्र आस्र उभौ क्लेशे क्लीबे तु रुधिराश्रुणोः ।अन्तोऽस्त्र्यवसिते प्रान्ते निश्चये चरमे मृतौ ॥ १८६८ ॥
4.1.1868 · p. 228
अनुष्टुप्
अविरर्के गिरौ मेषे स्त्री तु स्याद्भूम्युदक्ययोः ।अद्रिरर्के द्रुमे शैले व्याले वृत्रासुरेऽप्यहिः ॥ १८६९ ॥
4.1.1869 · p. 228
अनुष्टुप्
अर्चा पूजाप्रतिमयोरर्तिश्चापाग्रपीडयोः ।कोदण्डायुधयोरस्त्रमभ्रं व्योम्नि पयोमुचि ॥ १८७० ॥
4.1.1870 · p. 228
अनुष्टुप्
हयकुत्सितयोरर्वा स्यादर्यः स्वामिवैश्ययोः ।घृष्टिमूषिकयोराखुरारो भौमारकूटयोः ॥ १८७१ ॥
4.1.1871 · p. 228
अनुष्टुप्
आत्मा तु जीवपरयोः शरीरे स्वस्थभावयोः ।धृतावग्नौ मतौ वातेऽप्याधिर्व्यसनबन्धयोः ॥ १८७२ ॥
4.1.1872 · p. 228
अनुष्टुप्
अधिष्ठाने चित्तदुःख आस्था गोष्ठीप्रतिज्ञयोः ।तत्परत्वेऽवलम्बेऽथ शुभवाक्याहिदंष्ट्रयोः ॥ १८७३ ॥
4.1.1873 · p. 228
अनुष्टुप्
आशीः स्यादभिलाषेऽथ स्यादिनः स्वामिसूर्ययोः ।इरा सुराम्बुभूवाक्षु सगोनडीषु तास्विडा ॥ १८७४ ॥
4.1.1874 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
इला तु तासु सार्घ्यासु स्यादिष्टिर्यजनेच्छयोः ।सुत्रामसूर्ययोरिन्द्र ईतिः क्लेशोपसर्गयोः ॥ १८७५ ॥
4.1.1875 · p. 229
अनुष्टुप्
उस्रो मयूख उस्रा गौरुमा शैलात्मजातसी ।उषः काल्यमुषा रात्रिरूतिः सूत्यभिरक्षयोः ॥ १८७६ ॥
4.1.1876 · p. 229
अनुष्टुप्
ऊर्णा तन्तौ भ्रुवोरन्तरावर्तेऽव्यादिलोमसु ।ऋतं तथ्ये शिलोञ्छे च ऋतुर्गीष्मादिपुष्पयोः ॥ १८७७ ॥
4.1.1877 · p. 229
अनुष्टुप्
ऋषयः श्रुतिभृग्वादिज्ञानवृद्धदिगम्बराः ।ऋक्षोऽच्छभल्ले मण्डूकपर्ण ऋक्षं तु तारके ॥ १८७८ ॥
4.1.1878 · p. 229
अनुष्टुप्
ओघः परंपरासंख्यप्रवाहेषु कदम्बके ।कामः काम्यस्मरेच्छासु कलहेऽन्त्ययुगे कलिः ॥ १८७९ ॥
4.1.1879 · p. 229
अनुष्टुप्
कालः शनैश्चरेऽनेहस्यन्तकेऽत्ययवर्णयोः ।शिक्ये दृग्रुचि मृद्भेदे काचः काशः शरे त्विषि ॥ १८८० ॥
4.1.1880 · p. 229
अनुष्टुप्
करिगण्डे शवे श्रोण्यां कलिञ्जे च भृशे कटः ।मेघाश्मनि बलौ हस्ते करिहस्ते घृणौ करः ॥ १८८१ ॥
4.1.1881 · p. 229
अनुष्टुप्
कोणोऽश्रौ लगुडे सौरौ केतुरङ्के ध्वजे ग्रहे ।मुख्ये दुर्जात उत्पाते कणो लेशे कणौ(णो?)षणा ॥ १८८२ ॥
4.1.1882 · p. 229
अनुष्टुप्
कुट्मले पुस्तकेऽर्थौघे दिव्येऽण्डेऽसिपिधानके ।मेहने वेष्टके गेहे शरीरे कोशमस्त्रियाम् ॥ १८८३ ॥
4.1.1883 · p. 230
अनुष्टुप्
