कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

रान्ताः · रश्लोकः

॥ रश्लोकः ॥

श्रीशब्दः कविभिः प्रोक्तो लक्ष्मीसंपत्तिकान्तिषु ।अधिकारे सरस्वत्यां शोभाकीर्तिप्रभासु च ॥
26.3.1 · p. 178
अनुष्टुप्
भद्रं मुस्तकसाधुनोः सुतसुखश्रेष्ठेषु भद्रा पुन-र्गम्भारीजघनेफलासुरसरिद्रास्नार्धचन्द्रासु च ।भद्रो मेरुकदम्बके च वृषभे भद्रस्तथा खञ्जनेभद्रः कुञ्जरजातिभेदकरणे भद्रं स्मृतं मङ्गलम् ॥
26.3.2 · p. 178
शार्दूलविक्रीडितम्
तन्त्रं कारणशास्त्रयोश्च शपथे भैषज्यसिद्धान्तयो-र्मुख्यार्थेऽपि परिच्छदेऽपि च तथा तन्त्रं कुटुम्बात्मनि ।तन्त्रं शाकटसूत्रछन्दमुभयार्थप्रयोजकस्तु सःतन्त्रीः स्यात्तु विपञ्चिकादिकगुणे स्याद्देह[85]नाडीषु च ॥
26.3.3 · p. 178
शार्दूलविक्रीडितम्metre not read in every line
चित्रा मूषिकपर्णिका निगदिता चित्रा सुभद्रा स्मृतागोडुम्बापि च दन्तिकापि च तथा सर्पप्रभेदेऽपि सा ।हस्तालम्भनतारका निगदिता चित्रा तथा शाम्बरीचित्रं कर्बुरमद्भुतं तु तिलकं चालेख्यमुत्कीर्तितम् ॥
26.3.4 · p. 179
शार्दूलविक्रीडितम्
गोत्रा विश्वंभरा ज्ञेया गोत्रा गोनिकुरुम्बकम् ।नाम गोत्रं कुलं गोत्रं गोत्रश्च धरणीधरः ॥
26.3.5 · p. 179
अनुष्टुप्
शुक्रो दैत्यगुरुः प्रोक्तः शुक्रौ मासहुताशनौ ।शुक्रं देहवतां बीजं शुक्रमक्षिरुजं विदुः ॥
26.3.6 · p. 179
अनुष्टुप्
क्षुद्रः स्यादधमे क्रूरे क्षुद्रोऽपि कृपणस्तथा ।क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥
26.3.7 · p. 179
अनुष्टुप्
चक्रस्तु चक्रवाके स्याच्चक्रं सैन्यरथाङ्गयोः ।राष्ट्रे दम्भप्रभेदे च चक्रं प्रहरणान्तरम् ॥
26.3.8 · p. 180
अनुष्टुप्
मात्रा कर्णविभूषायां धने माने परिच्छदे ।अक्षरावयवे चाल्पे मात्रं कार्त्स्नेऽवधारणे ॥
26.3.9 · p. 180
अनुष्टुप्
पात्रं स्याद्भाजने योग्ये पात्रं कुलद्वयान्तरे ।संधिविग्रहकादौ च श्रुवादौ पात्रमिष्यते ॥
26.3.10 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
गात्राणि विदुरङ्गानि गात्रमुक्तं कलेवरे ।अग्रजङ्घाविभागे च गजानां गात्रमिष्यते ॥
26.3.11 · p. 180
अनुष्टुप्
अग्रं पलानां परिमाणमुक्तंप्रान्तेऽवलम्बेऽप्यधिकेऽपि चाग्रम् ।अग्रं पुनः पर्वणि चाग्रमाहुःपूर्वे प्रधाने प्रथमे गणे च ॥
26.3.12 · p. 180
इन्द्रवज्रा
नेत्रं वस्त्रप्रभेदः स्यात्तरुमूले च लोचने ।नेत्रं मथिगुणे नद्यां नेत्रं नयननाडिका ॥
26.3.13 · p. 180
अनुष्टुप्
पुण्ड्रश्चित्रप्रभेदः स्यात्पुण्ड्राञ्जनपदान्विदुः ।पुण्ड्र इक्षुप्रभेदे च पुण्ड्रोऽतिमुक्तपादपः ॥
26.3.14 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
पुरं शरीरमित्याहुर्गृहोपरिगृहं पुरम् ।पुरो गुग्गुलुराख्यातो नगरे तु पुरं पुरी ॥
