कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

मर्त्यविभागः (11/13)

* मूर्छानामानि *

मूर्च्छा मोहः कश्मलञ्च नाम मूर्च्छितजन्तुनः ।
4.1201 · p. 210
अनुष्टुप्

* वीरपारणकनाम *

वीरपाणं तथा वीरपाणकञ्च निगद्यते ॥ १३३४ ॥
4.1334 · p. 211
अनुष्टुप्
वृत्तभाविनि वा युद्धे मद्यपानं निगद्यते ।
4.1203 · p. 211
अनुष्टुप्

* पलायननामानि *

अपयानञ्च संदावः संद्रावो विद्रवो द्रवः ॥ १३३५ ॥
4.1335 · p. 211
अनुष्टुप्
उद्द्रावश्चापि प्रद्रावः पलायनमपक्रमः ।नशनं चेति नामानि युद्धात् पलायनस्य वै ॥ १३३६ ॥
4.1336 · p. 211
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable); pāda 4, syllable 3 प (wrong syllable)

* जयनाम *

जयश्च विजयो नाम जयार्थे वर्तते युधि ।
4.1206 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)

* पराजयनाम *

पराजयो रणे भङ्गो विज्ञायते मनीषिणः ॥ १३३७ ॥
4.1337 · p. 211
अनुष्टुप्metre not read in every line

* विप्लवनामानि *

विप्लवो डमरो डिम्बः शृगाली लुण्टने भवेत् ।
4.1208 · p. 211
अनुष्टुप्

* वैरशुद्धिनामानि *

वैरनिर्यातनं वैरशुद्धिर्वैरप्रतिक्रिया ॥ १३३८ ॥
4.1338 · p. 211
अनुष्टुप्

* बलात्कारनामानि *

बलात्कारो हठश्चापि प्रसभं पुनरुच्यते ।
4.1210 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्यु (wrong syllable)

* स्खलितनाम *

छलं च स्खलितं नाम मार्गच्युतः स कथ्यते ॥ १३३९ ॥
4.1339 · p. 212
अनुष्टुप्metre not read in every line

* परिभूतनामानि *

अभिभूतः पराभूतः परिभूतः पराजितः ।जितो भग्नश्च नामानि पराभवस्य मन्यताम् ॥ १३४० ॥
4.1340 · p. 212
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)

* पलायितनामानि *

पलायितो गृहीतदिक् नष्टस्तथा तिरोहितः ।पलायितस्य नामानि विजानन्ति मनोषिणः ॥ १३४१ ॥
4.1341 · p. 212
अनुष्टुप्metre not read in every line

* जिताहवनाम *

जितकाशी जिताहवो जयवान् कथ्यते युधि ।
4.1214 · p. 212
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ह (wrong syllable)

* पतितनाम *

प्रस्कन्नः पतितश्चैव पतितार्थे स मन्यते ॥ १३४२ ॥
4.1342 · p. 212
अनुष्टुप्metre not read in every line

* चारकनामानि *

चारश्च चारको गुप्तिः कारा कारागृहे भवेत् ।
4.1216 · p. 212
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)

* बन्दिनामानि *

प्रग्रहो ग्रहको बन्दी चोपग्रहोऽपि कथ्यते ॥ १३४३ ॥
4.1343 · p. 212
अनुष्टुप्metre not read in every line

* चातुर्वर्ण्यनाम *

चातुर्वर्ण्यं विप्रक्षत्रवैश्यशूद्रा नृणां भिदः ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ १३४४ ॥
4.1344 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
चत्वार आश्रमाः सन्ति तत्राद्यो ब्रह्मचारिणः ।वर्णी स्याद्गृहमेधी तु गृहस्थः स्नातको गृही ॥ १३४५ ॥
4.1345 · p. 213
अनुष्टुप्
जेष्ठाश्रमी द्वितीयो वै प्रोक्त आश्रम ऊह्यताम् ।वैखानसो वानप्रस्थस्तृतीयाश्रमवर्तिनि ॥ १३४६ ॥
4.1346 · p. 213
अनुष्टुप्
यतिः सांन्यासिको भिक्षुः तपस्वी पारिरक्षकः ।पारिकांक्षी च कर्मन्दी पाराशरी च मस्करी ॥ १३४७ ॥
4.1347 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
स्याद्रक्तवसनश्चेति चतुर्थाश्रमवर्तिनः ।
4.1222 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)