अलंकृतायां कन्यायां दातुं कूपः प्रहावपि ।कविः काव्यकृति प्राज्ञे वाल्मीकौ दैत्यदेशिके ॥ १८८४ ॥
4.1.1884 · p. 230
अनुष्टुप्
कोलोऽस्त्री चव्यपिप्पल्योः पुमान् खञ्जे प्लवे किटौ ।क्लीबे तक्कोलबदरव्योषशुण्ठीषु कर्षके ॥ १८८५ ॥
4.1.1885 · p. 230
अनुष्टुप्
कर्णः श्रोत्रे रविसुतेऽरित्रभेदे नियामके ।लूनश्रोत्रवृषे कल्यस्त्रिषु दक्षे निरामये ॥ १८८६ ॥
4.1.1886 · p. 230
अनुष्टुप्
पेषणे रजसि क्षोदः क्षारस्तु गुडभस्मनोः ।काण्डोऽस्त्री दण्डवर्गेषुनालावसरवारिषु ॥ १८८७ ॥
4.1.1887 · p. 230
अनुष्टुप्
कण्ठः शब्दे गले कुम्भो घटद्विपशिरोंऽशयोः ।कूटोऽस्त्री पुञ्जमायाद्रिशृङ्गायोघनवेश्मसु ॥ १८८८ ॥
4.1.1888 · p. 230
अनुष्टुप्
फाले बाणान्तरे दम्भे भग्नशृङ्गवृषे तु ना ।तरक्षौ रक्षसि क्रव्याल्लुब्धके च चितानले ॥ १८८९ ॥
4.1.1889 · p. 230
अनुष्टुप्
वराहे वक्षसि क्रोडः क्रोडमुत्सङ्गकुक्षिणोः ।कल्पान्तेऽपचये वासे करिपादांशके क्षयः ॥ १८९० ॥
4.1.1890 · p. 230
अनुष्टुप्
क्लृप्तौ कल्पद्रुमे न्याये कल्पः कीशे गजे कपिः ।कश्यस्त्रिषु कशाताड्ये कश्यं मद्याश्वमध्ययोः ॥ १८९१ ॥
4.1.1891 · p. 230
अनुष्टुप्
क्रमस्तु पादविक्षेपे वेदपाठान्तरे विधौ ।उत्सवेऽवसरे मध्ये कालभेदाल्पकालयोः ॥ १८९२ ॥
4.1.1892 · p. 231
अनुष्टुप्
हिंसाव्यापारवैकल्यपरतन्त्रत्वपर्वसु ।क्षणोऽथ क्रोश आक्रन्दे गव्यूतिद्वयगर्हयोः ॥ १८९३ ॥
4.1.1893 · p. 231
अनुष्टुप्
आह्वाने रोदने क्लेशस्त्वविद्याद्युपतापयोः ।खगाद्रिभेदयोः क्रौञ्च ऋषिभेदेऽध्वरे क्रतुः ॥ १८९४ ॥
4.1.1894 · p. 231
अनुष्टुप्
क्रूरो नृशंसे कुपिते भीषणे कर्कशे त्रिषु ।क्षमस्त्रिषु हिते योग्ये युक्ते शक्ते पटावपि ॥ १८९५ ॥
4.1.1895 · p. 231
अनुष्टुप्
स्थालिकायां जलाधारविशेषे वह्निगर्तके ।कुण्डं जारसुते कुण्डः कुशो दर्भे कुशं जले ॥ १८९६ ॥
4.1.1896 · p. 231
अनुष्टुप्
क्षेत्रं तु दारकेदारपुण्यस्थानात्ममूर्तिषु ।पुरे योनौ समूहेऽथ मेदिन्यां च क्षये क्षितिः ॥ १८९७ ॥
4.1.1897 · p. 231
अनुष्टुप्
मत्सरे सुरभौ तिक्ते चोषणे च कटुस्त्रिषु ।कोक ईहामृगे चक्रे कायो देहे कदैवते ॥ १८९८ ॥
4.1.1898 · p. 231
अनुष्टुप्
त्रिष्वन्तःकुक्षि कोष्ठोऽस्त्री कुसूलेऽन्तर्गृहे पदे ।कूर्चमस्त्री कुशे पीठे भ्रूमध्यश्मश्रुणोरपि ॥ १८९९ ॥
4.1.1899 · p. 231
अनुष्टुप्
कचः केशे जीवपुत्रे कृष्णो नीलेऽनले हरौ ।व्यासेऽर्जुने च कृष्णा तु पिप्पली द्रुपदात्मजा ॥ १९०० ॥
