कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गुरु

guruपुं · masc.

In 20 kośas: 56 synonym verses, 14 as a nānārtha head word, 24 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.77 · p. 6
अभाषणं पुनर्मौनं गुरुर्धर्मोपदेशकः ॥ ७७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.29 · p. 9
बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः ।वाचस्पतिर्द्वादशार्चिर्धिषणः फाल्गुनीभवः ॥ ११८ ॥गीर्बृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1430 · p. 54
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.24
बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः ।जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.12
उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.47 · p. 7
वाचस्पतिराङ्गिरसो वृहस्पतिः कथ्यते गुरुर्जीवः ।धिषणस्त्रिदशाचार्यश्चित्रशिखण्डिप्रसूतश्च ॥ ४७ ॥
आर्या
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.699 · p. 81
वृहदुरु गुरु विस्तीर्णं पुरु पृथु पृथुलं महद्विशालं च ।व्यूढं विपुलं रुद्रं वरिष्ठमेकार्थमुद्दिष्टम् ॥ ६९९ ॥
आर्या
genderविadj.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.14 · p. 67
सुब्रह्मण्यः कुमारः स्यात्छूरपद्महरो गुरुः ।स्वामी सुवर्णमाली स्यादग्निभूः कुक्कुटध्वजः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.46 · p. 69
बुधे हर्षलकश्चान्द्रागीष्पत्याङ्गीरसौ गुरुः ।सुरेज्यतारकाकान्तः सर्वभाषाधिनायकः ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त गुरुनामानि Gaṇitanāmamālā 10.69 · p. 4
त्रिदशेज्यो वासवेज्यो देवेज्यः सचिवो गुरुः ।वाचस्पतिश्चाङ्गिरसो वाक्पतिश्वांगिरासुतः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त स्वगृहोच्चमूलत्रिकोणसंज्ञा Gaṇitanāmamālā 37.127 · p. 8
चापस्त्रिकोणपञ्चांशाः स्वक्षेत्रं चापरं गुरोः ।शुक्रस्त्रिकोणतिथ्यंशास्तुलायां स्वालयं ततः ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.41 · p. 73
संस्कारकर्ता स गुरुः श्रोत्रियच्छान्दसौ समौ ।श्रोत्रं क्लीब उपाध्यायोऽध्यापको ब्राह्मणायनः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.54 · p. 95
घटपर्यायजन्मार्थो भारद्वाजः कृपीपतिः ।द्रोणः शन्तनुजामाता गुरुराचार्य इत्यपि ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.185 · p. 234
वृन्दारको वामनस्तु गुरुर्वड्रो गुरुस्तथा ।बाढश्च व्यायतश्चैतेऽतिशयार्थाः स्मृता इति ॥ १८५ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.398 · p. 293
कपिरोमलता गुप्ता दुःस्पर्शा कच्छुराऽजया ।प्रावृषेण्या च सैव स्याच्छुन्दरी गुरुरार्षभी ॥ ३९८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.82 · p. 388
उर्गुरुः खण्डपरशुर्भूतेशः प्रमथाधिपः ।झोटिङ्गः शिशिरो बभ्रुः कटमर्दश्च रेवतः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.203 · p. 402
नेम्यर्थोऽप्यरुणोऽथ स्यात्प्रचख्या तु महामतिः ।बृहस्पतिः साद्धिषणो गुरुः संवर्त्तपूर्वजः ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.195 · p. 483
कर्माष्ठीवद्गुरुदन्तोममहिम्नां नाम पक्ष्मणोः ।धनुषः स्यादिति क्लीबपुंसयोः प्रकृतिस्थिताः ॥ १९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.104 · p. 37