* स्थाण्डिलनाम *

स्थाण्डिलः स्थण्डिलशायी भूमिसुप्तो व्रती भवेत् ॥ १३४८ ॥
4.1348 · p. 213
अनुष्टुप्metre not read in every line

* दान्तनाम *

तपः क्लेशसहश्चैव दान्तोऽपि कथ्यते किल ।
4.1224 · p. 213
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 4, syllable 3 नि (wrong syllable)

* शान्तनामानि *

शान्तो जितेन्द्रियः श्रान्तः नामानि संभवन्ति वै ॥ १३४९ ॥
4.1349 · p. 213
metre not recognised

* शुद्धकर्मनाम *

अवदानं कर्मशुद्धं शुद्धाचरणमुच्यते ।
4.1226 · p. 214
अनुष्टुप्

* ब्राह्मणनामानि *

भूदेवो ब्राह्मणो ब्रह्मा षट्कर्मा मुखसम्भवः ॥ १३५० ॥
4.1350 · p. 214
अनुष्टुप्
अग्रजन्मा द्विजन्मा च द्विजातिर्वडिवा द्विजः ।वर्णज्येष्ठः शमीगर्भो वेदगर्भो विप्रः पुनः ॥ १३५१ ॥
4.1351 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 वि (wrong syllable)
एतसश्चाग्रजो मैत्रश्चाग्रजातिस्त्रयीमुखः ।सवित्रः सूत्रकण्ठश्च नामानि ब्राह्मणस्य वै ॥ १३५२ ॥
4.1352 · p. 214
अनुष्टुप्

* बटुनामानि *

माणवको वटुश्चैव बटुर्बटुक उच्यते ।
4.1230 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)

* भिक्षानाम *

अन्नादियाचनं भिक्षा ग्रासमात्रकमुच्यते ॥ १३५३ ॥
4.1353 · p. 214
अनुष्टुप्metre not read in every line

* उपनयनामानि *

उपनयश्चोपनायो वटूकरणमानयः ।यज्ञोपवीतसंस्कारः कथयन्ति मनीषिणः ॥ १३५४ ॥
4.1354 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)

* अग्नीन्धननामानि *

अग्नीधनं तथाऽग्निध्रा चाऽऽग्नीध्री चाऽग्निकारिका ।अग्निकार्यं च नामादि होमाग्निज्वलने भवेत् ॥ १३५५ ॥
4.1355 · p. 215
अनुष्टुप्

* दण्डभेदाः *

प्रोक्तावाषाढपालाशौ व्रतपालाशदण्डके ।राम्भस्तु वैणवोऽपि स्याद् दण्डो वंशस्य वै व्रतेः ॥ १३५६ ॥
4.1356 · p. 215
अनुष्टुप्
रौच्यः सारस्वतो बैल्वः बील्वदण्डो हि कथ्यते ।पैलवश्चौपरोधिकः पीलुदण्डो हि मन्यते ॥ १३५७ ॥
4.1357 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 धि (wrong syllable)
आश्वत्थो जितनेमिश्च व्रते पीप्पलदण्डकः ।औदुम्बर उलूखलो दण्ड उदुम्बरस्य च ॥ १३५८ ॥
4.1358 · p. 215
अनुष्टुप्metre not read in every line

* जटानाम *

तापसादेः शिरःकेशे जटा सटा च कथ्यते ।
4.1237 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)