4.1.1900 · p. 232
अनुष्टुप्
कक्ष्या काञ्च्यां वरत्रायां कच्छवेश्मप्रकोष्ठयोः ।काष्ठोत्कर्षो हरित् सीमा कान्तिः शोभाभिकामयोः ॥ १९०१ ॥
4.1.1901 · p. 232
अनुष्टुप्
क्ष्वेला स्त्री सिंहनादे ना विषवेणुशलाकयोः ।विलेखप्राज्ञयोः पुंसि कृष्टिराकर्षणे स्त्रियाम् ॥ १९०२ ॥
4.1.1902 · p. 232
अनुष्टुप्
ज्ञाने शिल्पे वित्तवृद्धौ काले चन्द्रांशके कला ।महाभूतेष्विन्द्रियेषु कलनेऽवयवांशयोः ॥ १९०३ ॥
4.1.1903 · p. 232
अनुष्टुप्
किष्कुर्द्वयोर्वितस्तौ स्यात् सप्रकोष्ठकरे नरि ।क्रिया कर्मणि पूजायां करणे संप्रधारणे ॥ १९०४ ॥
4.1.1904 · p. 232
अनुष्टुप्
शिक्षायां निष्कृतौ चेष्टाचिकित्सोपाययुक्तिषु ।आरम्भे कोटिरश्र्यग्रप्रकर्षावधिसीमसु ॥ १९०५ ॥
4.1.1905 · p. 232
अनुष्टुप्
खगोऽर्के विहगे वायौ तारके सुरमेघयोः ।गर्दभे रक्षसि खरः खरुः पुंसि स्मरे हरे ॥ १९०६ ॥
4.1.1906 · p. 232
अनुष्टुप्
गुणो मौर्व्यामप्रधाने नाम्नि सत्त्वादिशौर्ययोः ।शब्दार्थवृत्तिमाल्येषु तन्तुरश्मीन्द्रियेषु च ॥ १९०७ ॥
4.1.1907 · p. 232
अनुष्टुप्
पर्वतोपलयोर्ग्रावा गणः प्रमथसंघयोः ।उपराग उपादाने सत्त्वे सूर्यादिके ग्रहः ॥ १९०८ ॥
4.1.1908 · p. 232
अनुष्टुप्
शास्त्रे श्लोके श्रुतौ ग्रन्थो ग्रन्थिः परुषि बन्धने ।गर्भस्तु कुक्षौ कुक्षिस्थजन्तौ पनसकण्टके ॥ १९०९ ॥
4.1.1909 · p. 233
अनुष्टुप्
अभ्यन्तरेऽपवरके सुते केशान्तरस्रजि ।गोत्रं नाम्नि कुले पुंसि शैले स्त्री भुवि गोगणे ॥ १९१० ॥
4.1.1910 · p. 233
अनुष्टुप्
उपदेष्टरि मन्त्रादेः पित्रादौ गीष्पतौ गुरुः ।मात्रादौ स्त्री बृहत्ख्यातदुर्जरालघुषु त्रिषु ॥ १९११ ॥
4.1.1911 · p. 233
अनुष्टुप्
द्वात्रिंशदक्षरश्लोके ग्रन्थः शास्त्रे श्रुतावपि ।भोजने कबले ग्रासो गन्धो यशसि सौरभे ॥ १९१२ ॥
4.1.1912 · p. 233
अनुष्टुप्
व्यूहे स्तम्बे गदे गुल्मो गदः कृष्णानुजे रुजि ।गण्डः कपोले पाषाणे गुहः स्कन्दे गुहा दरी ॥ १९१३ ॥
4.1.1913 · p. 233
अनुष्टुप्
मुद्गरेऽयोघने मेघे घनः कर्पूरभूरुहे ।स एव संहते सान्द्रे संघाते कठिने त्रिषु ॥ १९१४ ॥
4.1.1914 · p. 233
अनुष्टुप्
घनं कांस्यादिके वाद्ये लयसाम्ये भृशार्थके ।घोष आभीरपल्ल्यां स्याज्जालिन्यां च ध्वनौ विषे ॥ १९१५ ॥
4.1.1915 · p. 233
अनुष्टुप्
अदने हरिते घासो घृणिर्ज्वालांशुवीचिषु ।चन्द्रः शशिनि कर्पूरे तरौ हेम्नि नपुंसके ॥ १९१६ ॥
