कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

भूकाण्डः · वनौषधिवर्गः (10/15)

स्यादेणनाभिजा दर्पो मदोऽसौ गन्धशेखरम् ।मार्जारी वेधमुख्या च मदनी च निगद्यते ॥ १५ ॥
2.3.15 · p. 229
अनुष्टुप्
कर्पूरोऽस्त्री चन्द्रनामा घनसारः सिताभ्रकः ।रेणुसारो वेधकं च तथैव रसकेसरम् ॥ १६ ॥
2.3.16 · p. 229
अनुष्टुप्
हिमभस्म हिमाह्वं च स्त्रियां तु हिमवालुका ।गोरोचना रोचना स्याद्गोपित्तं च प्रकीर्तितम् ।कर्पूरागरुकस्तूरीकङ्कोलैर्यक्षकर्द्दमः ॥ १७ ॥
2.3.17 · p. 229
अनुष्टुप्
पुरसर्जाभया लाक्षी शठी नखजटानतैः ।स शैलेयैः समधुभिर्धूपः कामशरो मतः ॥ १८ ॥
2.3.18 · p. 229
अनुष्टुप्
स्थानात्स्थानान्तरं गच्छन्धूमो गन्धपिशाचकः ।तरूणां प्रसवाधायी भवेद्दोहदधूपकः ।चूर्णोऽस्त्री वासयोगाः स्युर्भावितं वासितं त्रिषु ।पिष्टातः पटवासः[95a] स्यादुद्य(?)लिप्तक इत्यपि ॥ १९ ॥
2.3.19 · p. 229
अनुष्टुप्metre not read in every line
संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् ॥ २० ॥
2.3.20 · p. 229
माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः ।मालावान्मालिको माली मालभारी दधत्स्रजम् ॥ २१ ॥
2.3.21 · p. 229
अनुष्टुप्
पद्ममालाधरः पद्ममालभारी निगद्यते ।स्रगस्ति यस्य स स्रग्वी स्रजीयांस्तु स्रजिष्ठवत् ॥ २२ ॥
2.3.22 · p. 230
अनुष्टुप्
माला*[वा]नपि मालिष्ठः स्रग्विणोऽतिशये त्रिषु ।प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललामकम् ॥ २३ ॥
2.3.23 · p. 230
अनुष्टुप्
प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत् ।यत्तिर्यक् क्षिप्तमुरसि शिखासु स्त्री न शेखरः ॥ २४ ॥
2.3.24 · p. 230
अनुष्टुप्
अवतंसस्तथोत्तंसो नरि त्वापीड उच्यते ।उच्छीर्षकं तूपधानमुपबर्हश्च गण्डुकः ॥ २६ ॥
2.3.26 · p. 230
अनुष्टुप्
संस्तर-प्रस्तरौ तुल्यावासन्दी लघुखट्विका ।निषद्याथो मञ्चकः स्याच्छयनं तल्पमस्त्रियः ॥ २७ ॥
2.3.27 · p. 230
अनुष्टुप्
मञ्च - पर्यङ्क - पल्यङ्क - कर्णवंश्या नृलिङ्गकाः ।शयनीयं च तलिमं नैर्यूहो गजदन्त[95b]जः ॥ २८ ॥
2.3.28 · p. 230
अनुष्टुप्metre not read in every line
तन्मण्डपस्तु कुद्रङ्कः शय्या स्यात्खट्वया समा ।पर्यङ्किका बालशय्या महाशय्या तु भूपतेः ॥ २९ ॥
2.3.29 · p. 230
अनुष्टुप्
खट्वैकदेशो मार्जारोऽस्त्रियां त्वासन - विष्टरे ।पीठं नपुंस्यथौशीरमेकोक्त्या शयनासने ॥ ३० ॥
2.3.30 · p. 230
अनुष्टुप्
पादपीठं फलहकः पादपः पादुकापि च ।आसन्दी वेत्रपीठं स्याल्लोचकं कज्जलाञ्जने ।दीपोऽस्त्रियां प्रदीपश्च दशाकर्षी दशेन्धनः ॥ ३१ ॥
2.3.31 · p. 230
अनुष्टुप्