* वृषीनामानि *

वृषी वृसी तथा पीठं तस्य दर्भासनं पुनः ॥ १३५९ ॥
4.1359 · p. 215
अनुष्टुप्metre not read in every line

* कमण्डलुनाम *

कमण्डलुश्च कुण्डिका तस्य पानीयपात्रकम् ।
4.1239 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ण्डि (wrong syllable)

* श्रोत्रियनाम *

श्रोत्रियश्छान्दसो विश्वे वेदज्ञातरि मन्यते ॥ १३६० ॥
4.1360 · p. 215
अनुष्टुप्metre not read in every line

* यजमाननामानि *

आदेष्टा च व्रती यष्टा यजमानश्च याजकः ।एतन्नामानि कथ्यन्ते यज्ञकर्तरि पुंसि वै ॥ १३६१ ॥
4.1361 · p. 216
अनुष्टुप्

* दीक्षितनाम *

दीक्षितः सोमयाजी च स्यात् सोमयाज्ञकारकः ।
4.1242 · p. 216
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)

* इज्याशीलनाम *

इज्याशीलो यायजूको यज्ञकर्मस्वभाववान् ॥ १३६२ ॥
4.1362 · p. 216
metre not recognised

* यज्वनो नामानि *

सोमरसाकृष्य यज्ञकर्त्ता यज्वाऽऽसुतीबलः ।
4.1244 · p. 216
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 3, syllable 4 स्तु (wrong syllable)

* सोमपनामानि *

सोमपस्तु सोमपीती सोमपीथी तथैव च ॥ १३६३ ॥
4.1363 · p. 216
metre not recognised
सोमपीवी च यज्ञे स्यात् स सोमरसपीबकः ।
4.1246 · p. 216
अनुष्टुप्

* स्थपतिनाम *

बृहस्पतिर्यज्ञकर्त्ता स्थपतिर्गीःपतीष्टिकृत् ॥ १३६४ ॥
4.1364 · p. 216
अनुष्टुप्

* सर्ववेदानाम *

सर्ववेदाः स एवास्ति यज्ञे सर्वस्वमर्पति ।
4.1248 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* यजुर्विदो नाम *

यजुर्वेदस्य च ज्ञाता यजुर्विदध्वर्युरुच्यते ॥ १३६५ ॥
4.1365 · p. 217
अनुष्टुप्metre not read in every line

* ऋग्विन्नाम *

ऋग्वेदस्य पुनर्ज्ञाता ऋग्विद्धोता सदोच्यते ।
4.1250 · p. 217
अनुष्टुप्metre not read in every line

* सामविदोनाम *

उद्गाता च सामविद्वै सामवेदस्य ज्ञानवान् ॥ १३६६ ॥
4.1366 · p. 217
अनुष्टुप्metre not read in every line

* यज्ञनामानि *

यज्ञो यागो मखो मन्युः स्तोमश्च संस्तरः सवः ।सप्ततन्तुः क्रतुः सत्रं वितानं बर्हिरध्वरः ॥ १३६७ ॥
4.1367 · p. 217
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
अध्ययनं ब्रह्मयज्ञो ब्रह्मज्ञानं स कथ्यते ।देवयज्ञो वषट्कारो होमो होत्रं तथाऽऽहुतिः ॥ १३६८ ॥
4.1368 · p. 217
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
एतन्नामानि कथ्यन्ते देवयज्ञस्य पण्डितैः ।
4.1254 · p. 217
अनुष्टुप्

