कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पृषातक

pṛṣātakaपुं · masc.

In 4 kośas: 4 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.832 · p. 34
आज्ये तु दधिसंयुक्ते पृषदाज्यं पृषातकम् ॥ ८३२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.59 · p. 237
हव्यं यद्देवदेयं स्यात्कव्यं पित्र्यमिमे समे ।आज्ये तु दधिसंयुक्ते पृषदाज्यं पृषातकः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1387 · p. 219
विप्रद्वारा प्रदत्तं च पितृभ्यः कव्यमोदनम् ।घृते हि दधिसंयुक्ते पृषदाज्यं पृषातकः ॥ १३८७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.99 · p. 91
सान्नाय्यं तु दधिक्षीरं पृषदाज्यं पृषातकः ।पृषतोऽपि च दध्याज्ये पुरोडाशस्तु तृप्रकः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.