जटाज्वालो गृहमणिर्द्योतनोऽञ्जनकेतनः ।स्नेहप्रियोऽथास्य पात्रं कोशिका मल्लिका द्वयोः ॥ ३२ ॥
2.3.32 · p. 230
अनुष्टुप्
तदाधारस्थलं पूषी ताम्बूलं मुखवासनम् ।चर्वितेऽस्मिन्नवेला स्त्री स्यादावेलो नृलिङ्गकः ॥ ३३ ॥
2.3.33 · p. 230
अनुष्टुप्
फरूबकं पूगपात्रं पर्कटी पूगकर्त्तकः ।स्यात्ताम्बूलकरङ्कश्च स्थगी ताम्बूलभाजनम् ॥ ३४ ॥
2.3.34 · p. 231
अनुष्टुप्
ताम्बूलदो वागुरिकः * * * [ताम्बूल]पिटकस्त्रिषु ।स्त्रियौ तु पेटा-मञ्जूषे पुटकं पुस्तकादिभृत् ।वंशजे भाजने पिण्ड-कण्डोलौ पिटक[96a]स्त्रिषु ।समुद्गकः संपुटकः प्रसेवः स्यूत इत्यपि ।कटस्त्रिषु किलिञ्जो नासने वीरणनिर्मिते ।कटकोणः(लः) प्रतिग्राहः पतद्ग्राहः पतद्ग्रहः ॥ ३६ ॥
2.3.36 · p. 231
अनुष्टुप्metre not read in every line
प्रोन्दुकः पालमप्यन्त्ये कङ्कतस्तु त्रिलिङ्गकः ।प्रसाधनः केशमृट् च स्यादादर्शस्तु दर्पणः ॥ ३७ ॥
2.3.37 · p. 231
अनुष्टुप्
स्युरात्मदर्श - मुकुर - मकुराः कर्करो दृढः ।यथामुखीनस्त्रितये स यथामुखदर्शनः ॥ ३८ ॥
2.3.38 · p. 231
अनुष्टुप्
एवं स्यात्संमुखीनेऽथ न स्त्री भ्रमरको गुडः ।गिरिर्गुडेरो गण्डोलो गडोलोऽस्त्री तु कन्दुकः ॥ ३९ ॥
2.3.39 · p. 231
अनुष्टुप्
गेन्दुकोऽप्यस्य व्युतादानं(?) क्रीडावीटा तु पच्छिका । (?)
2.3.1104 · p. 231
अनुष्टुप्metre not read in every line

इति नृवर्गः ।

वंशोऽन्ववायः संतानोऽन्वयश्चाभिजनः कुलम् ।गोत्रं च जननं जातिः संततिश्च समार्थकाः ॥ १ ॥
2.3.1 · p. 231
अनुष्टुप्metre not read in every line
वंश्यः कौलेयकः कौलः कुलीनो वीज्य - गोत्रजौ ।महाकुलीनस्तु महाकुलो माहाकुलीनवत् ॥ २ ॥
2.3.2 · p. 231
अनुष्टुप्
सभ्य-साधू सज्जनार्यौ समौ पार्षद्य-पार्षदौ ।पारिषद्यः पारिषदो भवेद्दुष्कुलजः पुनः ॥ ३ ॥
2.3.3 · p. 231
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पा (wrong syllable)
[96b]दौष्कुलेयो दुष्कुलीनः पांसनेऽमी विशेष्यगाः ।वर्णा नरि ब्राह्मणाद्याश्चातुर्वर्ण्यं पुनः स्मृतम् ॥ ४ ॥
2.3.4 · p. 231
अनुष्टुप्
विप्र-क्षत्रिय - विट् - शूद्रास्ते त्वशूद्रा द्विजा मताः ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ६ ॥
2.3.6 · p. 232
अनुष्टुप्
आश्रमोऽस्त्री ब्राह्मणस्तु विप्र - भूदेव - वाडवाः ।द्विजो द्विजातिर्मुखजोऽग्रजन्मा चाग्रजातिवत् ॥ ७ ॥
2.3.7 · p. 232
अनुष्टुप्
वर्णज्येष्ठो वेदगर्भः सूत्रकण्ठस्त्रयीमुखः ।कजो मित्रश्च सावित्रो ब्रह्मा चैतश एतशाः ॥ ८ ॥
2.3.8 · p. 232
अनुष्टुप्
शमीगर्भश्च यागादियुक्तः षट्कर्मा * * * * * ।* * * * * * * * सोमपीथी स सोमपाः ।ब्रह्मण्यं स्याद्ब्रह्महितं विशेष्यसमलिङ्गकम् ।ब्राह्मणौघे तु वाडव्यं ब्राह्मण्यमपि चान्तिमे ॥ ९ ॥
