कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

द्व्यक्षरकाण्डः · नपुंसकलिङ्गाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां द्व्यक्षरकाण्डे स्त्रीलिङ्गाध्यायः

अभ्रं सलिलदे व्योमन्यस्त्रं कोदण्ड आयुधे ।अग्रं पुरश्शिखामानशैष्ट्याधिक्यफलेषु च ॥ १ ॥
6.3.1 · p. 224
अनुष्टुप्
मुष्के पक्ष्यादिकोशेऽण्डं दुःखैनोव्यसनेष्वघम् ।अर्शसी व्याधिदुर्नाम्नी आज्ये श्रीवाससर्पिषी ॥ २ ॥
6.3.2 · p. 224
अनुष्टुप्
वर्षार्थजीवितेप्बायुरास्यं मुखविले मुखे ।उरस्तु वक्षसि श्रेष्ठ ऋतं तथ्यसिलोंच्छयोः ॥ ३ ॥
6.3.3 · p. 224
अनुष्टुप्
ओजोऽवष्टंभबलयोरोकसी मंदिराश्रमौ ।क्रियायजनयोः कर्म क्षीरं दोहनमंबु च ॥ ४ ॥
6.3.4 · p. 224
अनुष्टुप्
कुण्डं स्थाल्यां जलाधारविशेषेऽनलगर्तके ।पिण्याको नग्नहूः किण्वं कृलं तीरे चमूकटौ ॥ ५ ॥
6.3.5 · p. 224
अनुष्टुप्
क्षेत्रं गृहे पुरे देहे केदारे योनिभार्ययोः ।पुण्यस्थाने समूहे च घृतं त्वाज्येंऽबुसर्पिषोः ॥ ६ ॥
6.3.6 · p. 224
अनुष्टुप्
चक्रं सैन्ये जलावर्ते रथांगे चयराष्ट्रयोः ।संसारे मण्डले वृत्ते छद्मभेदास्त्रभेदयोः ॥ ७ ॥
6.3.7 · p. 224
अनुष्टुप्
चैत्यं चितांके बुद्धाण्ड उद्देशेऽद्रौ मुरालये ।चिह्नमंके पताकायां छद्म सद्मनि कैतवे ॥ ८ ॥
6.3.8 · p. 224
अनुष्टुप्
छन्दः श्रुतीच्छापद्येषु च्छिद्रं रंध्रापराधयोः ।जालं गवाक्ष आनाये क्षारके कपटे गणे ॥ ९ ॥
6.3.9 · p. 224
अनुष्टुप्
जीलं चर्मपुटः कोशो दृतिः करकपत्रिका ।ज्योतिस्ताराग्निभाज्वालादृक्पुत्रार्थाध्वरात्मसु ॥ १० ॥
6.3.10 · p. 224
अनुष्टुप्
तंत्रं स्वराष्ट्रव्यापारे तन्तुवाने परिच्छदे ।शास्त्रौषधान्त्रमुख्येषु प्रयोगेऽध्वरकर्मणां ॥ ११ ॥
6.3.11 · p. 224
अनुष्टुप्
एकस्यैवोभयार्थत्वे कुडुंबव्यापृतावपि ।तल्पं शय्याट्टजायासु तनुषी तनुविस्तृती ॥ १२ ॥
6.3.12 · p. 225
अनुष्टुप्
त्रपु सीसे च रंगे च तरसी बलरंहसी ।तीर्थं मंत्राद्युपाध्यायशास्त्रेष्वंभसि पावने ॥ १३ ॥
6.3.13 · p. 225
अनुष्टुप्
पात्रोपायावतारेषु स्त्रीपुष्पे योनियज्ञयोः ।तेजो बले प्रभावेऽन्ने ज्योतिष्यर्चिषि रेतसि ॥ १४ ॥
6.3.14 · p. 225
अनुष्टुप्
नवनीतेऽनले धर्मे दानं हस्तिमदेऽपि च ।द्रव्यं गुणानामाधारे भेषजे योगवित्तयोः ॥ १५ ॥
6.3.15 · p. 225
अनुष्टुप्
द्वंद्वं युग्मं हिमोष्णादि मिथुनं कलहो रहः ।धाम जन्मप्रभावान्नभाः सु खे भोजने गृहे ॥ १६ ॥
6.3.16 · p. 225
अनुष्टुप्
नेत्रं नाड्यां तरोर्मूले वस्त्रे दृशि मथो गुणे ।नाट्यं तौर्यत्रिके नृत्ते नालं विवरशेपसोः ॥ १७ ॥
6.3.17 · p. 225
अनुष्टुप्
पदं स्थाने शरे त्राणे पादांके पादचिह्नयोः ।शब्देंऽशुवस्तुवाक्येषु व्यवसायापदेशयोः ॥ १८ ॥
6.3.18 · p. 225
अनुष्टुप्
