All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (3/14)
अरत्न्याख्यप्रमाणे स्याद् वज्रेऽप्यृष्यन्तरेऽप्यथ ।तदपत्येषु बहुषु गोत्राख्येषु द्वयोरथ ॥ २४१ ॥
2.5.241 · p. 63
अनुष्टुप्
क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः ।त्रि क्षुद्रा स्त्री कण्टकारीवेश्याव्यङ्गानटीषु च ॥ २४२ ॥
2.5.242 · p. 63
अनुष्टुप्
सरघायां च ना त्वेष उत्सवेऽथ क्षुणः पुमान् ।क्षोमे क्रोधे रुजि त्रिस्तु स्यादुन्मत्तेऽथ कुन्दवाक् ॥ २४३ ॥
2.5.243 · p. 63
अनुष्टुप्
शस्त्रमार्जकयन्त्रे ना भ्रमाख्ये पादपान्तरे ।शुक्लपुष्पाह्वये तस्य पुनर्नप् फलपुष्पयोः ॥ २४४ ॥
2.5.244 · p. 63
अनुष्टुप्
कुन्तिर्ना नृपभेदे तन्नीवृद्भेदे तु भूम्नि च ।राज्ञस्तस्य स्त्र्यपत्ये स्त्री कुन्ती कुन्तिस्तु कैश्चन ॥ २४५ ॥
2.5.245 · p. 63
अनुष्टुप्
कुतूसंज्ञे स्नेहपात्रे पेठेऽन्येषां न तन्मतम् ।एलायां च कुणिस्तु स्यान्नान्दीवृक्षाख्यपादपे ॥ २४६ ॥
2.5.246 · p. 64
अनुष्टुप्
हस्ते च विकले पुंसि त्रि तु तद्वत्यथो कुटि ।नृस्त्री गृहेऽतिकुटिले कुट्टिः कुट्टयतौ पुमान् ॥ २४७ ॥
2.5.247 · p. 64
अनुष्टुप्
अयसि स्त्री कुरुस्तु स्याद् ऋत्विग्राजर्षिभेदयोः ।ना नीवृदन्तरे त्वेष पुंभूम्न्यप्युत्तराह्वये ॥ २४८ ॥
2.5.248 · p. 64
अनुष्टुप्
वर्षे कुरोस्तु राज्ञः स्यात् स्त्र्यपत्ये स्त्री कुरूरथ ।कुन्दुर्द्वयोर्मूषिके स्यात् पालक्यासंज्ञके तु ना ॥ २४९ ॥
2.5.249 · p. 64
अनुष्टुप्
शाकभेदे कुमुत् तु त्रिर्गर्ह्यहर्षयुते स तु ।गर्ह्ये हर्षे स्त्रियां क्ली तु कुमुदे स्त्री तु कुम्भिनी ॥ २५० ॥
2.5.250 · p. 64
अनुष्टुप्
भूमौ द्वे तु गजे नक्रे स तु कुम्भवति त्रिषु ।कुण्डी त्वश्वे द्वयोः कुण्डवति त्रिः क्रुश्ववाक् पुनः ॥ २५१ ॥
2.5.251 · p. 64
अनुष्टुप्
द्वे सृगाले बके त्वन्यः शिवायां क्रुश्वरी स्त्रियाम् ।कूटोऽस्त्री पुञ्जमायाघेष्वद्रिशृङ्गे शरान्तरे ॥ २५२ ॥
2.5.252 · p. 64
अनुष्टुप्
अयः शलाकासंज्ञाके सीराङ्गे फालसंज्ञके ।अयोघनेऽनृते दम्भे व्योम्नि निश्चलयन्त्रयोः ॥ २५३ ॥
2.5.253 · p. 64
अनुष्टुप्
एकं निश्चलयन्त्रेति केचिदर्थममन्वत ।भग्नशृङ्गपशौ तु त्रिः कूर्चोऽस्त्री श्मश्रुपीठयोः ॥ २५४ ॥
2.5.254 · p. 64
अनुष्टुप्