4.1.1916 · p. 233
अनुष्टुप्
चक्री दर्वीकरे विष्णौ कुलाके छद्मवत्यपि ।प्रचारे प्रणिधौ चारश्चीनो देशे मृगान्तरे ॥ १९१७ ॥
4.1.1917 · p. 233
अनुष्टुप्
आलेख्याश्चर्ययोश्चित्रं चिह्नमङ्के ध्वजेऽपि च ।स्तुतिवादे चटुश्चाटुरुभौ पशुपिचण्डके ॥ १९१८ ॥
4.1.1918 · p. 233
अनुष्टुप्
चोलः कूर्पासके देशे चोरौ मशकतस्करौ ।पुंनपुंसकयोर्वस्त्रे चीरश्चीरी तु झल्लिका ॥ १९१९ ॥
4.1.1919 · p. 234
अनुष्टुप्
चक्रं राष्ट्रजलावर्तसैन्यच्छद्मसु संहतौ ।रथाङ्गे मण्डले वृत्ते संसारायुधभेदयोः ॥ १९२० ॥
4.1.1920 · p. 234
अनुष्टुप्
चूर्णिर्ग्रन्थे कपर्दे च चर्चा चार्चिक्यचिन्तयोः ।पाठे च चञ्चुरेरण्डे पुंसि पक्ष्यङ्गके स्त्रियाम् ॥ १९२१ ॥
4.1.1921 · p. 234
अनुष्टुप्
छदः पक्षे पलाशे च च्छन्दोऽभिप्रायवाञ्छयोः ।कान्त्यनातपयोश्छाया प्रतिबिम्बार्कभार्ययोः ॥ १९२२ ॥
4.1.1922 · p. 234
अनुष्टुप्
छन्दः पद्यश्रूतीच्छासु च्छद्म सद्मनि कैतवे ।छिद्रं तु रन्ध्रावसरापदेशेष्वथ संहतौ ॥ १९२३ ॥
4.1.1923 · p. 234
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्रू (wrong syllable)
गवाक्षानाययोर्जालं क्षारके कपटे गणे ।जरठे देशभेदे च जीनो बुद्धार्हतोर्जिनःप्राणिनि त्रिषु जीवः स्यात् पुंसि जन्तौ बृहस्पतौ ॥ १९२४ ॥
4.1.1924 · p. 234
अनुष्टुप्
स्त्री मौर्व्यामथ जन्तुः स्यात् प्राणिनि क्षत्रियान्तरे ।जम्बीरे दैत्यभेदे च जम्भो भूतान्तरेऽपि च ॥ १९२५ ॥
4.1.1925 · p. 234
अनुष्टुप्
ज्येष्ठा त्वलक्ष्मीर्नक्षत्रज्यायसी गृहगोलिका ।जातिर्जन्मनि मालत्यां सामान्ये ब्राह्मणादिके ॥ १९२६ ॥
4.1.1926 · p. 234
अनुष्टुप्
झषो मीने च मकरे झम्पाश्वादिगतौ गते ।प्रमाणगर्वयोष्टङ्को मृगे पाषाणदारणे ॥ १९२७ ॥
4.1.1927 · p. 235
अनुष्टुप्
डिम्भः प्लीह्नि खगापत्ये ढक्कावाघे सरित्यपि ।धुतक्ष्णि तक्ष्णि च त्वष्टा तालस्तु नरके द्रुमे ॥ १९२८ ॥
4.1.1928 · p. 235
अनुष्टुप्
द्वारबन्धनयन्त्रे च वाद्यभेदे विलम्बिते ।कुञ्चिकायां च तारस्तु मुक्ताशुद्धावुडौ न ना ॥ १९२९ ॥
4.1.1929 · p. 235
अनुष्टुप्
दृङ्मध्यरज्जुसुग्रीवजायासु स्त्री त्रिषूज्ज्वले ।तन्त्रं स्यादौषधे शास्त्रराष्ट्रचिन्तानवाम्बरे ॥ १९३० ॥
4.1.1930 · p. 235
अनुष्टुप्
परिच्छदे तन्तुवाये प्रयोगे क्रतुकर्मणाम् ।तीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावने ॥ १९३१ ॥
