कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

भूमिकाण्डः · ब्राह्मणाध्यायः (1/2)

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां भूमिकाण्डे मनुष्याध्यायः

ब्राह्मणो मुखजो विप्रो भूदेवो मैत्र एतशः ।अग्रजन्मा वेदगर्भो बाडबश्च त्रयीपुषः ॥ १ ॥
3.6.1 · p. 83
अनुष्टुप्
संस्कारास्तु निषेकाद्याः श्मशानान्ता द्विजन्मनाम् ।गर्भाधानं तु यौनं स्यात् प्राजापत्यं च मौलिकम् ॥ २ ॥
3.6.2 · p. 83
अनुष्टुप्
आधानिकं पुंसवनं पौंस्नमप्यथ गार्भिणम् ।सीमन्तोन्नयनं नामकर्मामन्त्रणिके समे ॥ ३ ॥
3.6.3 · p. 83
अनुष्टुप्
चौलं तु चूडाकरणं क्षुरकर्म तु मुण्डनम् ।मौण्डिकं भद्राकरणं वपनं परिवापणम् ॥ ४ ॥
3.6.4 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रा (wrong syllable)
सशिखं वपनं तोडं निश्शिखं भिक्षुलोचकम् ।ओट्टितं त्वतिघृष्टं तत् पंचचीरोट्टितं पुनः ॥ ५ ॥
3.6.5 · p. 83
अनुष्टुप्
आडिण्डिकं त्रिषु परे मुण्डः स्यान्मुण्डितोऽशिखः ।शिखावानवमुण्डः स्यात् पंचचूडस्तु सारणः ॥ ६ ॥
3.6.6 · p. 83
अनुष्टुप्
उपनायस्तूपनय आनायश्च वटूकृतिः ।ब्रह्मचारी व्रती वर्णी नैष्ठिकस्तु स आश्रमी ॥ ७ ॥
3.6.7 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
गायत्रस्तूपकुर्वाणो वैदिकोऽधीतवेदकः ।प्राजापत्यः कृतोद्वाहस्स एवौदुंबरायणः ॥ ८ ॥
3.6.8 · p. 83
अनुष्टुप्
वर्णिलिंगी लिंगवृत्तिर्निः स्वाध्यायो निराकृतिः ।वान्ताशी भोजनार्थं यो गोत्रादि वदति स्वकम् ॥ ९ ॥
3.6.9 · p. 83
अनुष्टुप्
उच्छिष्टभोजिनो देवनिवेद्यबलिमोजिनः ।जातिमात्रोपजीवस्तु यस्स स्याद्ब्राह्मणब्रुवः ॥ १० ॥
3.6.10 · p. 83
अनुष्टुप्
अजपस्त्वसदध्येता देवाजीवस्तु देवलः ।अघायवो वघरता विगीताः ख्यातगर्हणाः ॥ ११ ॥
3.6.11 · p. 83
अनुष्टुप्
अवगीताश्च हन्ता तु गुरूणां नरकीलकः ।शिश्विदानो दुराचारो निषिद्धेकरुचिः खरुः ॥ १२ ॥
3.6.12 · p. 84
अनुष्टुप्
त्यक्तात्मा त्यक्तसंवासो ह्यवकीर्णी क्षतव्रतः ।शाखारण्डोऽन्यशाखास्थो वर्णिलिंग्यादयस्त्रिषु ॥ १३ ॥
3.6.13 · p. 84
अनुष्टुप्
वानकं तु ब्रह्मचर्यं नियमप्रयमौ व्रते ।अग्नीन्धनं त्वग्निकार्यमाग्नीधी चाग्निकारिका ॥ १४ ॥
3.6.14 · p. 84
अनुष्टुप्
ग्रासे तु पावनी भिक्षा पुष्कलस्तच्चतुष्टयम् ।ते चत्वारो हन्तकारो हन्तकारद्वयं घनः ॥ १५ ॥
3.6.15 · p. 84
अनुष्टुप्
मुष्ट्यष्टकेऽव्ययं किञ्चित् पुष्कलन्तु तदष्टके ।पुष्कलानि तु चत्वारि पूर्णपात्रकमस्त्रियाम् ॥ १६ ॥