* श्राद्धनामानि *

श्राद्धं तथा पिण्डदानं पितृयज्ञश्च तर्पणम् ॥ १३६९ ॥
4.1369 · p. 217
अनुष्टुप्
एतन्नामानि मन्यन्ते पितृयज्ञस्य कोविदैः ।नरयज्ञस्य नामास्ति नृयज्ञोऽतिथिपूजनम् ॥ १३७० ॥
4.1370 · p. 217
अनुष्टुप्
भूतयज्ञस्य नामाऽस्ति भूतयज्ञस्तथा बलिः ।प्रोक्ता एते महायज्ञाः पञ्चापि वै महीतले ॥ १३७१ ॥
4.1371 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
यज्ञो यः शुक्लपक्षान्ते स पौर्णमास उच्यते ।दर्शोऽपि कृष्णपक्षान्ते आमावास्यश्च मन्यते ॥ १३७२ ॥
4.1372 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ण (wrong syllable)
सौमिकी दीक्षणीयेष्टिः स्याद्दीक्षा व्रतसङ्ग्रहः ।सुगहना वृतिः कुम्बा वेदी भूमिः परिष्कृता ॥ १३७३ ॥
4.1373 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ह (wrong syllable)
चत्वरं स्थण्डिलं यज्ञाऽसंस्कृतभूमिरुच्यते ।पशुहिंसायज्ञस्तम्भः स्याद्यूपो यज्ञकीलकः ॥ १३७४ ॥
4.1374 · p. 218
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable); pāda 3, syllable 5 य (wrong syllable)
चषालश्चापि वै यूपकटकः कथ्यते किल ।यज्ञयूपाग्रभागे यद् वलयाकारवस्तु तद् ॥ १३७५ ॥
4.1375 · p. 218
अनुष्टुप्
घृतावनिस्तथा यूपकर्णो वै कथ्यते सदा ।घृतस्पर्शयज्ञस्तम्भस्यैकभागः स मन्यते ॥ १३७६ ॥
4.1376 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
यूपस्याग्रविभागो वै यूपाग्रभाग उच्यते ।तर्म वै कथ्यते नाम निर्मन्थदारु चाऽरणिः ॥ १३७७ ॥
4.1377 · p. 218
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable); pāda 4, syllable 3 न्थ (wrong syllable)

* अग्निभेदाः *

दक्षिणो गार्हपत्यश्चाऽऽहवनीयस्त्रयोऽग्नयः ।इदमग्नित्रयं विश्वे त्रेता हि कथ्यते बुधैः ॥ १३७८ ॥
4.1378 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 हि (wrong syllable)
मन्त्रादिसंस्कृतोऽग्निर्वै प्रणीतो मन्यते पुनः ।ऋग्धाय्या सामीधेनी च समिदाधीयते यया ॥ १३७९ ॥
4.1379 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मी (wrong syllable)

