मूल
mūlaक्ली · neut.In 20 kośas: 32 synonym verses, 10 as a nānārtha head word, 38 as a meaning of another word.
राधानुराधा तु मैत्त्री ज्येष्ठैन्द्री मूल आस्रपः ।
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 त्त (wrong syllable)
genderक्लीneut.
शिरोनामाग्रं शिखरं मूलं बुध्नोंह्रि नाम च ।
अनुष्टुप्
genderक्लीneut.
शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः ।
अनुष्टुप्
genderक्लीneut.
त्वग्वल्कं वल्कलं प्रोक्तं मज्जा सार उदाहृतः ।करहाटं भवेत्कन्दः पादो मूलं जटा शिफा ॥ १८३ ॥
अनुष्टुप्
genderक्लीneut.
तथैव वासवर्क्षं च मूलनैष्कृति निरृति ।पूर्वाषाढा तथा पूषा तोयभं च तथांबुभम् ॥ १२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderक्लीneut.
पादपर्यायिमूलं स्यान्नेत्रं च चरणोऽस्त्रियाम् ।अग्रं क्लीबे शिरः पुंसि मज्जा सारश्च पुंस्युभौ ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
अनुराधा तु मित्रार्थाद्देवत्यमप्यथास्त्रियाम् ।मूलं स्याद्रक्षःपर्यायदेवत्यमप्यथ स्त्रियाम् ॥ १९३ ॥
metre not recognised
genderपुंक्लीm. n.
मूलं वंशशलाका स्यात्समन्वितलये तु ना ।एककालश्चैकतालो मृदङ्गो मुरजः पुमान् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
पलालमूलमुकुलचषालानां नानस्य च ।विशालतैलतूलानां स्यात्कुद्मलतमालयोः ॥ १८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ना (wrong syllable)
genderपुंक्लीm. n.
कर्णीसुतो मूलदेवो मूलभद्रः कलाङ्कुरः ।आश्रयो मूलमस्त्री स्यान्नैर्ऋत्यं मूलकोऽत्रजः ।पूर्वाषाढाम्बुदेवत्या स्यादषाढाऽत्रजाङ्गना ॥ ९३ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
स्तम्बोऽप्यथ शिरोऽग्रं स्यात्तस्मिञ्छिखरमस्त्रियाम् ।बुध्नोऽङ्घ्रिनामा मूलोऽस्त्रीत्वचा-त्वक्-त्वचयः स्त्रियः ॥ २१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कन्यापालः पालवणिक्कन्याजीवश्च स स्मृतः ।मूल्यं निमानं वस्नोऽस्त्री पुंस्यर्घोऽवक्रयस्तथा ।नीवी परीणयो मूलं लाभोऽधिकफलं हि यत् ॥ ६७ ॥
अनुष्टुप्
genderक्लीneut.
छेदने[लूः] पिप्पलः कम्बलः शम्बलःशील-शैलोपलाः शूलतूलाङ्गुलाः ।वल्कलं पल्वलं धूमलं खण्डलंकुण्डलं कुड्मलं मूलवन्मङ्गलम् ॥ ६५ ॥
स्रग्विणीmetre not read in every linenearly स्रग्विणी
genderपुंक्लीm. n.
एतेषां तृतीयाप्रकृतिः तृतीया स्थाने नपुंसकस्य दृष्टत्वात् पातालादीनि तृतीयाप्रकृतीनि विद्धि जानीहि । यथा इदं पातालं रसातलम् । जालं मत्स्यबन्धनं गवाक्षश्च । मलं पापम् । खलं मर्दनस्थानं व्रीहीणाम् । कपालं मस्तकास्थि खण्डं च । शैवालं जलसम्भवम् । शीलं विनयः[य] । नालं पद्मादीनाम् । चीरं जीर्णवस्त्रम् । चीवरं भिक्षाप्रावरणम् । वियदाकाशम् ।मुण्डनितम्बक्षपगुल्मसान्वङ्कवंशपूगशङ्खरथाश्च पुंसि स्युः ।जघनाम्बरफलमूलाङ्गानि तु विमुच्य ॥ ३८ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः पुंसि भवन्ति । अयं स्थूलो राशिः । अलक्तकः पादादिरागद्रव्यम् । कर्पासः सूत्रद्रव्यम् । सूर्यो रविः । कूर्पासः कञ्चुकम् । सारथिः सूतः । तरङ्गः कल्लोलः । अलकः केशरचना । समुडाः संपुटकः । वराटः कपर्दकम् ।सैन्यायुधमङ्गलनगरवृन्त[त्त]फलमूलहरितालबिम्बमुकुटकुड्मलतस्तृतीयाप्रकृतिः ।पुंस्यवसथस्तथोद्गीथः संवीथः कालगीथश्च ॥ ७१ ॥
metre not recognised
genderक्लीneut.