वाचस्पतिः सुरगुरुर्गुरुरङ्गिरोजोजीवो बृहस्पतिरुतथ्यकनिष्ठ इज्यः ।स द्वादशार्चिरपि चित्रशिखण्डिजन्मास्याद्दीदिविर्धिषण-गीर्पति-फल्गुनीजाः ॥ १०४ ॥
वसन्ततिलका
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.22 · p. 42
क्लीबेऽव्ययं प्रत्यहं स्यादन्वहं तद्दिनं तथा ।त्रिषु प्रात्यहिकं दैनंदिनं चात्रसमुद्भवम् ।रवीन्दु-मङ्गल-बुध-गुरु-भार्गव-सौरयः ॥ २२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.20 · p. 233
गर्भाधानादिसंस्कारकारी गुरुरुदीरितः ।मन्त्रव्याख्याकृदाचार्य ईष्व इष्वोऽथ पाठकः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.85 · p. 20
उरु व्यूढं च विपुलं स्फारं गुरु ततं बृहत् ।महद्बहु च विस्तीर्णं वरीयस्तु वरिष्ठवत् ॥ ८५ ॥
अनुष्टुप्
genderविadj.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.74 · p. 17
हेरम्बः कृष्णशृङ्गश्च तुलायः कासरो गुरुः ।कृष्णः स्यात्कृष्णसारे तु निरञ्जननिरञ्जकौ ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.118 · p. 23
परमाप्तो गुरुर्ब्रह्म आत्मलाभकरः शिवः ।वरूथः प्रवरो ज्ञानी ब्राह्मणो ज्योतिरात्मवान् ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.214 · p. 35
गोधूमस्तु म्लेच्छभोज्यः सुमनाः सुमनो गुरुः ।शतपर्वा बहवकः कोद्रवे कोरदूषकः ॥ २१४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.114 · p. 19
ज्ञः श्यामाङ्गः श्रविष्ठाभूः पञ्चार्चिः स्यादिलाप्रियः ।बृहस्पतिर्गुरुर्जीवो धिषणद्वादशार्चिषौ ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.27 · p. 2
उपाध्यायोऽध्यापनकृत् पाठकोऽध्यापको गुरुः ।शिष्यः छात्रः पार्श्ववासी पवित्रः प्रयतः शुचिः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.320 · p. 22
ज्ञो बुधश्चन्द्रतनयो सौम्यो वैबोधनाह्वयः ।गुरुर्जीवः पीतवर्नो धिषणो देवतार्चितः ॥ ३२० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.74 · p. 9
बुधस्तु सौम्यो ज्ञश्चान्द्रिर्गुरुर्जीवो बृहस्पतिः ।वाचस्पतिः सुराचार्यो गीष्पतिर्धिषणोऽङ्गिराः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संगीतवर्गः Śāradīyākhyanāmamālā 2.3.112 · p. 30
मभजासानयरता गणा अष्ट लघुर्गुरु ।एकं द्विचतुःषट्स्वरैर्द्रुतो लघुर्गुरुः प्लुतः ॥ ११२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.118 · p. 31
उपाध्यायोऽव्यापकश्चोपदेष्टा पाठको गुरुः ।आचार्यः शिक्षकः शास्तानूचानः साङ्गशास्रवित् ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.50 · p. 8
ज्ञानश्रद्धानचारित्रयोगो मोक्षस्य साधनम् ।मौनं चाऽभाषणं प्रोक्तं धर्मोपदेशको गुरुः ॥ ५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.108 · p. 16
आङ्गिरसो गुरुर्वाग्मी गीःपतिर्बृहतीपतिः ।द्वादशार्चिः सुराचार्यो वाचस्पतिर्बृहस्पतिः ॥ १०८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 स्प (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2601 · p. 419
उरु गुरु बहु स्फारं पृथु च पृथुलं पुनः ।एतन्नामानि मन्यन्ते विशालस्य बुधैः सदा ॥ २६०१ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.218 · p. 16
गिरीश इज्यो वागीशश्चक्षा आङ्गिरसो गुरुः ।दीदिविर्द्वाशकरः प्राक् फाल्गुणश्च गीरथः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.420 · p. 30
मड्डुमृदङ्गकौ मन्द्रो मर्दलो दारुजो मृजः ।डिण्डिमः स्यादेकवादो गुरुर्मङ्गल इत्यपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 मृ (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.439 · p. 31