3.6.16 · p. 84
अनुष्टुप्
भिक्षाचारः कौक्कुटिकस्त्रिषु स्यादौर्ध्वरथ्यकः ।मौञ्जी तु मेखला क्षोणी मौर्वी त्वेकलमात्रिका ॥ १७ ॥
3.6.17 · p. 84
अनुष्टुप्
सौत्री तु धटिनी रंभा दण्डस्तु दमयन्तिका ।पालाशो दण्ड आषाढो व्रते रांभस्तु वैणवः ॥ १८ ॥
3.6.18 · p. 84
अनुष्टुप्
बैल्वः सारस्वतो रौच्यः पैलवस्त्वौपरोधिकः ।आश्वत्थस्त्वजितनेमिरौदुंबर उलूखलः ॥ १९ ॥
3.6.19 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
द्विजायनी ब्रह्मसूत्रं सूत्रं यज्ञोपवीतकम् ।पवित्रञ्चोपवीतन्तु प्रोद्धृते दक्षिणे भुजे ॥ २० ॥
3.6.20 · p. 84
अनुष्टुप्
प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलंबितम् ।कृष्णाजिनं कर्णिकं स्यात् कृत्तिः स्त्री चर्म चाजिनम् ॥ २१ ॥
3.6.21 · p. 84
अनुष्टुप्
गुरुर्दिशानो बोधानः क्षाणी च ब्राह्मिकोऽथ सः ।मन्त्रव्याख्यादिनाचार्य उपाध्यायस्तु पाठनात् ॥ २२ ॥
3.6.22 · p. 84
अनुष्टुप्
पाठके तु पठिर्वेदपठिता कलपाठकः ।पाठको धर्मशास्त्राणां धार्मिको धर्ममाणवः ॥ २३ ॥
3.6.23 · p. 84
अनुष्टुप्
एकतीर्थी सतीर्थ्यैकगुरू सब्रह्मचार्यपि ।धर्मभ्राता सहाध्यायी शैक्षाः प्राथमकल्पिकाः ॥ २४ ॥
3.6.24 · p. 85
अनुष्टुप्
छात्रस्तु शिष्यो मोकः प्राडुपज्ञा ज्ञानमादिमम् ।समौ सिद्धान्तराद्धान्तौ ज्ञात्वारंभ उपक्रमः ॥ २५ ॥
3.6.25 · p. 85
अनुष्टुप्
पाठे बिन्दुर्ब्रह्मबिन्दुर्ब्रह्मांजलिरिहांजलिः ।ऋक् स्त्री साम यजुश्चेति वेदास्ते तु त्रयस्त्रयी ॥ २६ ॥
3.6.26 · p. 85
अनुष्टुप्
आथर्वणं पौरोहितं वेदाश्चत्वार एव ते ।छन्दो ब्रह्म श्रुतिर्वेदोऽप्यथ विद्याश्चतुर्दश ॥ २७ ॥
3.6.27 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रो (wrong syllable)
शीक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।ज्योतिषामयनं चेति वेदांगान्यंगिभिः सह ॥ २८ ॥
3.6.28 · p. 85
अनुष्टुप्
मीमांसया पुराणेन स्मृत्या न्यायगणेन च ।आयुर्वेदो वैद्यशास्त्रं गांधर्वं गीतिशासनम् ॥ २९ ॥
3.6.29 · p. 85
अनुष्टुप्
अर्थशास्त्रं दण्डनीतिर्धनुर्वेदोऽस्त्रशासनम् ।चत्वार उपवेदास्ते विद्याश्चाष्टादशोदिताः ॥ ३० ॥
3.6.30 · p. 85
अनुष्टुप्
आन्वीक्षिकी तर्कविद्या निरुक्तं पदभंजना ।नामशास्त्रे निघण्टुर्ना सर्वविद्या कदन्निका ॥ ३१ ॥
3.6.31 · p. 85
अनुष्टुप्
अध्यायः कामिकः काव्ये तूछ्वासः सर्ग इत्यपि ।प्रपाठकस्त्वाह्निकोऽथो अनुवाकश्च खण्डिका ॥ ३२ ॥
3.6.32 · p. 85
अनुष्टुप्