2.3.9 · p. 232
अनुष्टुप्
भवेद्ब्राह्मणजातीयो ब्राह्मणत्वसमन्वितः ।असावग्निष्टोमयाजी सोमयाजी च सोमसुत् ।जातिविप्रो ब्रह्मबन्धुः कुब्रह्मो ब्राह्मणब्रुवः ॥ ९ ॥
2.3.9 · p. 232
अनुष्टुप्metre not read in every line
कुब्रह्माथ महाब्रह्मो महाब्रह्मा स वन्दितः ।सुराष्ट्रब्रह्म-सौ[97a]वीरब्रह्मौ स्तो देशनामतः ॥ १० ॥
2.3.10 · p. 232
अनुष्टुप्metre not read in every line
बटुस्तु स्यान्माणवकः स कृतोपनयो भवेत् ।उपनायस्तूपनयो बटूकरणमानयः ॥ ११ ॥
2.3.11 · p. 232
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
भद्राकृतिः स्त्रियां मद्राकृतिश्चूडाकृतिः स्त्रियः ।मङ्गल्यमुण्डनं चूडाकरणं चौलमित्यपि ।अग्नीन्धनं त्वग्निकार्यमाग्नीध्रा चाग्निकारिका ॥ १२ ॥
2.3.12 · p. 232
अनुष्टुप्metre not read in every line
स्याद्विधामघवन्नित्यादिक ऋग्ब्रह्मचर्यवान् ।वटुर्माहानाग्निकोऽत्र माहानामिक एव च ॥वर्णी तु ब्रह्मचारी स्याद्भिक्षा स्याद्ग्रासमात्रकम् ।भैक्षं भिक्षासमूहे स्यादथ संस्कारपूर्वकम् ॥ १३ ॥
2.3.13 · p. 232
अनुष्टुप्
उपाकर्मोपाकरणं गुरुतो ग्रहणं श्रुतेः ।स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः ॥ १४ ॥
2.3.14 · p. 233
अनुष्टुप्
पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः ।ध्यानयोगासने ब्रह्मासनमध्ययनं पुनः ॥ १६ ॥
2.3.16 · p. 233
अनुष्टुप्
अधीतिः पठनं पाठो निपठश्च निपाठवत् ।पाठे शिष्योपदेशार्थे निगाद-निगदौ समौ ।साग्नि क्लीबाव्ययं तत्स्याच्चेदग्नि[97b]ग्रन्थिसीम तत् ॥ १७ ॥
2.3.17 · p. 233
अनुष्टुप्metre not read in every line
ब्रह्मोद्यं ब्रह्मवद्यं च वेदप्रवचनं समम् ।*यतिः पाठविच्छेदो ब्रह्मारण्यं तु पाठभूः ।साकल्यवचनं पारायणं कल्पो विधिक्रमौ ॥
2.3.1121 · p. 233
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः ॥ १८ ॥
2.3.18 · p. 233
पठिताभ्यसनेऽभ्यासो योग्या च गुणनी स्त्रियौ ॥ १९ ॥
2.3.19 · p. 233
गर्भाधानादिसंस्कारकारी गुरुरुदीरितः ।मन्त्रव्याख्याकृदाचार्य ईष्व इष्वोऽथ पाठकः ॥ २० ॥
2.3.20 · p. 233
अनुष्टुप्
उपाध्यायोऽध्यापकः स्याच्चक्षाश्च कवरः समाः ।व्यापारितः ससत्कारं मासं सद्मालिक(?)स्त्रिषु ॥ २१ ॥
2.3.21 · p. 233
अनुष्टुप्
छात्रान्तेवासिनौ शिष्यो विनेयश्च समार्थकः ।शिष्योपाध्याययोर्द्वंद्वे शैष्योपाध्यायिका स्त्रियाम् ।निशाध्ययनमस्यास्ति सोढं नैशः स नैशिकः ॥ २२ ॥
2.3.22 · p. 233
अनुष्टुप्