* समिन्नामानि *

समिदिन्धनमेधेध्मतर्पणैधांसि सन्ति षट् ।
4.1266 · p. 219
अनुष्टुप्

* भस्मनामानि *

भसितं भस्म भूतिश्च रक्षा क्षारश्च कथ्यते ॥ १३८० ॥
4.1380 · p. 219
अनुष्टुप्
पात्रं स्त्रुवादिकं प्रोक्तं स्त्रुक् स्त्रुवश्चापि मन्यते ।अधरा सोपभृत् स्याद्वै जुहूर्हि पुनरुत्तरा ॥ १३८१ ॥
4.1381 · p. 219
अनुष्टुप्
ध्रुवा स्यात् सर्वसंज्ञार्थं यस्यां घृतं निधीयते ।हन्येत योऽभिमन्त्र्यात्र स स्यात् पशुरुपाकृतः ॥ १३८२ ॥
4.1382 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 घृ (wrong syllable)
शमनं शसनं चैव मखे वधो हि प्रोक्षणम् ।पुनः परम्पराकं वै विजानन्ति मनीषिणः ॥ १३८३ ॥
4.1383 · p. 219
अनुष्टुप्metre not read in every line
अभिचारो हि हिंसार्थं कर्म यत् क्रियते च तत् ।स्याद्यज्ञयोग्यकार्यं वै यज्ञार्हं चापि यज्ञियम् ॥ १३८४ ॥
4.1384 · p. 219
अनुष्टुप्
हविस्तथैव सान्नाय्यं बलिदानं हि कथ्यते ।क्षीरशरः पयस्या च शृतोष्णक्षीरमं दधि ॥ १३८५ ॥
4.1385 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
आमिक्षाऽपि पुनः प्रोक्तं तन्मस्तुनि तु वाजिनम् ।हव्यं सुरेभ्यो दातव्यमग्निद्वारा हि कथ्यते ॥ १३८६ ॥
4.1386 · p. 219
अनुष्टुप्
विप्रद्वारा प्रदत्तं च पितृभ्यः कव्यमोदनम् ।घृते हि दधिसंयुक्ते पृषदाज्यं पृषातकः ॥ १३८७ ॥
4.1387 · p. 219
अनुष्टुप्
दध्याजं च दधिप्राज्यं कथ्यते पण्डितै जनैः ।दध्ना स्यान् मधुसंपृक्तं मधुपर्कं महोदयः ॥ १३८८ ॥
4.1388 · p. 220
अनुष्टुप्
हवित्री होमकुण्डञ्च होमाधारस्थले द्वयम् ।हव्यपाकश्चरुश्चैव हव्यान्नेन विरच्यते ॥ १३८९ ॥
4.1389 · p. 220
अनुष्टुप्
अमृतं यज्ञशेषश्च यज्ञशिष्टे हि वस्तुनि ।विघसो भृक्तशेषको यज्ञे भुङ्क्ते हि योऽधिकम् ॥ १३९० ॥
4.1390 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ष (wrong syllable)
यज्ञान्ते क्रियते स्नानं यज्ञान्तोऽवभृथो हि सः ।प्रोक्तं पूर्तं पुनर्वाप्यादीष्टं तथा मखक्रिया ॥ १३९१ ॥
4.1391 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
इष्टापूर्त्तं तु पूर्वोक्तमुभयं कथ्यते पुनः ।विष्टरो बर्हिर्मुष्टिश्च दर्भासने प्रयुज्यते ॥ १३९२ ॥
4.1392 · p. 220
अनुष्टुप्metre not read in every line
आहिताग्निरग्निहोत्री चाऽऽग्न्याहितोऽग्निचित् तथा ।अग्न्याधानमग्निहोत्रमाऽग्निरक्षणमित्यपि ॥ १३९३ ॥
4.1393 · p. 220
metre not recognised
दर्वी दर्विस्तथैवाऽस्ति नामेह घृतलेखनी ।महाज्वालो महावीरो होमाग्निश्च प्रवर्गवत् ॥ १३९४ ॥
4.1394 · p. 220
अनुष्टुप्
निगणो होमभस्मश्च होमधूमे प्रयुज्यते ।वैष्टुतं वै होमभस्म ख्यातं होमजभस्मनि ॥ १३९५ ॥
4.1395 · p. 220
अनुष्टुप्
आचमनमुपस्पर्शो जलेन मुखस्पर्शने ।सेकश्च सेचनं धारो घृतादेरग्निसिंचने ॥ १३९६ ॥
4.1396 · p. 220
अनुष्टुप्metre not read in every line
ध्यानयोगासनं ब्रह्मासनं ख्यातं महीतले ।स्वाध्यायादिक्रियाजातं ब्रह्मवर्चसमुच्यते ॥ १३९७ ॥
4.1397 · p. 221
अनुष्टुप्
वृत्ताध्ययनर्द्धिश्चापि तदेव कथ्यते बुधैः ।ब्रह्माञ्जलिस्तु वेदस्य पाठकाले कृताञ्जलिः ॥ १३९८ ॥
4.1398 · p. 221
अनुष्टुप्metre not read in every line
पाठे स्यान् मुखनिष्क्रान्ता विप्रुषो ब्रह्मबिन्दवः ।
4.1286 · p. 221
अनुष्टुप्