4.1.1931 · p. 235
अनुष्टुप्
पात्रोपायावतारेषु स्त्रीपुष्पे योनियज्ञयोः ।तेजः पराक्रमे प्राणे वर्चस्यर्चिषि तेजसि ॥ १९३२ ॥
4.1.1932 · p. 235
अनुष्टुप्
धर्मेऽग्नौ नवनीते च तल्पं शयनजाययोः ।रत्नदोषे भये त्रासस्तनुः स्त्री त्वक्शरीरयोः ।त्रिष्वल्पे च कुशे चाथ तमो राहुस्तमः शुचि ॥ १९३३ ॥
4.1.1933 · p. 235
अनुष्टुप्
ध्वान्ते पापे गुणेऽज्ञाने मोहे तीक्ष्णं तु शस्त्रके ।त्रिषु क्रूरोष्णशातेषु तिग्मस्तीव्रोष्णयोस्त्रिषु ॥ १९३४ ॥
4.1.1934 · p. 235
अनुष्टुप्
दण्डः सैन्ये दमे यष्ट्यां मेढ्रे पार्श्वचरे रवेः ।वने वनानले दावदवौ दन्तस्तु भूभृताम् ॥ १९३५ ॥
4.1.1935 · p. 236
अनुष्टुप्
कटके स्थूलपाषाणे रदनेभविषाणयोः ।जायाभावे तु दन्ता स्त्री देशो नीवृत्प्रदानयोः ॥ १९३६ ॥
4.1.1936 · p. 236
अनुष्टुप्
यौतकादिधने दाने दायो द्युम्ने च पैतृके ।द्रोणं तु कार्मुके द्रोणो वृश्चिके जलवायसे ॥ १९३७ ॥
4.1.1937 · p. 236
अनुष्टुप्
मानभेदे पितर्यश्वत्थाम्नो गुल्मान्तरेऽपि च ।स्याद्गुणेतरवाताद्योर्दोष एनसि दुर्विधौ ॥ १९३८ ॥
4.1.1938 · p. 236
अनुष्टुप्
अव्यये दरमल्पार्थे दरः शङ्खे भये बिले ।दुर्गा तु पार्वती दुर्गो राष्ट्रे दुर्गं वने पुरे ॥ १९३९ ॥
4.1.1939 · p. 236
अनुष्टुप्
दुर्गमे त्रिषु दंष्ट्री तु शार्दूले मूषिके किटौ ।सदंष्ट्रपन्नगे ग्राहे दानं हस्तिमदेऽपि च ॥ १९४० ॥
4.1.1940 · p. 236
अनुष्टुप्
द्वन्द्वं वसन्तग्रीष्मादिमिथुने कलहे युगे ।दृष्टिर्दर्शनधीदृक्षु दाम प्रग्रहमाल्ययोः ॥ १९४१ ॥
4.1.1941 · p. 236
अनुष्टुप्
धर्मो न्याययमाचाराहिंसावैदिककर्मसु ।साम्यस्वभावसुकृतेष्वस्त्री धर्मं तु कार्मुके ॥ १९४२ ॥
4.1.1942 · p. 236
अनुष्टुप्
धातुर्भुवादिशब्दादिगैरिकादित्वगादिषु ।चक्षुरादिपृथिव्यादिहेमादिषु च रेतसि ॥ १९४३ ॥
4.1.1943 · p. 236
अनुष्टुप्
मरुर्धन्वा धनुर्धन्व धवः पत्यौ द्रुमान्तरे ।धृतिः सौख्ये धारणे च धाता ब्रह्मणि पोषके ॥ १९४४ ॥
4.1.1944 · p. 237
अनुष्टुप्
धारा सलिलसंतत्यां सैन्याग्रे वाजिनां गतौ ।अस्त्राग्रेऽप्यथ धात्री भूरुपमातामलक्यपि ॥ १९४५ ॥
4.1.1945 · p. 237
अनुष्टुप्
नगः शिलोच्चये वृक्षे नाकः स्वर्गान्तरिक्षयोः ।नागः सर्पे गजे ग्राहे नरोऽर्जुनमनुष्ययोः ॥ १९४६ ॥
4.1.1946 · p. 237
अनुष्टुप्
नग्नो रुद्रो जिनोऽवासा वेदत्यागी निरग्निकः ।नाशस्त्वदर्शने मृत्यौ परिध्वंसे पलायने ॥ १९४७ ॥