ब्राह्मणञ्चेत्यवच्छेदा एकग्रन्थस्तु फक्किका ।विध्यर्थवादमन्त्रास्तु खिलान्युपखिलानि च ॥ ३३ ॥
3.6.33 · p. 85
अनुष्टुप्
छन्दोभेदास्तु गायत्रीप्रमुखा एकविंशतिः ।स्त्रियस्तासु क्रमात् क्लीबे स्युर्गायत्रौष्णिहादयः ॥ ३४ ॥
3.6.34 · p. 85
अनुष्टुप्
मुखशोभा वेदशालिमुखे चित्रावनिश्च सा ।विधा ह्युच्चारणाभेदाः स्पृष्टसंवृततादयः ॥ ३५ ॥
3.6.35 · p. 85
अनुष्टुप्
कादयो व्यञ्जनाः क्ली वा स्पर्शास्ते मावसानकाः ।स्त्रियोंऽतः स्था यरलवा ऊष्माणः शषसाः सहाः ॥ ३६ ॥
3.6.36 · p. 86
अनुष्टुप्
विसर्गस्त्वभिनिष्ठानः परे त्रिष्वनुनासिकः ।नीचोऽनुदात्तो निहत उदात्तः स्वरितोऽपि च ॥ ३७ ॥
3.6.37 · p. 86
अनुष्टुप्
वरिवस्या तु शुश्रूषा सेवा भक्तिरुपासना ।परिचर्याराधनञ्च सेवनञ्च प्रसादनम् ॥ ३८ ॥
3.6.38 · p. 86
अनुष्टुप्
पूजार्चना नमस्यार्चा सपर्येज्यार्हणांचनम् ।नमस्या तु नमस्कारो वन्दनं चाभिवादनम् ॥ ३९ ॥
3.6.39 · p. 86
अनुष्टुप्
उपसंग्रहणं पादग्रहणेनाभिवादनम् ।गृहस्थः स्नातकश्चक्री गृहमेधी गृहीति च ॥ ४० ॥
3.6.40 · p. 86
अनुष्टुप्
तस्मिन् सावित्रशालीनौ यः कुसूलेन धान्यभृत् ।पृथुचित्रः कुण्डधान्यो विघसाशी दिनत्रयी ॥ ४१ ॥
3.6.41 · p. 86
अनुष्टुप्
यायावरश्चक्रचरः सद्यःप्रक्षालितान्नकः ।परिवेत्ताग्रजेऽनूढे कृतदारपरिग्रहः ॥ ४२ ॥
3.6.42 · p. 86
अनुष्टुप्
परिवित्तस्तु तज्ज्यायान् परिवित्तिः कुरी च सः ।भ्रातुर्मृतस्य जायायां संसक्तो दिधिषूपतिः ॥ ४३ ॥
3.6.43 · p. 86
अनुष्टुप्
स तु स्यादग्रदिधिषुर्योऽनुजो रमते तया ।स्यादग्रेदिधुषुश्चासौ स्यादग्रेदिधिषूरपि ॥ ४४ ॥
3.6.44 · p. 86
अनुष्टुप्
या ज्येष्ठायामनूढायामूढाग्रेदिधिषूरसौ ।पुनरूढा पुनर्भूः स्यादूर्मिला त्यक्तभर्तृका ॥ ४५ ॥
3.6.45 · p. 86
अनुष्टुप्
देवरे विनियुक्ता या यात्यन्यं साभिसारिका ।प्रसभा निरिणा मीढा निर्लज्जा धर्षणी च सा ॥ ४६ ॥
3.6.46 · p. 86
अनुष्टुप्
विस्तीर्णजानुर्विकटा नतजानुस्तु सिंहिका ।दूषिका क्रोधविवशा पृषता श्वेतबिन्दुका ॥ ४७ ॥
3.6.47 · p. 86
अनुष्टुप्
अन्यानुरक्ता विगता नष्टा संस्पृष्टमैथुना ।कन्याप्रसूतिजा जारी हारी नाम्नैव दूषिता ॥ ४८ ॥
3.6.48 · p. 87
अनुष्टुप्
हारिता पतितोत्पन्ना कोहली मुखरा भृशम् ।जडा तु पाली कुब्जा तु दुर्दर्शा कालिकापि च ॥ ४९ ॥
3.6.49 · p. 87
अनुष्टुप्
शरभा तु विशीर्णांगी स्वल्पदेहा मडूषिका ।द्योता पिंगलकेशाक्षी ऋषभा वृषलक्षणा ॥ ५१ ॥
3.6.51 · p. 87
अनुष्टुप्