* पारायणनाम *

साकल्यवचनं पारायणं सम्पूर्णवाचने ॥ १३९९ ॥
4.1399 · p. 221
अनुष्टुप्

* कल्पनामानि *

क्रमः कल्पो विधिश्चापि कल्पसंज्ञा त्रयं भवेत् ।अङ्गुष्ठमूलं ब्राह्मं स्यात् तीर्थं कायकनिष्ठयोः ॥ १४०० ॥
4.1400 · p. 221
अनुष्टुप्
तर्जन्यङ्गुष्ठान्तः पित्र्यं दैवतं त्वङ्गुलीमुखे ।हस्तस्य च मध्यमात्रे सौम्यं तीर्थं निगद्यते ॥ १४०१ ॥
4.1401 · p. 221
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ष्ठा (wrong syllable); pāda 3, syllable 4 च (wrong syllable)
ब्रह्मत्वं ब्रह्मसायुज्यं ब्रह्मभूयं च मन्यते ।देवत्वं देवसायुज्यं देवभूयं च कथ्यते ॥ १४०२ ॥
4.1402 · p. 221
अनुष्टुप्
मूर्खत्वं मूर्खसायुज्यं मूर्खभूयं च मन्यते ।ग्रहणं वेदपाठस्य उपाकरणमुच्यते ॥ १४०३ ॥
4.1403 · p. 221
अनुष्टुप्
स्वाध्यायश्च जपः प्रोक्तो वेदस्याऽध्ययने किल ।औपवस्तं चौपवस्त्रमुपवस्त्रं तथैव च ॥ १४०४ ॥
4.1404 · p. 221
अनुष्टुप्
उपवासो निगद्येत व्रते भोजनरोधके ।कृच्छ्रं चान्द्रायणं सान्तपनं पापविनाशके ॥ १४०५ ॥
4.1405 · p. 222
अनुष्टुप्
अशनत्यागतात्पर्ये ख्यातः प्रायः शब्दः प्रयुज्यते ।नियमः पुण्यकं चैव व्रतं तपोऽपि कथ्यते ॥ १४०६ ॥
4.1406 · p. 222
metre not recognised

* चरित्रनामानि *

चरित्रं चरितं वृत्तं चारित्रं चरणं तथा ।आचारश्चापि शीलं च मन्यते पण्डितैः जनैः ॥ १४०७ ॥
4.1407 · p. 222
अनुष्टुप्
जप्येऽघमर्षणं सर्वैर्नोध्वंसि च प्रयुज्यते ।
4.1296 · p. 222
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable); pāda 4, syllable 2 ह (wrong syllable)

* पादग्रहणनामानि *

पादयोः स्पर्शने पादग्रहणमभिवादनम् ॥ १४०८ ॥
4.1408 · p. 222
metre not recognised
तथोपसंग्रहश्चेति कथ्यते कोविदैः किल ।
4.1298 · p. 222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)

* यज्ञसूत्रनामानि *

प्रोद्धृते दक्षिणे स्कन्धे यज्ञोपवीतमुच्यते ॥ १४०९ ॥
4.1409 · p. 222
अनुष्टुप्metre not read in every line
उपवीतं पवित्रं च यज्ञसूत्रं तथैव च ।ब्रह्मसूत्रं पुनश्चैव प्रख्यातं व्यवहारतः ॥ १४१० ॥
4.1410 · p. 222
अनुष्टुप्
प्राचीनावीतमाऽऽवीतं वामे स्कन्धे हि प्रोद्धृते ।कथ्यते कण्ठमालेव निवीतं कण्ठलम्बितम् ॥ १४११ ॥
4.1411 · p. 222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 हि (wrong syllable)

* वाल्मीकिनामानि *

आदिकविश्च वाल्मीकिः वाल्मीकश्च कविः कुशी ।मैत्रावरुणिर्वल्मीकः मैत्रावरुण उच्यते ॥ १४१२ ॥
4.1412 · p. 223
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable); pāda 3, syllable 5 णि (wrong syllable)