4.1.1947 · p. 237
अनुष्टुप्
हेम्न्युरोभूषणे कर्षे साष्टकर्षशते पले ।दीनारेऽपि च निष्कोऽस्त्री नेमिः सीमाव्यवस्थयोः ॥ १९४८ ॥
4.1.1948 · p. 237
अनुष्टुप्
देशक्रिमीक्षुतिलकातिमुक्तेषु विशेषके ।पुण्ड्रः पिण्डस्तु वपुषि गुडे वृत्ते सुसंहते ॥ १९४९ ॥
4.1.1949 · p. 237
अनुष्टुप्
पक्षोऽर्धमासे गरुति पार्श्वद्वारेऽन्तिके बले ।पार्श्वे चुल्लिबिले भित्तौ सहाये साध्यवश्ययोः ॥ १९५० ॥
4.1.1950 · p. 237
अनुष्टुप्
पणस्तु कार्षिके द्यूते ग्लहे मूल्ये भृतौ धने ।स्यान्मानव्यवहाराक्षविक्रयद्रव्यमुष्टिषु ॥ १९५१ ॥
4.1.1951 · p. 237
अनुष्टुप्
पायो वयसि बाहुल्ये तुल्यानशनमृत्युषु ।पतिः स्वामिनि पत्यौ च पत्री श्येनपृषत्कयोः ॥ १९५२ ॥
4.1.1952 · p. 237
अनुष्टुप्
प्राणस्तु जीविते जीवे जीवात्मपरमात्मनोः ।अन्तर्याम्यन्तःकरणवायुभेदबलेषु च ॥ १९५३ ॥
4.1.1953 · p. 238
अनुष्टुप्
पोतःप्रवहणे डिम्भे पाकः पचनडिम्भयोः ।कालस्य चावधौ प्रैषः प्रेषणे मर्दनेऽपि च ॥ १९५४ ॥
4.1.1954 · p. 238
अनुष्टुप्
पद्मोऽस्त्री पङ्कजे ना तु निधौ व्यूहेऽहिपुंगवे ।स्त्री श्रियामौषधे षण्डः संख्यायां गजबिन्दुषु ॥ १९५५ ॥
4.1.1955 · p. 238
अनुष्टुप्
अष्टकायां परं दूरे भृशे मुख्यान्ययोः पुमान् ।पादग्रन्थेरधः पार्ष्णि पुमांस्त्र्युत्तमयोषिति ॥ १९५६ ॥
4.1.1956 · p. 238
अनुष्टुप्
पुङ्खः श्येने शराङ्गे च पविर्वज्रसमीरयोः ।पशुरज्ञगवाद्योः स्यात् परोऽरिपरमात्मनोः ॥ १९५७ ॥
4.1.1957 · p. 238
अनुष्टुप्
पिण्डिर्ना तैलकल्के स्त्री रथनाभौ च पिण्डिका ।पयः पाथसि च क्षीरे पङ्कोऽस्त्री कर्दमांहसोः ॥ १९५८ ॥
4.1.1958 · p. 238
अनुष्टुप्
पलाशे वाहनं पत्रं छुरिकायां गरुत्यपि ।पात्रं योग्ये भाजने च वित्ते कूलद्वयान्तरे ॥ १९५९ ॥
4.1.1959 · p. 238
अनुष्टुप्
पाने स्त्री पीतिरश्वे ना पोत्रं लाङ्गलदंष्ट्रिणोः ।मुखाग्रदेशेऽथ पलं मांसे कर्षचतुष्टये ॥ १९६० ॥
4.1.1960 · p. 238
अनुष्टुप्
पर्व पञ्चदशीग्रन्थ्योः प्रस्तावे विषुवादिके ।पार्श्वमस्त्री समीपे च प्रजा तु जनपुत्रयोः ॥ १९६१ ॥
4.1.1961 · p. 239
अनुष्टुप्
पुण्यं धर्मे शुभे शुद्धे पूर्वः प्राच्यादिकेऽर्थवत् ।पूर्वजेषु नृभूम्नोः स्यात् प्रस्थोऽस्त्री सानुमानयोः ॥ १९६२ ॥
4.1.1962 · p. 239
अनुष्टुप्
फालो निरीषके स्फोटे श्वेतार्के दाडिमे फले ।भोगनिष्पत्तिलाभेषु बीजे फाले धने फलम् ॥ १९६३ ॥