भ्रूमध्ये कत्थने दर्भे तन्तुवायपरिच्छदे ।तथा यतिपवित्रे च पादाङ्गुष्ठान्तरेऽपि च ॥ २५५ ॥
2.5.255 · p. 64
अनुष्टुप्
स्त्री तु चित्रकराणां स्यात् कूर्ची लेखनसाधने ।कूचो द्वे हस्तिनि स्त्री तु कूची कैश्चन वर्णिता ॥ २५६ ॥
2.5.256 · p. 64
अनुष्टुप्
उदश्चितो विकारे च प्रमदायां च ना पुनः ।कूपो भूषितकन्यायां दातुं गर्तोदपानयोः ॥ २५७ ॥
2.5.257 · p. 64
अनुष्टुप्
गुणवृक्षेऽल्पकूपे तु कूपी स्त्री कूप्यवाक् पुनः ।क्ली पांसुलवणाभिख्यलवणे भेद्यवत् पुनः ॥ २५८ ॥
2.5.258 · p. 65
अनुष्टुप्
कूपसाधौ त्रि तु क्रूरो नृशंसे कठिनोष्णयोः ।क्रुद्धे दरिद्रे घोरे च गुणमात्रे तु पुंस्ययम् ॥ २५९ ॥
2.5.259 · p. 65
अनुष्टुप्
उष्णे च कठिने च स्यात् पूगवृक्षे स्त्रियां तु सा ।बदरीकण्टकार्योः क्ली त्वस्थ्नि कूर्मस्तु कच्छपे ॥ २६० ॥
2.5.260 · p. 65
अनुष्टुप्
द्वयोर्गजस्य त्वङ्घ्रिस्थप्रदेशे ना नखात् परे ।कृष्णं नपुंसकं सीसे मरिचे दुरितेऽयसि ॥ २६१ ॥
2.5.261 · p. 65
अनुष्टुप्
करमर्दफले चाथ पुमान् विष्णौ हुताशने ।ध्वान्तपक्षे व्रीहिभेदे व्यासे मध्यमपाण्डवे ॥ २६२ ॥
2.5.262 · p. 65
अनुष्टुप्
वलाहके कलियुगे करमर्दाख्यपादपे ।कालवर्णेऽप्यथो नैल्ययुक्ते चकितचेतसि ॥ २६३ ॥
2.5.263 · p. 65
अनुष्टुप्
वाच्यलिङ्गो द्वयोस्तु स्यात् सर्पे शूद्रे मृगान्तरे ।काककोकिलयोराखुजातिभेदेऽप्यथ स्त्रियाम् ॥ २६४ ॥
2.5.264 · p. 65
अनुष्टुप्
द्रौपद्यामथ पिप्पल्यां राजिकासंज्ञसर्पपे ।जलूकाजातिभेदेषु द्वादशस्वपि षट् स्मृताः ॥ २६५ ॥
2.5.265 · p. 65
अनुष्टुप्
सविषास्तेषु चैकस्मिन् द्राक्षातिविषयोरपि ।हिरण्याद्यास्तु याः प्रोक्ताः सप्त जिह्वाः शिवागमे ॥ २६६ ॥
2.5.266 · p. 65
अनुष्टुप्
अग्नेस्तास्वपि चैकस्यां या दक्षिणदिशि स्थिता ।कृतं तु निर्मिते त्रि स्याद् भक्ताय स्थितकिङ्करे ॥ २६७ ॥
2.5.267 · p. 65
अनुष्टुप्
क्लीबं त्वादियुगेऽन्नादिपक्वहव्येऽक्षदेविनाम् ।अक्षपातप्रभेदे च स्तोमच्छन्दःप्रभेदयोः ॥ २६८ ॥
2.5.268 · p. 65
अनुष्टुप्
एतेषु युगसाधर्म्यादर्थेषु त्रिषु वर्तते ।इत्येक आहुः पर्याप्ते क्रियायां कृत्यवाक् पुनः ॥ २६९ ॥
2.5.269 · p. 66
अनुष्टुप्
त्रिः क्रुद्धलुब्धभीतावमानितेष्वपरे पुनः ।विद्विष्टेऽन्ये तु संरब्धे कर्तव्यव्रश्चितव्ययोः ॥ २७० ॥