26.3.15 · p. 181
अनुष्टुप्
दरो भये च ग[86]र्ते च आङ्पूर्वो गौरवे स्मृतः ।दरी तु कन्दरे प्रोक्ता किञ्चिदर्थे दराव्ययम् ॥
26.3.16 · p. 181
अनुष्टुप्
गिरी गीर्ण्यक्षिरोगौ च गिरिः प्लक्षमहीध्रयोः ।गिरिर्गैरीयकः क्रीडागुडाकापि च कीर्तितः ॥
26.3.17 · p. 181
अनुष्टुप्
गुरुर्महति विख्यातो दुर्जरालघुनोर्गुरुः ।गुरुर्निषेकादिकरे पित्रादिसुरमन्त्रिणोः ॥
26.3.18 · p. 181
अनुष्टुप्
हरिर्वातांशुचन्द्रार्कशुकभेकयमाहिषु ।विष्ण्विन्द्रकपिसिंहेषु पिङ्गपिष्टप्रभेदयोः ॥
26.3.19 · p. 181
अनुष्टुप्
वरः श्रेष्ठे जामातरि परिवृतौ साधु च वरंवरोऽभीष्टे देवासुरमभिहितं कुङ्कुममपि ।वरीमिन्दीवर्यामभिदधति षिङ्गेऽपि च वरंमनागिष्टे यत्स्याद्वरमथ च तच्चाव्ययमपि ॥
26.3.20 · p. 182
शिखरिणी
द्यूतोपलक्षणं शारिः शारिः शकुनिकान्तरम् ।हस्तिपर्याणकं शारिः शारिः कपट इष्यते ॥
26.3.21 · p. 182
अनुष्टुप्
वारस्त्ववसरे वृन्दे द्वारे सूर्यादिवासरे ।सुराश्रयणकं वारो वारी घटीभबन्धनी ॥
26.3.22 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 घ (wrong syllable)
धीरो धैर्यवति ख्यातो धीरौ मन्थरपर्वतौ ।धीरं कुङ्कुममाख्यातं धीरो दक्ष उदाहृतः ॥
26.3.23 · p. 182
अनुष्टुप्
तारोऽत्युच्चध्वनितरणयोः कीशमुक्ताविशुद्ध्यो-स्तारो रूप्ये स्फुरितकिरणे निर्मले तारमाहुः ।तारा ऋक्षे नयनकनिका बुद्धदेव्यां च तारातारा प्रोक्ता धिषणवनिता चापि सुग्रीवपत्नी ॥
26.3.24 · p. 182
मन्दाक्रान्ता
धारा खड्गादिनिशितमुखे संततौ चापि धारावर्धन्यादेर्विवरपदके सैन्यभागेऽग्रिमे च ।धारास्ताः स्युस्तुरगगतयः पञ्चधा रेचिताद्याधारा ग्रावान्तरमपि तथाश्रान्तमासारवर्षम् ? ॥
26.3.25 · p. 183
मन्दाक्रान्ता
अपरं स्यादपाचीनं पश्चाद्गात्रं च दन्तिनाम् ।अपरमिदानीमर्थे जरायुश्चापरा स्मृता ॥
26.3.26 · p. 183
अनुष्टुप्metre not read in every line
मधुरो रसभेदे स्यान्म[87]धुरे स्वादुशोभने ।मधुरा मधुपूश्च स्याच्छतपुष्पा तथा मिसी ॥
26.3.27 · p. 183
अनुष्टुप्
प्रकरश्वोपकारश्च विकीर्णकुसुमादिषु ।संहतौ चोपकृत्यां च यथासंख्यमवस्थितौ ॥
26.3.28 · p. 183
अनुष्टुप्
शिखरं किञ्चिदुद्वस्त्रेऽप्यग्रे पर्वतवृक्षयोः ।पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च ॥
26.3.29 · p. 183
अनुष्टुप्
बदरी कोलिकर्पास्योर्बदरं तु फलं तयोः ।बदरा विष्णुक्रान्ता स्यादेलापर्ण्यां च कीर्तिता ॥
26.3.30 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्णु (wrong syllable)
केशरो बकुले सिंहच्छटायां शम्पपक्षिणि ।नागकेशरपुंनागौ केशरौ परिकीर्तितौ ॥
26.3.31 · p. 184
अनुष्टुप्
नागरो नगरोत्पन्नो विदग्धश्चापि नागरः ।नागरं मुस्तके शुण्ठ्यां रतबन्धे च नागरम् ॥