वर्षकारी स्रवत्पाणिपादा राता विहारिणी ।सांकारिका तु पित्रादिगृहेष्वग्न्यादिदायिनी ॥ ५२ ॥
3.6.52 · p. 87
अनुष्टुप्
वैधव्यलक्षणोपेता पतिघ्नी खण्डनापि च ।सुता त्वजीववत्साया मातुर्या सा विदूषिका ॥ ५३ ॥
3.6.53 · p. 87
अनुष्टुप्
विकटाद्यास्तु नोद्वाह्याः कन्यकाः सप्तविंशतिः ।उपयामः परिणयो विवाहो दारसंग्रहः ॥ ५४ ॥
3.6.54 · p. 87
अनुष्टुप्
उद्वाहोपयमौ पाणिग्रहो जंबूलमालिका ।कन्यादाने तु यद्दत्तं यौतकं यौतुकं च तत् ॥ ५५ ॥
3.6.55 · p. 87
अनुष्टुप्
गोपाली वर्णके शान्तियात्रावरनिमंत्रणे ।दौन्दुभी वरयात्रायां धूलिभक्ते तु वार्तिकम् ॥ ५६ ॥
3.6.56 · p. 87
अनुष्टुप्
स्यादिन्द्राणीमहे हेलिरुलूलुर्मंगलध्वनिः ।घोरी हुलिहुली चासौ सैव मंगलमालिका ॥ ५७ ॥
3.6.57 · p. 87
अनुष्टुप्
क्लीबे स्वस्त्ययनं पूर्णकलशे मंगलाह्निकम् ।नन्दिकौ तोरणस्तंभौ शुककूटस्तयोः स्रजि ॥ ५८ ॥
3.6.58 · p. 87
अनुष्टुप्
सैव वन्दनमालापि कुहलिः पूगपुष्पिका ।हस्तसूत्रं प्रतिसरस्तद्बन्धे हस्तकोहलिः ॥ ५९ ॥
3.6.59 · p. 87
अनुष्टुप्
तद्ग्रन्धिस्त्ववका धानी करणं हस्तलेपनम् ।उत्सवेषु सुहृद्भिर्यद्बलादाकृष्य गृह्यते ॥ ६० ॥
3.6.60 · p. 88
अनुष्टुप्
वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ।उत्सवो मह उद्धर्ष उद्धवो हर्षवेणुकः ॥ ६१ ॥
3.6.61 · p. 88
अनुष्टुप्
क्षणः पर्व च कल्याणं भोज्यं तु जठरोत्सवः ।मधुपर्कस्तु निष्टंकः शंखपात्रं तु पाटली ॥ ६२ ॥
3.6.62 · p. 88
अनुष्टुप्
यज्ञाध्ययनदानानि याजनाध्यापनग्रहाः ।षट्कर्माणि महायज्ञा देवयज्ञादिपंचकम् ॥ ६३ ॥
3.6.63 · p. 88
अनुष्टुप्
निवापः पितृदानं स्यादामपात्रं तु वापिमम् ।मृतस्नानमपस्नानं श्राद्धन्तु पितृभोजनम् ॥ ६४ ॥
3.6.64 · p. 88
अनुष्टुप्
दशाहे श्राद्धमाग्नेयं साज्यमेकादशेऽहनि ।संप्रेषणी द्वादशेऽह्नि मासप्राप्तौ तु मासिकम् ॥ ६५ ॥
3.6.65 · p. 88
अनुष्टुप्
एवं त्रिपक्षी षाण्मासी ज्ञेया सांवत्सरीति च ।गयायां पिण्डदानं यत् पितृकार्यं तदार्यकम् ॥ ६६ ॥
3.6.66 · p. 88
अनुष्टुप्
आम्रसेकस्तु यस्तत्र सा चारी सा पितृप्रपा ।त्रिष्वातिथ्यमतिथ्यर्थं विघसो विप्रशेषितम् ॥ ६७ ॥
3.6.67 · p. 88
अनुष्टुप्
आवेशिकः स्यादागन्तुरातिथ्यः प्राहुणोऽतिथिः ।सूर्योढस्तु स संप्राप्तो यस्सूर्येऽस्तंगतेऽतिथिः ॥ ६८ ॥
3.6.68 · p. 88
अनुष्टुप्
अथाग्न्याधानमाधेयमाधानं चाग्निसंग्रहः ।होमस्तु सवनं होत्रं हवनं हुतिराहुतिः ॥ ६९ ॥
3.6.69 · p. 88
अनुष्टुप्