पर्व ग्रन्धौ पंचदश्यां प्रस्तावे विषुवादिके ।पक्ष्म सूत्राद्यवयवे किंजल्के नेत्रलोमसु ॥ १९ ॥
6.3.19 · p. 225
अनुष्टुप्
पत्रं तु वाहने पर्णे क्षुरिकागरुतोरपि ।पयोंऽभसि च दुग्धे च पाथसी सलिलौदनौ ॥ २० ॥
6.3.20 · p. 225
अनुष्टुप्
पात्रं तु भाजने योग्ये वित्ते कूलद्वयान्तरे ।पाथींषि स्वर्गचंद्रार्काः पिच्छं बर्हे खगच्छदे ॥ २१ ॥
6.3.21 · p. 225
अनुष्टुप्
पोत्रं मुखाग्रदेशे स्यात्सूकरस्य हलस्य च ।नवनीतं पयः पीथं बर्हं पर्णशिखण्डयोः ॥ २२ ॥
6.3.22 · p. 225
अनुष्टुप्
बीजं शुक्ले फलास्थ्न्यन्ने भर्मणी स्वर्णवेतने ।वणिङ्मूलधने पात्रे भाण्डं भूषाश्वभूषयोः ॥ २३ ॥
6.3.23 · p. 225
अनुष्टुप्
भाग्यं कर्मण्यन्यजन्मकर्मण्यपि शुभाशुभे ।भर्गसी रेतआलोकौ महसी तेजउत्सवौ ॥ २४ ॥
6.3.24 · p. 226
अनुष्टुप्
माल्यं पुष्पे पुष्पदाम्नि मूल्यं वेतनवस्नयोः ।मुखं तु वदने मुख्ये ताम्रे द्वाराभ्युपाययोः ॥ २५ ॥
6.3.25 · p. 226
अनुष्टुप्
मूलं वशीकृतौ स्वीये शिफातारान्तिकादिषु ।गमने वाहने यानं रत्नं श्रेष्ठे मणावपि ॥ २६ ॥
6.3.26 · p. 226
अनुष्टुप्
रहो रहस्ये सुरते रिष्टं नाशे शुभेऽशुभे ।रुक्मं हेम सुलोहं च रेतसी शुक्लमंबु च ॥ २७ ॥
6.3.27 · p. 226
अनुष्टुप्
रूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ मितादिषु ।सौन्दर्ये च स्वभावे च शरद्रेण्वार्तवे रजः ॥ २८ ॥
6.3.28 · p. 226
अनुष्टुप्
ललं पल्लव उद्याने लक्ष्म चिह्नवरिष्ठयोः ।स्यादुपच्छन्दने लालं गुह्यार्थपरभार्ययोः ॥ २९ ॥
6.3.29 · p. 226
अनुष्टुप्
लिङ्गं शेफसि वेषेंऽशे चिह्ने बुद्ध्यादिसंहतौ ।वयः खगेऽन्ने वर्षेऽर्थे शुभाकारे तनौ वपुः ॥ ३० ॥
6.3.30 · p. 226
अनुष्टुप्
वर्चोऽर्चीरूपविड्भाः सु वनं भास्यप्सु कानने ।व्रतं विष्ण्वृतुवर्षेज्यातपोमासाग्निभुक्तिषु ॥ ३१ ॥
6.3.31 · p. 226
अनुष्टुप्
वीर्यं पराक्रमे रेतस्यन्नमाहात्म्ययोरपि ।वेष्टं ब्रह्मणि नाके च शल्के शकलवल्कले ॥ ३२ ॥
6.3.32 · p. 226
अनुष्टुप्
शस्त्राण्यस्त्रमयः शंसा शास्त्रं ग्रन्थनिदेशयोः ।शार्ङ्गं चापे हरेश्चापे शीलं वृत्तस्वभावयोः ॥ ३३ ॥
6.3.33 · p. 226
अनुष्टुप्
शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसन्निधौ ।शोचिः शोकांशुपैंगल्यशुद्धत्वेषु सरोऽप्सु च ॥ ३४ ॥
6.3.34 · p. 226
अनुष्टुप्
यज्ञभेदे सदादाने सत्रमाच्छादने वने ।सर्पिर्घृते च तोये च सान्त्वे दाक्षिण्यसान्त्वने ॥ ३५ ॥
6.3.35 · p. 226
अनुष्टुप्
स्नानीयेऽभिषवे स्नानं स्थानं स्यादाश्रये स्थितौ ।सूत्रं तन्तौ संग्रहोक्तौ सुखमानन्दतोययोः ॥ ३६ ॥
6.3.36 · p. 227
अनुष्टुप्
स्रोतोंऽबुनिर्गमद्वार इन्द्रियेऽप्सु जलस्रुतौ ।हविर्हव्ये घृते तोये हेम्नी काञ्चनवेतने ॥ ३७ ॥
6.3.37 · p. 227
अनुष्टुप्