अपपाठो यस्य वृत्तो भवेदेकः परीक्षणे ।ऐकान्यिकः स शिष्यः स्यादेवं द्वैयान्यिकादयः ॥ २३ ॥
2.3.23 · p. 233
अनुष्टुप्
यो द्वितीयादिरूपेण ग्रन्थं गृह्णाति स द्विकः ।द्वितीयकश्चाथ त्रिकः स तृतीयक [98a] इत्यपि ॥ २४ ॥
2.3.24 · p. 233
अनुष्टुप्metre not read in every line
द्विकादयस्तु ग्रहणे ग्रन्थस्य क्लीबलिङ्गकाः ।अघीयन्स्यादकृच्छ्रेण पठंस्तद्वत्तु धारयन् ॥चतुर्दश्यां श्मशाने वा योऽधीते ब्राह्मणः श्रुतिम् ।चातुर्द्दशिक उक्तोऽसौ तथा श्माशानिकस्त्रिषु ॥ २३ ॥
2.3.23 · p. 233
अनुष्टुप्
पारायणं वर्त्तयेद्यः स पारायणिकस्त्रिषु ।येनाधीतमधीती स शैक्षः प्राथमकल्पिकः ॥ २४ ॥
2.3.24 · p. 234
अनुष्टुप्
अनूचानो गणिः पुंसि योऽधीती साङ्ग आगमे ।स्यात्पारंपर्यमाम्नायः संप्रदायो गुरुक्रमः ॥ २५ ॥
2.3.25 · p. 234
अनुष्टुप्
एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ।सतीर्थ्यास्त्वेकगुरवो लब्धानुज्ञस्तु यो गुरोः ॥ २६ ॥
2.3.26 · p. 234
अनुष्टुप्
समावृत्तः स्नातकस्तु यो भवेदाप्लुतो व्रती ।गर्भाधानादिसंस्कारैर्युक्तोऽसौ संस्कृतस्त्रिषु ।अभावात्स्त्रीपरित्यागस्तुरगब्रह्मचर्यकम् ॥ २७ ॥
2.3.27 · p. 234
अनुष्टुप्metre not read in every line
अजपस्त्वसदध्येता शाखारण्डो [ऽप्य ]शाखकः ।निराकृतिर्वेदहीनो नष्टाग्निर्वीरहा भवेत् ॥ २८ ॥
2.3.28 · p. 234
अनुष्टुप्
व्रात्यः संस्कारहीनः स्यादवकीर्णी क्षत[98b]व्रतः ।गृही ज्येष्ठाश्रमी सत्री गृहपाय्यो गृहस्थवत् ।गृहमेधी गृहपतिर्गृही च * गृहाधिपः ॥ २९ ॥
2.3.29 · p. 234
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुंस्युपाधिस्तथाभ्यागारिकः सोऽतिकुटुम्बकः ।व्रतसंग्रहणं दीक्षाथादिष्टी क्रतुषु व्रती ॥ ३० ॥
2.3.30 · p. 234
अनुष्टुप्
यजमाने यष्टा यह्वो दस्मो याजकृदुक्थशाः ।सोमयाजी दीक्षितः स्याद्दीक्षिता तत्क्रतुव्रती ॥ ३१ ॥
2.3.31 · p. 234
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
आर्त्विजीनस्त्वृत्विगर्हो यज्ञार्हो यज्ञियो मतः ।स सोम्यः सोमपानार्हस्त्रैवार्षिकधनो हि यः ।********माहिताग्निश्च साग्निकः ।अग्न्याहितोऽप्यथारम्भः उद्घातः प्रक्रमस्तथा ॥ ३४ ॥
2.3.34 · p. 234
अनुष्टुप्metre not read in every line
अभ्यादानमुपोद्धातो ज्ञात्वारम्भ उपक्रमः ।प्रत्युत्क्रमः प्रयोगः स्याच्छंयुवाकस्तु शंयुगी ॥ ३५ ॥
2.3.35 · p. 234
अनुष्टुप्
वृतिः सुगहना कुम्बो स्यात्स्तम्भे युग-यूपकौ ।चषालोऽस्त्री तत्कटको यूपाग्रं नर्म न स्त्रियाम् ॥ ३६ ॥
2.3.36 · p. 235
अनुष्टुप्
यज्ञः सवोऽध्वरो यागो वसुरोचिर्मखः क्रतुः ।मन्युः स्तोमः संस्तरश्च संचाय्यः सप्ततन्तुकः ॥ ३६ ॥
2.3.36 · p. 235
अनुष्टुप्
बर्हिर्वितानमस्त्री स्या[99a]त्सत्रमिज्याथ यज्ञियम् ।यज्ञकर्मोचितमथ कुण्डपाय्यः ससोमकः ॥ ३७ ॥
2.3.37 · p. 235
अनुष्टुप्metre not read in every line
सौमिकी-दीक्षणीयेष्टि-ज्योतिष्टोमाः समार्थकाः ।अग्निष्टोमश्च तद्भेदा राजसूयं न योषिति ॥ ३८ ॥
2.3.38 · p. 235
अनुष्टुप्
वाजपेयं चाश्वमेधो नरमेधादयोऽपरे ।दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् ॥ ३९ ॥
2.3.39 · p. 235
अनुष्टुप्
वैतानिकाः श्रौतयज्ञाः स्मार्ता गृह्याः प्रकीर्तिताः ।स्थालीपाकः पार्वणः स्यादग्निहोमयुताहुताः ॥ ४० ॥
2.3.40 · p. 235
अनुष्टुप्
प्रहुता बलिहृत्याद्याः स्युर्ब्रह्मणि हुताः पुनः ।विप्रभोजनसंयुक्ताः पाकयज्ञास्त्रयोऽप्यमी ॥ ४१ ॥
2.3.41 · p. 235
अनुष्टुप्
श्रुतिपाठो ब्रह्मयज्ञो देवयज्ञोऽनले हुतिः ।बलिदानं भूतयज्ञः पितृदानं पितृक्रतुः ।निवापः पिण्डदानं च श्राद्धं तर्पणमित्यपि ॥ ४२ ॥
2.3.42 · p. 235
अनुष्टुप्metre not read in every line
नृयज्ञोऽतिथिसंतृप्तिः पञ्चामी स्युर्महामखाः ।होमो होत्रं वषट्कारो हुतिराहुतिरित्यपि ॥ ४३ ॥
2.3.43 · p. 235
अनुष्टुप्
दीक्षान्तोऽवभृथो यज्ञे सुत्वा त्वभिषुतस्त्रिषु ।स्वाध्यायः स्या[99b]ज्जपः सुत्याभिषवः सवनं च तत् ।समाजस्तु सभा-संसद्धटा-समिति-पर्षदः ॥ ४४ ॥
2.3.44 · p. 235
अनुष्टुप्metre not read in every line
आस्थाऽऽस्थानी-परिषदः समज्या गोष्टिका च सा ।आस्थानं च सदः पुंसि स्त्रीनपुंसकयोः सदः ॥ ४५ ॥
2.3.45 · p. 235
अनुष्टुप्
पर्षद्वलाः सभासूराः सदस्या विधिदर्शिनः ।सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ ४६ ॥
2.3.46 · p. 236
अनुष्टुप्
होत्रा स्त्री(?) यजनाचार्य-ऋत्विगृक्षर-याज्ञिकाः ।स्तीर्विर्यजुर्विदध्वर्युरविनः कठयज्युवत् ॥ ४७ ॥
2.3.47 · p. 236
अनुष्टुप्
अध्वर्योरिदमर्थे स्यादाध्वर्यवमिति त्रिषु ।होता ऋत्विगथोद्गाता भवेत्सामग उक्थशाः ।समग्रवेदविद्ब्रह्मा ब्रह्मत्वं तस्य कर्मणि ॥ ४८ ॥
2.3.48 · p. 236
अनुष्टुप्
आग्नीध्रो * ग्निमिन्धे * भेदाः पोत्रादयोऽपरे ।द्वंद्वे तु होतापोतारावथ निर्मन्थदारुणि ॥ ४९ ॥
2.3.49 · p. 236
अनुष्टुप्metre not read in every line
द्वंद्वेऽरणिर्गार्हपत्यो नर्यो गृहपतिश्च सः ।शंस्य आहवनीयः स्यादथर्य्यो दक्षिणानलः ॥ ५० ॥
2.3.50 · p. 236
अनुष्टुप्
अग्नित्रयमिदं त्रेता प्रणीतः [100a] संस्कृतोऽनलः ।समूह्य-परिचाय्योपचाय्या अग्निधृतिस्थले ॥ ५१ ॥
2.3.51 · p. 236
अनुष्टुप्metre not read in every line
अनार्य्यो दक्षिणाग्निर्यो संततोपचितोऽनलः ।चित्यः स्त्रियां त्वग्निचित्या यदग्नेश्चयनं भवेत् ॥ ५२ ॥
2.3.52 · p. 236
अनुष्टुप्
धाय्या तु सामिधेनी स्यादग्नेर्या * [ऋक्] समिन्धनी ।अग्न्याधानं त्वग्निहोत्रमग्निरक्षणमित्यपि ॥ ५३ ॥
2.3.53 · p. 236
अनुष्टुप्
हवनी होमकुण्डं स्याद्धुतं त्रिषु वषट्कृतम् ।होमाग्निस्तु महाज्वालो महावीरः प्रवर्गकः ।होमधूमस्तु निगणो होमभस्म तु वैष्टुतम् ॥ ५४ ॥
2.3.54 · p. 236
अनुष्टुप्
समिद्भस्म तु रक्षा [क्षा]रो भूतिर्भसितमित्यपि ।परंपराकं शसनं प्रोक्षणं च पशोर्वधः ॥ ५५ ॥
2.3.55 · p. 236
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 र्भसि (syllable split)
उपलम्भ्यः प्रशंस्योऽसावथालम्भ्यो वधोचितः ।प्रमीत उपसंपन्नः प्रोक्षितश्च विशेष्यवत् ॥ ५६ ॥
2.3.56 · p. 237
अनुष्टुप्
हविर्होम्यं च सांनाय्यं हव्यपाके चरुः पुमान् ।होत्रं च तत्र पक्वे स्यात्तत्पात्रेऽपि भवेच्चरुः ॥ ५७ ॥
2.3.57 · p. 237
अनुष्टुप्
व्रीहीणां तु पुरोडाशो भवेद्व्रीहिमयो हि सः ।अद्ग[100b]स्तृप्रः पुरोडाशो कपालेष्वष्टसु ह्यसौ ।संस्कृतोऽष्टाकपालोऽथ तप्तक्षीरगतं दधि ।स्यादामिक्षा क्षीरसरः पयस्या मस्तु वाजिनम् ॥ ५८ ॥
2.3.58 · p. 237
अनुष्टुप्metre not read in every line
हव्यं यद्देवदेयं स्यात्कव्यं पित्र्यमिमे समे ।आज्ये तु दधिसंयुक्ते पृषदाज्यं पृषातकः ॥ ५९ ॥
2.3.59 · p. 237
अनुष्टुप्
दध्ना युते मधुन्यस्त्री मधुपर्क्कं महोदयः ।यज्ञशेषे सुरोच्छिष्टममृतं च प्रकीर्त्तितम् ॥ ६० ॥
2.3.60 · p. 237
अनुष्टुप्
त्रिषु सा देवता यस्येत्यर्थेऽपोनप्त्रियं हविः ।अपोनप्त्रीयमेवं स्यादपांनप्त्रियमित्यपि ॥ ६१ ॥
2.3.61 · p. 237
अनुष्टुप्
अपांनप्त्रीयमप्युक्तं यद्दैवतमपोनपात् ।अपांनपात्क्रमाच्चाथ पिङ्गाक्षीपुत्रदेवतम् ॥ ६२ ॥
2.3.62 · p. 237
अनुष्टुप्
हविः पैङ्गाक्षीपुत्रीयमथ द्यावापृथिव्यवत् ।सा द्यावापृथिवी पञ्च भवेत्तद्दैवतं हि यत् ॥ ६३ ॥
2.3.63 · p. 237
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षी (wrong syllable)
गृहमेध्यं तु तद्दैवं गृहमेधीयमित्यपि ।माहाराजिकमेवं स्याद्यन्महाराजदैवतम् ॥ ६४ ॥
2.3.64 · p. 237
अनुष्टुप्
आमिक्षीयं तथामिक्ष(क्ष्य)मामिक्षार्थे हितं हि यत् ।तथैव स्यात्पुरोडाश्यं पुरोडाशीय[101a]मित्यपि ॥ ६५ ॥
2.3.65 · p. 237
अनुष्टुप्metre not read in every line
स्रुवादीनि तु पात्राणि स्रुवोऽङ्गुष्ठबिलो नरि ।स्रुक् स्त्रियामुत्तरा त्वेषा जुहूः सा त्वल्पिकाऽधरा ॥ ६५ ॥
2.3.65 · p. 237
अनुष्टुप्
उपभृत्स्याद्ध्रुवा तु स्याज्जुह्वाज्याप्यायिका हि या ।सा भवेत्स्वयमातृण्णा स्वयमन्तर्बिला शिला ॥ ६६ ॥
2.3.66 · p. 238
अनुष्टुप्
खड्गप्रतिकृतिः स्फ्यः स्यात्सोमपानस्य भाजने ।चमसस्त्रिषु शम्या तु दृषदानहनी च सा ।शम्यायास्तु स्थविष्ठोऽन्तः प्रोच्यते कुम्बमन्तिमे ॥ ६७ ॥
2.3.67 · p. 238
अनुष्टुप्
निधनं दर्भमुष्टिः स्यात्प्रस्तरस्तद्विशेषकः ॥ ६८ ॥
2.3.68 · p. 238
जीवतण्डुल उक्तोऽसौ य ईषत्पक्वतण्डुलः ।व्रीहीणामवघाते स्यात्फलीकरणमन्तिमे ॥ ६९ ॥
2.3.69 · p. 238
अनुष्टुप्
स्यादाग्निष्टोमिकी राजसूयिकी तस्य तस्य चेत् ।दक्षिणीयो दक्षिणार्हस्त्रिषु दक्षिण्य इत्यपि ॥क्रतुक्रिया भवेदिष्टं पूर्तोऽस्त्री खातकर्म यत् ।इष्टापूर्तं तदुभयं दक्षिणा तु क्रतुप्रिया ॥ ७० ॥
2.3.70 · p. 238
अनुष्टुप्
वरोऽभीष्टार्थदानं स्याद्दानं तु प्रतिपादनम् ।विश्राणनं वितरणं स्पर्शनं च विहापनम् ॥ ७१ ॥
2.3.71 · p. 238
अनुष्टुप्
प्रा[101b]देशनं निर्वपणमुत्सर्जन-विसर्जने ।तथापवर्जनं त्याग-विसर्गोत्सर्गकाः समाः ॥ ७२ ॥
2.3.72 · p. 238
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अंहतिश्च स्त्रियां तत्तु देवेभ्यः कामसिद्धये ।चेद्दिव्यदोहदं तत्स्यादुपयाचितकं च तत् ॥ ७३ ॥
2.3.73 · p. 238
अनुष्टुप्
पूर्णानकं पूर्णपात्रं हर्षाद्वर्द्धापकं च तत् ।प्रयत्नेन विना लब्धं स्वस्तिलब्धं विशेष्यवत् ।(?)प्रवारणं काम्यदानं हन्तकारो बलिः समौ ।बलेर्हितादौ बालेयं गदितं भेद्यलिङ्गकम् ॥याथाकथाचं तु यथाकथा चैव प्रदीयते ।प्रावृषेण्यं प्रावृषि यद्देयं शरदि शारदम् ॥ ७४ ॥
2.3.74 · p. 238
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
हस्त्यं हस्तेन यद्देयं चत्वारोऽमी विशेष्यवत् ।मृतार्थं तदहे दानं त्रिषु स्यादौर्द्ध्वदैहिकम् ॥ ७५ ॥
2.3.75 · p. 239
अनुष्टुप्
अन्वाहार्यं मासिकं स्यात्पार्वणं दार्शिकं समे ।नान्दीश्राद्धं वृद्धिहेतुः श्राद्धं श्रद्धायुतं त्रिषु ॥ ७६ ॥
2.3.76 · p. 239
अनुष्टुप्
पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा ।सनिस्त्वध्येषणा च स्यात्पूज्यानां याग्रतोऽर्थना ॥ ७७ ॥
2.3.77 · p. 239
अनुष्टुप्
विज्ञप्तिः स्याद्विज्ञपकं विनयात्प्रा[102a]र्थनं हि यत् ।विनयः स्याद्वैनयिकः प्रश्रयः प्रणयश्च सः ।याच्ञार्थना याचना स्यादर्दनाध्येषणैषणा ॥ ७८ ॥
2.3.78 · p. 239
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्वै (wrong syllable)
भिक्षाभिशस्तिः प्रणयोऽथार्घ्यमर्घार्थमम्बु यत् ।पाद्यं पादार्थकं वारि स्यादथाचमनार्थकम् ॥ ७९ ॥
2.3.79 · p. 239
अनुष्टुप्
भवेदाचमनीयं च तद्वत्स्नानीयमित्यपि ।आतिथ्यमातिथेयी च स्यादावेशिकमित्यपि ॥अभ्यागतः प्राघुणः स्यादागन्तुश्च गृहागतः ।प्राघूर्णकावेशिकौ चातिथिर्नार्घ्यादयोऽन्यगाः ॥सूर्योढस्त्वस्तगे भानौ यः प्राप्तो गृहिणो गृहम् ।पूजार्हणा सपर्यार्च्चा नमस्यापचितिः स्त्रियाम् ॥ ८२ ॥
2.3.82 · p. 239
अनुष्टुप्
नमस्कारो नतिः पादग्रहणं चाभिवादनम् ।नमस्क्रिया वन्दना च प्रणाम उपसंग्रहः ॥ ८३ ॥
2.3.83 · p. 239
अनुष्टुप्
प्रणिपातस्त्वनुनयः प्रणतिः स्त्री क्षमापणम् ।वरिवस्या तु शुश्रूषा परिचर्या प्रसादना ।आराधनोपासना च परीष्टिर्भक्तिरित्यपि ॥ ८४ ॥
2.3.84 · p. 239
अनुष्टुप्metre not read in every line
सेवोपास्तिश्च भजनं सेवनं चाप्युपासनम् ।उपचर्योपचारोऽथ प्रतिपत्तिश्च गौ[102b]रवम् ॥ ८५ ॥
2.3.85 · p. 239
अनुष्टुप्metre not read in every line
अभ्युत्थानं च सत्कारः सन्मानश्च सभाजनम् ।व्रज्याटाट्या पर्यटनमट्याप्युक्ता स्त्रियामिह ॥ ८६ ॥
2.3.86 · p. 239
अनुष्टुप्
परिव्रज्या व्रतादानं चर्या त्वीर्यापथे स्थितिः ।इर्या तपस्या संबोधमार्गश्च नियमस्थितिः ॥ ८७ ॥
2.3.87 · p. 240
अनुष्टुप्
आनुपूर्व्यं त्वानुपूर्वी-परिपाट्यावृतः स्त्रियः ।क्रमानुक्रम-पर्याया अतिपातस्त्वतिक्रमः ॥ ८८ ॥
2.3.88 · p. 240
अनुष्टुप्
पर्यायोपात्ययौ चाथ व्यत्ययः स्याद्विपर्ययः ।व्यत्यासश्च विपर्यासो व्युत्क्रमश्चोत्क्रमश्च सः ।प्रायश्चित्तिः स्त्रियां प्रायश्चित्तं पापनिबर्हणम् ॥ ८९ ॥
2.3.89 · p. 240
अनुष्टुप्
उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् ।हृदि साक्षात्कृतिर्ध्यानं धारणा चित्तबन्धनम् ॥ ८८ ॥
2.3.88 · p. 240
अनुष्टुप्
प्राणायामः प्राणयमो निःश्वासोच्छ्वासरोधनम् ।प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यो विकर्षणम् ॥ ८९ ॥
2.3.89 · p. 240
अनुष्टुप्
मोक्षोपायो भवेद्योगो नियमो व्रतमस्त्रियाम् ।पुण्यकं चाथ न स्त्री स्यादौपवस्त्रमुपोषणम् ॥ ९० ॥
2.3.90 · p. 240
अनुष्टुप्
उपवासोऽथ कृच्छ्रं स्याद्व्रतं सांतप[103a]नादिकम् ।संसि(शि)तं तु व्रतं सम्यक्तया निष्पादितं हि यत् ॥व्रते तु यत्नवान्नो(न्यो)हि संशितो भेद्यलिङ्गकः ।शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ ९१ ॥
2.3.91 · p. 240
अनुष्टुप्metre not read in every line
नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् ।सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ ९२ ॥
2.3.92 · p. 240
अनुष्टुप्
उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे ।प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥ ९३ ॥
2.3.93 · p. 240
अनुष्टुप्
यज्ञोपवीतपीठे स्याच्चातुलश्च मधूरकः ।पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः ॥ ९४ ॥
2.3.94 · p. 240
अनुष्टुप्