अग्निहोत्रं नित्यहोमः कुत्सितास्त्वग्निहोत्रिणः ।वीरोज्झप्रमुखास्तत्र वीरोज्झो न जुहोति यः ॥ ७० ॥
3.6.70 · p. 88
अनुष्टुप्
अग्निहोत्रं स्वयं वर्षमुत्सन्नाग्निस्तु वीरहा ।अग्निहोत्रच्छलाद्याच्ञापरो वीरोपजीवकः ॥ ७१ ॥
3.6.71 · p. 88
अनुष्टुप्
वीरविप्लावको जुह्वत् धनैः शूद्रसमाहृतैः ।जातमात्रगृहीताग्निर्यस्स जातारणिर्द्विजः ॥ ७२ ॥
3.6.72 · p. 89
अनुष्टुप्
यस्यौपासन एवाग्निरेकाग्निः काल्पिकश्च सः ।अग्न्याहितस्त्वाहिताग्निर्नग्नः पुनरनग्निकः ॥ ७३ ॥
3.6.73 · p. 89
अनुष्टुप्
पर्याधाताग्रजेऽनग्नौ कृताधानोऽग्रजस्त्वसौ ।पर्याहितस्तथा न्यायः परियष्टृपरीष्टयोः ॥ ७४ ॥
3.6.74 · p. 89
अनुष्टुप्
इज्याशीलो यायजूकः सोमपीथी तु सोमपः ।सुत्वा त्वभिषवादूर्ध्वं चितवानग्निमग्निचित् ॥ ७५ ॥
3.6.75 · p. 89
अनुष्टुप्
यष्टा तु यजुरादेष्टा यजमानश्च होत्ववत् ।सोमे तु दीक्षितः सोत्वो यज्वा स्यादिष्टवानसौ ॥ ७६ ॥
3.6.76 · p. 89
अनुष्टुप्
सर्ववेदास्स यो यागे दत्तसर्वस्वदक्षिणः ।यज्ञत्यागी वृथाजातोऽपंचयज्ञो मलिम्लुचः ॥ ७७ ॥
3.6.77 · p. 89
अनुष्टुप्
याजका भरता यज्ञलिहः कुरव ऋत्विजः ।यतस्रुचो देवयवो वाघतो वृक्तबर्हिषः ॥ ७८ ॥
3.6.78 · p. 89
अनुष्टुप्
अध्वर्यूद्गातृहोतारो ब्रह्मा चेति महर्त्विजः ।मन्त्राणां दैवतं छन्दो निरुक्तं ब्राह्मणान्यृषीन् ॥ ७९ ॥
3.6.79 · p. 89
अनुष्टुप्
कृत्तद्धितादि चाज्ञात्वा यजन्तो यागकण्टकाः ।याजयंतो लैंगधूमाः कौटास्तूभयकारिणः ॥ ८० ॥
3.6.80 · p. 89
अनुष्टुप्
प्रसर्पको दृशीकुश्च दर्शनायाध्वरं गतः ।उपद्रष्टा सदस्यः स्याच्छान्दसश्रोत्रियौ समौ ॥ ८१ ॥
3.6.81 · p. 89
अनुष्टुप्
अधीतसांगवेदो यस्सोऽनूचानो युगी गणिः ।यज्ञो यागोऽध्वरः स्तोमः सप्ततन्तुर्मखः सवः ॥ ८२ ॥
3.6.82 · p. 89
अनुष्टुप्
सहसानुर्यजः सानुर्वसुनो विश्वहर्यकः ।पाकयज्ञाः पार्वणाद्या हविर्यज्ञास्त्वसोमकाः ॥ ८३ ॥
3.6.83 · p. 89
अनुष्टुप्
पशुबन्धास्तु पशवः सोमाः सौम्याश्च सोमिनः ।सवनैस्त्रिभिरेकाहास्तैरावृत्तैरहर्गणाः ॥ ८४ ॥
3.6.84 · p. 90
अनुष्टुप्
ते दीक्षितैः कृताः सत्राण्यहीना याजकैः कृताः ।अहीना द्वादशाहात् प्राक् सत्राण्यूर्ध्वं स तु द्वयः ॥ ८५ ॥
3.6.85 · p. 90
अनुष्टुप्
सर्वेऽमी यज्ञक्रतवस्त एवैन्द्राः प्रजागमाः ।ज्योतिष्टोमश्चतुष्टोमो ज्योतिरानृण्यमित्यपि ॥ ८६ ॥
3.6.86 · p. 90
अनुष्टुप्
अग्निष्टोमादयः संस्थाभेदाः सप्तास्य तन्तवः ।सौमिकी दीक्षणीयेष्टिर्दीक्षा तु व्रतसंग्रहः ॥ ८७ ॥
3.6.87 · p. 90
अनुष्टुप्