2.5.270 · p. 66
अनुष्टुप्
कर्तनीये कृतिकृतकृत्यसाधावमुं पुनः ।अजयो विद्विषि प्राह नब्लिङ्गं तु प्रयोजने ॥ २७१ ॥
2.5.271 · p. 66
अनुष्टुप्
स्त्री तु कृत्या क्रियायां स्याद् वैजयन्त्यां तु दैवते ।अभिचारोत्थिते स्त्री च नप् चेत्यथ कृशध्वनिः ॥ २७२ ॥
2.5.272 · p. 66
अनुष्टुप्
तनुनि त्रिः पुमान् केतुग्रहेषु त्रि तु कृष्टवाक् ।सामगीतिप्रकाराणां भेदेनैकेन संयुते ॥ २७३ ॥
2.5.273 · p. 66
अनुष्टुप्
प्राप्ते च कृष्टिक्रियया कर्षणे तु नपुंसकम् ।कृच्छ्रं कष्टे त्वधर्मे क्ली तद्वति त्रिषु न स्त्रियाम् ॥ २७४ ॥
2.5.274 · p. 66
अनुष्टुप्
तपोमात्रे तथा प्राजापत्यसान्तपनादिषु ।कृत्स्नं जले क्ली सर्वस्मिंस्त्रिः कृकस्तु मृगान्तरे ॥ २७५ ॥
2.5.275 · p. 66
अनुष्टुप्
द्वयोर्नाङ्घ्रौ कृषिस्तु स्त्री कृषिभूमौ च कर्षणे ।धात्वोः कृषतिकर्षत्योः पुमान् कृष्टिस्तु कर्षणे ॥ २७६ ॥
2.5.276 · p. 66
अनुष्टुप्
मनुष्ये च स्त्रियां ना तु विपश्चिति कृतिः पुनः ।पुमान् कृणत्तिकृन्तत्योः स्त्री क्रियायां कृतेऽपि च ॥ २७७ ॥
2.5.277 · p. 66
अनुष्टुप्
चतुरक्षरकेच्छन्दोभेदेऽशीत्यक्षरेऽपि च ।कृविस्तु रूपे ना तन्तुवायद्रव्ये च कैश्चन ॥ २७८ ॥
2.5.278 · p. 66
अनुष्टुप्
पेठेऽन्यैस्तन्तुवाये द्वे स्त्री तु नापितभाण्डके ।कर्त्रिकासंज्ञकेऽथ स्याद् क्षेमशब्दो नृशण्डयोः ॥ २७९ ॥
2.5.279 · p. 66
अनुष्टुप्
मङ्गले प्राप्तरक्षायां मोक्षे त्रिषु तु निर्भये ।ना चण्डासंज्ञभैषज्ये केशी तु स्त्रीत्यभाषत ॥ २८० ॥
2.5.280 · p. 66
अनुष्टुप्
चूडायां यादवाचार्यो ना तु केशः शिरोरुहे ।रश्मौ भगे च क्लीबं तु ह्रीबेरे क्ष्वेडवाक् पुनः ॥ २८१ ॥
2.5.281 · p. 67
अनुष्टुप्
लतायां स्यात् सुविख्याता राजकोशातकीति या ।विषे ध्वनौ च ना यौधसिंहनादे तु सा स्त्रियाम् ॥ २८२ ॥
2.5.282 · p. 67
अनुष्टुप्
क्ष्वेडा वंशशलाकायामपि क्षेत्रं पुनर्नपि ।लवणे स्यादूषरजे क्षेत्रसाधौ तु तत् त्रिषु ॥ २८३ ॥
2.5.283 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दू (wrong syllable)
केशी केशवति त्रिः स्याद् दैत्यभेदे तु नाथ सा ।केशिनी स्त्री चोरपुष्पीसंज्ञस्तम्बेऽथ कोशवाक् ॥ २८४ ॥
2.5.284 · p. 67
अनुष्टुप्