26.3.32 · p. 184
अनुष्टुप्
मत्सरः कृपणे कोपे मक्षिकापि च मत्सरा ।असोढा परसंपत्तेर्मात्सर्यमपि मत्सरः ॥
26.3.33 · p. 184
अनुष्टुप्
संगरः स्यात्क्रियाकारे विपत्तावपि संगरः ।संगरः संयुगे चापि संगरं च शमीफलम् ॥
26.3.34 · p. 184
अनुष्टुप्
शम्बरः संयुगे वृद्धे मृगदैत्यप्रभेदयोः ।श्रेष्ठे शिवारथौषध्यां शम्बरी शम्बरं जलम् ॥
26.3.35 · p. 184
अनुष्टुप्
अन्तरं स्थानतादर्थ्यछिद्रान्तर्धिविनात्मसु ।भेदावसरबाह्येषु मध्यात्मीयावधिष्वपि ॥
26.3.36 · p. 185
अनुष्टुप्
उत्तरं वाग्विशेषार्थश्रेष्ठोदीच्येषु कीर्तितम् ।उत्तरा दिग्विराटाख्यनृपस्यौरस उत्तरः ॥
26.3.37 · p. 185
अनुष्टुप्
वल्लरं निर्जलस्थाने वनक्षेत्रे च वल्लरम् ।वल्लरं गहने कुञ्जे मञ्जर्यां वल्लरी स्मृता ॥
26.3.38 · p. 185
अनुष्टुप्
पुष्कराणि विदुरोषधीतीर्थ-द्वीपनागविहगोरगभेदान् ।पद्मवारिगगनानि च भेरीखड्गकाण्डमिभमुण्डमुखं च ॥
26.3.39 · p. 185
स्वागताmetre not read in every linenearly स्वागता: pāda 1, syllable 9 धी (wrong syllable)
तमिस्रं तिमिरे प्रोक्तं तमिस्रं कोपवाचकम् ।तमिस्रा तामसी [88]रात्री तमिस्रा च तमस्ततिः ॥
26.3.40 · p. 185
अनुष्टुप्
सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका ।वर्णसंकरजा या च सैरन्ध्री द्रौपदी स्मृता ॥
26.3.41 · p. 186
अनुष्टुप्
कुमारः सेनानीर्वरुणतरुरश्वपतिचरःकुमारौ स्यातां हि शिखण्डकभूमीश्चरसुतौ ।कुमारी कन्यायामपि मधुकर्यामपि मताकुमारी द्वीपेऽस्मिन्नपि नवमाल्यामपि च सा ॥
26.3.42 · p. 186
metre not recognised
सिन्दूरं रक्तचूर्णं स्याद्राजलेखितदक्षिणे ।सिन्दूरो वृक्षभेदेऽपि सिन्दूरी रक्तचेलिका ॥
26.3.43 · p. 186
अनुष्टुप्
परंपरः प्रपौत्रेऽपि मृगभेदे परंपरः ।परंपरा च संताने परिपाटी परंपरा ॥
26.3.44 · p. 186
अनुष्टुप्
उडुम्बरो वृक्षजातौ देहली स्यादुडुम्बरः ।उडुम्बरः कुष्ठभेदे स्मृतं ताम्रमुडुम्बरम् ॥
26.3.45 · p. 186
अनुष्टुप्
अवहारः समाख्यातो द्यूतयुद्धादिविश्रमे ।निमन्त्रणोपनेतव्यद्रव्ये ग्राहाख्ययादसि ॥
26.3.46 · p. 186
अनुष्टुप्
परिकरं विदुः प्रज्ञाः पर्यङ्कपरिवारयोः ।प्रगाढगात्रिकाबन्धे समूहारम्भयोरपि ॥
26.3.47 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
प्रतिसरं समाख्यातं हस्तकङ्कणसूत्रके ।आरक्षे मण्डने माल्ये चमूपृष्ठनियोज्ययोः ॥
26.3.48 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
उत्पलपत्रमित्येतत्तमालपत्रमेव च ।नखरे खण्डतिलकप्रभेदेऽपि च तद्दले ? ॥
26.3.49 · p. 187
अनुष्टुप्metre not read in every line
सर्वतोभद्र इत्येष गृहश्लोकविशेषयोः ।निम्बेऽपि सर्वतोभद्रा गम्भारी च प्रकीर्तिता ॥
26.3.50 · p. 187
अनुष्टुप्