प्रायणीयोदयनीयौ त्रिष्वाद्येऽन्त्ये च कर्मणि ।पुरोडाशस्य प्रथने पणिकं प्रथिकैरुके ॥ ८८ ॥
3.6.88 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
प्रोक्षण्यासादनं दैष्टं पत्नीसन्नहनं स्पशा ।स्रुचां सम्मार्जनं शुद्धिः स्रुगासादनमाहतिः ॥ ८९ ॥
3.6.89 · p. 90
अनुष्टुप्
हुतिराज्याधिश्रयणमाज्यावेक्षणमक्षतिः ।स्यादिध्मप्रोक्षणं कार्ष्णञ्चैत्यमाज्याधिवासनम् ॥ ९० ॥
3.6.90 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धि (wrong syllable)
वेद्यास्तरणमाप्रासः प्रस्तरः स्तरणं छदिः ।त्रैहोत्रं समिदाधानमदितिस्तासु सेचनम् ॥ ९१ ॥
3.6.91 · p. 90
अनुष्टुप्
पावकं सोमपानं स्यान्मिश्रकं तु घृतांजनम् ।उपांशुस्तु प्राणिकः स्यादन्तर्यामस्त्वपानिकः ॥ ९२ ॥
3.6.92 · p. 90
अनुष्टुप्
श्यैतनौधसयोर्गानं साम्नोरुपनिमंत्रणम् ।व्यञ्जनाः पशुसंस्काराः सामिकं त्वभिमंत्रणम् ॥ ९३ ॥
3.6.93 · p. 90
अनुष्टुप्
परंपराकं शमनं प्रोक्षणं च पशोर्वधे ।अथ यज्ञोपकरणं यजत्रं यजनं च तत् ॥ ९४ ॥
3.6.94 · p. 90
अनुष्टुप्
होमधेनुस्त्वग्निहोत्री होमकाष्ठी तु नालिका ।होमधूमस्तु निगणो होमभस्म-तु-वैष्णुतम् ॥ ९५ ॥
3.6.95 · p. 90
अनुष्टुप्
होमेन्धने स्यादिध्मोऽस्त्री पुमानेधः समित् स्त्रियाम् ।इन्धनं त्वेध आलाद्यमहोत्रं तु तृणेन्धनम् ॥ ९६ ॥
3.6.96 · p. 91
अनुष्टुप्
काष्ठेन्धनन्तु गरहं गोकरीषेन्धनं बुसा ।यवादि त्वकृतं हव्यं तण्डुलास्तु कृताकृतम् ॥ ९७ ॥
3.6.97 · p. 91
अनुष्टुप्
अन्नादि कृतमामिक्षा दध्नोष्णं संयुतं पयः ।पयस्या च क्षीरशरस्तन्मस्तुनि तु वाजिनम् ॥ ९८ ॥
3.6.98 · p. 91
अनुष्टुप्
सान्नाय्यं तु दधिक्षीरं पृषदाज्यं पृषातकः ।पृषतोऽपि च दध्याज्ये पुरोडाशस्तु तृप्रकः ॥ ९९ ॥
3.6.99 · p. 91
अनुष्टुप्
हवनी स्रुक् स्रुचो भेदाः स्युर्जुहूरुपभृद्ध्रुवा ।अथाग्निहोत्रहवणी श्रपण्याघारणः स्रुवः ॥ १०० ॥
3.6.100 · p. 91
अनुष्टुप्
चमसोऽस्त्रीति पात्राणि वायव्यं सौमिके त्रिषु ।परिप्लवार्थदण्डा स्रुक् दर्वी तु घृतलेखनी ॥ १०१ ॥
3.6.101 · p. 91
अनुष्टुप्
चमूः स्त्री चर्म सुत्यार्थं ग्रावणस्त्वभ्रयोऽश्मसु ।विघनो घनो मुद्गरे नरःस्फ्योद्धननन्दनाः ॥ १०२ ॥
3.6.102 · p. 91
अनुष्टुप्metre not read in every line
यूपोऽस्त्री संस्कृतस्तंभो होमयूपस्तु शौभिकः ।यूपावग्निषु पार्श्वस्थावुपस्थाविति संज्ञितौ ॥ १०३ ॥
3.6.103 · p. 91
अनुष्टुप्
अग्निष्ठं त्रिषु यूपादि यदग्नेः सम्मुखे स्थितम् ।यूपमध्यं समादानं यूपाग्रं तर्म न स्त्रियाम् ॥ १०४ ॥