अस्त्री स्यात् कुड्मले दिव्ये विशेषे गेहदेहयोः ।धनौघे वेष्टकद्रव्ये पुस्तकासिपिधानयोः ॥ २८५ ॥
2.5.285 · p. 67
अनुष्टुप्
शास्त्रे प्रजनने पेश्यां वृषणेऽपि च केचन ।कृमिभेदस्य नीडे चे कौशेयप्रकृतौ तथा ॥ २८६ ॥
2.5.286 · p. 67
अनुष्टुप्
कृताकृते हेमरूप्ये सुषिरे सज्जनस्त्वमुम् ।रन्ध्रे चारङ्ग(?) इत्याह स्त्री तु कोशी विवक्षिते ॥ २८७ ॥
2.5.287 · p. 67
अनुष्टुप्
तनुत्वे न पुमांस्त्वेष मेघे कोलं पुनर्नपि ।व्योषेऽर्धकर्षे तक्कोले शुण्ठ्यां च बदरीफले ॥ २८८ ॥
2.5.288 · p. 67
अनुष्टुप्
स्त्रियां तु कोला पिप्पल्यां (शा?श)स्त्रे चव्याख्यभेषजे ।ना तु भेलकसंज्ञे स्यात् प्लवे सौरौ द्वयोः पुनः ॥ २८९ ॥
2.5.289 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 को (syllables merged)
वराहे मूषिके त्रिस्तु खञ्जे कोष्ठस्तु न स्त्रियाम् ।कुसूलेऽन्तर्गृहे चान्तःकुक्षौ स्वीयेऽप्यधीयते ॥ २९० ॥
2.5.290 · p. 67
अनुष्टुप्
कोको द्वे चक्रवाके च स्यादीहामृगसंज्ञके ।मृगान्तरे च ना त्वेष आदाने ना तु कोणवाक् ॥ २९१ ॥
2.5.291 · p. 67
अनुष्टुप्
शनैश्चरेऽश्रौ लगुडे शब्दे कोणा तु नृस्त्रियोः ।वाद्यवादनदण्डे द्वे महिषे क्षोमवाक् पुनः ॥ २९२ ॥
2.5.292 · p. 67
अनुष्टुप्
अट्टे नृशण्डयोः शण्डे त्वन्ये वस्त्रान्तरेऽब्रुवन् ।क्षोभ्यं वङ्गाख्यलोहे क्ली क्षोभणीये तु भेद्यवत् ॥ २९३ ॥
2.5.293 · p. 68
अनुष्टुप्
क्रोडं क्ली कर्षमाने स्यादुत्सङ्गे द्वे तु सूकरे ।क्रोडा न ना स्यादुरसि स्यात् तु पुंसि शनैश्चरे ॥ २९४ ॥
2.5.294 · p. 68
अनुष्टुप्
योजनस्य तु तुर्यांशे क्रोशो ना क्रोशनेऽथ नप् ।सामान्तरेषु क्रोष्टा तु द्वे सृगालेऽथ सा स्त्रियाम् ॥ २९५ ॥
2.5.295 · p. 68
अनुष्टुप्
क्रोष्ट्री शुक्लविदार्यां स्यात् क्रौञ्चस्तु क्रुङ्खगे द्वयोः ।द्वीपभेदे तृतीयेऽस्य जम्बुद्वीपस्य पुंस्ययम् ॥ २९६ ॥
2.5.296 · p. 68
अनुष्टुप्
गिरिभेदे च शण्डस्तु सामभेदेषु केषुचित् ।सम्बन्धिमात्रे तु क्रुञ्चो लिङ्गमस्य विशेष्यवत् ॥ २९७ ॥
2.5.297 · p. 68
अनुष्टुप्
क्षौद्रं तु सारघे क्लीबं क्षुद्रसम्बन्धिनि त्रिषु ।कौशं कुशस्थलाभिख्यनगरे नप्यथ त्रिषु ॥ २९८ ॥
2.5.298 · p. 68
अनुष्टुप्
स्यात् कुशस्य विकारादौ कौम्भं त्वाज्ये दशाब्दिके ।क्ली त्रिस्तु कुम्भसम्बन्धे कौन्ती तु स्त्र्यौषधान्तरे ॥ २९९ ॥
2.5.299 · p. 68
अनुष्टुप्
हरेणुसंज्ञे कुन्तस्य पुनः सम्बन्धिनि त्रिषु ।खगः पुंसि रवौ वायौ शरसङ्ग्रामयोरथ ॥ ३०० ॥
2.5.300 · p. 68
अनुष्टुप्
चातके पक्षिमात्रे च द्वे त्रिर्व्योमादिगामिनि ।खड्गो ना सायके द्वे तु गण्डकाख्यमृगान्तरे ॥ ३०१ ॥
2.5.301 · p. 68
अनुष्टुप्
यादोभेदे च मकरसंज्ञेऽथो खण्डमस्त्रियाम् ।अर्धे गुडविकारे च कश्चित् स्वादुद्रवेऽभ्यधात् ॥ ३०२ ॥
2.5.302 · p. 68
अनुष्टुप्
अब्धिजे लवणे क्लीबं भेद्यलिङ्गं तु खण्डिते ।खषो व्रात्याच्छूद्रपूर्वक्षत्रियाजे नरान्तरे ॥ ३०३ ॥
2.5.303 · p. 68
अनुष्टुप्
डोम्बीचण्डालजे च द्वे प्राणिभेदेऽथ खष्पवाक् ।बलात्कारे च कूपे च ना दुर्मेधसि तु त्रिषु ॥ ३०४ ॥
2.5.304 · p. 68
अनुष्टुप्
खरः शराख्यस्तम्बे ना ककुभाह्वयपादपे ।रक्षोभेदे दशास्यस्य प्रवीरे दण्डनायके ॥ ३०५ ॥
2.5.305 · p. 69
अनुष्टुप्
हविर्धानाख्यदेशस्य पुरस्ताद्दक्षिणस्य या ।वितर्दिर्यज्ञदेशस्था तस्यामुष्णगुणे तथा ॥ ३०६ ॥
2.5.306 · p. 69
अनुष्टुप्
कठिनत्वे च कार्कश्ये रसभेदे च मिश्रणात् ।जाते रसानां तिक्ताम्लकषायलवणात्मनाम् ॥ ३०७ ॥
2.5.307 · p. 69
अनुष्टुप्
त्रिस्त्वेषामुष्णतादीनां गुणानां द्रव्य आश्रये ।एकैकस्य रसान्तानां चतुर्णामपि मन्वते ॥ ३०८ ॥
2.5.308 · p. 69
अनुष्टुप्
शुष्कपूगफले तु क्ली लताभेदे तु सा स्त्रियाम् ।खरा स्याद्देवताडाख्ये रासभे तु द्वयोरथ ॥ ३०९ ॥
2.5.309 · p. 69
अनुष्टुप्
खलं भूस्थानयोस्तक्रविशेषे कथिते च नप् ।निष्पीडितरसे कल्के पिण्याकादावथ त्रिषु ॥ ३१० ॥
2.5.310 · p. 69
अनुष्टुप्
नीचे क्रूरे दुर्जने च पुंश्चल्यां तु स्त्रियां खला ।फलग्रहणदेशे तु क्षेत्रस्य क्ली नरि त्वमुम् ॥ ३११ ॥
2.5.311 · p. 69
अनुष्टुप्
अस्मिन्नर्थे वैजयन्त्यामाह पुंसि तु संयुगे ।खल्या तु खलवृन्दे स्त्री खलाय तु हिते त्रिषु ॥ ३१२ ॥
2.5.312 · p. 69
अनुष्टुप्
खजस्तु पुंसि मन्थाने त्रिस्तु व्योमादिखार्थजे ।खञ्जो ना लशुने द्वे तु मर्त्यजात्यन्तरे तथा ॥ ३१३ ॥
2.5.313 · p. 69
अनुष्टुप्
विप्रादन्तावसायिन्यां जाते खोडे तु स त्रिषु ।खनिः खनतिधातौ ना स्त्री तु स्यादाकरे निधौ ॥ ३१४ ॥
2.5.314 · p. 69
अनुष्टुप्
गर्ते तु कश्चिदाहाथो खलिः स्त्री पिष्टतण्डुले ।घनद्रवे द्रव्यभेदे जलपक्वे परे पुनः ॥ ३१५ ॥
2.5.315 · p. 69
अनुष्टुप्
पिण्याके खरुशब्दस्तु गीतभेदे स्मरे हरे ।दर्पे च ना द्वे पुरुषे कश्चिद्दृप्ते तु स त्रिषु ॥ ३१६ ॥
2.5.316 · p. 69
अनुष्टुप्
खड्गी खड्गवति त्रि स्याद् गण्डकाख्यमृगे द्वयोः ।खण्डी खण्डवति त्रिः स्याद् वनमुद्गे तु पुंस्ययम् ॥ ३१७ ॥
2.5.317 · p. 70
अनुष्टुप्
खातं क्ली पुष्करिण्यां स्यात् खनने चाथ तत् त्रिषु ।खननक्रियया प्राप्ते ख्यातिः कीर्तिधियोः स्त्रियाम् ॥ ३१८ ॥
2.5.318 · p. 70
अनुष्टुप्
ना तु ख्यारूपयोर्धात्वोः खिद्रो ना शशलाञ्छने ।क्ली तु विघ्ने परे त्वेनमुपतापे प्रचक्षते ॥ ३१९ ॥
2.5.319 · p. 70
अनुष्टुप्
खिलं त्वप्रहते स्थाने त्रिषु स्यात् तु नपुंसकम् ।विध्यर्थवादमन्त्रेषु खेटं त्वस्त्री पुरेऽल्पके ॥ ३२० ॥
2.5.320 · p. 70
अनुष्टुप्
सज्जनस्त्वाह नद्यद्रिमध्यस्थे नगरे तथा ।ना तु ग्रामविशेषे स्याद् ग्रामधानाह्वये कफे ॥ ३२१ ॥
2.5.321 · p. 70
अनुष्टुप्
अजयस्तु मृगव्ये च भेद्यलिङ्गं तु कुत्सिते ।खेयं तु परिखायां क्ली खनितव्ये त्र्यथो नरि ॥ ३२२ ॥
2.5.322 · p. 70
अनुष्टुप्
खेलो वेणौ स्त्रियां खेला लीलायामथ खोडवाक् ।ना कुलाये त्रिपुटके त्रि तु खञ्जेऽथ गव्यवाक् ॥ ३२३ ॥
2.5.323 · p. 70
अनुष्टुप्
रागद्रव्यान्तरे मौर्व्यां क्ली स्त्री तु निवहे गवाम् ।गव्या गव्यूतिसंज्ञे चाप्यध्वमानेऽथ गोहिते ॥ ३२४ ॥
2.5.324 · p. 70
अनुष्टुप्
सर्वगोसम्भवे च त्रिर्ग्रहस्तु स्यान्नवस्वपि ।सूर्यादिषु विशेषाच्च राहौ निर्बन्धने तथा ॥ ३२५ ॥
2.5.325 · p. 70
अनुष्टुप्
आदाने चोपरागे च सोमपात्रान्तरेऽपि च ।उलूखलनिभे वन्द्यां पिशाचादौ तु स द्वयोः ॥ ३२६ ॥
2.5.326 · p. 70
अनुष्टुप्
गण्डः कपोले ना गर्वे स्याद्विस्फोटकवर्मणोः ।बालाया भूषणेऽश्वस्य ग्रीवाया भूषणेऽपि च ॥ ३२७ ॥
2.5.327 · p. 70
अनुष्टुप्
ज्योतिःशास्त्रेषु ये योगाः सप्तविंशतिरीरिताः ।विष्कम्भः प्रीतिरित्याद्यास्तेषामन्यतमेऽप्यसौ ॥ ३२८ ॥
2.5.328 · p. 70
अनुष्टुप्
चतुष्टये कपर्दानां द्वे तु खड्गाह्वये मृगे ।अजयस्य त्विदं ग्रन्थे दृश्यते साध्वसाधु वा ॥ ३२९ ॥
2.5.329 · p. 71
अनुष्टुप्
गण्डको रुजि विद्यायां खड्गे पदचतुष्टये ।गञ्जा तु स्त्री सुरागेह आकरेऽन्यस्त्ववोचत ॥ ३३० ॥
2.5.330 · p. 71
अनुष्टुप्
कोशेऽपि स्यात् तु पुंस्येष भाण्डागारेऽथ गर्जवाक् ।द्वे गजे गर्जने त्वक्ली गर्जा ना तु गदो रुजि ॥ ३३१ ॥
2.5.331 · p. 71
अनुष्टुप्
कृष्णस्याप्यनुजे स्त्री तु गदा प्रहरणान्तरे ।गद्यं त्वपादबन्धेषु ग्रन्थेषु क्ली त्रिषु त्वदः ॥ ३३२ ॥
2.5.332 · p. 71
अनुष्टुप्
गदितव्ये गया तु स्त्री पुण्यक्षेत्रान्तरेऽथ ना ।धने गृहेऽप्यपत्ये तु द्वे गरस्तु नृलिङ्गकः ॥ ३३३ ॥
2.5.333 · p. 71
अनुष्टुप्
ऋषिभेदे निगरणे विषे च कृतकेऽथ नप् ।जले गरा तु स्त्री देवताडसंज्ञलतान्तरे ॥ ३३४ ॥
2.5.334 · p. 71
अनुष्टुप्
गर्दा स्त्री द्रवधारायां धमनीषु च वाचि ना ।गतं तु क्ली गतौ ना तु प्रकारे त्रि तु ढौकिते ॥ ३३५ ॥
2.5.335 · p. 71
अनुष्टुप्
ग्रामादौ ढौकितवति तथातीतेऽपि सज्जनः ।गीतिप्रकृतिशब्देषु ये तालव्याः स्थिता अचः ॥ ३३६ ॥
2.5.336 · p. 71
अनुष्टुप्
तेषामायीति शब्दोऽयं विकारो यत्र गीयते ।गीतिकाले स शब्दोऽयं छन्दोगैरुच्यते गतः ॥ ३३७ ॥
2.5.337 · p. 71
अनुष्टुप्
गडुर्ना पृष्ठगग्रन्थौ ब्रूतेऽमुं शाकटायनः ।घाटामस्तकयोर्मध्ये मांसपिण्ड इति स्फुटम् ॥ ३३८ ॥
2.5.338 · p. 71
अनुष्टुप्
वाक्पतिस्त्वमुमध्यैष्ट वेश्योरःस्थकिणे भ्रमी ।कुब्जे तु त्रिरथो गन्त्री स्त्रीलिङ्गा शकटान्तरे ॥ ३३९ ॥
2.5.339 · p. 71
अनुष्टुप्
गन्ता तु यातरि त्रि स्याद् गलन्ती तु स्त्रियामियम् ।कर्कर्यां च्यवमाने च भुञ्जाने च गलत् त्रिषु ॥ ३४० ॥
2.5.340 · p. 71
अनुष्टुप्
गर्मुत् तु गरुडे सूर्ये तेजस्यपि पुमानथ ।द्वयोः स्यान्मक्षिकाभेदे पक्षिमात्रेऽप्यथ स्त्रियाम् ॥ ३४१ ॥
2.5.341 · p. 72
अनुष्टुप्
तृणधान्यविशेषेऽथ काञ्चने स्यान्नृशण्डयोः ।ग्राहोऽवहारसंज्ञे द्वे यादोभेदे पुमांस्तु सः ॥ ३४२ ॥
2.5.342 · p. 72
अनुष्टुप्
निर्बन्ध इति केऽप्याहुराचार्यस्य प्रयोगतः ।मुनित्रयमते त्वस्य साधुत्वं नोपलभ्यते ॥ ३४३ ॥
2.5.343 · p. 72
अनुष्टुप्
अत्रार्थे ग्राम्यवाक् तु त्रिर्ग्रामीणे स्त्री लतान्तरे ।घोषसंज्ञे स्वल्पफले ग्राम्याथो गालवाङ् नरि ॥ ३४४ ॥
2.5.344 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्व (wrong syllable)
गलने मदनाभिख्यपादपे तत्फले तु नप् ।बडिशेऽप्यथ गानं क्ली गीतौ शब्देऽप्यथ स्त्रियाम् ॥ ३४५ ॥
2.5.345 · p. 72
अनुष्टुप्
प्रौष्ठपद्यां पौर्णमास्यां गानी गातुस्तु पुंस्ययम् ।अन्ने स्त्री तु पृथिव्यां स्याद् देवजात्यन्तरे पुनः ॥ ३४६ ॥
2.5.346 · p. 72
अनुष्टुप्
गन्धर्वाख्ये द्वयोर्ग्राहिशब्दस्तु त्रिर्ग्रहीतरि ।कपित्थे तु पुमान्ना तु गिरिः स्यान्नगमेघयोः ॥ ३४७ ॥
2.5.347 · p. 72
अनुष्टुप्
प्लक्षे गिरीयकक्रीडागुडके कन्दुके परे ।गवां च व्याधिभेदे स्याद् गृणातौ गिरतावपि ॥ ३४८ ॥
2.5.348 · p. 72
अनुष्टुप्
गीर्णौ तु स्त्र्यथ गीतं क्ली गाने गानस्य कर्मणि ।त्रि स्त्री तु गीता योगस्य पट्टेऽन्यस्त्वाह कश्चन ॥ ३४९ ॥
2.5.349 · p. 72
अनुष्टुप्
योगग्रन्थान्तरे गुञ्जा त्वक्ली स्याद्गुञ्जने स्त्रियाम् ।कृष्णलायां वाद्यभेदेऽप्यथ गुल्मो नृशण्डयोः ॥ ३५० ॥
2.5.350 · p. 72
अनुष्टुप्
हृदयग्रन्थिसंज्ञे स्याद् व्याधिभेदेऽपि वीरुधि ।बलानां सज्जने सैन्यभेदे सभ्येऽपि केचन ॥ ३५१ ॥
2.5.351 · p. 72
अनुष्टुप्
घट्टे च शुल्कसंज्ञेऽन्ये त्वायस्थाने प्रचक्षते ।गुच्छो ना स्तबके धान्यस्तम्बे वीरुत्सु सप्तसु ॥ ३५२ ॥
2.5.352 · p. 72
अनुष्टुप्
एकस्यां हारभेदे च द्वात्रिंशद्यष्टिकेऽथ सा ।गुच्छा स्त्री माषधान्ये च गवीथौ च गुडः पुनः ॥ ३५३ ॥
2.5.353 · p. 73
अनुष्टुप्
पिण्डे चेक्षुविकारे च वकुलाख्यमहीरुहे ।गोले चेत्यपरे स्त्री तु स्नुहीगुलिकयोर्गुडा ॥ ३५४ ॥
2.5.354 · p. 73
अनुष्टुप्
गुहा स्त्री पृश्निपर्णीति प्रसिद्धायां च वीरुधि ।गह्वरे पर्वतस्यापि स्कन्दे तु स पुमान् गुहः ॥ ३५५ ॥
2.5.355 · p. 73
अनुष्टुप्
शृङ्गिबेरपुरस्थाननिषादाधिपतावथ ।गुह्यं शिश्ने भगे क्ली त्रि गोपनीये रहस्यपि ॥ ३५६ ॥
2.5.356 · p. 73
अनुष्टुप्
गुन्द्रा फलिन्यां स्त्री भद्रमुस्तके क्षुद्रवान्यके ।गवीथुसंज्ञे ना त्वेष स्तम्बभेदे शराह्वये ॥ ३५७ ॥
2.5.357 · p. 73
अनुष्टुप्
गुरुर्बृहस्पतौ बुद्धमुनौ पित्रादिके तथा ।पुरोहिते च गोधूमेऽप्युपनीत्यादिकारिणि ॥ ३५८ ॥
2.5.358 · p. 73
अनुष्टुप्
स्त्री तु मातृप्रभृतिषु गुर्वी दध्नि तु तन्नपि ।लग्नान्नवमराशौ च प्राहुः साव्वँत्सरा इदम् ॥ ३५९ ॥
2.5.359 · p. 73
अनुष्टुप्
नीलिकासंज्ञलोहे च त्रिषु तु स्याच्चतुर्ष्वपि ।दुर्जरे बृहति ख्याते लघुनः प्रतियोगिनि ॥ ३६० ॥
2.5.360 · p. 73
अनुष्टुप्