स एष तालो विज्ञेयो धीरैरनुद्रुतादिभिः ।अनुद्रुतं द्रुतञ्चैव लघुर्गुरुः प्लुतस्तथा ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 र्गु (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.440 · p. 31
अर्धमात्रं द्रुतं ज्ञेयं द्रुतार्धञ्चाप्पनुद्रुतम् ।एकमात्रो लघुः प्रोक्तः द्विमात्रस्तु गुरुः स्मृतः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.123 · p. 66
क्वचित्तु कपिला भस्मगर्भा च गुरुशिंशपा ।पिच्छिला शिंशपायुग्मपत्रिका गुरु चेत्यपि ।शिरीषः स्याच्च भण्डीसो भण्डिलश्च कपीतनः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.172 · p. 94
तातः पिता प्रसविता वप्ता जनयिता गुरुः ।जन्मदो जनको जन्यो जनितापि च कुत्रचित् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.7 · p. 111
द्विजन्मा वक्रजो मैत्रः वेदवासो नयो गुरुः ।ब्राह्मणे शुद्धसन्ताने ब्राह्मणायन उच्चते ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.13 · p. 111
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।जातकर्मादिकञ्चैव यः कुर्यात् स भवेद्गुरुः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.105 · p. 117
द्रोणस्तु गुरुराचार्यो द्रोणाचार्यश्च कीर्तिभाक् ।भारद्वाजः कुण्डयोणिर्द्रोणाचार्यक इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.185 · p. 25
धिषणस्त्रिदशाचार्यो जीवश्चित्रशिखण्डिजः ।गुरुराङ्गिरसो वाचस्पतिर्गीष्पतिरित्यपि ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1194 · p. 147
स्यात् कृताभिषवः सुत्वा श्रोत्रियच्छान्दसौ समौ ।अध्यापक उपाध्याय आचार्यो देशिको गुरुः ॥ ११९४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1425 · p. 172
वंशवर्णः कृष्णवर्णः संवर्तो वातुलश्चणः ।समौ खल्वकनिष्पावौ गोधूमः सुमनो गुरुः ॥ १४२५ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.36 · p. 30
विद्युन्मुखो महाज्वाली कपाली भीषणो गुरुः ।-----------------------------------प्रहारी रौरवो दण्डी बलितोऽत्युग्रशूलधृक् ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.4 · p. 35
नारायणस्तथाऽनन्तो मुखवृत्तं गुरुस्तथा ।विष्णुशय्या तथा शेषो दीर्घ आ-कार एव च ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.3 · p. 41
हृत् तारको गुरुर्दीर्घो नारायण-चतुर्मुखौ ।अनन्तो वासुदेवश्च वेदान्तः कारकः स्मृतः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
मुखवृत्तं गुरुः शेषो दीर्घोऽनन्तो मरुत् तथा ।नारायणो विघ्नराजः प्रतिष्ठा च द्वितीयकः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव दिग्वर्गः Trikāṇḍaśeṣa 1.3.11 · p. 16
दीदिविर्द्वादशकरश्चक्षाः सुरगुरुर्गुरुः ।शुक्रो भः शतपर्वेशो मघाभूर्भृगुरास्फुजित् ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.19 · p. 64
घटोत्कचान्तकः कर्णश्चम्पेशः सूतपुत्रकः ।द्रोणस्तु गुरुराचार्योऽश्वत्थामा तु कृपीसुतः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.34 · p. 5
मुनीन्द्रः सुगतः शाक्यो मुनिरद्वयवाद्यपि ।शाक्यसिंहस्तु सर्वार्थसिद्धः शौद्धोदनिर्गुरुः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.22 · p. 84
गुरुर्दिशानो बोधानः क्षाणी च ब्राह्मिकोऽथ सः ।मन्त्रव्याख्यादिनाचार्य उपाध्यायस्तु पाठनात् ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.53 · p. 127