3.6.104 · p. 91
अनुष्टुप्
कटकेऽस्य चषालोऽस्त्री मूले तूपरमक्षते ।वेष्टनं तु परिव्याणं कुंबा सुगहना वृतिः ॥ १०५ ॥
3.6.105 · p. 91
अनुष्टुप्
यूपे सप्तदशारत्नावरत्निर्मेथिकोऽधरः ।उत्तरेषां क्रमादाख्या उत्त्रासः स्वरुमोचनः ॥ १०६ ॥
3.6.106 · p. 91
अनुष्टुप्
तथाञ्जनो वैयथितः क्षालनः शवशीर्षकः ।सुधन्वो रथगरुतः शैखालीककरञ्जकौ ॥ १०७ ॥
3.6.107 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
वासवो वैष्णवस्त्वाष्ट्रः सौम्यो माधुरवेजनौ ।संघातिकारणिर्न क्ली कुशा वरुणकाष्ठिका ॥ १०८ ॥
3.6.108 · p. 92
अनुष्टुप्
खर्जनी कृष्णविषाणा वेदिर्भूमिः परिष्कृता ।कुण्डं हवित्री हवनी कुण्डे स्याद्वर्तुले परम् ॥ १०९ ॥
3.6.109 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
वेदिस्त्रियां चतुष्कोणे त्रिकूटं तु त्रिकोणके ।तस्मिन्नास्तावसंस्तावौ स्तुवते यत्र सामभिः ॥ ११० ॥
3.6.110 · p. 92
अनुष्टुप्
चात्वालोऽस्त्री मृत्खनः स्यादुत्करोऽवकरालयः ।शस्त्राण्युक्थानि सामानि स्तोत्राणि स्तुतयोऽपि च ॥ १११ ॥
3.6.111 · p. 92
अनुष्टुप्
याज्या पुरोनुवाक्या च याज्यापुटमिति द्वयम् ।सौविष्टकृत्यौ संयाज्ये कूर्चालोलस्फुटी पशुः ॥ ११२ ॥
3.6.112 · p. 92
अनुष्टुप्
स्त्र्यावृत् क्रमो विधिः कल्प उपकल्पोऽनुकल्पकः ।पौर्वापर्यं त्वानुपूर्व्यं पर्यायोऽनुक्रमः क्रमः ॥ ११३ ॥
3.6.113 · p. 92
अनुष्टुप्
अनुपात्यय आवृत् स्त्री परिपाट्यानुपूर्व्यपि ।पर्ययस्त्वतिपातः स्यादतिक्रम उपात्ययः ॥ ११४ ॥
3.6.114 · p. 92
अनुष्टुप्
इष्टं यागात्मकं कर्म पूर्तं खातादिकर्मणि ।आचारो वृत्तचारित्रचरित्रचरणानि च ॥ ११५ ॥
3.6.115 · p. 92
अनुष्टुप्
वृत्तस्याध्ययनस्यापि संपत्तिर्ब्रह्मवर्चसम् ।पतनं सत्पथाद्भ्रंशः चर्या त्वीर्यापथस्थितिः ॥ ११६ ॥
3.6.116 · p. 92
अनुष्टुप्
हिंसाकर्माभिचारः स्यान्मूलकर्म तु कार्मणम् ।वशीकारः संवननं विकर्माकार्यसेवनम् ॥ ११७ ॥
3.6.117 · p. 92
अनुष्टुप्
त्यागो दानं वितरणं विश्राणनविसर्जने ।विहापनं निर्वपणं स्पर्शनं प्रतिपादनम् ॥ ११८ ॥
3.6.118 · p. 92
अनुष्टुप्
उत्सर्जनं प्रादेशनमपवर्जनमंहतिः ।अतोयं सात्त्विकं दानमुदपूर्वं तु पौष्टिकम् ॥ ११९ ॥
3.6.119 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 दे (wrong syllable)
आशिषा शान्तिकं दानं काम्यदानं प्रवापणम् ।आशासनेऽर्थना याच्ञा याचनाध्येषणार्दना ॥ १२० ॥
3.6.120 · p. 93
अनुष्टुप्