पुष्करमूले स्यान्मूलं वीरं पुष्करनामकम् ।पौष्करं पुष्करजटा कश्मीरं पद्मवर्णकम् ॥ ३६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ष्क (wrong syllable)
genderक्लीneut.
मूलः स्यादाश्रवः पूर्वाषाढापी सोत्तरा पुनः ।वैश्वी श्रवणनामाथ हरिदेवोऽपि कथ्यते ॥ ११० ॥
अनुष्टुप्
genderपुंmasc.
सारो मज्जा पुमान्स्थाणुः शङ्कुर्ध्रुवक इत्यपि ।अंह्रिर्बुध्नः पुमान्मूले शिखरेऽग्रं शिरोऽपि च ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
पलालपल्वलौ शौलबलशम्बलकुड्भलाः ।शूलमूलाञ्चलाः शीलकुण्डलाङ्गुलमङ्गलाः ॥ १५८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अनूराधा चानुराधा ज्येष्ठा ज्येष्ठश्च चिन्तितः ।मूला मूलं मूलिका च पूर्वाषाढा तु पूर्ववत् ॥ १२७ ॥
अनुष्टुप्
genderक्लीneut.
इन्द्राग्निदेवता राधा विशाखा तदनन्तरम् ।अनुराधा च मैत्री स्थात् ज्येष्ठन्द्री मूल आश्रपः ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
genderपुंmasc.
genderक्लीneut.
अग्रशिरः शिरश्चेति शिखरं पुंनपुंसकम् ।मूलं स्कन्धः त्वङ्घ्रिरङ्घि ब्रध्नः स्याद्वुध्न इत्यपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable)
genderक्लीneut.
मूलपत्रकरीराग्रफलकाण्डविरूटकम् ।त्वक् पुप्पं कवकञ्चैव शाकं दशविधं स्मृतम् ॥
अनुष्टुप्
genderक्लीneut.
मूले वृक्षस्य बुध्नः स्याद् ब्रध्नोऽह्रिरङ्घ्रिसंयुतः ।मज्जा नान्तो ना मज्जाबन्ता सारेऽथ वल्लिका ॥ १२८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ह्रि (wrong syllable); pāda 3, syllable 4 न्तो (syllables merged)
genderक्लीneut.
पुंभूम्नि स्युरनूराधा मूले स्यान्मूलबर्हिणी ।राधा विशाखाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियाम् ॥ १९२ ॥
अनुष्टुप्
genderक्लीneut.
बुध्नाङ्घ्री मूलनेत्रे च शिखराग्रे शिखा स्त्रियाम् ।त्वक्त्वचाच(छ?)ल्लयश्चोलो वल्कं वल्कलमस्त्रियाम् ॥ ४४४ ॥
अनुष्टुप्
genderक्लीneut.
घः संहर्ता दक्षकरः काम(ल)रूपी शिवोत्तमः ।खड्गी सव्यो घोरनामा मेधा गौश्च घ-कारकः ।शिवाख्यो लाङ्गली मूलं दन्तुरो घुर्घुरोऽपि च ॥ २९ ॥
अनुष्टुप्
genderक्लीneut.
निष्ठ्या स्वाती विशाखे तु राधे आर्द्रो तु कालिनी ।श्रवणे श्रोणा मूले तु मूलवर्हण्यथ श्रविष्ठासु ॥ ४० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शिफा जटाऽवरोहस्तु सा शाखाजा वटादिषु ।मूलं बुध्नोंऽघ्रिनामास्मादास्कन्धात् स्यात् प्रकाण्डकम् ॥ १२ ॥
अनुष्टुप्
genderक्लीneut.
वस्नोऽर्घोऽवक्रयो मूल्यं बन्धः प्रणय आधिकः ।नीवी परिपणं मूलं धनं लाभोऽधिकं फलम् ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
मेखलाद्रिनितम्बेऽपि ग्रहे ना मङ्गलं शुभे ।निकटेऽपि च मूलं स्याद्धुस्तूरेऽपि च मातुलः ॥ ४०५ ॥
अनुष्टुप्
meaningsनिकट
मूल as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् जटाआर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा । Amarakośa 3.3.75
- नामलिङ्गानुशासनम् पक्षतिपत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः ॥ ७२ ॥ Amarakośa 3.3.72
- नामलिङ्गानुशासनम् परिग्रहपत्नीपरिजनादानमूलशापाः परिग्रहाः ॥ २३८ ॥ Amarakośa 3.3.238
- हलायुधकोशः (अभिधानरत्नमाला) नेत्रह्यस्तनदिनेऽपि कल्यं नेत्रं मूले रजस्यपि परागः । भ्रूणो गर्भिण्यामपि भूतिर्विभवे बलः काके ॥ ८०९ ॥ Abhidhānaratnamālā (Halāyudha) 5.809
- धरणिकोश अङ्घ्रिओघो वृन्दे पयोवेगे वाद्यभेदः परम्परा । अङ्घ्रिः स्याज्जन्तुचरणे मूले चापि महीरुहाम् ॥ Dharaṇikośa 4.2.1
- धरणिकोश जटाजटा लग्नकचे मूले मांसी च कर्करी जटा । वटी कपर्दके शुम्बे रक्तिकायां तरौ वटः ॥ Dharaṇikośa 10.2.7
- धरणिकोश भाण्डभाण्डं भूषणमात्रे स्यात्तुरंगाभरणेऽपि च । मूलं वणिग्धनं भाण्डं [भाण्डं] भाजन इष्यते ॥ Dharaṇikośa 12.2.2
- धरणिकोश शफगुम्फो बाहोरलंकारे गुम्फो ग्रन्थनमात्रकम् । शफं खुरे गवादीनां मूले चापि प्रकीर्तितम् ॥ Dharaṇikośa 21.1.1
- धरणिकोश प्रभवप्रभवो जन्महेतुः स्यात्प्रभवो मूलमप्यपाम् । प्रभवं केचिदिच्छन्ति स्थानमाद्योपलब्धये ॥ Dharaṇikośa 28.3.13
- धरणिकोश आदर्शउपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् । आदर्शो दर्शने प्रोक्तो मूलं यल्लिखनादिके ॥ Dharaṇikośa 29.2.11
- धरणिकोश परिग्रहपरिग्रहः परिजने शपथे च परिग्रहः । परिग्रहः कलत्रेऽपि मूलस्वीकारयोरपि ॥ Dharaṇikośa 32.3.5
- कोषकल्पतरु जटासंघर्षघर्षेषु दुरालभायां स्त्रियामथैकप्रसवासु गोषु । गृष्टिर्वराहक्रमणेऽपि तद्व- ज्जटा स्त्रियां लग्नकचेषु मूले ॥ १९ ॥ Koṣakalpataru 6.10.19
- कोषकल्पतरु प्रकाण्डउक्तश्चूडाबर्हयोर्ना शिखण्डः कोदण्डोऽस्त्री भ्रूलतायां [च] देशे । चापेऽथ स्यादस्त्रियां शाखिनः स्या- न्मध्ये मूलस्क[277a]न्धयोश्च प्रकाण्डः ॥ ८५ ॥ Koṣakalpataru 6.12.85
- कोषकल्पतरु चरणस्वर्लोके परमेष्ठिनीह वरुणो गोत्रे तु मूले पदे शाखादौ भ्रमणे स्त्रियां न चरणोऽन्त्ये रासभे च ध्वनौ । रक्षोभिद्रसयोस्तु पुंसि लवणः कान्तौ स्त्रियामन्यव- त्तद्युक्ते करणस्तु वैश्यवृषलीपुत्रे च काये कृतौ ॥ १९ ॥ Koṣakalpataru 6.15.19
- कोषकल्पतरु दितिवातिः पुमान्भास्करचन्द्रयोः स्या- द्गतिस्तु यात्राध्वदशाभ्युपाये । नाडीव्रणे स्याच्छरणे च बुद्धौ मतिस्तु वाञ्छास्मृतिबुद्धिषु स्त्री । चि[289b]तिस्तु चित्यागणयोर्दितिस्तु स्याद्दैत्यमातर्यपि( ख )ण्डने च । मूले गतौ चापि पतिः प्रभौ स्वा- श्रये करोद्वोढरि पुंसि दिष्टः ॥ ४८ ॥ Koṣakalpataru 6.16.48
- कोषकल्पतरु प्रकृतिस्यान्मूलमायापरमात्मशील- स्वाम्यादिपौरव्रजकारणेषु । पुंस्त्वादिलिङ्गे प्रकृतिस्तथैव स्यात्प्रत्ययस्यापि पुरोगभागे ॥ ३७ ॥ Koṣakalpataru 6.16.37
- कोषकल्पतरु पादमूलेऽपि पादोऽयव( ? )सूपकारे सूदस्तथा व्यञ्जनसूपयोश्च । क्षोदो रजःपेषणयोरथ स्या- च्छादोऽपि शष्पे नरि कर्दमे च ॥ २६ ॥ Koṣakalpataru 6.19.26
- कोषकल्पतरु बुध्नन्यूनं च हीनं त्रिषु गर्ह्य ऊने दीनस्तु भीते त्रिषु दुर्गते च । स्त्रियां त्वसौ मूषिक[11a]योषिति स्या- द्बुध्नस्तु शंभौ गदितोऽपि मूले ॥ ९१ ॥ Koṣakalpataru 6.21.91
- कोषकल्पतरु शफमूले तरूणामथ गुम्फ उक्तो भुजाविभूषाभिदि गुम्फने च ॥ २५ ॥ Koṣakalpataru 6.23.25
- कोषकल्पतरु परिग्रहबलस्य पृष्ठभागके परिग्रहस्तु कीर्तितः कुटुम्बके कलत्रके ग्रहे च मूलशापयोः ॥ ५८ ॥ Koṣakalpataru 6.32.58
- नानार्थार्णवसंक्षेप नेत्रनेत्रं नाड्यां तरोर्मूले वस्त्रे दृशि मथो गुणे । क्ली पुंसि चान्ये नेपस्तु नये वृक्षे पुरोहिते ॥ ६९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.698
- नानार्थार्णवसंक्षेप पतिगतौ मूलेऽप्यथो पत्नी भार्यायां स्त्री त्रि तु प्रभौ । वृद्धादिस्तु पतिर्यस्यास्तत्रान्यार्थसमासके ॥ ७२६ ॥ Nānārthārṇavasaṃkṣepa 2.5.726
- नानार्थार्णवसंक्षेप प्रभवप्रभवः स्यादपां मूले विक्रमे जन्मकारणे । आद्योपलब्धिस्थानेऽथ प्रतापे स्यात् प्रभाववाक् ॥ १२४ ॥ Nānārthārṇavasaṃkṣepa 3.2.124
- नानार्थार्णवसंक्षेप परिग्रहस्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे । परिग्रहस्तु शपथे मूले परिजने तथा ॥ ८५ ॥ Nānārthārṇavasaṃkṣepa 6.85
- परमानन्दीयनाममाला कन्दकोटिः संख्याग्रयोः कन्दो मूले सूरणमेघयोः । कुन्दो वृक्षे निधौ यन्त्रे कन्था प्रावरणे पुरे ॥ १०८ ॥ Paramānandīyanāmamālā 5.7.108
- परमानन्दीयनाममाला चरणचमसो लड्डुके पिष्टभेदे पर्पटके तथा । चरणस्तु पदे मूले गोत्रचारित्रयोरपि ॥ १८० ॥ Paramānandīyanāmamālā 5.11.180
- शिवकोष जटाजटी प्लक्षे गर्दभाण्डेऽथो मूले नलदे जटा । झिण्टी सैरेयके बाणाबदरीमोदकीषु च ॥ ११९ ॥ Śivakoṣa 8.1.119
- शब्दरत्नावली जटाजटामूले लग्नकचे मांस्यां प्लक्षे जटीत्यपि । जुष्टं तत्क्लीबमुच्छिष्टे वाच्यलिङ्गन्तु सेविते ॥ Śabdaratnāvalī 7.11.15
- शब्दरत्नावली चरणचरणोऽस्त्रीपदे गोत्रे मूले च बह्वृचादिके । नपुंसकन्तु भ्रमणेऽप्याचारादनयोरपि ॥ Śabdaratnāvalī 7.15.35
- शब्दरत्नावली आलुअलिः सुरायां भ्रमरे काककोकिलयोरपि ॥ आलिः सख्यां सेतुपंक्त्योः सन्ततौ विशदाशये । आलुर्गलन्तिकायां स्त्री क्लीबं पेचकमूलयोः ॥ Śabdaratnāvalī 7.28.2
- शब्दरत्नावली परिग्रहतमोपहो हिमकरे चण्डभानुजिनाग्रिषु । प्रतिग्रहो ग्रहभिदि स्वीकारसैन्यपृष्ठयोः ॥ पतद्ग्रहग्रहणयोर्विधिदावव्यवस्तुनि । परिग्रहः स्त्रीस्वजनादानेषु मूलशापथोः ॥ परीवहो जलोच्छ्वासक्षितिभिद्योग्यवस्तुनीः ॥ Śabdaratnāvalī 7.33.32
- शब्दरत्नाकर प्रभवआद्योपलब्धिस्थाने च मूले च प्रभवोऽम्भसाम् । पुलकः कृमिरोमाञ्चहीररत्नास्त्रराजिषु ॥ २१२५ ॥ Śabdaratnākara 4.1.2125
- त्रिकाण्डशेष कन्दकन्दोऽस्त्री शूरणे मूले राजलिङ्गविषाणयोः । स्त्री ककुत्कडकन्दस्तु शृङ्गवेररसोनयोः ॥ २०४ ॥ Trikāṇḍaśeṣa 3.3.204
- त्रिकाण्डशेष पादमूले प्रत्यन्तशैले च प्रसादस्त्वनुरोधने । स्वास्थ्ये काव्यगुणे चाऽथ प्रतिपत्तिथिसंविदोः ॥ २०८ ॥ Trikāṇḍaśeṣa 3.3.208
- त्रिकाण्डशेष अङ्घ्रिहविर्वह्नी चाऽग्निहोत्रौ वृक्षे लघुनि चाऽगुरुः । शक्तो निरण्डश्चाण्डीरावङ्घ्रिः स्यात्पादमूलयोः ॥ ३३० ॥ Trikāṇḍaśeṣa 3.3.330
- त्रिकाण्डशेष नेत्रधीरञ्च कुङ्कुममथो धरा पृथ्वी धरो गिरिः । नेत्रो नेतरि नेत्रञ्च गुणे मूले विलोचने ॥ ३५९ ॥ Trikāṇḍaśeṣa 3.3.359
- त्रिकाण्डशेष आलुआलुर्गलन्तिकायां स्त्री क्लीवं मूले च भेलके ॥ ३८१ ॥ Trikāṇḍaśeṣa 3.3.381
- त्रिकाण्डशेष तलझलाऽऽतपोर्मिर्दुहिता तलं मूलचपेटयोः । तालो गीतक्रियामाने हरिताले द्रुमान्तरे ॥ ३९४ ॥ Trikāṇḍaśeṣa 3.3.394