यावके बलकुल्माषौ यवके तोयपर्णिका ।गोधूमस्तु म्लेच्छभोज्यः सुमनः श्लेष्मलो गुरुः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.139 · p. 134
दधि विप्रप्रियं हृद्यं क्षीरजं श्रीघनं गुरु ।स्थूलं श्वेतं च मंगल्यं कट्वारः शण्डगोरसौ ॥ १३९ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.162
गुरू गीर्पतिपित्राद्यौ द्वापरौ युगसंशयौ ॥ १६२ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.18 · p. 181
गुरुर्महति विख्यातो दुर्जरालघुनोर्गुरुः ।गुरुर्निषेकादिकरे पित्रादिसुरमन्त्रिणोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.65 · p. 312
गुरुर्निषेकादिकरे * ताता-दिके सुराणामपि मन्त्रिणि स्यात् ।विशेष्यवद्दुर्जरकेऽलघिष्ठेपृथौ रुरुर्दैत्यविशेषरङ्क्वोः ॥ ६५ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.358 · p. 73
गुरुर्बृहस्पतौ बुद्धमुनौ पित्रादिके तथा ।पुरोहिते च गोधूमेऽप्युपनीत्यादिकारिणि ॥ ३५८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.359 · p. 73
स्त्री तु मातृप्रभृतिषु गुर्वी दध्नि तु तन्नपि ।लग्नान्नवमराशौ च प्राहुः साव्वँत्सरा इदम् ॥ ३५९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.360 · p. 73
नीलिकासंज्ञलोहे च त्रिषु तु स्याच्चतुर्ष्वपि ।दुर्जरे बृहति ख्याते लघुनः प्रतियोगिनि ॥ ३६० ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास गकारादयः Paramānandīyanāmamālā 5.9.153 · p. 181
गन्धो लेशे स्मये गन्धे गुरुः पित्रादिजीवयोः ।गौरः सितेऽरुणे पीते चन्द्रकर्पूरयोः शुचौ ॥ १५३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.9 · p. 265
गात्रं गजाग्रजङ्घादिभागे देहाङ्गयोरपि ।गीः स्त्रियामेव भाषायां सरस्वत्यां यशस्यपि ।गुरुर्निषेकादिकरे पित्रादौ गीष्पतौ पुमान् ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.10 · p. 265
त्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि ।गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु ।गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् ।गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥असञ्जातरजः कन्या वरुणाणी नदीषु च ।घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे ।चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 द्म (wrong syllable); pāda 4, syllable 3 ङ्गु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1911 · p. 233
उपदेष्टरि मन्त्रादेः पित्रादौ गीष्पतौ गुरुः ।मात्रादौ स्त्री बृहत्ख्यातदुर्जरालघुषु त्रिषु ॥ १९११ ॥
अनुष्टुप्
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 224 · p. 542
गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे ॥ २२४ ॥
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.345 · p. 212
खरुरश्वे हरे दर्पे दन्ते श्वेते तु वाच्यवत् ।गुरुस्त्रिलिङ्ग्यां महति दुर्ज्जरालघुनोरपि ॥ ३४५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.27 · p. 232
गुडौ पिण्डेशुविकृती स्नुहीगुलिकयोर्गुडा ।गुरुर्गीष्पतिपित्राद्योः पौरोहित्यकरे च ना ॥ २७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.28 · p. 232
मात्रादौ स्त्री बृहत्ख्यातदुर्भरालघुषु त्रिषु ।गोत्रा गोनिचये भूम्यां गोत्रं नाम्नि कुलेऽचले ॥ २८ ॥
अनुष्टुप्
doubtful

गुरु as a meaning in nānārtha verses