* व्यासनामानि *

वेदव्यासस्तथा व्यासो माठरो बादरायणः ।द्वैपायनश्च कानीनः पाराशर्योऽपि कथ्यते ॥ १४१३ ॥
4.1413 · p. 223
अनुष्टुप्

* व्यासमातृनामानि *

सत्यवती च शालङ्कायनजा गन्धकालिका ।तथा योजनगन्धा वै गन्धवती च वासवी ॥ १४१४ ॥
4.1414 · p. 223
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable); pāda 4, syllable 3 व (wrong syllable)
मत्स्योदरी च दाशेयी नामान्यष्टौ भवन्ति वै ॥ १४१५ ॥
4.1415 · p. 223

* परशुरामनामानि *

रामः परशुरामश्च पर्शुरामश्च भार्गवः ।जामदग्न्यस्तथा रैणुकेयश्च रेणुकासुतः ॥ १४१६ ॥
4.1416 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)

* नारदनामानि *

नारदो देवब्रह्मा च पिशुनः कलिकारकः ।
4.1307 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)

* वशिष्ठऋषिनामानि *

ख्यातस्त्वरुन्धतीजानिर्वशिष्ठः कथ्यते पुनः ॥ १४१७ ॥
4.1417 · p. 224
अनुष्टुप्metre not read in every line
अस्य भार्याऽक्षमाला च मन्यतेऽरुन्धती पुनः ।
4.1309 · p. 224
अनुष्टुप्

* विश्वामित्रऋषिनामानि *

प्रोक्तः त्रिशङ्कुयाजी सः गाधेयो गाधिनन्दनः ॥ १४१८ ॥
4.1418 · p. 224
अनुष्टुप्
विश्वामित्रश्च प्रख्यातः कौशिकोऽपि हि कथ्यते ।
4.1311 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)

* दुर्वासाऋषिनाम *

ऋषिः कुशारणिश्चैव दुर्वासा अपि मन्यते ॥ १४१९ ॥
4.1419 · p. 224
अनुष्टुप्metre not read in every line

* गौतमऋषिनाम *

गौतमश्च शतानन्दो नामाऽस्ति गौतमस्य वै ।
4.1313 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्ति (wrong syllable)

* याज्ञवल्क्यनामानि *

योगीशश्चापि योगेशो ब्रह्मरात्रिस्तथैव च ॥ १४२० ॥
4.1420 · p. 224
अनुष्टुप्metre not read in every line
याज्ञवल्क्यश्च नामास्ति यज्ञवल्कसुतस्य हि ।
4.1315 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)

* पाणिनिनामानि *

दाक्षीपुत्रस्तु दाक्षेयः सालातुरीय इत्यपि ॥ १४२१ ॥
4.1421 · p. 224
अनुष्टुप्metre not read in every line
पाणिनिश्चेति नामापि पाणिनीयस्य कथ्यते ।
4.1317 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ञ्ज (wrong syllable)

* पतञ्जलिऋषिनाम *

गोनर्दीयः पतञ्जलिः प्रोक्तं नाम पतञ्जलेः ॥ १४२२ ॥
4.1422 · p. 225
अनुष्टुप्metre not read in every line

* कात्यायननामानि *

कात्यः कात्यायनश्चैव मेघाजिच्च पुनर्वसुः ।वररुचिश्च नामानि कात्यायनस्य सन्ति वै ॥ १४२३ ॥
4.1423 · p. 225
अनुष्टुप्metre not read in every line

* व्याडिमुनिनामानि *

विन्ध्यवासी तथा व्याडिः नन्दिनीतनयः पुनः ।व्याडिमुनेश्च नामानि कथयन्ति हि कोविदाः ॥ १४२४ ॥
4.1424 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable)