वशीकृति
vaśīkṛtiIn 3 kośas: 0 synonym verses, 4 as a meaning of another word.
वशीकृति as a meaning in nānārtha verses
- कोषकल्पतरु सम्-वन्हृदयप्रीतिनिदानेच्छार्थे स्याद्रोचते तद्वत् । आशंसते तथाशास्ते नाथते च शुभैषणे ॥ इच्छति स्यात्प्रतिज्ञाने प्राकाम्ये मार्गणे परेः । स्यादात्मनेपदे गर्धयतिर्वञ्चयतिस्तथा ॥ प्रतारणेऽर्थेऽन्यत्रोभौ परस्मैप[184a]दिनौ मतौ । चतति चदत्यर्थयते नाथति वनुते च नाधतेऽर्दति च । याचति च याचते स्याद्विथते स्याद्वेथते तद्वत् । स्याद्भिक्षते च याच्ञावाचिन एते च धातवो गदिताः । जिघ्रति शिङ्घति गन्धग्रहणे धमति स्मृतं धमने । आङः स्यादुदरापूरे ध्मातिः शब्देऽप्युपात्परः । प्रादर्थिः प्रार्थनाघातप्रेरणास्वरिसंरुधि ॥ व्रतचारे प्रतेर्विघ्नेऽर्थवैरूप्ये च वै द्विष्ये । समो वनोतिरालो* तथा प्रोक्तो वशीकृतौ ॥ Koṣakalpataru 3.5.25
- नानार्थार्णवसंक्षेप मूलनक्षत्रभेदे पादे च भूरुहाणां वशीकृतौ । स्वीये च कारणे चाथ मूल्यं वेतनवस्नयोः ॥ १०१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1013
- नानार्थार्णवसंक्षेप संवननशरीरे स्यात् संहननं घटनेऽप्यथ कथ्यते । वशीकृतौ संवननं सम्भक्तौ याचनेऽप्यथ ॥ ४७ ॥ Nānārthārṇavasaṃkṣepa 6.47
- वैजयन्ती मूलमूलं वशीकृतौ स्वीये शिफातारान्तिकादिषु । गमने वाहने यानं रत्नं श्रेष्ठे मणावपि ॥ २६ ॥ Vaijayantī 6.3.26