4.1.1963 · p. 239
अनुष्टुप्
राजदेये बलिर्दैत्यभेदे पूजोपहारयोः ।कपिले त्रिषु बभ्रुर्ना नकुले केशवे मुनौ ॥ १९६४ ॥
4.1.1964 · p. 239
अनुष्टुप्
प्रतिबिम्बे प्रतिकृतौ बिम्बोऽस्त्री मण्डले समे ।बाणः शरे बलिसुते वृक्षभेदे तु वा स्त्रियाम् ॥ १९६५ ॥
4.1.1965 · p. 239
अनुष्टुप्
आधिबन्धनयोर्बन्धो बन्धुर्बान्धवकामयोः ।बलो रामे दैत्यभैदे काके बलवति त्रिषु ॥ १९६६ ॥
4.1.1966 · p. 239
अनुष्टुप्
सहायस्थौल्यसैन्येषु शक्तौ क्लीबे बलौलौषधे ।जन्मसंसारसात्तासु भद्रे भूतपतौ भवः ॥ १९६७ ॥
4.1.1967 · p. 239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भगो रुद्रे मुनौ सूर्ये धर्मे प्राज्ञे तपस्यपि ।वैराग्यैश्वर्यकान्तीच्छायत्नवीर्ययशःस्वपि ॥ १९६८ ॥
4.1.1968 · p. 239
अनुष्टुप्
भोगो वेश्याभृतौ राज्ये सौख्येऽर्थे पालने रतौ ।विहारे व्यवहारे च फणिनः फणदेहयोः ॥ १९६९ ॥
4.1.1969 · p. 239
अनुष्टुप्
भूतं खादौ च जन्तौ च न स्त्रियां गणसत्त्वयोः ।भागोंऽशे भागधेये च भानुः किरणभास्करौ ॥ १९७० ॥
4.1.1970 · p. 240
अनुष्टुप्
भावश्चेष्टाक्रियालीलासत्ताभिप्रायजन्तुषु ।आत्मभावेन्द्रियज्ञानमनोविकृतिभूतिषु ॥ १९७१ ॥
4.1.1971 · p. 240
अनुष्टुप्
द्रव्यमात्ररसोत्पत्तिस्वभावात्मसु चेङ्गिते ।गजभेदे वृषे भद्रः शुभे क्लीब उरौ त्रिषु ॥ १९७२ ॥
4.1.1972 · p. 240
अनुष्टुप्
भङ्गः पराजये छेदे तरङ्गे चावखण्डने ।भङ्गा तु यवभेदे स्याद् भीमौ रुद्रवृकोदरौ ॥ १९७३ ॥
4.1.1973 · p. 240
अनुष्टुप्
नरकाङ्गारकौ भौमौ भेकौ वर्षाभ्वि कातरे ।मन्युः कोपेऽध्वरे शोके मरुद्देवसमीरयोः ॥ १९७४ ॥
4.1.1974 · p. 240
अनुष्टुप्
मन्दः शनौ सरोगेऽज्ञे निर्भाग्येऽल्पेऽपटौ त्रिषु ।अजागलस्तने रत्नेऽलिञ्जरेऽपि मणिर्द्वयोः ॥ १९७५ ॥
4.1.1975 · p. 240
अनुष्टुप्
मौलिस्तु संयते केशे चूडायां मकुटे द्वयोः ।वाचंयमे वसिष्ठादौ बुद्धे वृक्षे जिने मुनिः ॥ १९७६ ॥
4.1.1976 · p. 240
अनुष्टुप्
मधुस्तु यादवे चैत्रे वसन्ते दानवान्तरे ।वा पुंसि मद्ये क्लीबे तु स्यात् क्षौद्रमकरन्दयोः ॥ १९७७ ॥
4.1.1977 · p. 240
अनुष्टुप्
स्याद्राश्येलकयोर्मेषो मोहो वैचित्र्यमौर्ख्ययोः ।मरुर्धन्वनि देशे च मारस्तु मरणे स्मरे ॥ १९७८ ॥
4.1.1978 · p. 241
अनुष्टुप्
माता ब्राह्म्याद्यकाराद्योरुमायां गवि मातरि ।अक्षरावयवे माने प्रवृत्तौ कर्णभूषणे ॥ १९७९ ॥
4.1.1979 · p. 241
अनुष्टुप्